आशुग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुगः, पुं, (आशु शीघ्रं गच्छतोति । आशु + गम् + ड ।) वायुः । बाणः । (रघुवंशे, १२ । ९१ । “रावणस्यापि रामास्तो भित्वा हृदयमाशुगः” ।) शीघ्रगामिनि, त्रि । इत्यमरः ॥ मनुः ४ । ६८ । (“विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुग पुं।

वायुः

समानार्थक:श्वसन,स्पर्शन,वायु,मातरिश्वन्,सदागति,पृषदश्व,गन्धवह,गन्धवाह,अनिल,आशुग,समीर,मारुत,मरुत्,जगत्प्राण,समीरण,नभस्वत्,वात,पवन,पवमान,प्रभञ्जन,क,शार,हरि

1।1।62।1।5

पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः। समीरमारुतमरुज्जगत्प्राणसमीरणाः॥

 : महावायुः, सवृष्टिकः_वायुः, शरीरवायुः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

आशुग पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।86।2।6

लक्षं लक्ष्यं शरव्यं च शराभ्यास उपासनम्. पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुग¦ पु॰ आशु + गम--ड।

१ वायौ,

२ सूर्य्ये च। एतयोःशीघ्रगामित्वात् तथात्वम्।
“वायुर्वै क्षिपिष्ठा देवतेति” श्रुतौक्षिप्रगामित्वोक्तेः शीघ्र गतित्वप्रसिद्ध्वत्वाच्च वायोस्तथात्वम्सूर्य्यस्याशुगत्वमनुपदं वक्ष्यते

३ वाणे
“पपावनास्वादितपूर्व्व-माशुगः”
“रावणस्यापि रामास्तोभित्त्वा हृदयमाशुगः” रघुः

४ शोघ्रगामिनि त्रि॰ विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणा-न्वितैः” मनुः।
“दिशां गजन्तु श्वेताख्यं (ऐरावतम्)श्वेताऽजनयताशुगम्” भा॰ आ॰ प॰

