आशा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशा, स्त्री, (आ समन्तात् अश्नुते व्याप्नोतीति । आङ् + अशू + पचाद्यच् + टाप् ।) दीर्घाकाङ्क्षा । आयता तृष्णा । (यथा, शान्तिशतके, ४ । २६ । “आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला” । दिक् । इत्यमरः । वासवाशामुखे भाति इन्दुश्चन्दनविन्दुवत्” ॥ इति साहित्यदर्पणे १० परिच्छेदे । स्वनामख्याता दक्षप्रजापतिकन्या । यथा, हरिवंशे, -- “श्रीर्ह्रोर्धृतिस्तथा कीर्त्तिराशा मेधा च सुव्रता” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशा स्त्री।

दिक्

समानार्थक:दिश्,ककुभ्,काष्ठा,आशा,हरित्,गो

1।3।1।1।4

दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः। प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥

अवयव : दिग्भवम्,पूर्वदिक्,पश्चिमदिक्

सम्बन्धि2 : दिग्भवम्

वैशिष्ट्यवत् : दिग्भवम्

 : पूर्वदिक्, दक्षिणदिक्, पश्चिमदिक्, दिङ्नाम, उत्तरदिक्, अग्न्यादिकोणस्य_नाम, मध्यमात्रदिशः_नाम, चक्राकारदिशः_नाम, अग्रे

पदार्थ-विभागः : , द्रव्यम्, दिक्

आशा स्त्री।

आयता_तृष्णा

समानार्थक:आशा

3।3।217।1।2

दशावस्थानेकविधाप्याशा तृष्णापि चायता। वशा स्त्री करिणी च स्यात्दृग्ज्ञाने ज्ञातरि त्रिषु॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशा¦ स्त्री समन्तात् अश्नुते आ + अश--अच्। दिशि,
“अगस्त्याचरितामाशामनाशास्यजयोययौ” रघुः
“कर-भकण्ठकडारमाशाः” माघः।
“गच्छतस्तस्य चित्ररथतनयान केवलमन्तर्बहिरपि सैव सर्व्वाशानिबन्धनमासीत्” काद॰। दिक् च नैयायिकादिमते संख्यापरमितिपृथक्त्वसंयोगवि-भागाश्रयोद्रव्यभेदः दैशिकपरत्वापरत्वयोरसमवायिकारण-संयोगाश्रयतया तत्सिद्धिः तस्या एकत्वेऽपि उपाधि-भेदात् प्राच्यादिव्यवहारः तथा च यत्पुरुषस्य उदयगिरिसन्निहिता या दिक् सा तस्य प्राची, उदयगिरिव्यव-हिता प्रतीची तत्पुरुषीयमेरुसन्निहिता दिगुदीची
“सर्वे-षाञ्चैव वर्षाणां मेरुरुत्तरतः स्थितः” इत्युक्तेस्तस्यास्तथा-त्वम्। तद्व्यवहिता दिक् अवाची। इयञ्च दिक् ईश्वरएवेति रघुनाथः
“दिक्कालावीश्वरान्नातिरिच्यते” इतिपदार्थखण्डने तस्योक्तेः सां॰ कौ॰ मते यदुपाधिना पूर्ब्बा-परत्यव्यवहारस्तदुपाधेरेव दिक्शब्दवाच्यत्वं न तदाश्रयत्वे-नातिरिक्तदिक्कल्पनम् तथा च गगनात्मकत्वमेव दिशः
“दिक्कालावाकाशादिभ्यः” सां॰ सू॰ आकाशोपा-धिभ्यामेव दिक्कालयोर्नार्थान्तरत्वमिति व्यवस्थापितम्। (

