आराम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आरामः, पुं, (आरम्यतेऽत्र, आङ् + रम् + आधारे घञ् ।) उपवनं । इत्यमरः ॥ वागान् इति भाषा । (यथा, मनुः, -- ८ । २६२ । ८ । २६४ । “क्षेत्रकूपतडागानामारामस्य गृहस्य च” । “गृहं तडागमारामं क्षेत्रं वा भीषया हरन्” ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आराम पुं।
कृत्रिमवृक्षसमूहः
समानार्थक:आराम,उपवन
2।4।2।1।1
आरामः स्यादुपवनं कृत्रिमं वनमेव यत्. अमात्यगणिकागेहोपवने वृक्षवाटिका॥
: इन्द्रवनम्
पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आराम¦ पु॰ आरम्यतेऽत्र आ + रम--आधारे घञ्। कृत्रिमवने
१ उद्यावे
“आत्मारामाविहितरतयोनिर्विकल्पे समा-धौ” वेणी॰ आत्माआरामैव। घञन्तस्य पुंस्त्वानुशासनात् क्लीवत्वोक्तिः प्रामादिकी।
“वाप्यारामतडाग-कूपभवनारम्भप्रतिष्ठाव्रतेत्यादि” मुहू॰ चि॰।
“क्षेत्रकूप-तडागानामारामस्य गृहस्य च”
“गृहं तडागमारामं क्षेत्रंवा भीषया हरन्”
“तडागारामदाराणामपत्यस्यच विक्रयः” इति च मनुः
“जलाशयारामसुर-प्रतिष्ठा सौम्यायने जीवशशाङ्कशुक्रे। ऋक्षे मृदुक्षि-प्रचरध्रुवे स्यात् पक्षे सिते स्वर्क्षतिथिक्षणे वा रिक्तार-वर्ज्ये दिवसेऽतिशस्ता” वृत्तर॰ टी॰ उक्ते षोडशभिश्च रगणै-राराम इत्युक्ते
२ दण्डकभेदे च। आ + रम--भावे घञ्।
३ आरतौ
“योऽन्तःसुखोऽन्तरारामः” गीता। अन्त-रात्मनि आरामोयस्येति विग्रहः
“अघायुरिन्द्रिया-मोमोघं पार्थ! स जीवति” गीता। आरामकरण-प्रकारः” वृहत् सं॰ उक्तः यथा
“प्रान्तच्छायाविनिर्मुक्तान मनोज्ञा जलाशयाः। यस्मादतो जलप्रान्तेष्वारामान्विनिवेशयेत्। मृद्वी भूः सर्ववृक्षाणां हिता तस्यां तिलान्वपेत्। पुष्पितांस्तांश्च गृह्णीयात् कर्म्मैतत्प्रथमं भुवि। अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः। मङ्गल्याःपूर्वमारामे रोपणीया गृहेषु वा। पनसाशोककदली-जम्बूलकुचदाडिमाः। द्राक्षापालीवताश्चैव वीजपूरातिमुक्तकाः। एते द्रुमाः काण्डरोप्या गोमयेन प्रलेपिताः। मूलच्छेदे ऽथवा स्कन्धे रोपणीयाः प्रयत्नतः। अजात-शाखाञ्छिशिरे जातशाखान् हिमागमे। वर्षागमे चसुस्कन्धान् यथादिक् प्रतिरोपयेत्। घृतोशीरतिलक्षौद-विडङ्गक्षीरगोमयैः। आमूलस्कन्धलिप्तानां कुङ्कुमेन विरो-पणम्। शुचिर्भूत्वा तरोः पूजां कृत्वा स्नानानुलेपनैः। रोपयेद्रोपितश्चैव पत्रैस्तैरेव जायते। सायं प्रातश्च[Page0802-a+ 38] घर्म्मान्ते, शीतकाले दिनान्तरे। वर्षासु च भुवः शोषेसेक्तव्या रोपिता द्रुमाः। जम्बूवेतसवानीरकदम्बोदुम्ब-रार्जुनाः। बीजपूरकमृद्वीकालकुचाश्च सदाडिमाः। वञ्चुलो नक्तमालश्च तिलकः पनसस्तथा। तिमिरोऽम्रातकश्चैव षोडशानूपजाः स्मृताः। उत्तमं विंशति-र्हस्ता मध्यमं षोडशान्तरम्। स्थानात्, स्थानान्तरं कार्य्यंवृक्षाणां द्वादशान्तरम्। अभ्यासजातास्तरवः संस्पृशन्तःपरस्परम्। पत्रैर्मूलैश्च न फलं सम्यग्यच्छन्ति पीडिताः। शीतवातातपैरोगो जायते पाण्डुपत्रता। अवृद्धिश्चप्रवालानां शाखाशोषो रसस्रुतिः। चिकित्सितमथैतेषांशस्त्रेणादौ विशोधनम्। विडङ्गघृतपङ्काक्तान् सेचयेत्क्षीरवारिणा। फलनाशे कुलत्थैश्च माषैर्मुद्गैस्तिलैर्यवैः। शृतशीतपयःसेकः फलपुष्पाभिवृद्धये। अविकाजशकृ-च्चूर्णस्याढके द्वे तिलाढकम्। सक्तुप्रस्थो