आश्वलायन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वलायन¦ पु॰ अश्वल + अश्वग्राहकः मुनिभेदस्तस्यापत्यंनडा॰ फक्। ऋग्वेदीयश्रौत्रगृह्यसूत्रकारके ऋषिभेदे
“सहस्रकाण्डं स्वकृतं सूत्रं ब्राह्मणसन्निभम् शिष्याश्वलायनप्रीत्यै शौनकेन विपाठितम्” इत्युक्तेः शौनकोपदिष्टेन तेनच
“अथैतस्य सनाम्ना यस्य विताने योगापत्तिं वक्ष्यामः” इत्युपक्रम्य
“नमः शौनकाय” इत्यन्तम् अध्यायचतुष्टयात्मकंवैतानिककर्मोपयोगि श्रौत्रसूत्रम्
“उक्तानि वैतानिकानिगृह्याणि वक्ष्यामः” इत्युपक्रम्य
“नमः शौनकाय” इत्यन्तम्अध्यायचतुष्टयात्मकं गृह्यकर्मोपयोगि गृह्यसूत्रं, तत् परि-शिष्टञ्चाध्यायचतुष्टयात्मकं सूत्रं शौनकाचार्य्यप्रसादात्रचितम्। तदीयसूत्रोपरि देवस्वामिना भाष्यं कृतं तन्मूलक-तया गर्गगोत्रेण नरसिंहपुत्रेण नारायणोपाध्यायेन वृत्तिःरुचिता तत्र श्रौत्रसूत्रे प्रतिपाद्यविषयास्तावदभिधीयन्ते। [Page0846-b+ 38]( तत्र प्रथमाध्याये प्रधानस्याङ्गसंहतिज्ञानाय सर्वादौदर्शपूर्ण्णमासयोर्व्याख्यानम्।

१ अग्निहोत्रादिषु ऋक्समाम्नायस्य प्रयोगस्वरूपकथनप्रतिज्ञा।

२ ऋक्समाम्नातकर्मसु आ-हिताग्नेरधिकारकथनम्।

३ अङ्गसङ्घरूपविध्यन्तरज्ञानायादौदर्शपूर्णमासयोर्व्याख्यान प्रतिज्ञा।

४ दर्शपूर्णमासयोर्व्याख्या-रम्भः।

५ अनोषधिहविष्करूपेऽप्रणीते कर्मणि अपरेणेध्म-प्रपदनम्।

६ अवटरूपचात्वालवत्सु पशुसोमादिषु अप-रेण चात्वालप्रपदनम्।

७ चात्वालरूपस्याध्वनो वैदिकीतीर्थसंज्ञा।

८ होतुः प्राङ्मुखत्वस्य मनोवाक्काययन्त्रणा-दीनाञ्च चेष्टाया नित्यता। इति परिपाषा संग्रहः।

९ उरूपस्थीकरणरूपाया अङ्कधारणाया नित्यत्वम्।

१० यज्ञोपवीतग्रहणनियमस्यान्तर्विहारे शौचनियमस्य च नित्यत्वम्।

११ विहारे कर्म कुर्वतस्तत्पृष्ठतः करणनिषेधः।

१२ एकाङ्गोल्लेखे दक्षिणप्रतीतिः।

१३ सर्व्वदक्षिणा-नुल्लेखेऽपि दक्षिणप्रतीतिः।

१४ कर्तृरहिते क्रिया-विधौ होतर्य्येव कर्तृज्ञानम्।

१५ दानविधौ यजमानेकर्तृज्ञानम्।

१६ कुहोति जपतीति प्रायश्चित्ते ब्रह्मणिकर्तृज्ञानम्।

१७ ऋचो मूलग्रहणे ऋत्विग्वेदनम्।

१८ सूक्तादौ गायत्र्यादिभागरूपे पादे हीने गृह्यमाणे सूक्त-ज्ञानम्।

१९ सूक्तादावसूक्तादौ चाधिकपादग्रहणे तृच-ज्ञानम्।

२० अस्मिन् शास्त्रे जपादीनामुपांशुप्रयोक्तव्य-त्वम्।

२१ मन्त्राणां कर्मकरणानाञ्चोपांशुत्वकथनम्।

२२ सामान्यविशेषयोर्विशेषविधेर्बलीयस्त्वम्।

२३ --

२४ होतुरवस्थानकथनम्।

२५ कर्तुरासनकथनम्।

२६ वच-नादतिरिक्तस्य कर्त्तव्यत्वम्।

२७ सामिधेन्यर्थं प्रेषितस्यहोतुर्जपविधानम्।

२७ सूत्राणि प्रथम कण्डिकायाम्।

१ साकिधेन्यर्थजपः।

२ तज्जपानन्तरं सामिधेनीनाम् ऋचा-मनुवचनम्।

३ हिङ्ककरणपूर्वकप्रणवान्तव्याहृतित्रयजप-बिधानम्।

४ सजपहिङ्कारस्याभिहिङ्कारसंज्ञाकथनम्।

५ कौत्समते निरोङ्कारव्याहृतित्रयजपानन्तरहिङ्करणदर्श-नम्।

६ कौत्समते सामिधेन्यर्थोक्तजपस्याकरणम्।

७ ऋचा-मेव सामिधेनीत्वप्रदर्शनम्।

८ सामीधेनीनाम् ऋचामैकश्रुत्येनसान्तत्येन चानुवचनम्।

९ ऐकश्रुत्यलक्षणम्

१० सन्ततलक्षणम्

११ सन्ततस्यावसानत्वकथनम्।

१२ पूर्वोच्छ्वासाविभ्रेषे उत्त-रोच्छ्वासारम्भः।



३ प्रणवेनावसानकथनम्।

१४ विहितेएवावसाने प्रणवस्य चतुर्मात्रत्वेनोच्चारणम्।

१५ प्रणवा-न्तमकारस्य वर्णान्तरापत्तिकथनप्रतिज्ञा।

१६ प्रणवान्त-मकारेण स्वस्मात् परस्य यस्य कस्यचित् स्पर्शवर्णस्य तद्वर्गी-[Page0847-a+ 38] यान्तवर्णापादनम्।

१७ प्रणवान्तमकारेण यवलान्त-स्थांसु परान्तस्थानामनुनासिकत्वापादनम्।

१८ रेफोष्मसुवर्णेषु प्रणवान्तमकारस्यानुस्वारत्वापत्तिः।

१९ प्रथमो-त्तमे ऋचौ त्रिरध्यर्धीकृत्य तयोरनुवचनम्।

२० अध्यर्धयोरृचोर्वचनावसानेऽध्यर्धचतुष्कात्मिकयोर्द्वयोरृचोर्वचनम्।

२१ उत्तमायामृचि आदौ द्वे पश्चात् अध्यर्धा।

२२ ए-कादशानामृचां द्वयोस्त्रिरभ्यासयोगेन पञ्चदशसंख्यापूरण-निदर्शनम्।

२३ शस्त्रयाज्यादिषु सामिधेनीनां कतिपयधर्मा-तिदेशः।

२४ सामीधेनीभ्योऽन्यत्राध्यर्धकरणप्रतिषेधादयः

२५ विहितेऽवसानेऽभिहिङ्काराभ्यासनिषेधः।

२६ शस्त्रे-ष्वेव होत्रकाणामभिहिङ्कारविधानात् ग्रावस्तुतस्तन्निषे-धसाधनम्।

२७ प्रणवेन निगदसन्धानानन्तरं तेनैव तद-वसानविधानम्।

२७ सू॰

१ अ॰

२ क॰।

१ यजमानस्यार्षेय-प्रवरणम्।

२ अन्यक्षेत्रजातद्व्यामुष्यायणार्थमार्षेयप्रवरण-प्रकारः।

३ राजन्यविशां त्रैवर्णिकानुलोमस्त्रीजातानाञ्चपुरोहितार्षेयभागित्वम्।

४ राज्ञां राजर्षिप्रवरणं पौरोहित्यप्रवरणं वा

५ प्रवराज्ञाने तत्संशये च वर्णत्रयस्य मानव-प्रवरः।

६ चतुर्दशनिवित्पदकथनम् आवाहननिगदकथनं,सामिधेन्यादीनां चावाहनीयाभिधायित्वम्।

७ अग्निरूप-प्रथमदेवतावाहनम्।

८ अग्नीषोम दैवताज्यभागयाग-योराख्या।

९ अग्नेरग्नीषोमयोश्च पौर्ण्णपास्यां प्रधान-देवतात्वम्।

१० अमावास्यायां दधिपयोभ्यां यागमकुर्वतो-ऽग्नीषोमयोः स्थाने इन्द्राग्न्योः प्रधानदेवतात्वम्।

११ त-द्दिने उक्तयागरूपसन्नयनकारिणोऽग्नीषोमस्थाने इन्द्रमहे-न्द्रयोरन्यतरावाहनम्।

१२ उभयोरपि पर्वणोरैतरेयिणाम्विष्णुदेवताकोपांशुयागकरणम्।

१३ शाखान्तरीयाणाम्उभयोरपि पक्षयोरुपांशुयागभिन्नयागाभावः।

१४ पित्र्याद्यङ्गो-पांशुयागानाम् आवाहनादिनिगदचतुष्टये आवाहनादीनांषण्णां पदानाम् उच्चैरितिसंज्ञाविधानम्।

१५ उपांशुयाज-वचनानामन्येषाम् परोक्षाणाम् उपांशुत्वानुवादः, विकल्पे-नोच्चैः संज्ञाविधानं च।

१६ विहितदेवतानामरूपस्य प्र-त्यक्षस्योपांशुत्वम्।

१७ प्रतिनोदितदेवतमावाहनभेदः।

१८ एकप्रदानानां सर्वासां देवतानामावाहने सकृदेवावह-शब्दप्रयोगः।

१९ उत्तरनिगमेषु एकदेवतात्वेन संस्तवः।

२० एकप्रयोजनार्थाया देवतायाः कारणवशात् एकव-वनेनैव समानता।

२१ अपराव्यवहिताया देवताया निगमेषुसकृदेकवचनभाक्त्वम्।

२२ आवापोद्धारयोग्यासु प्रधानदेव-तासु कृतावाहनासु देवाज्यपास्विष्टकृतामावाहनप्रकिया। [Page0847-b+ 38]

२३ आश्रावयिष्यतेऽध्वर्यवेऽनुमन्त्रणं तदनन्तरकरणीयञ्च।

२४ उत्थानपूर्वकं षष्टिश्चेतिमन्त्रपाठः।

२५ अंसे पार्श-स्थेन पाणिनाध्वर्य्वन्वारम्भणम्।

२६ सव्येन पाणिनाङ्के-नोरुणा वाग्नीध्रकर्तृकमन्वारम्भणम्।

२७ उक्तोभया-न्वारम्भणे साधारणमन्त्रः।

२८ इध्मसन्नहनरूपैस्तृणैरा-त्ममुखसंमार्जनम्।

२९ संस्कारकर्म्मावृत्तिमात्रे सकृन्म-न्त्रेण द्विस्तूष्णीं संस्करणम्।

३० उदकस्पर्शानन्तरं हो-तृषदनाभिमन्त्रणम्।

३१ दक्षिणोत्तरिणोपस्थेनोपवेशनंहोतृषदनात् तृणनिरसनञ्च।

३२ उक्तयोरेतयोर्निर-सनोपवेशनयोः सर्वासनेषु प्रथमप्रयोग एव समानत्वम्।

३३ गौतमाचार्य्यमते द्वितीयेऽपि प्रयोगे तादृशनिरसनोप-वेशनयोः सद्भावः।

३३ सू॰

१ अ॰

३ क॰।

१ अग्न्याधेयेब्रह्मौदनप्राशनकाले ब्रह्मणो द्विर्निरसनोपवेशनकरणम्।

२ सर्वेषु सोमेषु बहिष्पवमानात् प्रत्येत्य ब्रह्मणःपूर्ब्बासने पुनः करणम्।

३ आसने पश्वर्थमुपविष्टस्यहोतुः सदःप्रसर्पणानन्तरं तत्रैव पुनः करणम्।

४ पशौस्वाहाकृत्यर्थयोः स्रुगवदापनयोः पुनः करणम्।

५ पत्नी-संयाजार्थोपवेशनाकरणम्।

६ कौत्समते होतृभिन्ना-नामेतयोर्निरशनोपवेशनयोरकरणम्।

७ उपविश्यानन्तरंदेवेत्यादिमन्त्रपाठः।

८ जान्वग्रेण बर्हिरुपस्पृश्य अ-भिहिषेत्यादिमन्त्रजपः।

९ इध्मप्रदीप्ते उक्तजपानन्तरंभूपतये नम इति निगदेनाध्वर्यवे स्रुगावदापनम्।

१० अग्निर्होतेति निगदमवसाय होतारमवृथा इति मन्त्रजपः

११ अग्निर्होतेत्यादिना सह घृतवतीत्यादिकमेकनिगदंविधाय तत्समापनम्।

१२ उक्तनिगदे समाप्तेऽध्वर्युकर्तृ-कमाश्रावणम्।

१३ उत्करदेशे तिंष्ठत आग्नीध्रं प्रत्या-श्रावणप्रकारः।

१३ सू॰

१ अ॰

४ क॰।

१ शाब्दलक्षणप्रया-जैर्यजनम्।

२ तनूनपान्नराशंसयोरन्यतरेण प्रयाजानांपञ्चसङ्ख्याकत्वम्।

३ सकृत्प्रेषितस्य न सर्वयजनम्।

४ अननुयाजानां सर्वासां याज्यानामादिरागू-र्भवतीति।

५ ये यजामह इति आगूः स्वरूपं, वषट्कारस्व-रूपञ्च।

६ याज्याया एव उच्चैस्तरत्वबलीयस्त्वोभयधर्म-वत्त्वम्।

७ आगूर्वषट्कारयोराद्योः प्लुतिकरणम्।

८ याज्यान्तस्य प्लावनम्।

९ विविक्तयोः सन्धिजातयोरेकारैकारयोरोकारौकारयो आ इ, इति आउ{??},व्यञ्जनान्तानां सन्ध्यक्षराणां सर्वदा स्वरूपेणैव च प्लावनम्।

१० अनवर्णोपधस्य विसर्जनीयस्य रेफिभावः।

११ रेफि-संज्ञिनोऽवर्णोपधस्य विससर्जनीयस्य रेफिभावः।

१२ वषट्-[Page0848-a+ 38] कारसन्धौ अरेफसंज्ञस्यावर्णोपधस्य विसर्जनीयस्य लोपः।

१३ वर्गाणां प्रथमस्य स्ववर्गीयतृतीयवर्णापादनम्।

१४ म-कारे सानुनासिकभावस्य नित्यत्वम्।

१५ वौषट्शब्दस्यवषटकारस्वरूपत्वम्।

१६ इत्येवंरूपः प्रथमप्रयाजः।

१७ वषट्कारोच्चारणपूर्ब्बकोऽनुमन्त्रणप्रकारः।



८ वषट्कारस्यदिवाकीर्त्तनीयत्वम्।

१९ अनुमन्त्रणस्यापि दिवाकीर्त्त-नीयत्वम्।

२० इत्येवं याज्यास्वरूपम्।

२१ वशिष्ठादि-भिन्नाना तनूनपादित्यादिः द्वितीयप्रयाजः।

२२ वशिष्ठादीनांनरांश स इत्यादिः द्वितीयप्रयाजः।

२३ इडो अग्न इत्यादिःसर्वेषां तृतीयप्रयाजः

२४ बर्हिरग्ने इत्यादिः चतुर्थः स्वाहा-मुमित्यादि पञ्चमप्रयाजः।

२५ अग्निमन्थनादौ मन्द्रस्वरप्र-योजः।

२६ शंयुवाकादूर्ध्वं मन्द्रस्वरेण प्रयोगः।

२७ प्रयाजेभ्यऊर्द्ध्वमास्विष्टकृतो मध्यमेन प्रयोगः।

२८ इडादिशंयु-वाकान्तरूपस्य शेषस्योत्तमेन प्रयोगः।

२९ पूर्ब्बोत्तरयो-राज्यभागनामकयागयोरागोरणदेवतादेशयाज्यासन्धानपूर्बकोयागः।

३० अनुवाक्यावतीनामप्रैषाणां चान्याया-त्याभ्योऽन्यासां देवतानाम् आदेशपूर्ब्बकयागः।

३१ अङ्ग-प्रधानरूपे सोमकर्म्मणि वैश्वानरीयप्रत्नीसंयाजशब्दबोधि-तयोः पदार्थयोर्मध्ये तत्रोत्पन्नाभ्यो देवताभ्योऽन्यासाम्आदेशपूर्व्वको यागः।

