आलुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलुकम्, क्ली, (आलु + स्वार्थेकन् ।) मूलविशेषः आलु इति भाषा । इति राजवल्लभः ॥ एलवालुकं । इति राजनिर्घण्टः ॥ तद्विवरणं यथा, -- “आलुकमप्यालूकं तत् कथितं वीरसेनश्च । काष्ठालुकशङ्खालुकहस्त्यालुकानि कथ्यन्ते ॥ पिण्डालुकमध्वालुकरक्तालुकानि व्यक्तानि” । काष्ठालुकं काठिन्ययुक्तकटारु । शङ्खालुकं श्वेतता- युक्तशङ्खालु । हस्त्यालुकं दीर्घतायुक्तमहाशरीरं । पिण्डालुकं वर्त्तुलसुथनी । मध्वालुकं मधुरतायुक्त- रोमान्वितदीर्घसुथनी । रक्तालुकं रतारू तरण्डा इति च । एषां गुणाः । “आलुकं शीतलं सर्व्वं विष्टम्भि मधुरं गुरु । सृष्टमूत्रमलं रूक्षं दुर्ज्जरं रक्तपित्तनुत् ॥ कफानिलकरं बल्यं वृष्यं स्तन्यविवर्द्धनम्” । इति भावप्रकाशः ॥ (“आलुकानि च सर्व्वाणि तथा सूप्यानि लाक्ष्मणं । स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषणम्” ॥ इति वाभटः ॥ “विदारीकन्दशतावरीविसमृणालशृङ्गाटककशेरु- कपिण्डालुकमध्वालुकहस्त्यालुककाष्ठालुकशङ्ख्या- लुकरक्तालुकेन्दीबरोत्पलकन्दप्रभृतीनि” ॥ “रक्तपित्तहराण्याहुः शीतानि मधुराणि च । गुरूणि बहुशुक्राणि स्तन्यवृद्धिकराणि च” ॥ इति सुश्रुतः ॥)

आलुकः, पुं, (आलाति पृथ्वीं कामरोगं वा आङ् + ला + डु + संज्ञायां कन् ।) कासालुः । इति राज- निर्घण्टः ॥ शेषनागः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलुक¦ पु॰ आ + लाति पृथ्वीं कासरोगं वा आ + ला--मित॰ डुसंज्ञायां कन्।

१ शेषनागे

२ कासालौ च। आलु + स्वार्थेकन् कन्दभेदे न॰ तद्भेदगुणादि भा॰ प्र॰ उक्तं यथा।
“आलुकमप्यालूकं तत् कथितं वीरसेनश्च। काष्ठालुकशङ्खालुक-हस्त्यालुकानिकथ्यन्ते। पिण्डालुकमध्वालुकरक्तालुकानिकथितानि” तत्र काष्ठालुकं काठिन्ययुक्तं (कठारु) शङ्खालुकंश्वेततायुक्तं शङ्खाकारम् (शांखआलु) हस्त्यालुकं दीर्घतायुक्तंमहाशरीरम् (चुवडीआलु) पिण्डालुकं वर्त्तुलाकारं (सुथ्नी)मध्वालुकं माधुर्य्ययुतं दीर्घमुखं शर्क रालु (शकरन्द) रक्तालुकंरक्ततायुक्तं (रतालु) तेषां गुणास्तत्रोक्ताः
“आलुकं शीतलंसर्वं विष्टम्भि मधुरं गुरु। मृष्टमूत्रमलं रूक्षं दुर्जरम्रक्तपित्तनुत्। कफानिलकरं बल्यं वृष्यं स्तन्यविवर्द्धनम्”। गौरा॰ ङीष्। दीर्घाकारशुङ्गयुक्तरक्तालुके स्त्री।
“रक्तालुभेदो वा दीर्घा तन्वो च प्रथितालुकी। आलुकी-वलकृत् स्निग्धा गुर्व्वी हृत्कफनाशिनी। विष्वम्भकारिणो-तैले तलिताऽतिरुचिप्रदा” भावप्र॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलुक¦ m. (-कः)
1. A name of the chief of the Nagas or serpent race: see शेष।
2. An esculent root: see आलु। E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलुकः [ālukḥ], 1 A kind of ebony (कामालु).

An epithet of Śeṣa. -कम् An esculent root.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आलुक m. a kind of ebony L.

आलुक m. N. of शेष(the chief of the नागs or serpent race)

आलुक n. a particular fruit(= आरुकSee. ) L.

आलुक n. the esculent root of Amorphophallus Campanulatus.

"https://sa.wiktionary.org/w/index.php?title=आलुक&oldid=491328" इत्यस्माद् प्रतिप्राप्तम्