आरात्रिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिकम्, क्ली, (आङ् + रात्रि + कन् ।) नीराजन- निमित्तदीपः । नीराजना । नीराजनपात्रञ्च । आरति इति भाषा । तथाच हरिभक्तिविलासे । “ततश्च मूलमन्त्रेण दत्त्वा पुष्पाञ्जलित्रयं । महानीराजनं कुर्य्यात् महावाद्यजयस्वनैः ॥ प्रज्वालयेत्तदर्थञ्च कर्पूरेण घृतेन वा । आरात्रिकं शुभे पात्रे विषमानेकवर्त्तिकं” ॥ अन्यच्च । “आदौ चतुष्पादतले च विष्णो र्द्वौ नाभिदेशे मुखमण्डलैकं । सर्व्वेषु चाङ्गेष्वपि सप्तवारा- नारात्रिकं भक्तजनस्तु कुर्य्यात्” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिक¦ न॰ अरात्र्यापि निर्वृत्तं ठञ्। (आरति) नीराजन-कर्म्मणि। दीपो हि रात्रावेव प्रदर्श्यते इदं दिनेऽपिदर्श्यते इति तस्य तथात्वम्
“ततश्च मूलमन्त्रेण दत्त्वा पुष्पाञ्ज-लित्रयम्। महानीराजनं कुर्य्यात् महावाद्यजयस्वनैः। प्रज्वालयेत्तदर्थञ्च कर्पूरेण घृतेन वा। आरात्रिकं शुभेपात्रे विषमानेकवर्त्तिकम्” हरि॰ विलासे तल्लक्षणादि। तस्य देहांशभेदे भ्रामणप्रमाणमपि तत्रोक्तं यथा
“आदौ चतुःपादतले च विष्णोर्द्वौ नाभिदेशे मुखमण्डलैकम्। सर्वेषुचाङ्गेषु च सप्त वारान् आरात्रिकं भक्तजनस्तु कुर्य्यात्”।
“शिरसि निहितभारं पात्रमारात्रिकस्य म्रमयति मयिभूयस्ते कृपार्द्रः कटाक्षः” चतुःषष्ट्युपचारे शङ्करा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिक¦ n. (-कं) Waving lamps at night before an image. E. आङ् before रात्रि night, कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिकम् [ārātrikam], [अरात्रावपि निर्वृत्तं ठञ्] Waving a light (or the vessel containing it) at night before an idol (Mar. आरती ओंवाळणें); सर्वेषु चाङ्गेषु च सप्तवारान् आरात्रिकं भक्त- जनस्तु कुर्यात्.

The light so waved; शिरसि निहितभारं पात्रमारात्रिकस्य भ्रमयति मयि भूयस्ते कृपार्द्रः कटाक्षः Śaṅkara.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरात्रिक/ आ-रात्रिक n. the light (or the vessel containing it) which is waved at night before an idol

आरात्रिक/ आ-रात्रिक n. N. of this ceremony.

"https://sa.wiktionary.org/w/index.php?title=आरात्रिक&oldid=218152" इत्यस्माद् प्रतिप्राप्तम्