३२ पौर्णमास्यामाज्यभागयोःसनिमित्ता वार्त्रघ्नसंज्ञा।

३३ अनुवाक्यातएवविचारा-वगमादि।

३४ याज्ययोरानुवाक्यादेवतानन्यत्वम्।

३५ आदित आरभ्याज्यभागपर्य्यन्तं वाग्यमनम्।

३६ याज्या-दिभ्योऽन्यदप्यारभ्यासमाप्तेर्वाग्यमनम्।

३७ यज्ञसाधन-वचसोऽन्यत्र वाग्यमननियमः।

३८ वाग्यमननिय-मातिक्रमे अतो देवा अवन्तु न इति वैष्णव्या ऋचोजपः।

३९ उक्तातिक्रमेऽन्यस्या अपि वैष्णव्या ऋचो जप-विधानम्।

३९ सू॰

१ अ॰

५ क॰।

१ विधिक्रमप्राप्तानां देवतानांवक्ष्यमाणलिङ्गक्रमाभ्यां याज्यानुवाक्यायोजना।

२ प्रधा-नानन्तरं स्विष्टकृतो यागः सर्वत्र च पूर्ब्बमनुवाक्यायाःपश्चाद्याज्याया प्रयोगः।

३ ये याजमहे इत्युक्त्वा षष्ठ्याविभक्त्या देवतामादिश्य प्रिया धामान्ययाडिति मन्त्रपाठः।

४ प्रथमदेवतायाः पुरस्तादयाडग्निशब्दन्त्यक्त्वा उत्तरासाम-याट्शब्दस्यैव सर्व्वासामुपरिष्टात् प्रिया धामानिशब्दस्य चसन तप्रयोगः।

५ याज्याविशेषेऽनुच्छ्वासस्य कर्त्तव्यत्वम्।

६ याज्यापाठे अर्धर्चे वोञ्छ्वासकर्त्तव्यता।

६ सू॰

१ अ॰

६ क॰

१ अध्वर्युणा प्रदेशिनीपर्वाञ्जनपूवकौष्ठापवर्गशोधने।

२ ओष्ठाधरशोधनस्य मन्त्रविशेषः।

३ अध्वर्युणा इडा-[Page0848-b+ 38] ग्रहणपूर्वकावान्तरेडावदापनप्रकारः।

४ स्वयं यज मानेनइडाया अवान्तरेडाग्रहणप्रकारः।

५ अध्वर्युकर्तृकं वातद्गहणम्।

६ इडोपह्वानप्रकारः।

७ सह दिवेत्यादिनातस्मिन्नुपह्वत इत्यन्तेन मन्त्रेण इडोपह्वानम्।

८ होतुर्य-जमानपञ्चमानां वा सर्व्वेषामवान्तरेडाभक्षणपूर्ब्बकेडाभक्ष-णम्।

८ सू॰ अ॰

७ क॰।

१ इडाभोक्तुर्मार्जनपूर्व्वकमनु-याजचरणम्।

२ मार्जनप्रकारः।

३ अनुयाजलक्षणम्।

४ प्रयाजानुयाजयोर्गुणकथनम्।

५ अनुयाजानां त्रित्व-व्यवस्थापनम्।

६ एकैकं प्रेषितस्य यजनविधानम्।

७ अनुयाजमन्त्राणां स्थलविशेषे क्वचिदवसानपूर्ब्बकं क्वचि-च्वानवसानपूर्त्तकं यजनविधानम्।

७ सू॰ अ॰

८ क॰।

१ सूक्त-वाकाय सम्प्रेषितस्य देवतादेशानन्तरम् इदं हविरित्युपस-न्तननम्।

२ उत्तरा अपि देवता आदिश्येदं हविरित्येव-मुपसन्तननम्।

३ द्विदैवतबहुदैवतयोरर्थवशेनाकृतेत्यस्यस्थाने अक्रातामक्रतेत्यूहस्य कर्त्तव्यता।

४ आवह स्वाहेति-निगदस्य पशुयागेऽपि प्रयोगः।

५ आवापिकदेवताक्रमप्राप्त्य-र्थम् आवापिकान्तमित्येतदादिकथनम्।

५ सू॰

१ अ॰

९ क॰।

१ शंयुवाकाय प्रेषितस्य तच्छंयोरिति मन्त्रपाठे प्रणवनिषेधः।

२ तादृशप्रेषितायाध्वर्युणा वेददानम्।

३ वेदग्रहणेवेदोऽसीति मन्त्रपाठः।

४ प्रकृतिविकारभावेऽपि कृत्स्नमन्त्र-प्राप्तिः, आज्येन सोमयाग एव याज्यानुवाक्याव्यवस्थापनंयागएव केवलं देवताविशेषाणामनुवृत्तिकथनं च।

५ मन्त्र-भेदानां पत्नीसंयाजसंज्ञाविधानम्।

६ प्रजाकामस्य यज-मानस्य यागभेदः।

७ यजमाने सन्निहितेऽपि होतुरेव कर्तृत्वंयाज्यानुवाक्ययोर्होतृकर्त्तृत्वस्यान्यतः प्रसिद्धिः, कुहूमह-मिति मन्त्रपाठे यजमानस्य स्वयंकर्तृत्वं च।

८ पाणि-तलस्थाज्यरूपेडोपह्नानानन्तरं तद्भक्षणविधिः।

९ आज्ये-डाया ऊर्द्ध्वं शंयुवाको मवति न वेति संशये इतिकर्त्तव्यता-विधानम्।

९ सू॰

१ अ॰

१० क॰।

१ होत्राऽध्वर्युणा वा पत्न्यैवेदं प्रदाय वेदोऽसीत्यादि--कामायेत्येवमन्तमन्त्रवाचनम्।

२ प्रजाकामायाः पत्न्या वेदशिरसा स्वनाभ्यालम्भनम्।

३ कामनाभावे वाचनानन्तरं योक्त्रविमोकः।

४ द्विगुणितंयोक्त्रं निधाय तस्योपरिष्टात् वेदतृणानां निधानम्।

५ तृणेभ्यः पुरस्तात् वेदतृणसंश्लिष्टस्य पूर्णपात्रस्य निधानम्।

६ आत्मानमभिभृशतीं पत्नीमभिशमृतः पूर्णमसीति मन्त्रवाच-नम्।

७ पूर्ण्णपात्रादुदकं गृहीत्वा तदुदुक्षन् तां चैवं कुर्वतींवाचयतीत्युक्तिः।

८ योक्त्रस्याधस्तात् पत्न्यञ्जलिमुत्तानमात्मनश्चसव्यं पाणिमुत्तानं निधाय पूर्ण्णपात्रं निनयन् माहं प्रजा-[Page0849-a+ 38] मिति तां वाचयतीत्युक्तिः।

९ वेदतृणानि गृहीत्वा गार्हपत्या-दारभ्य तन्तु तन्वन्नित्यादिना सन्ततं स्तृणन् आहवनीयंगच्छतीत्युक्तिः।

१० सर्व्वाणि वेदतृणानि न स्तरितव्यानिनियमेन शेषितव्यान्युत्तरक्रियार्थमित्युक्तिः।

११ श्रौता-तिरिक्तेषु गार्ह्येष्वपि मन्त्रसाध्येषु कर्म्मसु स्वाहाकारस्यैवकर्त्तव्यत्वं न वषट्कारस्येत्युक्तिः।

१२ अविहितविशेषाणांहोमाभ्याधानोपस्थानानां, तत्तदितिकर्त्तव्यताप्रकारस्य चविधानम्।

१३ एकमन्त्राणि कर्म्माणीति न्यायेन व्याहृ-तिमिरिति बहुवचननिर्देशात् चतुर्णां कर्म्मणां क्रमेणैवकरणम्।

१४ प्रयोगमध्ये मार्गान्तरेण निष्क्रान्तस्यापिनियमा भवन्त्येवेत्यस्य व्यतिरेकमुखेण व्यवस्थापनम्।

१५ संस्थाजपः तस्य च सोमेष्टिषुनिषेधः।

१६ होतुरेव केवल-मेतावत्त्वम् अग्नीध्रस्यान्यदपीत्युक्तिः।

१६ सू॰

१ अ॰

११ क॰।

१ ब्रह्माधिकारे विधयः।

२ व्याख्यातानां होत्राचमन-यज्ञोपवीतशौचानां ब्रह्माधिकारेऽतिदेशनम्।

३ तत्र कर्म्मसुकश्चिद्गच्छति कश्चित्तिष्ठति तत्र भूयसामेव धर्म्मस्याचरणंब्रह्मणः इति व्यवस्थापनम्।

४ बहिर्वेदि ऋत्विजामभिमुखा-यादिशः प्राचीत्वोक्तिः।

५ एकस्मिन्नपि प्रयोगे क्वचिदासनस्यक्वचित् स्थानस्य च लाभोक्तिः।

६ तिष्ठतां होमेषु अव-षट्कारेषु च स्थानासनयोर्विकल्पः।

७ अनन्तरसूत्रद्वयविष-यादन्यत्रासनकथनम्।

८ समस्तपाण्यङ्गुष्ठस्याग्रेणाहवनीयंपरीत्य तस्य दक्षिणतः कुशेषूपवेशनम्।

९ उक्तोपवेशना-नन्तरं मन्त्रभेदजपः। उक्तजपस्य ब्रह्मजपत्वम्।

११ अध्व-र्युकर्तृकम् उपविष्टातिसर्जनम्।

१२ ओं प्रणयेत्येता-दृशातिसर्जनरूपानुज्ञाप्रकारः।

१३ कर्म्मानुरूपाणाम्आदेशानां कर्त्तव्यतोक्तिः।

१४ उत्तरविवक्षार्थम् उच्चैःप्रणवादिकथनम्।

१५ प्रणवादूर्द्ध्वं वा उच्चैर्भावोक्तिः।

१६ प्रणीताप्रणयनकालादूर्द्ध्वं हविष्कृन्मन्त्रोच्चारणपर्यन्तंवाग्यमनपूर्ब्ब कमासनम्।

१७ पशुयागे चात्वालमार्जन-पर्य्यन्तं वाक्यसंयमः।

१८ सर्व्वसोमेषु धर्म्माभिप्रैषा-रम्भपूर्ब्बकं सुब्रह्मण्यापर्य्यन्त वाङ्नियमः।

१९ प्रात-रनुवाककालात् परम् अन्तर्यामग्रहयागपर्य्यन्तं वाग्य-मनोक्तिः।

२० सवनत्रयेऽपि पुरोडाशप्रचारादि, तदिडा-पर्य्यन्तं वाग्यमनोक्तिश्च।

२१ स्तोत्रादौ स्तुध्वमित्यादि-शस्त्रयाज्यावषट्कारपर्य्यन्तं वाग्यमनोक्तिः।

२२ पव-मानस्तोत्रेषु उपाकरणादि समाप्तिपर्य्यन्तं वाग्यमनोक्तिः

२३ सर्व्वत्र मन्त्रवति कर्म्मणि वाग्यमनोक्तिः।

२४ उक्तादन्यत्रापि विषये होतृतुल्यवाग्यमनभावः। [Page0849-b+ 38]

२५ वाग्यमनभ्रेषे प्रायश्चित्तविधानम्।

२६ अग्नीषो-मीयप्रणयनावधिवाग्यमनम्।

२७ दक्षिणतो ब्रजतएवाशुःशिशान इति सूक्तजपः।

२८ गमनापरिसमाप्तावपिउपवेशनादिकरणं, ब्रह्मजपविधानञ्च।

२९ सोमयागेअग्निप्रणयनान्ते ब्रह्मजपनिषेधः।

३० विसृष्टवाक्यस्यापियज्ञमनस्त्वोक्तिः।

३१ विपर्य्यासान्तरितयोः प्रायश्चित्त-विशेषोक्तिः।

३२ वेदभेदेन भ्रेषेऽग्निभेदे प्रायश्चित्तभेदः।

३३ सर्व्वेभ्यी वेदेभ्यो यूगपद्भ्रेषापाते समस्ताभि-रृग्मिरेकाहुतिरूपप्रायश्चित्तम्।

३४ स्रुगादापनात्प्रागङ्गारस्य बहिःपरिधि पाते कर्म्मभेदः।

३५ तत्रदिग्भेदेन निर्गतौ होमभेदः कर्म्मणि स्वाहाकारान्तत्व-भावः।

३६ अध्वर्ष्वनुप्रहरणोक्तिः

३७ । सहस्रशृङ्गइत्यादिना प्रकृताङ्गारहोमोक्तिः।

३७ सू॰

१ अ॰

१२ क॰।

१ प्राशित्रहरणनिधानपूर्ब्बकं तत्प्राशनम्।

२ इडाभक्षणमार्जनपूर्ब्बकं चतुर्धाकरणे कृते प्राशित्र-हरणे ब्रह्मण आनीतब्रह्मभागस्य निधानम्।

३ प्राशित्रहरणदेशस्य पश्चात् कुशेषु यजमानभागनिधानम्।

४ प्रजापतेरित्यादि मन्त्रेणान्वाहार्य्यावेक्षणम्।

५ अन्ये-नाङ्गेनान्वाहार्य्यावघ्राणविधानं ब्रह्मभागे शिष्टभागविधा-नञ्च।

३ प्रस्थास्याम इति अध्वर्रुमन्त्रपाठानन्तरं प्रति-ष्ठेत्येवानुज्ञोक्तिः।

७ समिदनुज्ञानं, जघन्यीभवतःसर्वप्रायश्चित्तहोमः, आग्नीध्रस्य ब्रह्मान्वारम्भणं च।

८ इतरेषां होत्रारम्भणविधिः।

९ उक्तयोरेतयोर्होमएव कार्य्ये अन्वारम्भस्य परस्परभावः।

१० सर्वेषां होम-कर्तॄणामन्वारम्भकर्तॄणां च संस्थाजपेन उपासनविधा-नम्।

१० सू॰

१ अध्याये

१३ क॰। (

१ पौर्ण्णमासेनेष्टिपशुसोमानामुपदिष्टत्वम्।

२ उप-दिष्टैरिष्टिपशुसोमैरमावास्यायां पौर्ण्णवास्यां वा यागस्यकर्त्तव्यत्वोक्तिः।

३ क्षत्रियवैश्ययोः पर्व्वणोरेवाग्नि-होत्रहोमकर्त्तव्यताविधानम्।

४ राजन्यवैश्ययोःपर्व्वेतरेषु कालेषु तपस्विब्राह्मणायौदनदानम्।

५ ऋत-सत्यस्वभावस्य सोमयाजिनश्च क्षत्रियस्य वैश्यस्य वा सदाहोमविधानं न केवलं पर्व्वणोरित्युक्तिः।

६ बहूनांसमानानां पश्चाद्विधाने सति क्रमेण सम्बन्धोक्तिः।

७ एकस्या एकस्या देवताया द्वे द्वे ऋचौ याज्यानु-वाक्ये।

८ देवताविशेषस्य तल्लिङ्गयाज्यानुवाक्यानादेशेनित्ययोस्तयोर्ग्रहीतव्यत्वोक्तिः।

९ कर्म्मानुष्ठानभूता-नामग्न्याधेयप्रभृतीनां मध्ये गार्हपत्याद्यग्न्युत्पत्त्यर्थमङ्गार-[Page0850-a+ 38] निधानरूपाग्न्याधानम्।

१० कृत्तिकादीनां सप्तानांनक्षत्राणामन्यतमेऽग्न्याधानविधानम्।

११ उक्तानांसप्तानां कस्मिंश्चित् नक्षत्रे पर्व्वणि वाऽग्न्याधानस्यकर्त्तव्यत्वम्।

१२ वसन्ते ब्राह्मणगुणकाधानविधिः।

१३ ग्रीष्मे क्षत्रियगुणकं वर्षासु वैश्यगुणकं शरदि उप-क्रुष्टगुणकं चेति आधानत्रयविधानम्।

१४ आपदिआधानपक्षे कालनियमाभावः।

१५ कृतसोमयाग-सङ्कल्पस्य आधानमिच्छत आधानकालानवेक्षणम्।

१६ आधानार्थमध्वर्युयजमानयोःशमीगर्भादश्वत्थादरण्या-हरणविधिः।

१७ अग्न्याधेयस्य पूर्णाहुत्यन्तस्य कर्त्त-व्यत्वम्।

१८ इष्टीनामग्निसाधनत्वोक्तिः।

१९ प्रथ-मायामिष्टौ केवलाग्निपवमानाग्निनामके द्वे देवते।

२० पवमानगुणकस्य द्वितीयस्याग्नेर्याज्यानुवाक्योक्तिः।

२१ स्विष्टकृत्सम्बन्धिन्योर्याज्यानुवाक्ययोरृचोः संयाज्यात्वसं-ज्ञा।

२२ सर्वत्र देवतागमे प्राकृतीनां सर्वासां देवताना-मुद्धारोक्तिः।

२३ आज्यभागौ स्विष्टकृतं चान्तरायष्टव्यानां देवतानामुद्धर्त्तव्यत्वं विकृतौ पुनर्विहितानांतद्धर्मिकत्वञ्चेति।

२४ देवताभ्योऽन्यत्रापि अतिदिष्टस्यविधेरेककार्य्यत्वोक्तिः।

२५ द्वितीयायामिष्टौ पावकाग्नि-शुच्यग्निनामिके द्वे देवते।

२६ साह्वानित्यादेरृग्-द्वयस्य संयाज्यात्वकथनं, तृतीयायामिष्टौ अधिकसामि-धेनीद्वयोक्तिः।

