आरूढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरूढः, त्रि, (आङ् + रुह् + कर्त्तरि क्तः ।) कृता- रोहणः । वृक्षादिर उपर चडा व्यक्ति इति भाषा । यथा, -- “राम रामेति रामेति कूजन्तं मधुराक्षरं । आरूढकविताशाखं वन्टे वाल्मीकिकोकिलं” ॥ इति रामायणपाठस्य पूर्ब्बपाठ्यश्लोकः ॥ (यथा स्मृतिः । “आरूढो नैष्ठिकं धर्म्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महा” ॥ गीता । “योगारूढस्य तस्यैव शमः कारणमुच्यते” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरूढ¦ त्रि॰ आ + रुह--कर्त्तरि क्त।

१ आरोहणकर्त्तरि
“आरूढो नैष्ठिकं धर्मंयस्तु प्रच्यवते पुनः। प्रायश्चित्तंन पश्यामि येन शुध्येत् स आत्महा” स्मृतिः
“योगा-रूढस्य तस्यैव शमः कारणमुच्यते” गीता।
“अत्यारूढोहि नारीणामकालज्ञोमनोभवः” रघुः।

२ उत्पन्ने
“तदागमारूढगुरुप्रहर्षः” रघुः
“आरूढ उत्पन्नः” मल्लि॰। कमणि क्त। यत्रारोहणं कृतं तस्मिन्

३ कृतारोहणेप्रासादादौ
“आरूढकविताशाखं वन्दे वाल्मीकिकोकिलम्” रामा॰ भावे क्त।

४ आरोहणे न॰
“अत्यारूढं रिपोःसोढं चन्दनेनेव भोगिनः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरूढ¦ mfn. (-ढः-ढा-ढं)
1. Mounted, ascended, risen.
2. Raised up, elevat- ed on high. E. आङ् before रुह् to grow, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरूढ [ārūḍha], p. p.

Mounted, ascended; seated on; आरूढो वृक्षो भवता Sk.; oft. used actively; आरूढमद्रीन् R.6.77; Me.8,18; Ś.4; so वृक्षम्, नावम्, हयम्, रथम् &c.; चक्र˚, दोला˚.

Raised up, elevated on high.

Arisen, produced.-ढम् Ascending, mounting; see अत्यारूढ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आरूढ/ आ-रूढ mfn. mounted , ascended , bestridden (as a horse etc. ) MBh. Hariv. BhP.

आरूढ/ आ-रूढ mfn. risen

आरूढ/ आ-रूढ mfn. raised up , elevated on high VarBr2S. Pan5cat. Hit. Katha1s. etc.

आरूढ/ आ-रूढ mfn. undertaken

आरूढ/ आ-रूढ mfn. reached , brought to (often used in compounds e.g. इन्द्रिया-रूढ, brought under the cognizance of the senses , perceived) BhP.

आरूढ/ आ-रूढ mfn. having reached or attained , come into (a state) BhP. Prab. S3ak. Katha1s. etc.

आरूढ/ आ-रूढ n. the mounting , arising.

"https://sa.wiktionary.org/w/index.php?title=आरूढ&oldid=218410" इत्यस्माद् प्रतिप्राप्तम्