आश्रम

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रमः, पुं, क्ली, (आङ् + श्रम + घञ् ।) शास्त्रोक्त- धर्म्मविशेषः । आश्राम्यन्ति स्वं स्वं तपश्चरन्त्यत्र । स चतुर्विधः । ब्रह्मचर्य्यं १ गार्हस्थ्यं २ वानप्रस्थ्यं ३ सन्न्यासः ४ । इति स्मृतिः ॥ ब्रह्मचारी । गृही । वानप्रस्थः । भिक्षुः । इत्यमरः ॥ मुनीनां वास- स्थानं । वनं । मठः । इति मेदिनी ॥ (कलियुगे तु ब्रह्मचर्य्यवानप्रस्थौ न स्तः केवलं गृहस्थभिक्षुका- श्रमावेव, यदुक्तं । महानिर्व्वाणतन्त्रे । “गार्हस्थो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे” । रघुवंशे, १ । ४८ । “स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः” ।)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रम पुं-नपुं।

ब्रह्मचर्यादिचतुष्टयस्य_नाम

समानार्थक:आश्रम

2।7।4।1।1

आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः। विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः॥

 : ब्रह्मचर्याश्रमी, गृहस्थाश्रमी, वानप्रस्थाश्रमी, संन्यासाश्रमी

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रम¦ पुंन॰ आ + श्रम--आधारे घञ् अवृद्धिः। ब्रह्मचर्य्या-दिके शास्त्रोक्ते

१ धर्मभेदे,
“विनाश्रमं न तिष्ठेत्तु दिन-मेकमपि द्विजः। आश्रमेण विना तिष्ठन् प्रायश्चित्तीयतेद्विजः” दक्षः। अत्र द्विजपदस्योपलक्षणपरता यत् रघु-नन्दनेन स्थापितं तदाप्लुतशब्दे निराकृतम्

७५

२ पृष्ठेदृश्यम्। मुनीनां

२ वासस्थाने,

३ मठे

४ तपोवने
“प्रत्युद्यया-वाश्रममश्रमेण”
“तौ दम्पती वसिष्ठस्य गुरोर्जग्मतु-[Page0839-b+ 38] राश्रमम्”।
“स किलाश्रममन्त्यमाश्रितः” स दुष्प्रा-पयशाः प्रापदाश्रमं श्रान्तवाहनः”
“अभ्युत्थिताग्नि-पिशुनैः--अतिथीनाश्रमोन्मुखान्” इति च रघुः।
“कमलासनमिवाश्रमगुरुम्” इति काद॰।
“ब्रूया देवंतव सहचरो रामगिर्य्याश्रमस्थः” मेघदू॰। सर्व्वक्लेशहानेनविश्रामस्थाने