२७ अग्नीषोमाविन्द्राग्नी विष्णु-रित्यस्य वैकल्पिकत्वम्।

२८ अदितिनामिका इष्टिः।

२९ अदितीष्टेर्याज्योक्तिः।

३० प्रेद्धो अग्न इमोअग्न इत्यनयोः संयाज्यात्वोक्तिः विराजौ धाय्येइत्युक्तिश्च।

३१ आद्योत्तमे इष्टी।

३२ आद्या वा इष्टिः।

३३ आद्यायां धाय्याविराजौ।

३४ वैराजतन्त्रायाइष्टेर्ज्ञापनम्।

३५ आधानेनेष्टिभिश्च सिद्धा अग्नयोद्वादशाहोरात्रं सर्वे स्वरूपेणैव धार्यन्ते इत्येतदजस्रधार-णोक्तिः।

३६ गतश्रियामग्नयो यावज्जीवमजस्रा भवन्ति नद्वादशाहमेवेत्युक्तिः।

३६ सू॰

२ अ॰

१ क॰।

१ गार्हपत्यात्ज्यलदाहवनीयोद्धरणम्।

२ देवं त्वेति मन्त्रेणाग्निहोत्रार्थ-मुद्धरणम्।

३ आहवनीयं प्रति मन्त्रपूर्ब्बकाग्निप्रणयनमन्त्रः।

४ आहवनीयायतनेऽग्निनिधानमन्त्रः।

५ सायं प्रातरूषःकालेषुनिधानान्तकर्म्मकरणम्।

६ रात्र्यां यदेन इति मन्त्रेणा-ग्निप्रणयनम्।

७ आहिताग्नेर्व्रतचारित्वोक्तिः।

८ अनु-दितहोमिन ओदयाद्व्रतचारित्वोक्तिः।

९ अस्तमन-समये होमविधानम्।

१० आचमनस्य नित्यत्वम्। [Page0850-b+ 38]

११ अग्निपर्य्युक्षणमन्त्रोदकादानविधिः पर्य्युक्षणे अग्नी-नामुत्पत्तिक्रमस्य होमक्रमस्य वा विधानम्।

१३ दक्षि-णाग्निगार्हपत्याहवनीयपर्य्युक्षणे क्रमोक्तिः।

१४ गार्हपत्या-दविच्छिन्नोदकधाराहरणम्।

१५ अधिश्रयणार्थं गार्हपत्यात्कतिपयाङ्गारपृथक्करणविधिः।

१६ होमसाधनभूताग्निहो-त्राधिश्रयणम्।

१७ अधिश्रयणे मन्त्रविकल्पः।

१८ दध्यधिश्र-यणानधिश्रयणविकल्पः

१८ सू॰

२ अ॰

२ क॰।

१ अकाम-कर्तृकस्य नित्याग्निहोत्रहोमस्य पयसा कार्य्यता।

२ ग्रामा-न्नाद्येन्द्रियतेजस्कामानां यवाग्वोदनदधिसर्पींषि यथासङ्ख्य-मग्निहोत्रद्रव्याणि भवन्तीत्युक्तिः।

३ कालविक्षेपं विनाअधिश्रितमात्र एवावज्वलनविधानम्।

४ अपक्वद्रव्यदध्या-दीनामधिश्रितानामप्यवज्वलनविधिः।

५ पयसा होमे सम-न्त्रक दोहनपात्रप्रक्षालनपूर्वं स्रुवेण प्रतिषेकविकल्पः।

६ एक-स्मिन् पुरुषे प्रतिषेकाप्रतिषेकयोरसङ्करत्वोक्तिः।

७ अव-ज्वलनार्थं मन्त्रपूर्वकं गार्हपत्यात् गृहीतेनोल्सुकेन पुनःपरिहरणविधानम्।

८ पच्यमानपयोऽवतारणमन्त्रः।

९ गार्हपत्येऽङ्गाराणां प्रक्षेपमन्त्रः।

१० आहिताग्नेर-तिसर्ज्जनमन्त्रः।

११ आहिताग्नेः पत्न्याश्च इति-कर्त्तव्यताकलापः।

१२ अतिसृष्टस्योन्नयनविधिः।

१३ पुत्राणां तारतम्यमिच्छतः सपुत्रस्य यजमानस्यकाम्यकल्पः।

१४ एकपुत्रस्यापि काम्यकल्पः।

१५ समि-द्धरणानन्तरं समन्त्रकं तदाधानविधानम्।

१६ समिदा-धानानन्तरम् आचमनपूर्वकं तदवधिहोमविधानम्।

१७ पूर्वा-हुत्यनन्तरं कुशेषु स्रुक्सादनतूर्वकं गार्हपत्यावेक्षणम्।

१८ पूर्व्वाहुतेः प्रागुदक् उत्तरतो वा उत्तराहुत्यर्थंद्रव्योत्पादनविधानम्।

१९ होमेषु सर्व्वत्र प्रजापतिध्यान-विधानम्।

२० भूयिष्ठद्रव्यपूर्ण्णस्रुक्कम्पनानन्तरं तद्ग-तलेपवमर्जनं पाणितलगतलेपमार्जनञ्च।

२१ लेपनिमा-र्जनकुशमूलानां दक्षिणत उत्तानाङ्गुलिनिधानम्।

२२ कु-शमूलानां दक्षिणतो जलावनिनयनविधानम्।

२३ स्रुङ्-निधानानन्तरं जलोपस्पर्शनम्।

२४ आहिताग्निकर्तृकानु-मन्त्रणविधानम्।

२५ समन्त्रकमाधीयमानसमिदनुमन्त्रणम्।

२६ ता अस्येत्यृचा पूर्वाहुत्यनुमन्त्रणम्।

२७ समीपस्थेनसकटाक्षमीक्षित्याहुत्यनुमन्त्रणम्।

२८ याभिः काभिश्चत्र्यवराभिराग्नेयीभिरृग्भिरुत्तराहुत्यनुमन्त्रणम्।

२९ पूर्व-सूत्रोक्तस्य ऋचां त्रयस्य निरूपणम्

२९ सू॰

२ अ॰

३ क॰।

१ पूर्णेपूर्णे संवत्सरेऽधिकाभिरृग्भिः सकृदनुमन्त्रणम्।

२ पर्वविहितयवाग्वादिना सायम्प्रातर्होमेषु यजमानस्य स्वयं[Page0851-a+ 38] कर्तृत्वम्।

३ पूर्णसंवसत्सरेतरकाले येन केनापिऋत्विजाग्निहोत्रहोमः।

४ पुत्रशिष्ययोरन्यतरेणान्ते-वासिना होमस्तद्गतविशेषश्च।

५ होमकर्त्तुः स्रुग्ग-तशेषभक्षणप्रकारः।

६ अपरर्त्विजोहोमपूर्वकं स्रुग्गतशेष-भक्षणम्।

७ प्रथमोत्तरभक्षणद्वये मन्त्रभेदौ।

८ समि-दाधानपूर्वको गार्हपत्ये होमविधिः।

९ उत्तराहुते-र्नित्यत्वोक्तिः।

१० समिदाधानपूर्वकं दक्षिणाग्निहो-मप्रकारः।

११ उत्तराहुतेः पूर्ववत् नित्यत्योक्तिः।

१२ उक्तशेषभक्षणानन्तरं स्रुचाऽपां निनयनम्।

१३ स्रुक्-प्रक्षालनानन्तरं प्रागुदीच्योः चतुर्णां पूर्णानां स्रुचांनिनयनीयत्वम्।

१४ कुशदेशे पञ्चमी स्रुक् गार्हपत्यस्यपश्चात् षष्ठीत्युक्तिः।

१५ आहवनीये प्रतापितायाः स्रुचो-ऽन्तर्वेदिदेशे निधानम्।

१६ परिचारकरूपाय परिक-र्म्मिणे वा तादृश्याः स्रुचोदानम्।

१७ उदङ्मुखेनसमित्त्रयस्याधानं पर्य्युक्षणादिकरणञ्च।

१८ तिसृणां समिधांप्रथमायाः समन्त्रकाधानम्।

१९ आवहनीयगार्हपत्यदक्षि-णाग्निषु दीदिहि दीदाय दीदिदायेति मन्त्राणां क्रमेणस्वाहान्तानां पाठ्यत्वम्।

२० उक्तकार्ये पूर्ववत् पर्य्युक्षण-विधानम्।

२१ पर्य्युक्षणद्वयधर्म्मस्य परिसमूहनद्वयेऽतिदेशः।

२२ पर्य्युक्षणाभ्यां परिसमूहनयोः पूर्ब्बभावोक्तिः।

२३ सायं-प्रातरुभयत्राग्निहोत्रहोमयोरेकाकारत्वम्।

२४ सूर्य्योदयस-मीपकालशेषकालादित्योदयकालानां प्रातर्होमस्य प्रधानका-लत्वम्।

२५ प्रातर्होमे विशेषोक्तिः

२ अ॰

४ क॰।

१ प्रवत्स्यतआहिताग्नेरग्निप्रज्वालनाचमनाभिक्रमानन्तरं तदुपस्था-नम्।

२ दक्षिणाग्न्यु पासनानन्तरं समन्त्रकं गार्हपत्याहव-नीयेक्षणविधानम्।

३ आहवनीयदक्षिणाग्न्युपासनपूर्वकंगार्हपत्याहवनीयेक्षणं कृत्वाहवनीयसमीपं गत्वा तदु-पस्थानम्।

४ पृष्ठतोऽग्नीननवेक्षमाणस्याहिताग्नेर्यथेष्ट-गमनम्।

५ अग्निसमीपं गत्वा वाग्विसर्गविधानम्, इतःप्राक् वाग्यमविधानञ्च।

६ अभिलषितदेशगामिनंपन्थानं प्राप्य सदा सुगः पितुरिति मन्त्रपाठः।

७ यदि दैवात् मानुषाद्वा निमित्तात् अनुपस्थिताग्नेःप्रोषितस्य इहैवेति मन्त्रपूर्व्वकं प्रतिदिशमग्न्युपस्था-लम्।

८ प्रोष्य स्वग्रामसमीपं प्राप्य अपि पन्थामितिमन्त्रपाठः।

९ समित्प्राणेर्वाग्यतस्याहिताग्निज्वलनज्ञाना-भिक्रमपूर्वकम् आहवनीयेक्षणम्।

१० नानाग्निषु समिधउपनिधायाहवनीयोपस्थानम्।

११ उपनिहितानां समि-धामभ्याधानम्।

१२ दक्षिणाग्निसमीपे स्थितस्याहिता-[Page0851-b+ 38] ग्नेः गार्हपत्याहवनीयेक्षणविधानम्।

१३ वाग्विसर्गस्यप्रकारभेदः।

१४ दशरात्रादूर्द्ध्वं प्रोष्य चतुर्गृ-हीतेनाज्येन प्रायश्चित्तहोमः।

१५ एकानेकाग्निहोत्रवि-च्छेदे पूर्वोक्तयाहुत्या होमविधानम्।

१६ उक्ताहुति-होमानन्तरं प्रतिहोमविधानम्।

१७ अनाहिताग्नेरपिईक्षणप्रपदनयोः कर्त्तव्यत्वविधानं न केवलमाहिताग्नेस्त-दित्युक्तिः।

१८ प्रवासादागतस्य तदहनि विदितस्याप्यलीकस्यन निवेदनीयत्वम्।

१९ प्रवासादागतस्याहरहरग्निहोत्र-होमोपस्थानं तत्स्थानं तत्प्रयोगक्रमश्च

२ अ॰

५ क॰।

१ अमावास्यायामपराह्णे पिण्डपितृयज्ञविधानम्।

२ दक्षिणाग्नेरेकोल्मुकं गृहीत्वा तस्मादेव प्राग्दक्षि-णायां दिशि मन्त्रपूर्वकं तत्प्रणयनम्।

३ अविशिष्ट-दिक्कानां सर्व्वेषां कर्म्मणां प्राग्दक्षिणां दिशमभि-कर्त्तव्यत्वम्।

४ उभयोरपि अग्न्योरुपसमाधानपरिस्तर-णपूर्व्वकं दक्षिणाग्नेः प्रागुदक् प्रत्यगुदग् वा एकैकशःचरुस्थालीप्रभृतीनां यज्ञपात्राणां सादनम्।

५ अग्निसमी-पस्थितं शकटं दक्षिणत आरुह्य शूर्पोपरि व्रीहिपूर्ण-स्थालीनिमार्जनरूपतदास्यदेशाद्व्रीहिपातनम्।

६ स्थाल्या-स्यदेशात् शूर्पोपरि पातितानां व्रीहीणां शकटे निधा-नम्।

७ कृष्णाजिननिहिते उलूखले स्थाल्यन्तर्गताव-शिष्टान् व्रीहीन् कृत्वा यजमानपत्नीकर्तृकस्तदवघातः।

८ अवहतानां व्रीहीणां दक्षिणाग्नो श्रपणम्।

९ दक्षि-णाग्न्यतिप्रणीतयोरन्तराले रेखोल्लेखनम्।

१० सकृदाच्छि-न्नावस्तीर्ण्णाभ्युक्षितरेखायां ध्रुवास्थितमाज्यं दक्षिणतोदक्षिणाग्नेर्निधाय तेनाज्येन अभिघारितस्य स्थाली-पाकस्य दक्षिणाग्नेः पश्चादासादनम्।

११ आञ्जना-दीनां दक्षिणाग्नेर्दक्षिणतो निधानम्।

१२ प्राचीना-वीतिनो यजमानस्य उपसमाहितैरिघ्मैर्म्मेक्षणेन गृही-तैरवदानसम्पदा होमः।

१३ स्वधानमःशब्दस्य स्थानेस्वाहाकारं कृत्वा होमः।

१४ अग्नौ मेक्षणानुप्र-हरणपूर्वकं पिण्डस्थानेषु लेखायां त्रिभिर्मन्त्रैस्त्रि-र्निनयनम्।

१५ रेखायां पिण्डनिपरणम् (दानम्)।

१६ गाणगारिमते पित्रादीनां त्रयाणां ये मृताः स्युस्तेषांपिण्डदानं जीवतां प्रत्यक्षार्चनम्।

१७ तौल्वलि-मते पित्रादिभ्यस्त्रिभ्यः प्रेतेभ्यो जीवद्भ्यश्च सर्वेभ्योनिपरणम्।

१८ गौतममते त्रयाणामेकस्मिन् द्वयोः सर्वेषुवा जीवत्सु यावदर्थं परान् पितॄन् गृहीत्वा त्रिभ्यःप्रेतेभ्यः पिण्डनिपरणम्।

१९ पित्रादोनां जीवितानां[Page0852-a+ 38] मृतानाञ्च पिण्डदाने उपायविशेषकथनप्रतिज्ञा।

२० क्र-मेण गौतमगाणगारितौल्वलीनां मतदूषणाति।

२१ जी-वव्यवहितेभ्यः पितृभ्यो न निपरणम्।

२२ जीवेभ्योहोमः मृतेभ्यो निपरणम्।

२३ सर्व्वजीविनः सर्व-हुतविधाने तत्र पिण्डहोमस्य निपरणमन्त्रेण स्वाहा-कारेण कर्त्तव्यत्वम्, अन्येषामपि प्रयोजनानां चिन्त्य-नीयत्वञ्च।

२४ पित्रादीनां नामाज्ञाने तत्पितामह-प्रपितामहशब्दानां नामस्थाने प्रयोगः।

२ अ॰

६ क॰।

१ निपूर्त्तानां पिण्डानामनुमन्त्रणम्।

२ उक्तानुमन्त्रणप्रयोगेनियमोक्तिः।

३ तूष्णीमेव चरोः प्राणभक्षणस्य कार्यत्वम्।

४ उदकोपनयननिनयनस्य नित्य कर्तव्यत्वम्।

५ पिण्डेषु अभ्य-ञ्जनाञ्जनदानम्।

६ पिण्डेषु वासोदानं तत्र विशेषोक्तिः।

७ यजमानस्य पित्रुपासनं तत्र मन्त्रश्च।

८ तिसृभि-रृग्भिः पित्रुपस्थानम्।

९ पिण्डस्थानां पितॄणांप्रवाहणम्।

१० यजमानस्य दक्षिणाग्निं प्रति गतिः।

११ दक्षिणाग्निप्रतिगत्यनन्तरं यजमानस्य गार्हपत्याग्निंप्रति गतिः।

१२ यजमानकर्तृकं पिण्डानां मध्यमादानम्।

१३ पत्नीकर्घृकं तादृशगृहीतमध्यमपिण्डप्राशनम्।

१४ अवशिष्टपिण्डद्वयस्याप्सु प्रक्षेपः।

१५ अतिप्रणीतेवाऽग्नो प्रक्षिप्य तादृशपिण्डद्वयदाहः।

१६ यस्या-न्नेच्छाभावोनिर्निमित्तः ताद्वशेन पिण्डस्य प्राशनम्।

१७ क्षयकुष्ठादिमहारोगवतः तादृशपिण्डाशने सद्य एवा-रोगित्वमरणयोरन्यतरगतिलाभोक्तिः।

१८ अनाहिता-ग्नेरप्येवं पिण्डपितृयज्ञकरणम्।

१९ चरुश्रपणानन्तरंतदतिप्रणयनं ततस्तदुपसमाधानतत्परिस्तरणे कृत्वाहोमकरणम्।

२० द्विशः चरुपूर्णपात्राणामुत्सर्गः।

२१ एकस्यातिरिक्तस्य तृणेन द्वित्वं सम्पाद्य तदुत्सर्ग-करणविधानम्।

२ अ॰

७ मक॰।

१ दर्शपूर्णमासा-वारप्स्यमानस्यान्वारम्भणीयेष्टिकरणम्।

२ अग्नेर्भगीति-गुणोक्तिः।

३ इष्टेर्याज्यानुवाक्योक्तिः।

४ आधा-नानन्तरं तत्संवत्सरे रोगार्थहानिरूपनिमित्तसद्भावेपुनराधेयस्य, पुनराधेये च वक्ष्यमाणाया इष्टेः कर्त्तव्य-त्वम्।