६६ अ॰।
“जवनानाशुगां-श्चैव करार्थं समुपानयत्” भा॰ स॰ प्र॰

२६

३ अ॰
“शोभ-माना रथेयुक्तास्तरिष्यन्तैवाशुगाः” भा॰ व॰ प॰

१६

१ अ॰। आशुगत्वं च अल्पकालमध्ये गन्तव्यदेशगमनात् भवतिकालाल्पत्वञ्च आपेक्षिकं ततश्च
“शीघ्रोऽल्पभागे बहुभाग-मन्दे” इत्यादौ नील॰ ता॰ ग्रहाणां शीघ्रमन्दत्वमापेक्षिक-मिति बोध्यम् तथा च स्वस्वकक्षायां ग्रहाणां तुल्यगतित्वे-ऽपि कक्षाणामल्पत्ववृहत्त्वाभ्यां गन्तव्यदेशाल्पत्वाधिकत्वभे-दात् गतिभेदः ग्रहाणां कक्षामानं च ग्रहकक्षाशब्देवक्ष्यते। तथा च स्वल्पकक्षास्थग्रहस्य वृहत्कक्षा-स्थग्रहापेक्षया शीघ्रगत्वम् तच्च स्वाभाविकम्। अत्र प्रसङ्गात् ग्रहाणां शीघ्रमन्दगतित्वे कारणमुच्यतेतथा हि सर्वेषां ग्रहाणां राशिचक्रस्थस्वस्वकक्षासुतुल्यप्राग्गतित्वेऽपि स्वस्वकक्षाणामल्पत्ववृहत्त्वाभ्याम्अल्पाधिककालाभ्यामेव स्वस्वकक्षास्थराशिचक्रस्थस्थान-भोगः इत्यतो यस्य कक्षा लघ्वी स शीघ्रगः यस्य चवृहती स मन्दग इत्युच्यते एतदभिप्रायेणैव ग्रहाणां राशि-भोगे कालभेदो दर्वितः यथा
“रविर्मासं निशा-नाथः सपाददिवसद्वयम्। पक्षत्रयं भूमिपुत्रो बुधोऽष्टा-दश वासरान्। वषमेकं सुराचार्य्यस्त्वष्टाविंशं दिनं भृगुः। [Page0838-a+ 38] शनिः सार्द्धद्वयं वर्षं राहुः सार्द्धसमां तथा” ज्यो॰सूर्य्यस्य यद्यपि चन्द्रबुधशुक्रापेक्षया मन्दगतित्वम् तथापिकुजगुरुराहुशन्यपेक्षया शीघ्रगतित्वात् आशुगत्वम्। स्वस्व-कक्षायां सूर्य्ययोगेन च ग्रहाणां पुनःशीघ्रगत्वं
“सूर्य्य-युक्ता ग्रहाः शीघ्रा इत्युक्तेः। ग्रहाणां शीघ्रकेन्द्रशीघ्र-फलादिकम्” सि॰ शि॰ दर्शितं विस्तरभयान्नोक्तं तत एवा-वसेयम्। किञ्च सर्ब्बग्रहापेक्षया राशिचक्रस्य शीघ्रगति-त्वात् प्रतिदिनं स्वगत्यनुसारेण ग्रहाणां प्राग्गतित्वेऽपिराशिचक्रस्य प्रवहवायुना पश्चात् नीयमानतया तदारूढर-व्यादेः पश्चाद्गतित्वभ्रमात् तदनुरूपशीघ्रगत्वमारोप्यते। ग्रहाणां राशिचक्रभोगार्थं स्वस्वकक्षासु या प्राग्गति-स्तस्या अल्पकालसाध्यत्वे शीघ्रत्वमिति बोध्यम्। एवंग्रहाणां स्वाभाविक्यां स्वस्वकक्षासु गतौ स्थितायामपि प्रव-हानिलेन पश्चाद्भ्राम्यमाणस्य राशिचक्रस्य प्रतिदिनं पृथिवी-भ्रमणात् तद्गतेश्च सर्व्वग्रहापेक्षयाऽतिशीघ्रत्वात् तत्र चवंभ्रम्यमाण राशिचक्रस्य गतौ तत्स्थग्रहगतित्वारोपेणनौकागतौ तत्स्थवस्तुगतित्वारोपवत् ग्रहाणां राशि-चक्रतुल्यशीघ्रगतित्वं पुराणादावुक्तम् यथा
“योज-नानां सहस्रे द्वे द्वे शते द्वे च योजने। एकेननिमिषार्द्धेन क्रममाण! नमोऽस्तु ते। नवतिर्योजनानाञ्चसहस्राणि च सप्ततिः। यावद्घटिकमात्रेण तावच्चलतिभास्करः” आदित्यहृ॰।
“यदा चेन्द्र्याः पुर्य्याःप्रचलति पञ्चदशभिर्घटिकाभिर्याम्यां सपादकोटिद्वयंयोजनानां सार्द्धद्वादशलक्षाणि साधिकानि चोपयाति” भाग॰

५ स्क॰

३० अ॰
“साधिकानि पञ्चविंशतिसहस्रा-धिकानि” श्रीधरः। तेन पञ्चदशभिर्घटिकाभिर्यदि



३७

७५

००

० योजनानि तदा

६० दण्डात्मके दिने का-नीति चतुर्भिर्गुणितानि तानि प्रत्यहं राशिचक्रगतिमानंतदारोपाच्च सूर्य्यादीनां तथागतित्वमिति बोध्यम्। एतदपिपुराणाश्रितं वस्तुतोराशिचक्रस्य प्रत्यहं पृथ्वीभ्रमणात्राशिचक्रपरिधिमानमेव अहोरात्रे गन्तव्ययोजनमानमेतच्चखगोलशब्दे वक्ष्यते। तथा च अल्पकालेन गन्तव्यस्थान-गामित्वमाशुगत्वमिति सिद्धम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुग¦ mfn. (-गः-गा-गं) Going or moving quickly, swift, fleet. m. (-गः)
1. The wind.
2. An arrow. E. आशु quick, and ग who goes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आशुग/ आशु--ग mf( आ)n. going or moving quickly , swift , fleet TBr. i , 2 , 1 , 26 Mn. MBh. R.

आशुग/ आशु--ग m. the wind L.

आशुग/ आशु--ग m. the sun L.

आशुग/ आशु--ग m. an arrow MBh. : Ragh. etc.

आशुग/ आशु--ग m. N. of one of the first five followers of शाक्य-मुनिL.

"https://sa.wiktionary.org/w/index.php?title=आशुग&oldid=491465" इत्यस्माद् प्रतिप्राप्तम्