५ परमेश्वरे च।
“आश्रमः श्रमणः क्षामः सुपर्णोवायुवाहनः” विष्णुसह॰
“आश्रमवत् सर्वेषां संसारारण्यभ्रमतां विश्रामस्थानत्वादाश्रमः” इति भा॰ तत्र आश्रमेषुकुत्र कस्याधिकार इति तावन्निर्ण्णीयते।
“चत्वार आ-श्रमाश्चैव ब्राह्मणस्य प्रकीर्त्तिताः। गार्हस्थ्यं ब्रह्म-चर्य्यञ्च वानप्रस्थं तु भिक्षुकम्। क्षत्रिये चापि कथिताआश्रमास्त्रयएव हि। ब्रह्मचर्य्यञ्च गार्हस्थ्यमाश्रमद्वितयंविशः। गार्हस्थ्यमुचितं त्वेकं शूद्रंस्य क्षणमावहेत्” माध॰धृतवामनपु॰।
“चत्वारो ब्राह्मणस्योक्ता आश्रमाः श्रुति-नोदिताः। क्षत्रियस्य त्रयः प्रोक्ता द्वावेकोवैश्यशूद्रयोः” नि॰ सि॰ कूर्मपु॰ वर्ण्णक्रमेण चातुराश्रम्यादयः इति। तत्रकलौ दीर्घकालब्रह्मचर्य्यवानप्रस्थाश्रमौ न स्तःगृहस्थभिक्षु-काश्रमावेव।
“गृहस्थो भिक्षुकश्चैव आश्रमौ द्वौ कलौ युगे” इति स्मरणात्। तत्र संन्यासे
“विप्रस्यैवाधिकारः ब्राह्मणाःप्रव्रजन्तीति जावालश्रुतेः
“आत्मन्यग्नीन् समारोप्य ब्राह्मणःप्रव्रजेत् गृहादिति” या॰ स्मृतेरिति” वहवः।
“ब्राह्मणःक्षत्रि-योवाथ वैश्यो वा प्रव्रजेद्गृहादिति” कौर्मवाक्यात् क्षत्रि-यादीनामपि तत्राधिकारः पूर्ब्बवचनन्तु कषायादिवस्त्रत्रिदण्डधारणविषयम्
“मुखजानामयं धर्मो यद्विष्णोर्लिङ्ग-धारणम् राजन्यवैश्ययोर्नैव दत्तात्रेयमुनेर्मतम्” बौधा॰स्मृतेः। अयमेव पक्षो मल्लिनाथेन समर्थितः यथा अंत्रयद्यपि
“ब्राह्मणाः प्रव्रजन्ति” इति श्रुतेः
“आत्मन्यग्नीन्समारोप्य ब्राह्मणाः प्रव्रजेद्गृहात्” इति मनुस्मरणात्
“मुखजानामयं धर्मो यद्विष्णोर्लिङ्गधारणम्। बाहु-जातोरुजातानामयं धर्मो न विद्यते” इति निषेधाच्चब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरिति तथापि
“यद-हरेव विरजेत् तदहरेव प्रव्रजेत्” इत्यादिश्रुतेस्त्रैवर्णिक-साधारण्यात्
“त्रयाणां वर्णानां वेदमधीत्य चत्वार आ-श्रमाः” इति सूत्रकारवचनात्
“ब्राह्मणः क्षत्रियो वापिवैश्यो वा प्रव्रजेद् गृहात्” इति स्मरणात्
“मुखजानामयंधर्मो वैष्णवं लिङ्गधारणम्। बाहुजातोरुजातानां त्रि-दण्डं न विधीयते” इति निषेधस्य त्रिदण्डविषयत्व-दर्शनाच्च कुत्रचिद् ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्[Page0840-a+ 38] त्रैवर्णिकाधिकारं प्रपेदिरे। तथा सति
“स किलाश्रम-मन्त्यमाश्रितः” इति अत्रापि कविनाप्ययमेव पक्षो विव-क्षित इति प्रतीमः। अन्यथा वानप्रस्थाश्रमतया व्या-ख्याने
“विदधे विधिमस्य नैष्ठिकं यतिभिः सार्द्धमनग्नि-मग्निचित्” इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधःस्यात् अग्निसंस्काररहितस्य वानप्रस्थस्यैवाभावात्”। अतएव मनुना
“अनेन क्रमयोगेण परिव्रजति यो द्विजःइति द्विजमात्रस्य परिव्रज्यधिकार उक्तः। एवञ्च महताप्रयत्नेन शङ्कराचार्य्येण ब्राह्मणस्यैव संन्यासेऽधिकारस्यसमर्थनं त्रिदण्डविषयमिति। एतेषु आश्रमेषु ब्रह्म-चर्य्यस्य नित्यत्वम् इतराश्रमाणां
“यमिच्छेत्तु तमावसेत्” इति मिता॰ धृतवचनात् इच्छाधीनतया काम्यत्वम्। तत्राश्रमाणां समुच्चयपक्षः कामनावतएव, विकल्पस्तु अका-मनावतो विरक्तस्य,। अधिकारिभेदाच्च आश्रम समुच्चय-विकल्पपक्षौ मिता॰ समर्थितौ यथा
“वनात् गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम्। प्राजा-पत्यान्तदन्ते तानग्नीनारोप्य चात्मनि। अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान्। शक्त्या च यज्ञकृन्मोक्षे मनः कुर्य्यात्तु-नान्यथा” या॰। यावता कालेन तीव्रतपःशोषितवपुषोविषयकषायपरिपाको भवति। पुनश्च मदोद्भवाशङ्कानोद्भाव्यते। तावत्कालं वनवासं कृत्वा तत्समनन्तरं मोक्षे मनः कुर्य्यात्। वनगृहशब्दाभ्यान्तत्सम्बन्ध्याश्रमोलक्ष्यते। मोक्षशब्देन चमोक्षैकफलकश्चतुर्थाश्रमः। अथ वा गृहात् गार्हस्थ्या-दनन्तरं मोक्षे मनः कुर्य्यादनेन च पूर्बोक्तश्चतुराश्र मसमु-च्चयपक्षःपाक्षिक इति द्योतयति। तथा च विकल्पोजावालश्रुतौ श्रूयते।