५ उक्तायामिष्टौ विभक्तिभिः सहिताभ्यां प्रयाजानु-याजाभ्यां यजनम्।

६ नराशंसिनां नराशंसः।

७ आग्नेययोराज्यभागयोरुक्तिः।

८ आज्यभागयोर्गुण-द्वयोक्तिः।

९ निगमेषु सगुणयोरेवानुवृत्त्युक्तिः।

१० याज्यायां देवतादेशरूपाया इज्यायाः कथनम्।

११ अनुब्राह्मणिनामाचार्याणां मते पूर्व्वस्य केवल-[Page0852-b+ 38] स्याग्नेः, अग्निर्वृत्राणीत्यनुवाक्यायाश्च नित्यत्वम्।

१२ उक्त-मते उत्तरस्यापि केवलस्याग्नेरुक्तानुवाक्याया नित्यत्व-विधानम्।

१३ उत्तरे याज्यामन्त्रे हविःशब्दस्य नित्य-त्वोक्तिः।

१४ संयाज्यामन्त्रभेदः।

२ अ॰

८ क॰।

१ व्रीहिश्यामाकयवैः संवत्सरे प्रथमनिष्पन्नैः आग्रयण-कर्मकरणम्।

२ आग्रयणेनानिष्ट्वा नवनिष्पन्नस्य भोजन-निषेधः।

३ वर्षतृप्तस्य लोकस्य आग्रयणेन यागविधानंव्रीह्याग्रयणे शरत्कालस्य प्राधान्यम्।

४ आग्रय-णाख्या इष्टिः प्रथमः कल्पः, तदसम्भवेऽग्निहोत्रीयांधेनुं व्रीहिश्यामाकयवानामन्यतममाशयित्वा तत्प-यसा सायंप्रातरग्निहोत्रहोम इति द्वितीय इतिकल्पद्वयम्।

५ यवैराग्रयणस्य क्रियाऽक्रिया वा इतिविकल्पः।

६ अविशेषेण वर्णत्रयाणां कल्पद्वये प्राप्रेराज्ञ इष्टिरेव नान्य इति विशेषोक्तिः।

७ एकेषां मतेसर्वेषां इष्टिरेवेति व्यवस्थापनम्।

८ वर्षायां श्यामा-काग्रयणेष्टौ सोमदैवत्यचरुव्यवस्थापनम्।

९ अवान्तरे-डाजपानन्तरम् सव्ये पाणौ कृत्वा तदभिमर्शनम्।

१० इडाप्राशनानन्तरम् आचमनपूर्वको नाभ्यालम्भः।

११ उक्तेन विधिना सर्बभक्षेषु सर्व्वेषां भक्षिणां सर्वभक्षणम्।

१२ व्रीहीणां यवानां चाग्रयणेष्टौकालादि तत्र यवाग्रयणस्यवसन्तकालविधानम् ध्याय्याविराजग्रहणञ्च।

१३ श्यामाका-ग्रयणस्य समानतन्त्रेण करणेसोमस्य तृतीयत्वव्यवस्थापनम्।

१४ तत्र इन्द्राग्न्योः सोमस्य च याज्यानुवाक्याः।

२ अ॰

९ क॰।

१ चातुर्मास्येभ्यः पूर्वं काम्या इष्टयः।

२ आयुष्का-मेष्ट्यां जीवातुमत्यौ द्वे देवते अग्निरिन्द्रश्च।

३ उक्तयो-र्देवतयोरग्नेरायुष्मन्त्वं गुणः, इन्द्रस्य च त्रातृत्वं गुणः।

४ आयुष्कामेष्ट्याम् अग्नीन्द्रयोर्देवतयोः संयाज्ये।

५ स्व-स्त्ययनीयेष्ट्यां रक्षितवन्तौ देवौ अग्निः सीमश्च।

६ उक्त-योरग्नीषोमयोः संयाज्ये।

८ पुत्रकामेष्टौ अग्निः पुत्रीदेवता।

९ उक्तायामिष्टौ द्वे संयाज्यो।

१० वक्ष्यमाश्च-योरिष्ट्योरग्निदेवतात्वम्।

११ मूर्द्ध्वन्वतोऽग्नेर्नित्ये संयाज्ये।

१२ कामगुणकस्याग्नेर्याज्यानुवाक्ये।

१३ उत्तरयो-रिष्ट्योर्वेमृध्यत्वं, तयोर्याज्यानुवाक्यायुगलयोर्वक्ष्यमाण-योरिन्द्रदेवतात्वं, तस्य चेन्द्रस्य विमृस्यद्गुणकत्वं वैमृध्य-र्थगुणकत्वं वा, अतस्तयोर्वैमृध्यसंज्ञाभाक्त्वञ्च।

१४ पुष्टि-कामस्य याज्यानुवाक्ये।

१५ इन्द्रो दाता स पुन-र्दाता वा देवता भवति।

१६ उभयथापि इन्द्रस्य या-ज्यातुवाक्ये।

१७ आशानामाशापालानां वा देवता-[Page0853-a+ 38] त्वम्।

१८ आशाशापालानां याज्यानुवाक्यासाम्यम्।

१९ इष्टिविशेषस्य लोकेष्टिसंज्ञोक्तिः।

२० पृथिव्यादीनां पृथ-ग्देवतात्वकथनम्।

२१ त्रयाणां हविषां याज्यानुवाक्यारू-पास्तिस्रऋचः।

२२ त्रयाणां हविषां तिसृणाम् ऋचां विनि-वेशनम्

२ अ॰

१० मक॰।

१ मित्रलब्धिहेतुभूता महावैराजीनामेष्टिः।

२ महावैराज्यामग्न्यादीनां दशानां देवतात्वम्एकप्रदानत्वञ्च।

३ उक्तानां दशानां देवतानामनु-वाक्योक्तिः।

४ प्रतिलोममादिष्टानामुक्तानां दशानांयजनम्।

५ अष्टौ वैराजतन्त्रा इष्टयः।

६ तासांप्रथमाः षडिष्टय एकहविषः।

७ स्नुषाश्वशुरीया नामआभिचारिकी इष्टिः।

८ स्नुषाश्वशुरोयेष्टौ याज्या-वाक्यालिङ्गात् देवतायाः कल्पनीयत्वं, सा चेन्द्रः इन्द्रःसूरगुणो वेति।

९ पूर्वोक्ताया देवतायाः संयाज्ये।

१० स्वामिभृत्ययोः सम्मतिकामानां संज्ञानी नाम इष्टिः।

१ संज्ञान्यां चतसृणां गुणानां देवतानाम् एकप्रदान-त्वम्।

१२ अग्निसोमेन्द्रादित्यानां सगुणानां देवतानांप्रतिपादनम्।

१३ भेदकामानाम् ऐन्द्रामारुती इष्टिः।

१४ इन्द्रस्य नित्ये याज्यानुवाक्ये।

१५ इन्द्रमरुतो-र्विकल्पविधानम्।

१६ मारुताद्यागादूर्द्धम् ऐन्द्रो यागः।

१७ राजविशीरसम्पत्तिकामानाम् आहिताग्नीनां च प्रकृ-त्यैव संज्ञानी नामेष्टिः।

१८ शत्रुभिः प्रधृष्यमाणानाम्एन्द्रावार्हस्पत्या नाम इष्टिः।

१९ अध्वर्यवश्चेत् ऐन्द्रा-वार्हस्पत्यं निरुप्य इन्द्राय नोदयेयुः यद्वा वार्हस्पत्यंनिरुप्य इन्द्राय नोदयेयुः तदा उभयोरपि पक्षयोःयाज्यानुवाक्यासाम्यम्

१९ सू॰।

२ अ॰

११ क॰।

१ संवत्सरमतिप्रवसतः शुद्धिकामस्य पवित्रेष्टिविधानम्।

२ पवित्रेष्टौ पावकवत्यौ धाय्ये।

३ पवित्रेष्टौ न याज्ये।

४ पवित्रेष्टौसंयाज्ये।

२ अ॰

१२ क॰ वर्षकामाणां कारीरीनामेष्टिः।

२ कारीर्यां धाय्याद्वयम्।

३ वर्षकामेष्टिमात्रे-ऽप्सुमन्तौ गायत्रौ देवौ।

४ वर्षकामेष्टिमात्रेऽग्नेः सो-मस्य च मन्त्रभेदः।

५ उक्तेष्टिसात्रे धामच्छद्गुणको-ऽग्निः।

६ उत्तरास्तिस्रो मरुद्देवत्याइष्टयः पिण्डी-संज्ञकाः।

७ घामच्छद्गुणकस्याग्नेर्याज्यानुवाक्याद्वयस्य व्यव-स्थया योजनीयत्वम्।

८ पिण्डीयागस्य करणम्

९ संस्थितायामिष्टौ सर्वासां दिशाम् उपासनम्

२ अ॰

१३ क॰।

१ इष्ट्ययनसंज्ञकानि कर्म्माणि।

२ एका-नेकसंवत्सरसाध्यानि सांवत्सरिकाणि कर्माणि।

३ सांव-त्सरिकाणां कर्म्मणां फाल्गुन्यां पौर्ण्णमास्यां चैत्र्यां वा[Page0853-b+ 38] प्रयोग।

४ तुरायणं नाम इष्ट्ययनम्।

५ अहन्यहनि अग्नि-देवत्या इन्द्रदेवत्या विश्वदेवदेवत्या चैतास्तिस्र इष्टयः त्रिषुसवनेषु यथासङ्ख्यम् एकैकेष्टेः कार्य्यत्वञ्च।

६ त्रिहवि-ष्काया एकस्या एवेष्टेरुक्ताभिर्देवताभिर्युक्तायाः प्रतिदिनम्प्रातःसवन एव कर्त्तव्यत्वम्।

७ दाक्षायणयज्ञे पौर्ण्ण-मास्यामावास्ययागद्वयम्।

८ आवृत्तयोः पूर्व्वे ये तेनित्ये न विकृते।

९ उत्तरयोस्तु एष विकारो यत्पौर्ण्णमास्यां द्वितीयं हविस्तस्य ऐन्द्रत्वम्।

१० अमा-वस्यायां द्वितीयस्य हविषो मेत्रावरुणत्वम्।

११ प्रतिपर्व्व-कर्त्तव्यं प्राजापत्यम् इडादधो नामेष्ट्ययनम्।

१२ द्यावा-पृथिव्योरयनं नामेष्ट्ययनम्।

१३ उक्तस्य इष्ट्ययनस्यकालविधाम्।

१४ एतच्छास्त्रानाम्नातास्विष्टिषुपौर्ण्णमासात्तन्त्रान्यत्वविधानम्।

१५ यजुर्वेदएव प्रकृतं तन्त्रं नान्य-दपरमिति।

१६ अग्निमन्थनसंयुक्तायामिष्टौ वैराजमेवतन्त्रम्।

१७ अग्निमन्थने सत्यपि धाय्ये एव केवले तन्त्रंन तदन्यत्।

१८ याज्यानुवाक्यास्वरूपोक्तिः।

१९ अनुवाक्यालक्षणोक्तिः।

२० असम्भवे विहितच्छन्द-सोऽन्यस्य वा याज्यानुवाक्यानां कर्त्तव्यत्वम्।

२१ सर्वथा-ऽनुवाक्यापेक्षया याज्याया न ह्रसीयस्त्वम्।

२२ उष्णि-ग्वृहत्योर्न याज्यात्वम्।

२३ क्षामनष्टहतदग्धवतीनां वर्ज-नम्।

२४ देवतासदसत्त्वे न लक्षणान्तरान्वेषणम्।

२५ देव-तापदेऽव्यक्ते लक्षणस्य गायत्र्यादेराश्रयणीयत्वम्।

२६ देव-तानामानधिगमे शाखान्तरादाहर्त्तव्यत्वोक्तिः।

२७ सर्व्व-थाऽनधिगमे याभ्यां काभ्याञ्चिदृग्भ्यां यागोऽनुवच-नञ्च।

२८ व्याहतिभिर्वा यागानुवचने।

२९ द्वितीययाविभक्त्या देवतामादिश्य प्रणवनं यजनञ्च।

३० नम्रसंज्ञा-भ्याम् ऋग्भ्यां वा प्रणवनयजने।

३१ नम्रसंज्ञके ऋचौ।

३२ देवतापदरहिते ऋचौ भवत इति।

२ अ॰

१४ क॰।

१ अग्निदैवत्ये चातुर्भास्याख्येष्ट्ययनस्यारम्भार्थं पूर्वेद्यु-र्वैश्वानरपार्जन्याया इष्टेः कर्त्तव्यत्वम्।

२ अग्न्याधेयादीनांउपांशुप्रधानत्वोक्तिः।

३ सोमोत्पन्ना इष्टयः।

४ प्रायश्चित्त{??}करणोत्पन्ना इष्टयः।

५ अन्वायात्यानाम् एक-कपालानाञ्च यागानां उपांशुप्रयोक्तव्यत्वम्।

६ सर्वत्रवा वारुणवर्जम् उपांशुत्वम्।

७ चातुर्मास्येषु सावित्रयागस्यउपांशुत्वम्।

८ वैश्वदेववरुणप्रघासमाहेन्द्रशुनासीरीयेष्ट्याम्उपांशुत्वम्।

९ तन्त्रयुक्तानां पित्रोपसन्नामकानामिष्टीना-मुपांशुत्वम्।

१० उत्तमादनुयाजात् प्राक् पुनराधेयेष्टेःस्वतन्त्रोपांशुत्वम्।

११ स्वतन्त्रोपांशुत्वविशिष्टानां सर्वसाम-[Page0854-a+ 38] धेनीष्टीनां सुमन्द्रतन्त्रत्वम्।

१२ आगूःप्रणववषट्काराणां सर्वत्रउच्चैर्भावोक्तिः।

१३ आग्रयणेष्टौ आग्नेन्द्रस्य ऐन्द्राग्नस्यवा प्रथमस्य हविष उच्चैर्भावकथनम्।

१४ उच्चविहितस्यपुरोऽनुवाक्याप्रणवस्य प्राणसन्ततत्वम्।

१५ याज्याया आगूर्व-षट्कारयोः प्राणसन्ततत्वम्।

१६ उपांशोस्तन्त्रस्वराणाम् उच्च-त्वम्।

१७ उपांशुतन्त्राणां तानि उच्चानि मन्द्रस्वराणिभवन्तीत्युक्तिः।

२ अ॰

१५ क॰।

१ प्रातर्वैश्वदेव्यां प्रेषित-स्याग्निमन्थनीयानुवचनाभिहिङ्कृतिकरणे।

२ संप्रैषश्रवण-पर्य्यन्तं पूर्वऋगवसाने आरामो नोत्तरादानम्।

३ मध्येऋगवसाने यत्रारामविधिः तत्राप्यासम्प्रैषान्नोत्तरारम्भः।

४ मथ्यमानोऽग्निश्चेन्न जायते तदाऽग्नेराजन्मनः पुनःपुनः अन्ने हंसीति सूक्तावापनम्।

५ अग्निजन्मश्रवणा-नन्तरम् उक्तसूक्तीयप्रणवेन शिष्टार्धर्चोपसन्तननम्।

६ अ-नावापपक्षे जातश्रवणानन्तरं शिष्टेनार्द्धर्चेन उत्तरायाऋच उपसन्तननम्।

७ यज्ञेनेत्यनया ऋचा समापनम्।

८ सर्वत्र शस्त्रादिषु उत्तमाया ऋचः समापनीयत्वम्।

९ बहिरग्न इति प्रयाजानन्तरं प्रयाजान्तरादीनामावपनम्

१० देवताष्टकोल्लेखः मरुतां स्वतवरुवेति गुणकथनञ्च।

११ प्रकरणपठितानां निर्गुणानां मरुतां धाय्याद्वयकथ-नम्।

१२ अनुयाजानां देशकथनम्।

१३ अनुयाजाद्यन्य-तमे काले वाजिभ्यो यागः। ॰

१४ ऊर्द्ध्वजानुनाऽन-वानयाज्याप्रयोगः।

१५ यत्र क्कच विषये एकस्मिन्नेवा-ध्वर्युसंप्रैषे तुल्यरूपयोरतुल्यरूपयोर्द्वयोर्वषट्कारयोः स-मस्तयोर्द्विरनुमन्त्रणम्।