जलद्रोणो गोमांसंतुलया सह। सप्तरात्रोषितैरेतैः सेकः कार्यो वनस्पतेः। वल्लीगुल्मलतानां च फलपुष्पाय सर्वदा। वासराणिदश दुग्धभावितं बीजमाज्ययुतवस्तयोजितम्। गोमयेनबहुशो विरूक्षितं क्रौडमार्गपिशितैश्च धूपितम्। मत्स्य-शूकरवसासमन्वितं रोपितं च परिकर्मितावनौ। क्षीर-संयुतजलावंसेचितं जायते कुसुमयुक्तमेव तत्। तिन्ति-डीत्यपि करोति वल्लरीं व्रीहिमाषतिलचूर्ण्णसक्तुभिः। पूतिमांससहितैश्च सेचिता धूपिता च सततं हरिद्रया। कपित्थतल्लीकरणाय मूलान्यास्फोतधात्रीधवबासकानाम्। पलाशिनीवेतससूर्य्यवल्लीश्यामातिमुक्तैः सहिताष्टमूली। क्षीरे शृते चाप्यनया सुशीते नालाशताख्यं तु कपित्थ-बीजम्। दिने दिने शोषितमर्कपाकैर्मासं विधिस्त्वैषततो ऽधिरोप्यम्। हस्तायतं तद्द्विगुणं गभीरं खात्वाऽवटं प्रोक्तजलावपूर्ण्णम्। शुष्कं प्रदग्धं मधुसर्पिषा तत्प्रलेपयेद्भस्मसमन्वितेन। चूर्ण्णीकृतैर्माषतिलैर्यवैश्च प्रपूरये-न्मृत्तिकयान्तरस्थैः। मत्स्यामिषाम्भःसहितं च हन्याद्यावद्घनत्वं समुपागतं तत्। उप्तं च बीजं चतुरङ्गुलाधोमत्स्याम्भसा मांसजलैश्च सिक्तम्। वल्ली भवत्याशु शुभ-प्रबाला विस्मापनी मण्डपमावृणोति। शतशोऽङ्कोल्लस-म्भूतफलकल्केन भावितम्। एतत्तैलेन वा वीजं श्लेष्मा-तकफलेन वा। वापितं करिकोन्मिश्रं मृदि तत्क्षणजन्म-कम्। फलभारान्विता शाखा भवतीति किमद्भुतम्। श्लेष्मातकस्य बोजानि निष्कुलीकृत्य भावयेत्प्राज्ञः। अ-ङ्कोल्लहिज्जलाद्भिश्छायायां सप्त कृत्वैवम्। माहिषगोमय-[Page0802-b+ 38] घृष्टान्यस्य करीषे च तानि निक्षिप्य। करकाजलमृद्योगेन्युप्तान्यह्ना फलकराणि। ध्रुवमृदुमूलविशाखा गुरुभंश्रवणस्तथाश्विनी हस्तम्। उक्तानि दिव्यदृग्भिः पादप-संरोपणे भानि”।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आराम¦ m. (-मः) A garden, a grove. E. आङ् before रम् to please, घञ् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आराम [ārāma], a. [रम्-घञ्] Pleasing, delightful; रामभद्र गुणा- राम Mv.7.4.
मः Delight, pleasure; इन्द्रियारामः Bg. 3.16; आत्मारामाः Ve.1.31; एकाराम Y.3.58.
A garden, grove; प्रियारामा हि वैदेह्यासीत् U.2; आरामाधिपतिर्विवेकविकलः Bv.1.31. आरामः कल्पवृक्षाणाम् (रामरक्षा) [cf. Pers. ārām].-Comp. -शीतला N. of a fragrant plant (आनन्दी).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आराम/ आ-राम m. delight , pleasure S3Br. TUp. Bhag. Bhartr2.
आराम/ आ-राम m. place of pleasure , a garden , grove Mn. Ya1jn5. MBh. R. Mr2icch. Katha1s. etc.
आराम/ आ-राम m. N. of a particular दण्डकmetre
आराम/ आ-राम m. ([See. ? and ?.])
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--Laying out parks at the auspicious hour--also उद्यान; फलकम्:F1: M. ५८. 1 and ५२.फलकम्:/F in Tripuram; फलकम्:F2: Ib. १३०. 5.फलकम्:/F punishment for misuse of. फलकम्:F3: Ib. २२७. ३०; वा. १०१. १६०.फलकम्:/F [page१-171+ २३]
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आराम पु.
(आ + रम् + घञ्) दीक्षा-संस्कार के लिए बाग, जिसका एक कृत्य सम्पादित किया जाता है, शां.गृ.सू. 5.3.1।