“ब्रह्मचर्य्यम्परिसमाप्य गृही भवेत्गृही भूत्वा वनी भवेत् वनी भूत्वा प्रब्रजेत् यदि वेतरथा-ब्रह्मचर्य्यादेव प्रब्रजेद्गृहाद्वा वनाद्बेति”। तथा गार्हस्थ्ये-तराश्रमबाधश्च गौतमेन दर्शितः।
“एकाश्रमन्त्वाचार्याःप्रत्यक्षविधानात् गार्हस्थ्यस्येति”। एषाञ्च समुच्चयवि-कल्पबाधपक्षाणां सर्बेषां श्रुतिमूलत्वादिच्छया विकल्पः। अतो यत्कैश्चित् पण्डितंमन्यैरुक्तम्। स्मार्त्तत्वान्नैष्ठि-कत्वादीनाङ्गार्हस्थ्येन श्रौतेन बाधः। गार्हस्थ्यानधि-कृतान्धक्लीवादिविषयता वेति। तत्स्वाध्यायाध्ययनवैधुर्य्य-निबन्धनमित्युपेक्षणीयम्। किञ्च। यथा विष्णुक्रमणा-ज्यावेक्षणाद्यक्षमतया पङ्ग्वादीनां श्रौतेष्वनधिकारस्तथास्मार्त्तेष्वप्युदकुम्भाहरणभिक्षाचर्य्याक्षमत्वात् कथं पङ्घ्वादिवि-पयतया नैष्ठिकत्वाद्याश्रमनिर्वाहः। अस्मिंश्चाश्रमे ब्राह्म-[Page0840-b+ 38] णस्यैवाधिकारः।
“आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्र-
“व्रजेद्गृहात्”। तथा
“एष वोऽभिहितो धर्मो ब्राह्मणस्यचतुर्विधः” इत्युपक्रमोपसंहाराभ्यां मनुना ब्राह्मणस्याधि-कारप्रतिपादनात्।
“ब्राह्मणाः प्रव्रजन्तीति” श्रुतेश्चाग्र-जन्मन एवाधिकारो न द्विजातिमात्रस्य। अन्ये तुत्रैवर्ण्णिकानाम् प्रकृतत्वात्
“त्रयाणाम् वर्ण्णानाम् वेदमधीत्यचत्वार आश्रमा” इति सूत्रकारवचनाच्च द्विजातिमात्र-स्याधिकारमाहुः। यदा वनात् गृहाद्वा प्रव्रजति तदासार्व वेदसदक्षिणाम् सार्ववेदसी सर्वधनसम्बन्धिनी दक्षिणायस्याः सा तथोक्ता ताम् प्रजापतिदेवताकामिष्टिं कृत्वातदन्ते तान्वैतानानग्नीन् आत्मनि श्रुत्युक्तविधानेन समा-रोप्य चशब्दात्
“उदगयने पौर्णमास्याम् पुरश्चरणमादौकृत्वा शुद्धेन कायेन अष्टौ श्राद्धानि निर्वपेत् द्वादश वा” इतिबौधायनाद्युक्तं पुरश्चरणादिकञ्च कृत्वा। तथाऽधीतवेदोजपपरायणोजातपुत्रोदीनान्धकृपणार्थिसार्थाय यथाशक्त्य-न्नदश्च भूत्वा अनाहिताग्निर्ज्येष्ठत्वादिना प्रतिबन्धाभावेकृताधानो नित्यनैमित्तिकान् यज्ञान् कृत्वा मोक्षे मनःकुर्य्यात् चतुर्थाश्रमं प्रविशेत नान्यथा। अनेनानपाकृतर्णत्रयस्य गृहस्थस्य प्रव्रज्यायामनधिकारन्दर्शयति। तथाह मनुः।
“ऋणानि त्रीण्यपाकृत्य मनोमोक्षेनिवेशयेत्। अनपाकृत्य मोक्षन्तु सेवमानो ब्रजत्यध इति”। यदा तुब्रह्मचर्य्यात् प्रव्रजति तदा न प्रजोत्पादनादिनियमः। अकृतदारपरिग्रहस्य तत्रानधिकाराद्रागप्रयुक्तत्वाच्च विवा-हस्य। न च ऋणत्रयापाकरणविधिरेव दारानाक्षिपतीतिशङ्कनीयम्। विद्याधनार्जननियमवदन्यप्रयुक्तदारसम्भवे-तस्यानाक्षेपकत्वात्। ननु
“जायमानोवै ब्राह्मणस्त्रिभि-रृणवान् जायते ब्रह्मचर्य्येण ऋषिभ्यो, यज्ञेन देवेभ्यः,प्रजया पितृम्यः” इति जातमात्रस्यैव प्रजोत्पादनादी-न्यावश्य कानीति दर्शयति, मैवम् न हि जातमात्रो-ऽकृतदाराग्निपरिग्रहो यज्ञादिष्वधिक्रियते। तस्मादधि-कारी जायमानो ब्राह्मणादिर्यज्ञादीननुतिष्ठेदितितस्यार्थः। ततश्चोपनीतस्य वेदाध्ययनमेवावश्यकम्। कृतदारपरिग्रहस्य प्रजोत्पादनमपीति” ततश्च ब्रह्मचर्य्या-श्रमस्यैव नित्यत्वमितरेषां तु
“यमिच्छेत्तु तमावशेत्” इतिमिताक्षराधृतवचनात् काम्यत्वमेव। ऋणत्रयापाकरणावश्य-कता तु कृतविवाहस्यैवेति सिद्धम्। आश्रमाश्च चतुर्विधाः। ब्रह्मचर्य्यगार्हस्थ्यवानप्रस्थ-भिक्षुकभेदात्।
“ब्रह्मचारी गृहस्थश्च वानप्रस्थोय-[Page0841-a+ 38] तिस्तथा। एते गृहस्थप्रभवश्चत्वारः पृथगाश्रमाः” मनूक्तेःतत्र ब्रह्मचारी द्विविधः। नैष्ठिक उपकुर्व्वाणश्चमरणान्तं गुरुकुलवासितया कृतब्रह्मचर्य्यः नैष्ठिकः। षटत्रिंशदब्दादिकं गुरौ वसित्वा गार्हस्थ्यार्थं कृतसमावर्त्तनउपकुर्व्वाणः। गृहस्थोऽपि द्विविधः। अकृतदारःस्नातकः कृतदारश्च। तत्र कृतसमावर्त्तनोऽपिकन्यालाभात् पूर्ब्बं धृतस्मार्त्तधर्म्मभेदः स्नातकः। तद्धर्माश्च आप्लुतशब्दे