१६ याज्याधर्मसु इतरेषु अनुवषट्-कारादिषु आगुरः प्रतिषेधः।

१७ इष्टशिष्टं वाजिनम् इडा-मिव भक्षार्थं अञ्जलौ निधाय उपहवयाचनम्।

१८ अध्व-र्य्युब्रह्माग्नीध्राणां समीपे उपहवयाचनम्।

१९ उक्तवाजि-नस्य किञ्चिदादाय सूत्रोक्तमन्त्रेणावध्राणम्।

२० होतुर्भक्ष-णानन्तरम् अध्वर्य्युब्रह्माग्नीध्राणां क्रमेण वाजिनभक्षणम्।

२१ यजमानादितरेषां सर्वेषां दीक्षितानां गृहपतेरन्येषाञ्चप्रत्यक्षमेव तद्भक्षणम्।

२२ वैश्वदेवीष्टिदिवसादपरिस्मन्दिने पौर्णमासेनेष्ट्वा तदानीमेव वक्ष्यमाणानां चातुर्मास्यव्र-तानां केशनिवर्त्तनमध्वादिवर्जनरूपाणाम् आचरणारम्भः।



३ केशनिवर्त्तनम्।

२४ श्मश्रुवापनाधःशय्ये कार्य्ये मधु-मांसलवणस्त्र्यवलेखनानि वर्ज्यानि।

२५ कालविशेषे प्रति-षिद्धस्य प्रतिप्रसवार्थम् ऋतौ भार्य्योपगमनविधानम्।

२६ उत्तरविवक्षार्थानुवादरूपं सर्वपर्वसु वापनम्।

२७ आद्योत्तमयोर्वा पर्वणोर्वापनं न मध्यमयोरिति। [Page0854-b+ 38]

२ अ॰

१६ क॰।

१ प्रकृतवैश्वदेवेष्टिकायां पौर्णमासीमारभ्य पञ्च-म्यां पौर्ण मास्यां वरुणप्रधासैर्यागविधानम्।

२ प्रणीयमान-स्याग्नेः पश्चादुपविश्य प्रोषितस्याग्निप्रणयनीया प्रतिपत्तिः।

३ आसीनस्य सप्रणवायाः प्रथमाया उपांश्वनुवचनम्।

४ उपांशुस्वरस्थानां स्वरान्तरस्थानसङ्क्रमणे प्रणवेनावसायअनुच्छ्वस्य उत्तरस्या ऋच आरम्भः।

५ उक्तावसानानुच्छ्वा-सपूर्ब्बकम् उत्तरारम्भस्य प्राणसन्ततभावित्वम्।

६ प्रणीय-मानयोर्द्वयोरुत्तरमग्निमनुव्रजत उत्तरासामृचामनुवच-नम्।

७ राजन्यवैश्वयोराद्ये ऋचौ।

८ उत्तरस्यावेदेः पश्चादवस्थाय शेषसमापनम्।

९ सोमेषु उत्तर-वेदेः पश्चादवस्थाय समापनम्।

१० यस्मिन्नेवासने पूर्ब्बोक्तमनुवचनमारब्धं तस्मिन्नुपविस्य व्याहृतित्रयरूपवाग्विस-र्जनम्।

११ अन्यत्रापि अनुवचनानुव्रजनयोर्वाग्विसर्गः।

१२ तिष्ठतः संप्रैषेषु तिष्ठत एव वाग्विसर्गः।

१४ वैश्वदेव्यासमानाऽग्निमन्थना नाम इष्टिः।

१४ षष्ठ्यादीनां तिसृणांहविषाम् ऐन्द्राग्न्यादीनां कर्त्तव्यत्वम्।

१५ तत्सूत्रगतम-न्त्रस्य उपहवयाचने तृतीयत्वम्। भक्षणे चतुर्थत्वम्। उपहवयाजनभक्षणयोश्च विशेषकथनम्। वैश्वदेव्यामपि एवम्भावश्च।

१६ इष्टौ संस्थितायामवभृतकर्म्मनिमित्तं अध्वर्यूणाम् उदक-देशगमनम्।

१७ अवभृशस्यानित्यत्वत्व इष्ट्यभावेऽन्येषामपिअव--धानादीनां सम्भवश्च।

१८ चातुर्मास्याङ्गत्वेन द्वयोर्मा-सयोरैन्द्राग्ननामकपश्वन्तरविधानम्।

२ अ॰

१८ क॰। (

१ वरुणप्रघासेभ्यः परम् ऐन्द्राग्नवत्परं अनीक-वदाद्यादित्यान्तकर्म्मरूपाणां साकमेधानां यजनम्।

२ साकमेधीयपौर्ण्णमास्याः पूर्ब्बेद्युः सवने सवने एकैकाइष्टिः।

३ उक्तानुसवनीयानामिष्टीनां प्रथमायामनीकवान्अग्निः एतदुतरस्यां वृधन्वन्तौ, मरुतः सान्तपनाःतदुत्तरा आज्यभागप्रभृतीडान्ता इष्टिः।

४ गृहमेधेभ्योमरुद्भ्यो देवताभ्य आम्नातयोरृचोरुल्लेखः।

५ पुष्टि-मतोर्विराजयोर्निगदरहितसंयाज्यात्वम्।

६ गृहमेधीया-दन्यत्रापि आवहनरहिते स्थले अनिगदयोः संयाज्ययोःसम्भवः।

७ पित्र्यायां पशौ चेतीष्टिद्वये आवाहने सत्यपिअनिगदं संयाज्याद्वयम्। ।

८ समापितैष्टिकायां रात्रौबहूनां याज्ञिकानाम् अन्नदानम्।

९ रात्रेः पश्चाद्भागेपौर्ण्णदर्वनामकस्य होमकर्म्मणः कर्त्तव्यत्वम्।

१० वृषभरवेश्रूयमाणे उक्तहोमकालः।

११ मेघध्वनौ श्रूयमाणेतद्धोमकालः।

१२ तस्योक्तद्वयस्याप्याभावे ब्रह्मपुत्र-शब्देनाग्नीध्रं सम्बोध्य कैश्चित् रवप्रावर्त्तनम्। [Page0855-a+ 38]

१३ पूर्ण्णादर्व्वीत्यादिमन्त्रयोरध्वर्य्युणा होतृप्रेरणे याज्यानु-वाक्यात्वम्।

१४ क्रीडिभ्यो मरुद्भ्य उत्तरा इष्टिः।

१५ क्रीडिनां मरुतां परोक्षवार्त्तघ्नावाज्यभागौ।

१६ अक्रीडिनांमरुतां याज्यानुवाक्ये।

१७ माहेन्द्री इष्टिः।

१८ माहे-न्द्र्यामिष्टौ अष्टदेवतोक्तिः।

१९ माहेन्द्र्यां याज्याकथनम्।

१९ सू॰

२ अ॰

१८ क॰।

१ दक्षिणाग्नेरग्निमानीय तम-न्यत्र स्थापयित्वा तत्र पित्र्याख्यकर्मकरणम्।

२ पित्र्याया इष्टेर्लुप्तजपानुमन्त्रणादित्वम्।

३ तस्यां पित्र्या-यामिष्टौ कर्मणां प्राङ्मुखत्वम्।

४ अन्यस्यामिष्टौ दक्षि-णामुस्वत्वम्।

५ इतरदिङ्मुखानि प्रकृतौ यथान्वयंकरणीयानि।

६ अनुच्छ्वसता उशन्तस्त्वेतस्या ऋचस्त्रि-रनुवचनं तत्र च तासामेव सामिधेनीनां न पुनरभ्यासः।

७ तासां सामिधेनीनामुत्तमेन प्रणवेन प्रतिपत्तिः।

८ आज्यपान्तदेवतावाहनानन्तरं प्राकृतात् स्विष्टकृता-वाहनात् परं कव्यवाहनाख्याग्निसमावाहनम्।

९ उत्तमे च प्रयाजे आज्यपेभ्यः पूर्वं कव्यवाहनाख्याग्नि-निगमनम्।

१० सूक्तवाके विशेषोल्लेखः।

११ कार्यार्थमन्त्र-लोपेऽपि कार्यलोपप्राप्तौ कार्यस्य लोपप्रतिषेधः।

१२ पित्र्यायामिष्टौ अवान्तरेडाभक्षणेडाभक्षणयोरभावः।

१३ इडाभक्षणे मार्जनाभावः।

१४ सूक्तवाके यजमान-नामादेशाभावः।

१५ ईक्षितः सीद होतरिति वोक्तस्योपवे-शनम्।

१६ सव्योपर्युपस्थानां प्राचीनावीतिनां हविर्भिजींवा-तुमदुच्चारणम्।

१७ पित्र्यायामाग्नीध्रस्य दक्षिणत्वम् अ-ध्वर्योरुत्तरत्वम्, अनुवाक्याद्वयम्, अध्यर्द्धायामनवानम्।

१८ आश्रावणप्रत्याश्रावणसम्प्रैषेषु ओं स्वधेत्यादीनां दीर्घा-न्तानां प्रयोक्तव्यत्वम्।

२० प्लुतीनां नित्यत्वव्यवस्थापनम्।

२१ पितॄणां सोमवत्ता सोमस्य पितृमत्ता बर्हिषदः अग्नि-ष्वात्ताचेतिगुणोक्तिः।

२२ पञ्चानां पितॄणां तिस्रस्तिस्र ऋचइत्युक्तिः।

२३ वैवस्वतस्य चेद्देवतात्वं तदा उत्तमे त्रिकेमध्यमायां याज्यात्वं प्रथमोत्तरयोरनुवाक्यात्वम्।

२४ स्विष्टकृतो याज्योक्तिः।

२५ स्विष्टकृतोऽग्नेः कव्यवाहन-संज्ञा।

२६ स्विष्टकृत ऊर्द्धं प्रकृतिभावः।

२७ मन्त्र-लोपादिभिन्नानां सव्यापर्युपस्थतादीनामभावाय प्रकृ-तिभावविधानम्।

२८ प्रकृतिभावादेवानुवाक्याया एकै-कत्वम्।

२९ वषट्कारक्रियायामेव संयाज्याद्वयम्।

३० विशेषनियमार्थं दक्षिणावृतो दक्षिणाग्नेरुपस्थानम्।

३१ पित्र्ययामिष्टौ आवर्त्तनविरहेणोपस्थानम्।

३२ दक्षि-णाग्नेरुपह्वानमन्त्रः।

२३ गार्हपत्याहवनीययोरुपस्थानम्। [Page0855-b+ 38]

३४ आहवनीयोपस्थानमन्त्रः।

३५ तन्मन्य इत्येकयर्चागार्हपत्योपस्थानम्।

३६ प्रादक्षिण्येन गार्हपत्यमभितः समा-गमने मन्त्रः।

३७ गार्हपत्यानन्तरं सव्यावृद्भिस्त्र्यम्बकरूपकर्म-भेदार्थगमनम्।

३८ अध्वर्यूक्तस्य यजमानैरपि कर्त्तव्यत्वम्।

३९ प्रत्येत्य अदितिदेवताकया ऋचा चरणम्।

४० पुष्टि-मत्यौ धाय्ये निराजौ।

४० सू॰

२ अ॰

१९ क॰।

१ साकमेधकालमारभ्य पञ्चम्यां पौर्ण्णमास्यां शुनासीरोयानामेष्टिः।

२ पञ्चम्याः पौर्णमास्या अर्वागपि वा शुना-सोरीयारम्भः।

३ नियुत्त्वानिति वायोर्गुणःशुनासीरीयः शुनश्चेति इन्द्रस्य गुण इत्युक्तिः।

४ एतत्-प्रकरणगतानां शास्त्रान्तरीयाणाञ्च देवतानां एतत्-प्रकरणाम्नाता एव याज्यानुवाक्या इत्युक्तिः।

५ ज्योतिष्टो-मप्रकृतिकौ चातुर्मास्याङ्गभूतौ पशुसोमौ ताभ्यां शक्तिभेदेनव्यस्तसमस्ताभ्यां यागः।

६ चातुर्मास्यानां समाप्तौपुनरभ्यासः

६ सू॰

२ अ॰

२० क॰। (

३ अध्याये पशुकर्माधिकारः।

१ प्रायश्चित्तात् पूर्वं पशु-गुणकं कर्म्म।

२ पशोरुभयतोऽन्यतरतो वा इष्टिकरणम्।

३ पशुयागसम्वन्धिन्या इष्टेरग्निदैवत्यधिकल्पः।

४ पशु-यागसम्बन्धिन्या इष्टेः करणपक्षे देवताविकल्पः।

५ एक-स्मिन् पशुप्रयोगे आग्नेयी चाग्नावैष्णवी चेति इष्टि-द्वयम्।

६ उभयेष्टिकरणपक्षे एकस्याः पुरस्तात् अपरस्याउपरिष्टात् कर्त्तव्यत्वम्।

७ सविधिकस्य वारुणप्राघा-सिकस्योक्तस्याग्निप्रणयनस्य पुनरुल्लेखः।

८ पशुबन्धयाग-सम्बन्धिन्या वेदेः पश्चादुपविष्टस्यानुवचनार्थं प्रेषितस्ययूपमज्यमानमभिधातुम् ऋग्विशेषानुवचनम्।

९ अज्य-मानयूपानुवचनपरिधानयोर्म्मन्त्रभेदौ।

१० सप-शुकयूपबहुले एकपशुतन्त्रके कर्मणि अन्त्ययूपानुवचनंपरिधायान्त्ययूपसंस्तवनञ्च।

११ प्रथमोत्तमयोरनभ्यासवि-धानम्।

१२ पशुदेवताभ्योऽनन्तरं वनस्पत्यावाहनम्।

१३ संमार्गैः संभार्जनानन्तरं प्रवृताहुतिभिर्होमः। सकृद्ग्रहणपूर्वकैकाहुतिहवनानन्तरं पुनः सकृद्ग्रहण-पूर्वकपञ्चाहुतिहोमः, मन्त्रविग्रहणञ्च।

१५ सौत्येएवाहनि पूर्वोक्तहोमः।

१६ तीर्थेनैव लब्धविहारप्र-पदनाय प्रशास्त्रे समन्त्रकदण्डदानम्।

१७ प्रशास्तुर्द-क्षिणोत्तराभ्यां पाणिभ्यां समन्त्रकदण्डप्रतिग्रहणम्।

१८ यावत् प्रैषवचनं नास्ति तावत् उक्तेन दण्डेनस्वपरयोः संस्पर्शननिषेधनियमः।

१९ उपयुक्तानाम-न्येषामपि यज्ञाङ्गानां विहारेण व्यवायंनिषेधः। [Page0856-a+ 38]

२० प्रेषितस्य मैत्रावरुणस्य प्रैषानुवचनप्रकारः।

२१ मै-त्रावरुणस्यानुवाक्यानुवचनम्।

२२ मैत्रावरुणस्य पर्य्यग्निस्तोकमनीयतोन्नीमानसूक्तपाठः।

२३ आसीनेनैव मैत्राव-रुणस्य सोमाधिकरणककर्मान्तरस्य करणम्।

२३ सू॰

३ अ॰

१ क॰।

१ पशुयागे एकादशप्रयाजनियमः।

२ तत्रतेषां प्रयाजानां प्रैषा अपि एकादशसंख्याः।

३ प्रकृता-वुक्तमप्राकृतेष्वपि प्रैषेषु स्यादित्येवमर्थं पूर्वोक्तस्य प्रैष-सूक्तस्य पुनरुपदेशः।

४ अध्वर्य्युप्रैषस्य होतुरना-काङ्क्षणीयत्वम्।

५ प्रैषलिङ्गाभिराप्रीभिर्होतृयजनम्।

६ शुनकानां, वसिष्ठानां, सर्वेषाञ्चाप्रीसूक्तभेदकथनम्।

७ ऋषिनामधेयस्यानुगुणानामाप्रीणां ग्राह्यत्वम्।

८ प्राजापत्ये तु वसिष्ठगुणकसहितानां सर्वासामाप्रीणांजामदग्न्यत्वम्।

९ दशसु सूक्तेषु प्रेषितस्य मैत्रा-वरणस्य प्रैषवचनम्।

१० उक्तप्रैषवचनस्य होतुरन्तर्वेदिदण्डनिधानम्।

११ अध्रिगुशब्दवाच्ये दैव्याः शमितारइत्यादिके मन्त्रेऽङ्गादि शब्दानामूहः।

१२ स्त्रीपुंसयोः समा-हारे पुंलिङ्गेनैवोहः।

१३ स्त्रीदेवतायामभिधेयायां मेध-पतिशब्दस्य पुंवद्वचनम्।

१४ स्त्रीपशौ मेधशब्दस्य पुंवद्वास्त्रीवद्वा वचनविकल्पः।

१५ अध्रिगोरूर्द्धम् अङ्गादिशब्दाना-मितरेषाञ्चोहनं, स्त्रीपुंसमाहारेषु सर्ब्बत्र पुंवदेवाभिधा-नञ्च।

