आरब्धम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरब्धम्, त्रि, (आङ् + रभ् + क्तः ।) कृतारम्भं । आरम्भे क्ली । यथा, -- “आरब्धं मलमासात् प्राक् यत् कर्म्म न समापितं । आगते मलमासेऽपि तत् समाप्यं न संशयः” ॥ इति मलमासतत्त्वं ॥ * ॥ आरब्धकर्म्मण्यशौचा- भावो यथा, -- “व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्च्चने जपे । आरब्धे सूतकं न स्यादनारब्धे तु सूतकं” ॥ इति तिथ्यादितत्त्वं ॥

"https://sa.wiktionary.org/w/index.php?title=आरब्धम्&oldid=115927" इत्यस्माद् प्रतिप्राप्तम्