७५

२ पृष्ठेऽभिहिताः। कृत-दारोऽपि द्विविधः साग्निर्निरग्निश्च साग्निरपि द्विविधःश्रौताग्नियुक्तः स्मार्त्ताग्नियुक्तश्च। वानप्रस्थोऽपि द्विविधःसदारोऽदारश्च
“पुत्रेषु दारान् निक्षिप्य वनं गच्छेत्सहेव वा” मनूक्तेः सदारादारत्वपक्षयोः समधिगमात्। तत्रअदारस्य अपचमानाश्मकुट्टकदन्तोलूखलादिसंज्ञा। सदारस्यपचमानसंज्ञा। भिक्षुरपि चतुर्विधः कुटीचक बहूदक हस-परहंसेतिभेदात्। भिक्षुकोऽपि प्रकारान्तरेण द्वि-विधः विविदिषासन्यासी विद्वत्संन्यासी च तदेतत्जीवन्मुक्तौ विद्यारण्येन निरूपितं यथा
“वक्ष्ये विवि-दिषान्यासं विद्वन्न्यासञ्च भेदतः। हेतू विदेहमु-क्तेश्च जीवन्मुक्तेश्च तौ क्रमात्॥ संन्यासहेतुर्वैराग्यं यदहर्वि-रजेत्तदा। प्रव्रजेदिति वेदोक्तेस्तद्भेदस्तु पुराणतः। विरक्तिर्द्विविधा प्रोक्ता तीव्रतीव्रतरेति च। सत्यामेव तुतीव्रायां न्यसेद्योगी कुटीचके॥ शक्तोवहूदके तीव्रतरायांहंससंज्ञिते। मुसुक्षुः परमे हंसे साक्षाद्विज्ञानसाधने। पुत्रदारधनादीनां नाशे तात्कालिकी मतिः। धिक्संसारमितीदृक् स्याद्विरक्तेर्मन्दता हि सा॥ अस्मिन् जन्म-नि मा भूवन् पुत्रदारादयो मम। इति या सुस्थिरा बुद्धिःसा वैराग्यस्य तीव्रता॥ पुनरावृत्तिसहितो लोको मे मास्तुकश्चन। इति तीव्रतरत्वं स्यान्मन्दे न्यासोन कोऽपि हि॥ यात्राद्यशक्तिशक्तिभ्यां तीव्रे न्यासद्वयं भवेत्। कुटीचको-बहूदश्चेत्युभावेतौ त्रिदण्डिनौ। द्वयं तीव्रतरे ब्रह्म-लोकमोक्षविभेदतः। तल्लोके तत्त्वविद्धंसोलोकेऽस्मिन्परहंसकः॥ एतेषान्तु समाचाराः प्रोक्ताः पारा-शरस्मृतेः। व्याख्यानेऽस्माभिरत्रायं परहंसो विविच्यते। जिज्ञासुर्ज्ञानवांश्चेति परहंसो द्विधा मतः। प्राहुर्ज्ञानायजिज्ञासोर्न्यामं वाजसनेयिनः।
“प्रव्राजिनोलोक-मेतमिच्छन्तः प्रव्रजन्ति हि”। एतस्यार्थन्तु गद्येन वक्ष्ये-मन्दविबुद्धये॥ लोको हि द्विविधः आत्मलोकोऽनात्म-लोकश्चेति। तत्रानात्मलोकस्य त्रैविध्य वृहदारण्यके[Page0841-b+ 38] तृतीयाध्याये श्रूयते।
“अथ त्रयोवाव लोकाः मनुष्यलोकपितृलोको देवलोक” इति। सोऽयं मनुष्यलोकः पुत्रेणैव ज-य्योनान्येन कर्मणा। कर्मणा पितृलोको विद्यया देवलोक” इति। आत्मलोकश्च तत्रैव श्रूयते।
“योहवा अस्मा-ल्लोकात् स्वंलोकमदृष्ट्वा प्रैति सएनमविदितो न भुनक्तीति”।
“आत्मानमेव लोकमुपासीत”
“सय आत्मानमेव लोकमुपास्तेनहास्य कर्म क्षीयत” इति च। षष्ठाध्यायेऽपि
“किं प्रजया-करिष्यामो येषां नोऽयमात्माऽयञ्च लोक” इति। एवञ्च सतिएतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति” इत्यत्रात्मलोको-विवक्षित इति गम्यते
“सवा एष महानज आत्मेति” प्रक्रान्त-स्यात्मन एव एतच्छब्देन परामृष्टत्वात्। लोक्यते अनु-भूयत इति लोकः। तथा चात्मानुभवमिच्छन्तः प्रव्रजन्तीतिश्रुतेस्तात्पर्य्यार्थः सम्पद्यते। स्मृतिश्च
“ब्रह्मविज्ञानलाभायपरहंससमाह्वयः। शान्तिदान्त्यादिभिः सर्वैः साधनैः महितो-भवेदिति”। इह जन्मनि जन्मान्तरे वा सम्यगनुष्ठितैर्वेदानुव-चनादिभिरुत्पन्नया विविदिषया सम्पादितत्वादयं विविदिषासन्यासो द्विविधः जन्मापादककर्म्मादित्यागमात्रात्मकःप्रैषोच्चारणपूर्ब्बकदण्डधारणाद्याश्रमरूप श्चेति। त्यागश्चतैत्तिरीयादौ श्रूयते
“न कर्म्मणा न प्रजया न धनेन, त्यागे-नैके अमृतत्वमानशुरिति”। अस्मिं श्च त्यागे स्त्रियोऽप्यधि-क्रियन्ते। अतएव मैत्रेयीवाक्यमाम्नायते” येनाहं नामृता स्यांकिमहं तेन कुर्य्याम् यदेव भगवन्! वेद तदेव मे ब्रूहोति”। ब्रह्मचारिगृहस्थवानप्रस्थानां केनचिन्निमित्तेन सन्न्या-साश्रमस्वीकारे प्रतिबद्धे सति स्वाश्रमधर्म्मेष्वनुष्ठीयमानेष्व-पि वेदनार्थो मानसकर्म्मादित्यागो न विरुध्यते श्रुतिस्मृतीतिहासपुराणेषु लोके च तादृशान्तत्त्वविदां बहूनामुपल-म्भात्। यस्तु दण्डधारणादिरूपी वेदनहेतुः परमहं-साश्रमः स पूर्ब्बैराचार्य्यैर्बहुधा प्रपञ्चित इत्यस्माभिरुपर-म्यते। इति विविदिषासंन्यासः। (
“अथ विद्वत्संन्यासं निरूपयामः॥ सम्यगनुष्ठितैः श्रव-णमनननिदिध्यासनैः परतत्त्व विदितवद्भिः सभ्याद्यमानोवि-द्वत्संन्यासः। तञ्च याज्ञवल्क्यः सम्पादयामास। तथाहि विद्व-च्छिरोमणिर्भगवान् याज्ञवल्क्योविजिगीषुकथायां बहुविधेनतत्त्वनिरूपणेनाश्वलायनप्रभृतीन्मुनीन् विजित्य वीतरागकथायां संक्षेपविस्ताराभ्यामनेकधा जनकं बोधयित्वामैत्रेयीं बुबोधयिषुस्तस्यास्त्वरया तत्त्वाभिमुख्याय स्वकर्त्त-व्यं सन्यासं प्रतिजज्ञे ततस्तां बोधयित्वा संन्यासञ्चकार। तदुभयं मैत्रीयीव्राह्मणस्याद्यन्तयोराम्नायते”
“अथ ह[Page0842-a+ 38] याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् मैत्रेयीति होवाच याज्ञवल्क्यः, प्रव्रजिष्यन् वा अरे अहममस्मात् स्थानादस्मीति,एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यः प्रवव्राजेति”॥ कहोले व्राह्मणेऽपि विद्वत्संन्यास आम्नायते