१६ न केवलमस्योहविधेः पशुकर्मार्थत्वं किन्तर्हि सर्वेषुयजुःषु निगदेषु चार्थवशेन कार्य्यत्वम्।

१७ प्रकृतौ समर्थ-निगमेषूहनम्।

१८ मन्त्रगतानां शब्दानां प्राकृतत्वेन ऊह-नम्।

१९ प्रतिनिधिष्वपि प्राकृतातां शब्दानामूहनम्।

२० उपमार्थानां श्येनादीनां शब्दानामूहनम्।

२० सू॰

३ अ॰

२ क॰।

१ अध्रिगुनामकमन्त्रविशेषकथनं तत्रस्थानांपदानामूहश्च।

२ अस्नेत्यादीनां त्रयाणां शब्दानां स्वेस्वे स्थाने उपांशुप्रयोक्तव्यत्वम्।

३ षट्विंशतिशब्दस्याभ्यास-नियमः।

४ मन्त्रविशेषजपानन्तरं विहारादावृत्य दक्षिणावृतआवर्त्तनम् पृष्ठतः कृत्वा आसनञ्च।

५ मैत्रावरुण-स्यावृत्य पृष्ठतः करणम्।

६ पुनरावर्तनकाले पराचामेवासनम्

६ सू॰

३ अ॰

३ क॰।

१ वपायां श्रप्यमाणायां तत्-सस्कारार्थं प्रेषितस्य स्तोकेभ्योऽनुवचनम्।

२ स्वाहाकृत्यर्थंस्रुगादापनस्य कर्तव्यत्वम्।

३ उत्तमा आप्रीयाज्या।

४ वपा पुरोडाशोहविरिति पशोर्यागाः।

५ नानादैवतेषुपशुषु याज्यानुवाक्याभेदादेव वपायागवत् पृथग्भावः।

६ प्रतिपशु मनोतामन्त्रस्यावर्त्तनम्।

७ एकेषां मते मनो-ताया अनावर्त्तनम्।

८ उक्तप्रदानगतप्रैषाणां समान-[Page0856-b+ 38] लिङ्गत्वोक्तिः।

९ प्रदानप्रैषेषु विकृतिषु च या देव-तास्तासामेकैकस्या देवताया अग्नीषोमस्थाने निर्द्दिश्ययष्टव्यत्वम्।

१० गोमेषहयानामेकैकस्या जातेर्द्वयोर्द्वयोःशब्दयोर्नियमनस्य वैकल्पिकत्वम्।

११ वनस्पतिस्विष्ट-कृत्सूक्तवाकप्रैषेषु प्रदानप्रैषीयप्रयोगवत् प्रयोगः।

१२ सूक्तवाकप्रैषेषु पुरोडाशेन पशुदेवतावर्द्धनम्।

१३ हविषां नानारूपत्वात् स्वेनं स्वेनैव शब्देन निग-मने प्राप्ते पुरोडाशशब्देनैव चर्वादीनां निगमनविधा-नम्।

१४ मेधोरभीयानित्येतयोः पदयोः पश्वभिधायकत्वम्।

१५ आम्नायसिद्धानां द्विवचनान्तानाम् एकवचनवहुवचनयो-रिष्टलकारपरिग्रहार्थ पाठविशेषः

१५ सू॰

३ अ॰

४ क॰।

१ वपाहोमानन्तरं सब्रह्मकानां बद्धृचानां सर्व्वेषां सह मार्ज-नम्।

२ इदमाप इत्यनयर्चा यजुषा च उभाभ्यां मार्जनम्।

३ प्रत्यङ्गभूतायामिष्टौ आतिदेशिकमार्जनस्य प्रवृत्त्यर्थम्पशौमार्जनस्य एतावत्त्वोक्तिः।

४ पुरोडाशश्रपणपर्य्यन्तंतीर्थेन निष्क्रम्यासृमविधिः।

५ प्रधानस्विष्टकृतो-र्भेदप्रतिपत्त्यर्थं प्रधानेन चरित्वा स्विष्टकृता चरणविधिः।

६ स्विष्टकृच्चरणावसरे आगन्तुकैर्यागैरग्रे पशुपुरोडाश-स्विष्टकृतां चरणम्।

७ अन्वायत्तदेवतानां हविषां चावाहना-दिषु निगमेषु अनुवृत्त्यभावः।

९ पुरोडाशानामिति हविर्भेदेप्रैषस्योह्यत्वम्।

१० इडाया ऊर्द्धम् उक्तप्रैषस्योह्यता

१० सू॰

३ अ॰

४ क॰।

१ इडोपधानानन्तरं मनोतानुचरणम्।

२ ह-विषा चरणभ् प्रैषाणां तत्सलिङ्गत्वञ्च।

३ हविःप्रैषे कतरएवाग्नीषोमावेवेत्यत्र ऐतरेयाणां सम्मतिः।

४ द्विदैवता-दन्यत्र एकदैवते बहुदेवते पशौ मैत्रावरुणयोर्देवतात्वम्।

५ एकदैवतेषु वहदैवतेषु च प्रैषेषु तथादृष्टत्वम्।

६ प्रकृति-भावे गाणगारिमतोल्लेखः।

७ अर्थभेदरहिते आम्नायेविकारस्य निरार्थकत्वम्।

८ वपाहोमे कृते अर्द्धर्चयोर्मध्येयाज्यायाः समापनम्।

९ प्रैषसमाम्नायपठितं वनस्पति-प्रैषमभितो ये ऋचौ तयोर्वनस्पतियाज्यानुवाक्यात्वम्।

१० आज्यभागयोः करणे प्रैषे प्रधानदेवताङ्गदेवतयोर्नि-गमनम्।

११ स्विष्टकृति इडोपह्वानानन्तरम् अनुयाजैश्च-रणम्।

१२ उक्तस्थलेऽनुयाजानामेकादशसङ्ख्याविधानम्।

१३ प्रकृतिभ्योऽन्यासां वैश्वदेव्यानामाहर्त्तव्यत्वम्।

१४ प्रैषा-धिकारनिवृत्त्यर्यम् अनवानशब्दस्य पुनरावृत्तिः।

१५ पुनरनवानस्य व्याख्यानार्थोल्लेखः।

१६ सूक्तवाकप्रैषेआज्यभागयोर्ग्रहणम्।

१७ पशुतन्त्रे पदत्रयस्याभ्यासत्वां-भावाय पठितस्यापि पुनरभ्यासः।

१८ देवताना-[Page0857-a+ 38] मेकजातीयपशुकत्वकथनम्।

१९ पशुशब्दानामेवावर्त्तनंनान्ययोर्देवयोः।

२० उत्तरे पूर्वेणोक्तस्योल्लेखः।

२१ अन-वभृथे कर्म्मणि सूक्तवाकप्रैषसमापनानन्तरम् आहवनीयेदण्डानुप्रहरणम्।

२२ सावभृथे कर्म्मणि अवभृथानु-प्रहरणम्।

२३ वेदस्तरणोत्तरकल्पः संस्थाजपात् प्राक्निष्क्रम्य उदस्यमानस्य हृदयशूलस्यानुमन्त्रणे मन्त्रश्च।

२४ उदस्यमानस्य हृदयशूलस्य उपरिष्टात् अपामुपस्प-र्शनमन्त्रः।

२५ अस्पृष्टादृष्टहृदयशूलानाम् अन्योन्यसंस्प-र्शावेक्षणमन्तरेणैव सर्वेषामेकैकेन समित्त्रयस्य ग्रहणम्।

२६ मन्त्रविशेषपूर्वकं प्रथमायाः द्बितीयायाः तृतीयायाश्चसमिधोऽभ्याधानम्।

२७ पूर्वग्रहीतुरेव पूर्व्वमाभ्याधानंन सर्वेषां युगपत्”।

२८ संस्थाजपान्तं पशुतन्त्रम्।

२८ सू॰

३ अ॰

६ क॰।

१ प्रदानाख्यकर्म्मोक्तप्रैषा एवसर्व्वत्र भवन्ति नान्ये इत्युक्तिः।

२ येषां पशूनांयानि प्रदानानि तेषां पशूनां याज्यानुवाक्याकथन-प्रतिज्ञा।

३ सर्वत्र पूर्वमुक्ता अनुवाक्याः उत्तरा याज्या इतिज्ञापनम्।

४ याज्यानुवाक्यालिङ्गितदैवतेन वक्ष्यमाणानांपशूनां नानात्वोक्तिः।

५ अग्नेर्याज्यानुवाक्याः।

६ सर-स्वत्या याज्यानुवाक्याः।

७ सोमदेवतायाः याज्यानुवाक्याः।

८ पूष्णो याज्यानुवाक्याः।

९ वृहस्पतेर्याज्यानुवाक्याः।

१० विश्वेषां देवानां याज्यानुवाक्याः।

११ इन्द्रस्ययाज्यानुवाक्याः।

१२ मरुतां याज्यानुवाक्याः।

१३ इन्द्रा-ग्न्योर्याज्यानुवाक्याः।

१४ सवितुर्याज्यानुवाक्याः।

१५ वरु-णस्य याज्यानुवाक्याः।

१५ सू॰

३ अ॰

७ क॰।

१ अष्टा-दशभिरृग्भिः पशुकर्मविधानम्, तासाञ्चर्चां प्रजापति-देवताकत्वम्।

२ याज्यानुवाक्यालिङ्गकल्पितदैवत्यानामिष्टिरूपाणां पशूनां विधानं, साकल्येनैतदध्यायगणितानांतासां त्रिंशत्सङ्ख्यकत्वोक्तिः।

३ खण्डद्वये समाम्ना-तानां पशूनां मध्ये केषाञ्चित् सोमाङ्गत्वं केषाञ्चित्स्वतन्त्रत्वञ्च।

४ पशूनां प्रकृतिभूतस्य ऐन्द्राग्न्यस्य निरूढ-नामकस्य पशोः कर्त्तव्यत्वम्।

५ निरूढस्य पंशोः षट्षुषट्सु मासेषु वत्सरे वत्सरे वा कार्य्यता।

६ प्राजापत्योपांशु-सावित्रसौर्य्यवैष्णववैश्वकर्म्मणरूपपाशुकतन्त्रेषु उपांशुजप-विकारोक्तिः।

७ प्रैषादेरपि आगुरः स्थानभाजित्वम्।

८ आददादोनां सप्तानां यथास्थानमुपांशुत्वम्।

८ सू॰

३ अ॰

८ क॰।

१ सौत्रामण्याख्य कर्म्माधिकारः।

२ तत्राश्विनसा-रस्वतैन्द्राःपशवःवार्हस्पत्यश्चतुर्थः ऐन्द्रसावित्रवारुणाः पशु-पुरोडाशाः यथासङ्ख्येन भबन्तीत्युक्तिः।

३ चात्वालमार्जना-[Page0857-b+ 38] नन्तरम् आश्विनसारस्वतैर्ग्रहै प्रचरणं तेषाञ्चानुवाक्या प्रैषयाज्यानां कथनम्।

४ कुम्भीस्थसुरावेक्षणमन्त्रः ग्रहपा-त्रस्थसुरावेक्षणप्रकारश्च।

५ सुराग्रहपयोग्रहयोर्भक्षजप-विधानम्।

६ सुराग्रहेष्वेव प्राणभक्षविधानम्।

६ सू॰

३ अ॰

९ क॰।

१ विधानान्यथाभावे प्रायश्चित्ताधिकारः।

२ विहितस्याभावे प्रतिनिध्युपादानम्।

३ इष्टिमध्य-रूपस्यान्वाहिताग्नेः प्रयाणोपपत्तौ अग्नीनां पृथगु-न्नयनम्।

४ समन्त्रकं साज्याहुतिहोमकं समारोपणंकृत्वा गमनविधानम्।

५ समारोपस्वरूपम्।

६ यजमानकर्तृकं गार्हपत्ये पाणिद्वयस्य सकृत्प्रतप-नम्।

७ उक्तप्रकारेणाहिताग्नेः समारोपणानन्तरमहुत्वा-गमनविधानम्।

८ यजमानकर्तृकं समन्त्रकमरणी-मन्थनविधानम्।

९ अवदीप्यमानस्याहवनीयस्य शम्यापरा-सादर्वाक् संवपनम्।

१० यदि त्वतीयाद्यद्यमावास्या पौ-र्ण्णमासीं वातीयाद्यदि वाऽन्यस्याग्निषु यजेत यदि वास्या-न्योऽग्निषु यजेत यदि वास्यान्योऽग्निरग्नीन् व्यवेयाद्यदिवा साग्निहोत्र उपसन्ने हविषि वा निरुप्ते चक्री-वच्छ्वा पुरुषोवाऽविर्विहारमन्तरियाद्यदि वाध्ये प्रमीयेतइत्येवं निमित्ते इष्टिविधानम्।

११ उक्ताया इष्टेःपथिकृद्गुणकाग्निदेवताकत्वम्।

१२ उक्तायामिष्टौ अनडु-द्दक्षिणा।

१३ पूर्वोक्ताया इष्टेः अग्निभिन्नव्यवधाननि-मित्तकत्वे विधानभेदः।

१४ शुना व्यवाये श्वपदानां भस्मनापरिपूरणम्।

१५ भस्मराज्योदकराज्या च सन्तननेप्रतिराजि मन्त्रावृत्तिः।

१६ उक्तराजिभ्यां समानं कृत्वाहवनीयानुगमनानन्तरं ततः प्रणीय तदुपस्थानम्।

१७ पथि मृतस्य अन्यवत्सेन दोहनीयाया गोः पयसाग्निहोत्रा-न्तरं प्रातरादौ प्राक् देहाग्निसंस्कारात् कृत्वा दाह इत्यु-क्तिः।

१८ अपरपक्षे आहिताग्नेर्मरणशङ्कायां तत्पक्षा-वशिष्टाहुतिभिः एतत्पूर्वपक्षनयनम्।

१९ आवाहनानन्तरंप्रधानयागादर्वाक् हविर्व्यापत्तौ तस्य प्रधानयागादेःसर्वस्याज्येनेष्टिं समाप्य पुनरिज्या न भवतीत्युक्तिः।

२० च्युतकेशनखादिभिरन्यैर्वा बीभत्सैर्हविःषु दुष्टेषु नान्यःस्मृत्युक्तःशुद्ध्युपायः।

२१ कठिनानां भेदने द्रवाणां क्षरणेहविषां दुष्टत्वम्।

२२ दुष्टानां हविषां अप्सुप्रक्षेपः।

२३ सान्नाय्यस्य दुष्टस्य मध्यमेन पलाशपर्ण्णेन वल्मीक-द्वारे प्रतिषेचनम् अप्सु वा तूष्णीमिति विकल्पः।

२४ अन्तःपरिधिदेशे विष्यन्दमानस्य हविषो निर्वपणम्।

२५ प्रातर्दोहे अदुष्टे द्वयोः पात्रयोः कृत्वाऽन्यतरत्[Page0858-a+ 38] दधिभावाय आतच्य ताभ्यां दधिपयोभ्यां प्रचरणम्।

२६ पयसि दुष्टे तत्स्थाने पुरोडाशव्यवस्था।

२७ दधि-पयोरूपे सान्नाय्यद्वये दुष्टे इन्द्राग्निदैवत्योदनसिद्ध्यर्थंपञ्चशरावपरिमितव्रीहिनिर्वपणम्।

२८ इन्द्राग्न्योःपृथक् चरणम्।

२९ एकेषां मते केवलमित्रदेवताकपञ्च-शरावोत्पादनानन्तरम् इन्द्राग्न्योः पृथक्चरणम्।

३० सान्नाय्यार्थमपाकृतानां वत्सानां पाने वायुदेव-त्यया यवाग्वा यजनम्।

३१ गर्भमिति मन्त्रेण स्रव-तोऽधिश्रितस्याग्निहोत्रस्याभिमन्त्रणम्।

३१ सू॰

३ अ॰

१० क॰।

१ उपावसृष्टाया दुह्यमानायाश्च अग्निहोत्र्यागोरभिमन्त्रणम्।

२ उक्ताया गोरुत्थापनम्।

३ उक्तायागोरूधसि मुखे चोदपात्रमुपोद्गृह्य दुग्ध्वा ब्राह्मणायपानार्थन्तत्प्रदानम्।

४ शब्दायमानायै उक्तायै गवे यव-सदानम्।

५ दुग्धस्य शोणिताकारत्वे निरवशेषस्य गार्हपत्ये-दाहविधानमन्येन द्रव्येण च होमकरणम्।

६ दोह-नोत्तरं पात्रस्य भेदने पात्रात् पतने वा विक्षिप्तपतित-त्यागेनान्यस्यादुष्टस्याभिमन्त्रणम्।

