आर्द्रक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्द्रकम्, क्ली, (अर्द्दयति कफं आद्रं । ततः कन् । यद्वा आर्द्रयति जिह्वायां । क्वन् ।) कटुमूलविशेषः । आदा इति भाषा । तत्पर्य्यायः । शृङ्गवेरं २ इत्यमरः ॥ कटुभद्रं ३ कटूत्कटं ४ । इति केचित् ॥ गुल्ममूलं ५ मूलजं ६ कन्दरं ७ वरं ८ महीज ९ सकतेष्टं १० अनूपजं ११ अपाकशाकं १२ चान्द्राख्यं १३ राहु- च्छत्रं १४ सुशाककं १५ शार्ङ्गं १६ आर्द्रशाकं १७ सच्छाकं १८ । इति रात्रनिर्घण्टः ॥ अस्य गुणाः । कफवातविबन्धानाहशूलपित्तनाशित्वं । हृद्यत्वं । रुचिशुक्रकारित्वञ्च । इति राजवल्लभः ॥ अपिच । उष्णत्वं । कटुत्वं । विपाके शीतलत्वं । लघुत्वं । अग्निदीपनत्वं । शोथकण्ठामयनाशित्वञ्च । इति राजनिर्घण्टः ॥ लवणार्द्रकगुणाः । भोजनाग्रे पथ्यत्वं । जिह्वाकण्ठविशोधनत्वं । अग्निसन्दी- पनत्वं । हृद्यत्वं, -- “वातपित्तकफेभानां शरीरवनचारिणां । एक एव निहन्तास्ति लवणार्द्रककेशरी” ॥ इति द्रव्यगुणः, -- “आर्द्रकं शृङ्गवेरं स्यात् कटुभद्रं तथार्द्रिका । आर्द्रिका भेदिनी गुर्व्वी तीक्ष्णोष्णा दीपनी तथा । कटुका मधुरा पाके रूक्षवातकफापहा । ये गुणाः कथिताः शुण्ठ्यास्तेऽपि सन्त्यार्द्रकेऽखिलाः । भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणं । अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनं ॥ कुष्ठे पाण्ड्वामये कृच्छ्रे रक्तपित्ते व्रणे ज्वरे । दाहे निदाघशरदोर्नैव पूजितमार्द्रकं” ॥ इति भावप्रकाशः ॥ (तद्वदार्द्रकमेतच्च, इति वामटः ॥ “रोचनं दीपनं वृष्यमार्द्रकं विश्वभेषजं । वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते” ॥ इति चरकः ॥ “कफानिलहरं स्वर्य्यं विबन्धानाहशूलनुत् । कटूष्णं रोचनं हृद्यं वृष्यञ्चैवार्द्रकं स्मृतम्” ॥ इति सुश्रुतः ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्द्रक नपुं।
आर्द्रकम्
समानार्थक:आर्द्रक,शृङ्गबेर
2।9।37।2।1
सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्जिका। आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्.।
: शुण्ठी
पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्द्रक¦ न॰ अर्द्दयति रोगान् अर्द्द--अन्तर्भूतण्यर्थे रक् वीर्घश्चसंज्ञायां कन् आर्द्रायां भूमौ जातं वा वुन् आर्द्रयतिजिह्वां आर्द्र + णिच्--क्वुन् वा। (आदा) मूलप्रधानेवृक्षभेदे आर्द्रिकाप्यत्र स्त्री।
“आर्द्रिका भेदिनीगुर्व्वी तीक्ष्णोष्णा दीपनी च सा। कटुका मधुरा पाकेरूक्षा वातकफापहा, ये गुणाः कथिताः शुण्ठ्यास्तेऽपिसन्त्यार्द्रकेऽखिलाः। भोजनाग्रे सदा पथ्यं लवणार्द्रकभ-क्षणम्। अग्निसन्दीपनं रुच्यं जिह्वाकण्ठविशोधनम्। कुष्ठे पाण्ड्वामये कृच्छ्रे रक्तपित्ते कफज्वरे। दाहे निदाघेशरदि नैव पूजितमार्दकम्” भा॰ प्र॰।
“चक्षुष्यं रोचनंस्वर्य्यं विकाशि विशदं सरम्। स्तम्भाटोपानिलघ्नञ्चलवणार्द्रकभक्षणम्। गुडार्द्रकं वातहरं चक्षुष्यं पित्त-नाशनम्। ज्वरघ्नं चातितृष्यञ्च वर्चोभेदिकफापहम्। मृत्त्वचारहितमङ्कुरतः सत् क्षालितं विमलकैर्बहुतो-यैः। मिश्रितं लवणनिम्बपयोभिर्बालमार्द्र कमुपैति योग्य-ताम्। तैलासुरीरजनिसिन्धुजपङ्कसङ्गिप्रस्यन्दमाननवनिम्बु-रसप्रसक्तम्। स्वादूत्तरं शिशिरवासरभोजनेषु कस्यैतिवण्ण नपथं खलु शृङ्गवेरम्”। वृषोष्णं दीपनं हृद्यं सस्नेहं[Page0812-a+ 38] लघु पाचनम्। रोचनं तर्पणं बल्यं चार्द्रकं परिकीर्त्ति-तम्। वातपित्तकफेभानां शरीरवनचारिणाम्। एक एव-निहन्तास्ति लवणार्द्रककेशरी” वैद्य॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्द्रक¦ n. (-कं) Ginger in the undried state. E. आर्द्र moist, and वुन् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्द्रक [ārdraka], a. (-की f.) [आर्द्रा-वुन्] Born under the constellation Ārdrā; cf. P.IV.3.28. -कम् Ginger in its undried state, wet ginger (Mar. आलें).
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आर्द्रक mf( इका)n. wet , moist Bhpr. VarBr2S.
आर्द्रक mf( इका)n. born under the constellation आर्द्राPa1n2. 4-3 , 28
आर्द्रक m. N. of a king VP.
आर्द्रक n. ([and f( इका). L. ])ginger in its undried state Sus3r.
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the father of धृति. Br. III. ७१. १२४.