“एतंवैत-मात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्चलोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य्यञ्चरन्तीति”। नचैत-द्वाक्यं विविदिषासंन्यासपरमिति शङ्कनीयं” पूर्ब्बकालवा-चिनोविदित्वेति क्त्वाप्रत्ययस्य ब्राह्मणशब्दस्य च बाधप्रस-ङ्गात्। नचात्र व्राह्मणशब्दोजातिवाचकः वाक्यशेषे पा-ण्डित्यबाल्यमौनशब्दाभिधेयैः श्रवणमनननिदिध्यासनैःसाध्यं व्रह्मसाक्षात्कारमभिप्रेत्याथ व्राह्मण इत्यभि-हितत्वात्। ननु तत्र विविदिषासंन्यासोपेतः पाण्डित्यादौप्रवर्त्तमानोऽपि ब्राह्मणशब्देन परामृष्टः तस्मात् व्राह्मणःपाण्डित्यं निर्व्विद्य बाल्येन तिष्ठासेदिति” मैवं भाविनींवृत्तिमाश्रित्य तत्र व्राह्माणशब्दस्य प्रयुक्तत्वात्। अन्यथाकथमथ ब्राह्मण इति साधनानुष्ठांनोत्तरकालवाचिनमथशब्दं प्रयुञ्जीत। शारीरब्राह्मणेऽपि विद्वत्संन्यासवि-विदिषासंन्यासौ स्पष्टं निर्दिष्टौ
“एतमेव विदित्वाल्पमु-निर्भवत्येवमेव प्रव्रजिनोलोकमिच्छन्तः प्रव्रजन्तीति”। मुनित्वं मननशीलत्वम्। तच्चासति कर्त्तव्यान्तरेसम्भवतीत्यर्थात् संन्यास एवाभिधीयते। एतच्च वाक्यशेषेस्पष्टीकृतम्
“एतद्ध स्म वैतत् पूर्ब्बे विद्धांसः प्रजां नकामयन्ते किं प्रजया करिष्यामोयेषां नोऽयमात्मायंलोक इति”
“ते स्म पुत्रैषणायाश्च वित्तैषणायाश्च लौकैष-णायाश्च व्युत्थायाथ भिक्षाचर्य्यं चरन्तीति”। अयंलोकइत्यापरोक्ष्येणानुभूयत इत्यर्थः। नन्वत्र मुनित्वेनफलेन प्रलोभ्य विविदिषासंन्यासं विधाय वाक्यशेषेस एव प्रपञ्चितः अतोन संन्यासान्तरं कल्पनीयं मैवंवेदनस्यैव विविदिषासंन्यासफलत्वात्। न च वेदनमुनित्वयोरेकत्वं शङ्कनीयं विदित्वा मुनिर्भवतीति पूर्ब्बो-त्तरकालीनयोस्तयोः साध्यसाधनत्वप्रतीतेः। ननुवेदनस्यैव परिपाकातिशयरूपमवस्थान्तरम् मुनित्वम्अतोवेदनद्वारा पूर्व्वसंन्यासस्यैवैतत् फलमितिचेत् वाढम्अतएव साधनरूपात् संन्यासादन्यं फलरूपमेनं संन्यासं-ब्रूमः। यथा विविदिषासंन्यासिना तत्त्वज्ञानायश्रवणादीनि सम्पादनीयानि तथा विद्वत्संन्यासिनापिजीवन्मुक्त्यै मनोनाशवासनाक्षयौ सम्पादनीयौ। एतच्चोपरिष्टात् प्रपञ्चयिष्यामः। सत्यप्यनयोः संन्यासयो[Page0842-b+ 38] रवान्तरभेदे परमहंसत्वाकारेणैकीकृत्य चतुर्व्विधा भिक्षवइति स्मृतिषु चतुःसंख्योक्ता। पूर्ब्बोक्तयोः संन्यासयोःपरमहंसत्वं जावालश्रुताववगम्यते। तत्र हि जनकेनसंन्यासे पृष्टे सति याज्ञवल्क्योऽधिकारिविशेषविधाने-नोत्तरकालानुष्ठेयेन च सहितं विविदिषासंन्यास-मभिधाय पश्चादत्रिणा यज्ञोपवीतरहितस्याक्षिप्तेऽब्राह्मण्ये पश्चादात्मज्ञानमेव यज्ञोपवीतमिति समादधौअतोबाह्ययज्ञोपवीताभावात् परमहंसत्वं निश्चीयते। तथान्यस्यां कण्डिकायां तत्र परमहंसोनामेत्यु पक्रम्यसंवर्त्ताकादीन् बहुविधान् ब्रह्मविदोजीवन्मुक्तानुदाहृत्य
“अव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदा-चरन्तः” इतिविद्वत्संन्यासिनोदर्शिताः। तथा
“त्रिदण्डंकमण्डलुं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीत-ञ्चेत्येतत्सर्वं भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छे-दिति” त्रिदण्डिनः सत एकदण्डलक्षणं विविदिषा-संन्यासं विधाय तत् फलरूपं विद्वत् संन्यासमेवमुदाजहार।
“यथा जातरूपधरोनिर्द्वन्द्वो निष्परिग्रहस्तत्त्वब्रह्ममार्गेसम्यक् सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं यथोक्तकालेविमुक्तो भैक्षमाचरन्नुदपात्रेण लाभालाभौ समौ कृत्वाशून्यागारे देवगृहतृणकूटवल्मीकवृक्षमूलकुलालशाला-ग्निहोत्रनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिले-ष्वनिकेतनवास्यप्रयत्नोनिर्म्ममः शुक्लध्यानपरायणोऽध्यात्म-निष्ठः शुभाशुभकर्म्म निर्म्मूलनपरः संन्यासेन देहत्यागं करोतिस परमहंसोनामेति”। तस्मादनयोरुभयोः परमहंसत्वंसिद्धम्। समानेऽपि परमहंसत्वे सिद्धे विरुद्धधर्म्मा-क्रान्तत्वादवान्तरभेदोऽप्यभ्युपगन्तव्यः। विरुद्धधर्म्म-त्वञ्चारण्युपनिषत्परमहंसोपनिषदोः पर्य्यालोचनायामवगम्यते।
“केन भगवन्! कर्म्माण्यशेषतोविसृजामीति” शि-खायज्ञोपवीतस्वाध्यायगायत्रीजपाद्यशेषकर्म्म त्यागरूपे वि-विदिषासंन्यासे शिष्येणारुणिना पृष्टेसति गुरुः प्रजापतिः
“शिखां यज्ञोपवीतम्” इत्यादिना सर्वत्यागमभिधाय
“दण्ड-माच्छादनं कौपीनञ्च परिग्रहेदिति” दण्डादि स्वीकारं विधाय
“त्रिसन्ध्यादौ स्नानमाचरेत्। सन्धिं समाधावात्मन्याचरेदिति”
“सर्व्वेषु वेदेष्वारण्यमावर्त्तयेदुपनिषदमाषर्त्तयेदुपनिषद-मावर्त्तयेदिति” वेदनहेतूनाश्रमधर्म्माननुष्ठेयतया विधत्ते।
“अथ योगिनां परमहंसानां कोऽयं मार्गः” इति विद्वत्संन्यासे नारदेन पृष्टे सति गुरुर्भगवान् स्वपुत्रमित्रे-त्यादिना पूर्व्ववत् संन्यासमभिधाय
“कौपीनं दण्डमा-[Page0843-a+ 38] च्छादनञ्च स्वशरीरोपभोगार्थाय लोकस्योपकारार्थाय चपरिग्रहेदिति” दण्डादिस्वीकारस्य लौकिकत्वमभिधाय
“तच्च मुख्ये नास्तीति” शास्त्रीयत्वं प्रतिषिध्य
“कोऽयं मुख्यइति चेदयं मुख्योन दण्डं न शिखां न यज्ञोपवीतनाच्छादनञ्चरति परमहंसः” इति दण्डादिलिङ्गराहित्यस्यशास्त्रीयतामुक्त्वा