७ दोहनावस्थायां पयसःस्कन्दने स्कन्नांशाभिमन्त्रणम्।

८ परिशिष्टेन स्थालीस्थेनहोमः।

९ होमस्यापर्य्याप्तौ अभ्यानीयान्येन होमः।

१० पयसिस्कन्ने प्रायश्चित्तम्।

११ स्कन्ने स्कन्नाभिमर्शनम्।

१२ पयःशेषेण होमविधिः।

१३ स्रुग्गतस्याऽशेषे पुन-रुन्नीय होमकरणम्।

१४ स्थालीपात्रेशेपाभावे संस्कृते-नाज्येनोन्नीय होमः।

१५ प्रधानहोमद्वयपर्य्यन्तम्उक्तरूपा प्रायश्चित्तिः।

१६ पूर्व्वोक्तहोमे प्राकृतस्य मन्त्र-स्यापवादरूपया वारुण्या ऋचा होमः वारुणीजपश्च।

१७ वारुणीजपो वारुणीहोमः अनशनमिति त्रयस्यशेषेण होमे मात्रापचारहोमे पुनरुन्नीय होमे चकर्त्तव्यता।

१८ गाणगारिमते उक्तपक्षत्रये पुनर्होमः।

१९ सरसरेति शब्दायमानस्याग्निहोत्रद्रव्यस्य अभिमन्त्र-णम्।

२० उद्वासिते विष्यन्दिते च प्रायश्चित्तान्तरम्।

२१ बीभत्से मध्यमेन पलाशपर्णेन होमः।

२२ अभि-वृष्टेऽधिकसमिदाधानम्।

२३ उत्तरस्या आहुतेःस्कन्दने समिदाधानम्।

२३ सू॰

३ अ॰

११ क॰।

१ सायं होमस्य प्रदोषान्तकालविधानम्।

२ सङ्गवान्तस्यप्रातर्होमकालत्वम्।

३ सायं प्रातर्होमेऽतीते चतु-र्गृहीतेनाज्येन होमः।

४ कस्मिन् काले केन मन्त्रेणहोमस्तदुक्तिः।

५ अग्निहोत्रे समाप्ते वारुणीष्टिःकार्य्या।

६ होमोत्तरकाले प्रातः वृष्ट्यन्ते वरदानम्। [Page0858-b+ 38]

७ अग्निहोत्रसमाप्तौ आहवनीयस्यानुगमनं कृत्वा पुनस्तदुद्ध-रणम्।

८ तन्निमित्ता मित्रसूर्य्योभयदेवताका इष्टिः।

९ इष्टिसमाप्तौ यतवाचोः पत्नीयजमानयोरग्नीन् ज्वलयतो-रनश्नतोरहःशेषमुपोषणम्।

१० द्वयोर्गवोर्दुग्धेन रात्रेःपूर्वचतुर्थभागे सायमग्निहोत्रहोमः।

११ एकस्मिन् पय-स्यविश्रिते द्वितीयमवनीय तेन होमकरणम्।

१२ प्रातःका-लातिपातनिमित्ता प्रातरिष्टिः।

१३ उक्तायामिष्टौ व्रत-भृद्गुणकस्याग्नेर्देवतात्वम्।

१४ स्वकाले एव प्रणीतेष्वग्निषुहोमकालातिपत्तौ प्रायश्चित्तोक्तिः।

१५ दुःखेनाश्रु-पाते प्रायश्चित्तिः।

१६ अग्निहोत्रार्थं विधिनानुद्धृते-आहवनीये यद्यस्तमियादर्कस्तदा बहुविद्ब्राह्मणेन तस्यनिधानान्तं कारयेदित्युक्तिः।

१७ पूर्ब्बवत् अनुद्धुतेऽभ्युदितोयद्यर्को बहुविद्ब्राह्मणेन तत्प्रणयनम्।

१८ आज्यस्य हेमर-जताग्रनयनरूपकार्य्यान्तरोक्तिः।

१९ कालात्ययेन प्रायश्चित्त-विशेषोक्तिः।

२० उक्तविषये प्रातःकाले विशेषोक्तिः।

२१ विद्य-माने आहवनीये गार्हपत्यानुगमने इतिकर्त्तव्यताविधानम्।

२२ मथनसमर्यक्षामाभावे भस्मनाऽरणी लेपयित्वा तन्म-न्थनम्।

२३ सन्थनविषये इतिकर्त्तव्यताकलापः।

२४ उक्तमन्थनविषये द्वितीयः कल्पःः।

२५ पुनर्मन्थन-विषये कल्पान्तरम्।

२६ त्रिगुणयुक्तोऽग्निरेवात्र मन्थनवि-षये एका देवता।

२७ अग्निहोत्रार्थं प्रणीते आहवनीयेऽनुगतप्रायश्चित्तत्वेन इष्टिविशेषोक्तिः।

२८ ज्योतिष्मद्गुणकाग्निवरुणयोः प्रकृते देवतात्वोक्तिः।

२९ सर्वेष्वग्नि-ष्वनुगतेषु आदित्येऽस्तमिते उदिते वाऽस्याग्नेः पुनरा-धानरूपप्रायश्चित्तोक्तिः।

३० अरण्योः समारूढेषुअग्निषु अरुण्योर्नाशे अग्न्याधेयस्य पुनराधेयस्य वा कर्त्तव्य-त्वम्।

३० सू॰

३ अ॰

१२ क॰।

१ अतःपरं भाविनीनामिष्टीनाम्आग्नेयत्वोक्तिः।

२ ब्रतातिपाते आग्नेयीष्टिः।

३ कृतेऽग्नि-कर्म्मणिदोषेनेष्टिः किन्तु व्याहृतिहोमः।

४ आगारदाहेक्षामायाग्नये, शावाग्निसंसर्जने च शुचयेऽग्नये, इष्टिः।

५ सर्वेषां द्वयोर्वा अग्न्योः परस्परं संसर्गे विविचयेऽग्नयेउक्तेष्टिः।

६ गार्हपत्याहपनीययोः संसर्गे वीतयेऽग्नये इष्टिः

७ पचनाग्निना संसर्गे संवर्गायाग्नये इष्टिः।

८ वैद्युतेऽग्नौ अप्सुमद्गुणकाय, शत्रूणामन्नभीजने वैश्वानरनाम-कायाग्नये चेष्टिकरणम्।

९ पुरोडाशकपाले नष्टेऽनु-द्वासिते पूर्ब्बोक्तैवेष्टिः।

१० अभ्याश्राविते उक्तायाइष्टेः कर्त्तव्यत्वम्।

११ जीवत्येवाहिताग्नौ मृतशब्दोल्लेखेसुभतयेऽग्नये इष्टिः।

१२ तत्रेष्टौ मरुतोदेवता। [Page0859-a+ 38]

१३ आमावास्याख्ये कर्मण्यारब्धे चन्द्रमसः पुरस्ताद-भ्युंदये जाते मरुद्देवताका उक्तेष्टिः।

१४ प्रायश्चित्त-प्रकरणोक्तानां ब्राह्मणोक्तानाञ्चेष्टीनां वैकल्पिकत्वकथ-नम्।

१५ हविषां स्कन्नानामभिमर्शनम्।

१६ बहि-ष्परिधि स्कन्नया आहुत्या आग्नीध्रकर्त्तृको होमः।

१७ हु-तवते आग्नीध्राय पूर्णपात्रदानम्।

१८ देवताविपर्य्यास-रूपव्युत्क्रमे महाव्याहृतिहोमः प्रायश्चित्तं हिरण्यदानञ्च।

१९ कस्मिंश्चित् कर्मणि यष्टव्यदेवतावाहनमकृत्वा उत्तरकर्म्म-प्रवृत्तौ यदा स्मरणम् भवति तदैवीत्थाय तदावाहनं कर्त्तव्यम्।

२० मनसा वा तदावाहनमित्यन्यमतम्। अस्थानिन्याःदेवताया स्मरणक्रमेण यागः।

२० सू॰

३ अ॰

१३ क॰।

१ अपक्वहविषा होमे कृते चतुःशरावौदनेन चतुर्ब्राह्मण-भोजनरूपा प्रायश्चित्तिः।

२ अदग्धं किञ्चिद्धविरवदानेभ्योन पर्य्याप्तञ्चेत्तदा पूर्ब्बोक्तप्रायश्चित्तम्।

३ हविष्यशेषे दग्धेपुनरावृत्तिः कार्य्या।

४ आवाहनात् प्राक् हविर्दोषेपुनरावृत्तिरेव।

५ गुणभूतानां पुनरावृत्तिकथनम्।

६ स्विष्टकृतः प्राक् प्रधानभूतानां पुनरावृत्तिकथनम्।

७ अवदानदोषे पुनरायतनादवदानोक्तिः।

८ क्षामे शेषे-णेष्ट्वा द्वेष्ट्रे दक्षिणादानं न ऋत्विग्भ्य इत्युक्तिः।

९ सर्वेषु कर्मसुविहितदक्षिणादाने शस्यसम्प्रन्नभूमिदानम्।

१० पुरोडाश-श्रपणादूर्द्ध्वं प्रायश्चित्ताभावः।

११ श्वादिभिरवलीढानांतद्दर्शनादिभिरभिक्षिप्तानाम् अन्यया वाऽशुचिसम्बन्धानांकपालानामभिन्नानाम् अपामभ्यवहरणम्।

१२ कपालेभ्यो-ऽन्येषां मृण्मयानां भिन्नानामभिन्नानाञ्च अपामभ्यवहर-णम्।

१३ स्फुटितोत्पतितपुरोडाशानां निधानाभिमन्त्र-णे।

१४ अग्निहोत्रहोमायाग्निप्रणयनकाले मथ्यमाने-ऽग्नौ न जाते सौतिकमग्निं प्रणीय तत्र होमकरणम्।

१५ अग्न्यादीनुक्त्वा तेषां पूर्वपूर्ब्बालाभे उत्तरोत्तरग्रहणम्।

१६ ब्राह्मणपाण्यादिषु पञ्चषु आहुतिधारणार्था समिद्भ-वति इन्धनार्थाः समिधो न भवन्त्येवेति।

१७ होमानन्तरंमन्थनमपि भवतीत्युक्तिः।

१८ यदि पाणौ जुहुयात् तदावासार्थिनो ब्राह्मणस्य नावरोधः करणीय इत्युक्तिः।

१९ यद्यजकर्णे जुहुयात् तदा छागमांसवर्जनम्।

२० स्तम्बेचेत् दर्भाणामनधिशयनम्।

२१ अप्सु चेत् भोजनीयाभोज-नीयरूपविवेकाभावः।

२२ सांवत्सरिकयावज्जोविकयोर्व्र-तयोर्विवेकोक्तिः।

२३ आहुत्योरन्तराऽग्न्यनुगमने सतिनिहिते हिरण्ये द्वितीयाहुतिहोमः।

३ अ॰

१४ क॰( चतुर्थाध्याये सोमयागेतिकर्त्तव्यताकलापः। [Page0859-b+ 38]

१ आधानामन्तरमारब्धयोर्दर्शपूर्णमासयोरनन्तरम् इष्टि-पशुचातुर्मावैरिष्ट्वा सोमेन यजनम्।

२ एकेषां मतेदर्शपूर्णमासानन्तरम्, अन्येषां मते ताभ्यां पूर्ब्बमपिसोभेन यजनम्।

३ सोमयागकर्तॄणामृत्विजांसंख्यानिरूपणाय प्रतिज्ञा।

४ ते च त्रिपुरुषवन्तश्चत्वारस्तेनतत्र षोडशर्त्विजः।

५ वक्ष्यमाणसूत्रे षोडशर्त्विजांमध्येस्वस्वापेक्षया उत्तरे त्रयः स्वस्वग्णभूता इति चतु-र्ण्णामेव सुख्यत्वमित्युक्तिः।

६ होता मैत्रावरुणोऽ-च्छावाकोग्रावस्तुत् इत्येकोगणः। अध्यर्य्युः प्रतिप्रस्था-ता नेष्टेन्नेता इत्येकोगणः। ब्रह्मा ब्राह्मणाच्छंसीआग्नीध्रः पोता” इत्येको गणः उद्गाता प्रस्तोता प्रतिहर्त्तासुब्रह्मण्य इत्येको गण इत्येवं चतुर्षु ऋत्विग्गणेष्याद्याश्चत्वारोमुख्याः।

७ एतेषामेव ऋत्विजाम् अहीनैकाहैर्याजनंन सदस्यशमितृचमसाध्वर्यूणां कर्तृत्वमिति ज्ञापनम्।

८ -गृहपतिसप्तदशानामुक्तानां षोडशानाम् ऋत्विजां सत्रै-र्यजनम्।

९ ऐष्टिके तन्त्रे सत्रिणां पुरुषाणां समावापा-दिकर्म्मणि यथार्थमूहस्य कर्त्तव्यत्वम्।

१० अन-ग्नीनां दीक्षणात् प्रभृत्येव यथार्थमभिधानमैष्टिके तन्त्रेइत्युक्तिः।

११ याज्यानुवाक्ययोः अग्निर्मुखमित्यूहः।

१२ दण्डप्रदाने ऊहविधानम्।

१३ प्रैषेषु निवित्सुअप्राप्तस्य ऊहस्य विधानम्।

१४ अनैष्टिकत्वात् ऋक्-त्वाच्च घृतयाज्यायामप्राप्तोहविधानम्।

१५ ऋक्त्वाद प्राप्तौकुह्वाञ्चोहविधिः।

१६ अच्छावाकस्य निगदे उपहवे प्रत्युप-हवे चोहः।

१७ आर्षेयप्रवरणे गृहपतिप्रवरणानन्तरम् आ-त्मादीनां मुख्यानां प्रवरणम्।

१८ सर्व्वात्मवर्गादित्वंसूत्रोक्तक्रमश्च।

१९ समानार्षेयाणां समानगोत्राणांतन्त्रता।

२० द्रव्यान्वयानां संस्काराणाम् आवर्त्तनम्।

२१ एकेषां मते अग्निचित्याव{??} क्रतुषु उखासम्भरणीयम्ऐष्टिकं कर्म्म।

२२ ब्रह्मण्वत्क्षत्रवत्क्षत्रभृद्गुणक्वानांत्रयाणामग्नीनां देवतात्वोक्तिः।

२३ इदम्प्रभृतिकर्म्मणाम्उत्तरोत्तरं शनैस्तरां भवितव्यत्वम्।

२३ उक्त{??}रणीयस्य पौर्णमासात् शनैस्तरत्वाक्तिः।

२५ सोमप्रवह-णम्य प्रायणीयातुल्यतोक्तिः।

२६ औपवसथ्येऽग्निप्रणय-नस्य प्रथमाया ऊर्द्ध्वं स्वरेषु नियमाभावः।

२७ वर्मे भध्य-मोत्तमयोर्नियमाभावोक्तिः।

२७ सू॰

४ अ॰

१ क॰। (

१ दीक्षणीयायामिष्टौ विराजौ धाय्ये।

२ दीक्षणी-यायामग्नाविष्णू देवते।

२ साग्निचित्ये त्रीण्यन्यानि{??}।

४ अन्त्ययोरुभयोराग्नावैष्णवादधिकानि ह-[Page0860-a+ 38] वींषि।

५ भुवद्वद्भ्य आदित्येभ्यः भुवनपितेभ्यो वा आदि-त्येभ्यो याज्यानुवाक्ये।

६ इदमादिषु उदयनीयायाःप्राक् मार्जनाभावोक्तिः।

७ इडायां सूक्तवाके चस्थितानामाशिषां स्थाने आगूर्नामकमन्त्रस्य प्रयोगः।

८ इडानिगदकथनम्।

९ सूक्तवाकनिगदोक्तिः।

१० ना-मादेशाभावोक्तिः।

११ सवनीयपश्विडायाः कथनम्।

१२ अग्निप्रणयनोत्तरकालं गार्हपत्याहवनीययोर्मध्येदीक्षितानामासनशयनरूपसञ्चारदेशः।

१३ सत्रिणां दीक्षा-विधानम्।

१४ महाव्रतसहिते सत्रे विशेषोक्तिः

१५ द्वाद-शाहतापश्चितेषु यत्संख्याः सुत्यास्तत्संख्याएवोपसदोदीक्षाश्च भवन्तीति।

१६ विकृत्ये काहानां कर्माचारः।

१७ दीक्षाकालएव विधातव्ये दीक्षोपसत्सहितानामेकाहः-प्रयोगकालविधानम्।

१८ दीक्षाहःसु परिसमाप्तेषु अनन्तरंयदहस्तस्मिन्नहनि सोमक्रयविधानम्।

१८ सू॰

४ अ॰

२ क॰।

१ सोमक्रयदिवसे प्रायणीयेष्टिकरणम्।

२ प्रायणी-येष्टेः शंय्यन्तत्वम्, नोदयनीयान्तत्वमिति।

३ उक्तायाइष्टेरनाज्यभागत्वं नोदयनीयत्वमिति।

४ अहर्गणेषुसोमक्रयस्य सकृदेव कर्त्तव्यत्वम्।

४ सू॰

४ अ॰

३ क॰।

१ सोमक्रयरूपं कर्म।

२ क्रीतं सोमं प्राग्वंशसमीपंनेष्यत्सु अध्वर्य्युषु अनसः पश्चात् त्रिपदमात्रेऽतीतेचक्रवर्त्मनोर्मध्यभागस्य सरलदेशे प्रेषितस्य सतः पार्ष्णी-अचास्नयतः प्रपदेन दक्षिणस्यां दिशि त्रिःपांशूद्वपनम्।