२ अशक्योपायार्थविषयायाम् तीव्राकाङ्क्तायाम्

३ अ-प्राप्तप्राप्तीच्छायां तृष्णायां च।
“आशा बलवतीराजन्! शल्योजेष्यति पाण्डवान्”
“तामाशां हृदयेकृत्वा” भा॰ शल्यप॰।
“आशा हि परमं दुःखंनैराश्यं परमं सुखम्। यथा संछिद्य कान्ताशां सुखंसुष्वाप पिङ्गला” पुरा॰
“मनो बभूवेन्दुमतीनिराशम्”।
“राघवोरथमप्राप्तां तामाशाञ्च सुरद्विषाम्” रघुः आशा-याश्च व्रह्मरूपेणोपासनं श्रुतौ विहितं यथा
“स्मरा-द्वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति” प्रश्ने
“आशा-वाव स्मराद्भूयस्याशेद्धोवै स्मरोमन्त्रानधीते कर्म्माणि कुरुतेपुत्रांश्च पशूंश्चेच्छत इमं च लोकममुञ्चेच्छत आशामुपा-स्वेति। स य आशां ब्रह्मेत्युपास्ते आशयास्य सर्व्वे कामाःसमृध्यन्त्यमोघाः हास्याशिषो भवन्ति यावदाशाया[Page0835-b+ 38] गतं तत्रास्य यथा कामचारो भवति य आशां ब्रह्मेत्यु-पास्ते{??}” छा॰ उ॰ व्याख्यातं च भा॰। यथा
“आशा वावस्मराद्भूयसी। अप्राप्तवस्त्वाकाङ्क्षा आशा तृष्णा कामइति यामाहुः पर्य्यायैः। सा च स्मरात् भूयसी। कथम्?आशया ह्यन्तःकरणस्थया स्मरति स्मर्त्तव्यम्। आशाविषयरूपं स्मरन्नसौ स्मरो भवति आशेद्ध आशयाभिवर्द्धितःस्मरभूतः स्मरन्नृगादीन्मन्त्रानधीतेऽधीत्य च तदर्थं ब्राह्म-णेभ्यो विधींश्च श्रुत्वा कर्म्माणि कुरुते तत्फलाशयैव। पुत्रांश्च पशूंश्च कर्म्मफलभूतानिच्छतेऽभिवाञ्छति आशयैवतत्साधनान्यनुतिष्ठन् इमञ्च लोकमाशेद्धएव स्मरन् लोक-संग्रहसेतुभिरिच्छन्नमुञ्च लोकमाशेद्धः स्मरन् स्मराकाशा-दिनामपर्य्यन्तं जगच्चक्रीभूतं प्रतिप्राणि, अत आशायाःस्मरादपि भूयस्त्वमित्यत आशामुपास्व। यस्त्वाशांब्रह्मेत्युपास्ते शृणु तस्य फलम् आशया सदोपासितयास्यो-पासकस्य सर्वे कामाः समृद्ध्यन्ति समृद्धिं गच्छन्त्यमोघा-हास्याशिषः प्रार्थनाः सर्व्वा भवन्ति यत् पार्थितं सर्व्वंतदवश्यं भवतीत्यर्थः”। ईषद्भेदमादायैव आशाकामतृष्णादे-र्भेदः तदभिप्रायेणैव
“आशा नाम नदी मनोरथजला तृष्णा-तरङ्गाकुला” इत्यादौ आशादीनां भेदेन वर्ण्णनम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशा¦ f. (-शा)
1. Hope, desire.
2. Length.
3. A quarter, a region. E. आङ् before अशू to expand, अच् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशा [āśā], [आसमन्तात् अश्नुते आ-अश्-अच्]

(a) Hope, expectation, prospect; तामाशां च सुरद्विषाम् R.12.96; आशा हि परमं दुःखं नैराश्यं परमं सुखम् Subhāṣ.; त्वमाशे मोघाशे Bh.3.6; so ˚भग्न, ˚निराश &c. (b) Wish, desire (in Bh.3-45 आशा is compared to a river).

False hope or expectation.

Space, region, quarter of the compass, direction; अगस्त्याचरितामाशामनाशास्यजयो ययौ R.4.44; Ki.7.9; Mark also the pun on the word आशा (a direction, a desire) in आशापूरैककर्मप्रवणनिजकरप्राणिताशेषविश्वः (सूर्यः) Nāg.3.18.-Comp. -अन्वित, -जनन a. hopeful, inspiring hope; वचोभिराशाजननैः V.3.9. -कृत a. attended with the hope of success. -गजः a guardian elephant of a quarter or point of the compass; see अष्टदिग्गज. -तन्तुः a thread of hope, slender hope; चिरादाशातन्तुस्त्रुटतु Māl.4.3,9.26.

पालः a guardian or regent of the regions or quarters; see अष्टदिक्पाल.

A chief ruling over 1 villages. Śukra.1.191. -पिशाचिका deceptive or illusive hope, phantom of hope. -पुरगुग्गुलुः or -संभवः a kind of Bdellium. -प्राप्त a. successful (= प्राप्ताश).

बन्धः the tie or bond of hope, confidence, trust, expectation; गुर्वपि विरहदुःखमाशाबन्धः साहयति Ś.4.16; Ve.6.25; V.3; U.3; Me.1.

consolation.

a spider's web.-भङ्गः disappointment. -वह a. inspiring hope. (-हः) N. of a son of heaven. -वासस् a. Naked; Bh. -विभिन्नa. disappointed in expectation. -हीन a. despairing, despondent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशा/ आ-शा f. wish , desire , hope , expectation , prospect AV. S3Br. ChUp. R. S3ak. Katha1s. Pan5cat. etc.

आशा/ आ-शा f. Hope personified as the wife of a वसुHariv.

आशा/ आ-शा f. as the daughter-in-law of मनस्Prab.

आशा/ आ-शा f. (for 2. आशाSee. s.v. )

आशा f. (1. अश्; for 1. आशाSee. आ-शंस्) , space , region , quarter of the heavens RV. AV. TS. R. MBh. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=आशा&oldid=491446" इत्यस्माद् प्रतिप्राप्तम्