“न शीतं न चोष्ण” मित्यादिना वाक्येन
“आशाम्बरो निर्नमस्कार” इत्यादिवाक्येन च लोकव्यव-हारातीतत्वमभिधायान्ते
“यत्पूर्णानन्दैकबोधस्तद्व्रह्माह-मस्मीति कृतकृत्यो भवति” इत्यन्तेन ग्रन्थेन ब्रह्मात्मानु-भवमात्रपर्य्यवसानमाचष्टे। अतोविरुद्धधर्म्मोपेतत्वा-दस्त्वेवानयोर्महान् भेदः। स्मृतिष्वप्ययं भेद उक्तदिशा-द्रष्टव्यः।
“संसारमेवं निःसारं दृष्ट्वा सारदिदृक्षया। प्रव्र-जन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः। प्रवृत्तिलक्षणोयोगो ज्ञानं संन्यासलक्षणम्। तस्माज्ज्ञानं पुरस्कृत्य संन्य-स्येदिह बुद्धिमान्” इत्यादिविविदिषासंन्यासः।
“यदा तु विदितं तत्स्यात् परं ब्रह्म सनातनम्। तदैकदण्डंसंगृह्य सोपवीतां शिखां त्यजेत्। ज्ञात्वा सम्यक्परं ब्रह्मसर्ब्बंत्यक्त्वा परिव्रजेदिति” विद्वत्संन्यासः। ननुकलाविद्यादाविव कदाचिदौत्सुक्यमात्रेणापि बेदितुमिच्छा सम्भवत्येव विद्वत्ताप्यापातदर्शिनः पण्डितंमन्यमानस्याप्यबलोक्यते। न च तौ प्रव्रजन्तौ दृष्टौअतोविविदिषाविद्वत्ते कीदृश्यौ विवक्षिते इति चेदुच्यते। यथा तीब्रायां बुभुक्षायामुत्पन्नायां भोजनादन्योव्यापारो न रोचते। भोजने च विलम्बोन सोढुशक्यते। तथा यदा जन्महेतुषु कर्म्मस्वत्यन्तमरुचिःवेदनसाधनश्रवणादिषु च त्वरा महती सम्पद्यते तादृशीविविदिषा संन्यासहेतुः। विद्वत्ताया अवधिरुपदेशसाहस्र्यामभिहितः।
“देहात्मज्ञानवज्ज्ञानं देहात्मज्ञान-वाधकम्। आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते” इति। श्रुतावपि
“भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्व्वसंशयाः। क्षी-यन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे इति”। पर-मपि हैरण्यगर्भादिपदमवरं यस्मादसौ परावरः। हृदयेबुद्धौ साक्षिणस्तदात्म्याध्यासोऽनाद्यविद्यानिमित्तत्वेन ग्र-न्थिवद्दृढसंश्लेषरूपत्वाद्ग्रन्थिरित्युच्यते। आत्मा साक्षी-कर्त्ता वा, साक्षित्वेऽप्यस्य ब्रह्मत्वमस्ति न वा, ब्रह्मत्वेऽपि तद्-बुद्ध्या वेदितुं शक्यते न वा, शक्यत्वेऽपि तद्वेदनमात्रेणमुक्तिरस्ति नवेत्यादयः संशयाः। कर्माण्यनारब्धानि आगा-मिजन्मकारणानि। तदेतत् ग्रन्थ्यादित्रयमविद्यानिमित्त-[Page0843-b+ 38] त्वादात्मदर्शनेन निवर्त्तते। स्मृतावप्ययमर्थ उपलभ्यते
“यस्य नाहंकृतोभावोबुद्धिर्यस्य न लिप्यते। हत्वापिस इमां ल्लोकान्न हन्ति न निबध्यत” इति। यस्य ब्रह्म-विदो, भावः सत्ता स्वभाव आत्मा, नाहं कृतोनाहङ्कारेणतदात्म्याध्यासादाविर्भावितः, बुद्धिलेपः संशयः। तदभावेत्रैलोक्यबधेनापि न निबध्यते किमुतान्येन कर्म्मणेत्यर्थः। नन्वेवं सति विविदिषाफलेन तत्त्वज्ञानेनैवागामिजन्मनांनिवारितत्वाद्वर्त्तमानजन्मशेषस्य भोगमन्तरेण निवारयि-तुमशक्यत्वादलमनेन विद्वत्सन्यासप्रयासेनेति चेन्मैवंविद्वत्सन्यासस्य जीवन्मुक्तिहेतुत्वात्। तस्माद्वेदनाययथा विविदिषासंन्यासः एव” जीवन्मुक्तये विद्वत्संन्यासःसम्पदनीयः इति विद्वत्संन्यासः”।
“दीर्घकालं ब्रह्मचर्य्यम् इत्यादित्यपुराणे यद् कलिवर्ज्ज्येदीर्घकालब्रह्मचर्य्यसंन्यासाश्रमयोरुत्कीर्त्तनम् तत् नैष्ठिक-ब्रह्मचर्य्यषट्त्रिंशदब्दादिब्रह्मचर्य्ययोर्निषेधपरम् न पुन-र्ग्रहणान्तिकब्रह्मचर्य्यमात्रस्य निषेधः दीर्घकालेतिविशेषण-सामार्थ्यात् तेन
“षट्त्रिंशदाब्दिकं चर्य्यं गुरौ त्रैवेदिकंव्रतम्। तदर्द्धिकं पादिकं वा ग्रहणान्तिकमेव वा” इतिमनुनोक्तपक्षचतुष्टयमध्ये अल्पकालिकस्यैव कलौ कर्त्त-व्यता।
“तथाऽग्निहोत्रं गवालम्भं संन्यासं पलपैतृक-मिति” निगमवाक्यमपि त्रिदण्डविषयम्
“यावद्वर्णविभा-गोऽस्ति यावद्वेदः प्रवर्त्तते। संन्यासञ्चाग्निहोत्रञ्च तावत्कुर्य्यात् कलौ युगे” देवलस्मरणात्।
“चत्वार्य्यव्दसहस्राणिचत्वार्य्यव्दशतानि च। कलेर्यदा गमिष्यन्ति तदात्रेतापरिग्रहः। संन्यासश्च न कर्त्तव्यो ब्राह्मणेन विशे-षत” इति व्यासवचनन्तु त्रिदण्डविषयम्। महानिर्वाण-तन्त्रे तु।
“पुरैव कथितं तावत् कलिधर्म्मविचेष्टितम्। तपःस्याध्यायहीनानां नृणामल्पायुषामपि। क्लेश-प्रवाहाशक्तानां कुतोदेहपरिश्रमः। ब्रह्मचर्य्याश्रमोनास्तिवानप्रस्थोऽपि न प्रिये। गार्हस्थ्यभैक्षुकौ चैव आश्रमौ द्वौकलौ युगे! गृहस्थस्य क्रियाः सर्व्वा आगमोक्ता कलौशिवे। नान्यमार्गैः क्रियासिद्धिः कदापि गृहमेधिनाम्। भैक्षुकेऽप्याश्रमे वापि वेदोक्तं दण्डधारणम्। कलौ ना-स्त्येव तत्त्वज्ञे! यतस्तच्छ्रौतसंस्कृतिः। शैवसंस्कारविधिनाऽ-पधूताश्रमधारणम्। तदेव कथितं भद्रे! संन्यासग्रह-हणं कलौ। विप्राणामितरेषाञ्च वर्ण्णानां प्रबले कलौ। उभये आश्रमे देवि! सर्व्वेषामधिकारिता। सर्वेषा-मेव संस्कारकर्म्मणी शैववर्त्मना। विप्राणामितरेषाञ्च[Page0844-a+ 38] कर्म्मलिङ्गं पृथक् पृथक्”। उभावेवाश्रमौ विहितौ एत-च्चागमाधिकारिणः पतितब्राह्मणादेरकृतप्रायश्चित्तस्यैवबोध्यम्। आगमविधावधिकारिणश्च आगमशब्दे

६१

४ पृष्ठे उक्ताः इतरेषान्तु न श्रौतदण्डादिधारणनिषेधः तेषांश्रौत एवाधिकारात्। वस्तुतः आगमवाक्येऽपि प्रबलेकलाविति विशेषोक्तेः प्रबले कलौ सर्व्वेषामेव पतितप्रायत्वस्यावश्यम्भावादागमधर्म्मस्यैवावलम्बनीयतया तेषामेवतदानीमागमोक्ताश्रयद्वयेऽधिकार इति भेद इति दिक्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रम¦ m. (-मः)
1. A religious order, of which there are four kinds re- ferable to the different periods of life; 1st, that of the student or Brahmachari; 2d, that of the householder or Grihast'ha; 3d, that of the anchorite or Vanaprast'ha; and 4th, that of the beggar or Bhikshu; see ब्रह्मचारी, &c.
2. A college, a school.
3. A hermitage, the abode of retired saints or sages.
4. A wood or thicket. E. आङ् before श्रम to perform religious austerities, affix घञ्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रमः [āśramḥ] मम् [mam], मम् [आ-श्रम् आधारे घञ् वृद्धयभावः]

A hermitage, hut, cell, dwelling or abode of ascetics; शरणान्यशरण्यानि आश्रमाणि कृतानि नः Rām.7.6.5.

A stage, order, or period of the (religious) life of a Brāhmaṇa (These are four: ब्रह्मचर्य the life of a student; गार्हस्थ्य the life of a house-holder; वानप्रस्थ the life of an anchorite or hermit, and संन्यास the life of a Bhikṣu or beggar. Kṣatriyas (and Vśiyas also) can enter, upon the first three Āśramas; cf. Ś.7.18; V.5; (according to some authorities they can enter the fourth also; cf. स किलाश्रममन्त्यमाश्रितः R.8.14; पूर्वाश्रमः Ku.5.5.

A college, school.

A wood or thicket (where ascetics practise penance).

N. of Viṣṇu. Comp. -उपनिषद् N. of an upaniṣad-गुरुः the head of a religious order, a preceptor, principal, कर्तुमाश्रमगुरुः स चाश्रमत् Śi.

धर्मः the special duties of each order or life.

the duties of one leading a hermit's life; य इमामाश्रमधर्मे नियुङ्क्ते Ś.1.

पदम्, मण्डलम्, स्थानम् a hermitage (including the surrounding grounds), a penance forest (तपोवनम्); शान्तमिदमाश्रमपदम् Ś.1.16.

a period in the religious life of a Brāhmaṇa. -पर्वन् n. The first section of the fifteenth book of the Mahābhārata. i. e. आश्रमवासिक- पर्वन्. -भ्रष्ट a. fallen from any religious order, apostate.-लक्षणम् An indicatory mark of the religious order, cf. मेखलाजिनदण्डेन ब्रह्मचारीति लक्ष्यते । गृहस्थो दानवेदाद्यैर्नखलोम्ना वनाश्रिताः ॥ त्रिदण्डेन यतिश्चैव लक्षणानि पृथक् पृथक् । यस्यैतल्लक्षणं नास्ति प्रायश्चित्ती न चाश्रमी ॥ (दक्षसंहिता.) -वासः residence in a hermitage. -वासिक a. relating to residence in a hermitage; ˚कं पर्व the 15th book of the Mb. -वासिन्, -आलयः, -सद् m. an ascetic, hermit.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्रम/ आ-श्रम mn. ( श्रम्) , a hermitage , the abode of ascetics , the cell of a hermit or of retired saints or sages Mn. R. Das3. Ragh. Megh. etc.

आश्रम/ आ-श्रम mn. a stage in the life of a Brahman (of which there are four corresponding to four different periods or conditions , viz. 1st , ब्रह्मचारिन्, " student of the वेद" ; 2nd , गृह-स्थ, " householder " ; 3rd , वानप्रस्थ, " anchorite " ; and 4th , संन्यासिन्, " abandoner of all worldly concerns " , or sometimes भिक्षु, " religious beggar " ; in some places the law-givers mention only three such periods of religious life , the first being then omitted) Mn. R. Sus3r. Ragh. etc.

आश्रम/ आ-श्रम mn. a hut built on festal occasions VarBr2S.

आश्रम/ आ-श्रम mn. a college , school

आश्रम/ आ-श्रम mn. a wood or thicket L.

आश्रम/ आ-श्रम m. N. of a pupil of पृथ्वी-धर.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀŚRAMA : Asramites (Inmates of an Āśrama) have to pass through four stages. The four stages of Brahmacarya, Gārhasthya, Vānaprastha and Sannyāsa are known as the four Āśramas. Viṣṇu Purāṇa, Part III, Chapter 9 describes each of the Āśramas as follows:

1. Brahmacarya. “After Upanayana a boy should maintain a Brahmacārī's vrata, engage himself in the study of the Vedas, suppress his indriyas (the five senses) and live in the house of the preceptor. Living there with proper observance of śauca, customs and vratas he should serve and attend on the Guru. The study of Vedas should be with proper observance of Vratas and steady attention. A Brahmacārī should worship with concentration, the Sun and Agni at the time of the two sandhyās (dawn and dusk) and after that he should do obeisance to the Guru. When the Guru stands, he should also be standing. When the guru walks, he should walk behind him and when he sits, he should sit in a lower position. The Śiṣya (disciple-pupil) should not do anything against the guru. When the guru him- self asks, the Śiṣya should sit in front of him and recite Vedas without attending to anything else. After that, with his permission he may eat food which has been got by begging. The Śiṣya may take his bath in the water only after the Ācārya (guru) has taken his bath in it. Everyday the Camata, darbha, water and flowers which the guru needs, must be brought and supplied (by the Śiṣya).

2. Gārhasthya. After the study of the Vedas the intelli- gent śiṣya gives Gurudakṣiṇā (Payment to the precep- tor) and with the consent of the Guru, enters into Gṛhasthāśrama. Then he is to marry and by earning money from a suitable occupation, should fulfil all obligations of a Gṛhastha according to his capacity. The Gṛhastha who worships the Pitṛs with Piṇḍadāna (offerings of rice balls), Devas with Yāgas (sacrifices), Ṛṣis with Svādhyāya (self discipline), Prajāpatis with begetting of children, spirits with bali (offering of food etc.) and the whole world with love, attains the holy world by his own virtuous deeds. Gṛhasthāśrama is the only source of support for sannyāsīs and brahmacārīs who beg their food. Therefore feeding them is an act of nobility. Brāhmaṇas travel from country to country to study Vedas, for pilgrimage and for seeing the places. The Gṛhastha is the only refuge and support of those who are homeless, who do not carry their food with them and those who spend the night wherever they reach. If such people come to his house, the Gṛhastha should welcome them with kind and loving words, and give them bed, seat and food. The guest who leaves a house disappointed, is really departing after transfer- ring his own sins to that householder and taking away all the virtuous deeds of the householder. It is not proper for the Gṛhastha to treat a guest with disrespect, to behave rudely or treacherously towards him, to regret what has been given to the guest, or to obstruct or rebuke him. The Gṛhastha who performs the supreme duty of Gṛhasthāśrama in this way properly, is liberated from all secular bonds and reaches the noblest worlds.

3. Vānaprastha. After having finished all his duties in this way, to his satisfaction, the Gṛhastha, with the commencement of old age, should go to the forest, either after entrusting his wife to his sons or taking her also with him. There, he should use leaves, roots and fruits for his food, grow hair and beard, sleep on the bare ground, lead the life of a tāpasa and receive and honour all classes of guests. His clothes, sheets and blankets should be of deer-skin and darbha grass. The rule is that he should bathe three times a day. Worship of gods, performing homas, hospitality to all guests, mendicancy -all these are the laudable features of Vānaprastha. Any oil that is available in the forest is to be used for his oil bath. Enduring heat and cold, performing tapas, are also his duties. The Muni who observes this rule in Vānaprastha with due austerity, burns up all his evils as with fire and attains the eternal worlds.

4. Sannyāsa. The fourth Āśrama is that of the Sannyāsī. Before entering upon the fourth Āśrama one has to renounce the love of travel, wealth and wife and also give up all spirit of rivalry. One who embraces sann- yāsa should abandon completely the efforts for the three Puruṣārthas of Dharma, Artha and Kāma, treat friends and foes alike and continue to love all living beings. Not even a single creature should be offended by thought, word or deed. Conquering all passions, the Sannyāsī should renounce all bonds and attach- ments. He should not stay in a village more than one night and in a town more than five nights. Even that should be in such a way that no one feels any love or hatred towards him. For sustaining life, he should go about begging food from the houses of the people of the three castes--Brahmins, Kṣatriyas and Vaiśyas. It should be after all people have taken their food and put out the cooking fire. The Sannyāsī should cast away all vices like Kāma, Krodha, Garva, Lobha, and Moha and should not have any thought of self in any- thing. The Muni who goes about giving shelter to all creatures will not have to fear any creature. The Brāhmaṇa who follows the Sannyāsāśrama as described above with a pure heart and without difficulty will shine like fire without fuel and attain Brahmaloka in peace.


_______________________________
*3rd word in left half of page 93 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आश्रम&oldid=491479" इत्यस्माद् प्रतिप्राप्तम्