३ अन्तरेणैव वर्त्मनी अनुव्रजतएव उत्तराअनुवचनम्न व्रजनविक्षेपे इत्युक्तिः।

४ अवस्थितस्यानसो दक्षिणपार्श्वेनसोमसमीपं गत्वा तमीक्षमाणस्य तत्रैवावस्थानम्।

५ अवस्थितेऽनसि दक्षिणात् पक्षादभिक्रान्तस्य सोमा-भिमुखं अवस्थानम्। आहवनीयस्याग्रतोनुव्रजनञ्च।

६ सोमेनिहिते तिष्ठतएव परिधानोक्तिः।

७ उपस्पर्शनविष-यस्य विकल्पोक्तिः।

७ सू॰

४ अ॰

४ क॰।

१ इडान्ता आतिथ्या नाम इष्टिः।

२ आतिथ्यैरग्नि-मन्थनरूपाङ्गकथनम्।

३ आतिथ्येष्टौ धाय्याद्वयं,संयाज्यद्वयम्, आर्त्विज्यं करिष्यतां स्वयमभिमर्शनम्।

४ उदकस्पर्शानन्तरं सोमाप्यायनम्।

५ उपसत्सुउदकस्पर्शे उष्णोदकग्रहणम्।

६ आप्यायनमन्त्रः।

७ उदकस्पर्शानन्तरं नमस्काराञ्जलिरूपेण प्राणिनिधानस्यकर्त्तव्यत्वम्।

७ सू॰

४ अ॰

५ क॰।

१ उदकस्पर्शनानाम्{??}प्यायननिह्नवप्रवर्ग्याङ्गत्वोक्तिः।

२ प्रत्यृचमनवानमुक्त्वाप्रणयेन तदवसानम्।

३ पूर्ब्बस्याभिष्टवनस्य एतावत्त्वकथनम्[Page0860-b+ 38]

३ सू॰

४ अ॰

६ क॰।

१ याज्याव्यवधाने सत्यप्येक-मेवाभिष्टवनम्।

२ होत्रादिषु उपविष्टेषु अंध्वर्य्यु-कर्तृकघर्मदुघाह्वानस्य उत्तरारम्भे हेतुत्वोक्तिः।

३ अभिहिङ्कारवर्जम् उत्तराभिष्टवनविधानम्।

४ उत्तर-पटलस्य समष्टिप्रयोजनानि।

५ उत्तमयोः प्रवर्ग्ययोःस्वरूपकथनम्।

५ सू॰

४ अ॰

७ क॰।

१ प्रव-र्ग्योपसदोः सम्बन्धाय प्रवर्ग्यार्थं प्रपन्नस्य उपसत्करणविधानम्।

२ उपसदि पित्र्याया जपलोपः।

३ पित्र्ययैवप्रवेशोपेवशनयोर्व्याख्यानम्।

४ पित्र्याया उपवेशनाति-देशात् दक्षिणोपर्युपस्थताविधानम्।

५ उपसद्यायमीढुषेइत्याद्याः तिस्रः सामिधेन्यः।

६ तासामुत्तमेन प्रणवेनाग्निंसोमं विष्णुमावाह्योपवेशनम्।

७ एकेषां मते देवतानाम्नावाहनम् अनावाहनेऽपि उक्ता एव देवताः इत्युक्तिः।

८ स्विष्टकृदादिप्रयाजाज्यभागलोपकथनम्।

९ आप्या-यननिह्नवयोर्नित्यत्वकथनम्।

१० अपराह्णेऽपि कर्त्तव्याया-मुपसदि विशेषादिकथनम्।

११ तत्र पूर्व्वापराह्णिककर्म्माणि।

१२ पौर्व्वाह्णिकीनामुपसदां सुपूर्व्वाह्णे, आपराह्णिकीनाञ्चस्वपराह्णे कार्य्यतोक्तिः।

१३ पूर्व्वाह्णिक्यापराह्णिक्या-वुपसदौ एकीकृत्य एकोपसद्व्यवहारः, तादृश्या उपसदश्चत्रिष्वहःसु कर्त्तव्यत्वम्।

१४ षट्सु वेति व्यवस्थाविकल्पः।

१५ अहीनादीनाम् अध्वर्य्युप्रत्ययादुपसन्निश्चयः।

१६ एकेषाशाखिनां ज्योतिष्टोमस्य प्रथमप्रयोगे धर्म्मेच्छाभावोक्तिः।

१७ औपवसथ्येऽहनि वर्त्तमानयोरुपसदोः पूर्वाहणएवकर्त्तव्यत्वम्।

१८ होता दीक्षितश्चेत् तदा औपवसथ्येऽ-हनि प्रथमोपसदि समाप्तायां प्रेषितः पुरीष्यचित्यर्थम-नुवचनम्।

१९ होतरि अदीक्षिते यजमानस्यानुवचनम्।

२० पश्चात् पदमात्रे स्थित्वाऽभिहिङ्कृत्य पुरीष्यासोऽग्नयःइति सप्रणवाया ऋचस्त्रिरनुवचनम्।

२१ सुमन्द्रेणैवा-नुवचनं नोपांश्विति।

२२ व्रजत्सु अध्वर्य्युषु अनुब्रुव-तोऽनुव्रजनम्।

२३ तिष्टत्सु अध्वर्य्युषु अनुवचनारम्भ-स्थाने स्थित्वा भूर्भुवः स्वरिति वाचं विसृज्य प्रणयतेतिसम्प्रैषानुवचनम्।

२४ होता दीक्षितश्चेत् प्रस्तोतृकर्तृसञ्चितस्य अग्नेः अनुगीतस्याशंसनरूपसंस्कृतिः।

२५ त्रिर्म्मध्यमया वाचा पूर्वोक्तमग्न्यनुशंसनम्।

२६ अग्नि-पुच्छस्य पश्चात् वैश्वानरीययजनम्॥ साग्निचित्येषु क्रतुषुपुरीष्यचितिः, अनुशंसनं, वैश्वानरीयमित्येतत् त्रयं भव-तीत्युक्तिः।

२८ ब्रह्मणो नियमभेदः।

२९ उक्तस्याग्नि-प्रणयनस्य कर्त्तव्यत्वम्।

३० दीक्षितश्चेद्ब्रह्मा तदा तस्य[Page0861-a+ 38] वसोर्धाराहोमकाले तत्प्रतिगमनविधानम्

३० सू॰

४ अ॰

८ क॰।

१ हविर्धानयोः शकटयोः अध्वर्य्युकर्तृकं प्रवर्त्तनम्।

२ उक्तप्रर्वत्तने सोमप्रवहणेन कार्य्यतोक्तिः।

३ पूर्व्वो-क्तानुवचने विशेषकथनम्।

४ रराट्यामबद्धायाम् अधिद्वयोरि-त्यस्या ऋच अर्द्धर्चेऽवसानम्।

५ बद्धां रराटीमीक्षमाणस्यऋग्विशेषानुवचनम्।

६ उपनिहतयोर्मेथ्योः ऋग्विशेषेणपरिधानम्

६ सू॰

४ अ॰

९ क॰।

१ प्रेषितानुवचने इतिकर्त्त-र्व्यताकलापः।

२ अनुव्रजत उत्तरानुवचनम्।

३ ऋग्विशेषसमाप्तौ प्रणवेनोपरमः।

४ आग्निध्रोयम-भिव्रजत्सु अध्वर्य्युषु उत्तरेण तमतिब्रज्य ऋग्विशेषस्यानुवचनम् ऋग्विशेषस्य चार्द्धचे आरामः।

५ प्रपद्यमानस्यसोमस्याऽनुप्रपदनप्रकारः।

६ शालासुखे भतोपवेशन-प्रकारः।

७ व्रह्मकर्तृकस्य सोमप्रणयनस्य पाक्षिकत्वकथनम्।

८ सोममप्रणयतो ब्रह्मणः कर्त्तव्यभेदः।

९ आहव-नीयस्य दक्षिणतः व्रह्मोपवेशने नियमः।

१० अग्नि-चित्यासहितायां सोमयागक्रियायाम् अग्निपुच्छस्यदक्षिणत उपवेशनम्।

११ अग्निषोमीये प्रशौ उक्तब्रह्मासनातिदेशः।

११ सौत्ये चाहनि वपाहोमचर्य्यन्तमाह-वनीयस्य दक्षिणत आसनम्।

१३ गृहपतये सोमं प्रक्ष्ययहविर्धाने चाग्रेण यदि गतः स्यात्तदा प्रपद्य-माने सोमे आसादनार्थं पुनः प्रत्येयादित्युक्तिः।

१३ सू॰

४ अ॰

१० क॰।

१ अग्निषोमीयेण पशुना चरणम।

२ प्रणयनपर्य्यन्तमुत्तरवेदिसमीपे आदण्डप्रदानञ्च कार्य्य-भेदाः।

३ होतुः स्वस्य धिष्ण्यस्य पश्चादुपवेशने कार्य्यभेदः।

४ मैत्रावरुणस्य स्वधिष्ण्यस्य पश्चादवस्थानम्।

५ देव-सूनां हवींषीति संज्ञाकथनम् तत्र सर्व्वासामष्टानां देव-नानां सगुणत्वम्, रुद्रस्य गुणविकल्पश्च।

६ उक्तदेवतानांयाज्यानुवाक्याकथनम्।

६ सू॰

४ अ॰

११ क॰।

१ सर्व्व-पृष्ठानीतिवक्ष्यमाणानां हविषां संज्ञा, तासाञ्चान्वायात्यत्वतद्देवतोपदेशस्य ध्यानार्थत्वं तासामष्टौ संङ्ख्याः तत्रादितःषण्णामेकैकस्याश्चत्वारश्चत्वारो गुणशब्दाः ततोविष्णुपत्नीअदितिरित्येका, ततश्चानुमतिरिति द्वे। उक्तानामष्टानांदेवतानां याज्यानुवाक्याकथनम्,। वैश्वानरीयस्य नव-मत्वं, कायस्य दशमत्वञ्च।

३ औपयाजैरङ्गारैर्व्यवायपरि-हारे यत्नस्य कार्य्यता।

४ आग्नीध्रस्थोत्तरेण होतुर्नयनंदक्षिणे होत्रीये निधानम्।

५ शामित्रोदाहरणे दक्षिणेनमैत्रावरुणं, होत्रीय एव निधानम्।

६ उपोत्याननिष्क्रमणेकृत्वा वेदग्रहणम्।

७ हृदयशूलोद्वासनप्रकारः। [Page0861-b+ 38]

८ वसतीवरीणां परिहारे क्रियमाणे दीक्षितानामन्तर्भावःअदीक्षितानां बहिर्भावश्च।

४ अ॰

१२ क॰।

१ यस्यांरात्रौ पशोः समाप्तिस्तस्यान्तुर्य्यभागे पक्षिप्रवादनात्प्राक् प्रातरनुवाकायामन्त्रितस्य विधिपूर्व्वकः आहुति-होमः।

२ उक्तविषये द्वितीयाहुतिहोमः।

३ ब्रह्म-णश्च होतुश्चायं विधिः समान इति।

४ हविर्धानेप्राप्य रराट्यभिमर्शनम्।

५ दक्षिणेन पाणिना पर्य्यायेणरराट्यभिमर्शनम्।

६ मन्द्रस्वरेण प्रातरनुवाकानुवच-नम्।

७ प्रातरनुवाकार्थमाम्नानविशेषः।

८ अग्नि-देवताकक्रतुः

४ अ॰

१३ क॰।

१ औषस्यक्रतुः॥

२ तत्रेति-कर्त्तव्यताकलापः

४ अ॰

१४ क॰।

१ आश्विनः क्रतुः।

२ तत्रप्रातरनुवाकः।

३ पूर्व्वोक्तादन्यः प्रातरनुवाकः।

४ अन्यै-श्छन्दोभिराग्नेयस्य गायत्रस्य च्छन्दसोनात्यावपनम्।

५ राजन्यस्य न त्रैष्टुभ, वैश्यस्य न जागतमिति।

६ अध्यासवत् एकपदद्विपदाना संहितानामन्ते प्रणवक-रणम्।

७ माङ्गलादीनां यथाक्रमं वक्तव्यता।

८ प्रेष्यतःस्वर्गकामस्य माङ्गलकथनम्।

९ तमसोपघातपर्य्यन्तंइडेद्यावीयसूक्तावर्त्तनम्।

१० त्रमसोपघातकाले ईडेद्या-वीयस्य{??}मयर्चा प्रतिप्रियतममिति सूक्तस्योपसन्तननम्।

११ उत्सर्पणस्वरूपकथनम्।

११ सू॰

४ अ॰

१५ क॰। (

५ अध्याये।

१ परिधानोत्तरानुवचनप्रकारः।

२ तत्रनिगदादि।

३ अपोनप्तीयाणां प्रयोगमन्त्रौ।

४ प्रातःसवनस्य मन्द्रस्वरेण प्रयोगः।

५ अध्यर्द्धकारस्या-नुच्छासेन वचनम्।

६ वृष्टिकामस्य सामधेनीवत् प्रकृत्या-वचनम्।

७ प्रकृतिभावे यथर्चमर्द्धर्चे लिङ्गाकाङ्क्षा।

८ दशमीग्रहणे ब्रह्मणानुवादः।

९ एकधनासु अप्सु आव-र्त्तनीयर्चकथनम्।

१० दृष्टिपथमागतासु तासु जप्यमन्त्रः।

११ समीपागतासु तासु जप्यमन्त्रः।

१२ वसतीयरीषु समा-यातासु ब्राह्मणोक्तकार्य्यचरणम्।

१० तीर्थदेशे होतृचमसे अ-पां पूर्य्य माणे आपोनदेवीः इति मन्त्रं समाप्य प्रणवेनोषरमः।

१४ निगदकथनेन निष्क्रमणविधिः।

१५ आसामेकधना-नामागच्छन्वीनां सुखतो गत्वा ता! अपरेणातीत्य उत्तरतःस्थितिविधिः।

१६ तास्वदूरेणातीतास्वन्वावर्त्तनम्।

१७ अन्वावृत्य मन्त्रक्रमेण व्रजनम् ऋगवानपक्षे प्रणवेनस-न्तानक्रिया।

१८ तिसृणाम् उत्तमयानुप्रपदनम्।

१९ तृणानि-रसनेन होमाभिमुखे उपवेशनप्रकारः।

१९ सू॰

५ अ॰

१ क॰।

१ उपांशुनामग्रहे हूयमाने तदभिमुखीभूय प्राण-वायोर्नासिकाद्वारेण बहिष्करणम्।

२ वहिःस्थस्य बायो-[Page0862-a+ 38] र्नासिकया देहे प्रवेशनप्रकारमन्त्रौ।

३ उपांशुग्रहार्थसो-मसवनसाधनपाषाणं व्यानाय त्वेत्यभिमृश्य वाग्विसर्गः।

४ मैत्रावरुणब्रह्मणोः कार्य्यभेदः।

५ ताभ्यामितरेषांदीक्षितानां कार्य्यभेदः।

६ विप्रुड्ढोमौ कृत्वा अध्वर्य्यु-मुखा अन्योन्यं स्पृशन्त आतीर्थदेशात् सर्पन्तीत्युक्तिः।

७ बहिष्पवमानस्तुत्यर्थमुद्गातारमभिमूखीकृत्य ऋत्विजा-मुपवेशनम्।

८ तत्रैवासोनेन होत्रा तेषामुपविष्टानामनुमन्त्रणेमन्त्रः।

९ होतुर्दीक्षितत्वेऽनुमन्त्र याजमानार्थं ग-मनम्।

१० दीक्षितस्य होतुरुत्तरसवनयोः सर्पणमपि।

११ ब्रह्ममैत्रावरुणयोर्विधानभेदः।

१२ प्रातःसवने ब्रह्मणःकार्य्यभेदः।

१३ तस्यैव द्वितीयतृतीयसबनयोः कार्य्यभेदः।

१४ मन्त्रभेदं जत्वा मैत्रावरुणं प्रति स्तुध्वमित्युच्चैस्तेननियोजनम्।

१४ सू॰

५ अ॰

२ क॰।

१ सवनीयेनपशुना चरणम्।

२ शाखान्तरे या देवता पाशोरुक्तातद्दैवतः पशुः कार्य्यः।

३ ।

४ क्रतुभेदे देवताभेदः।

५ अग्नीषोमीयपशुधर्म्मविशेषातिदेशः।

६ परिव्ययणप्र-कारः।

७ ऐष्टिकेषु निगमेषु आवाहनप्रकारः।

८ हा-रियोजने विशेषः।

९ विषयभेदे प्रावित्रादिनिषेधः।

१० अनिर्दिष्टदेवताकसोमानां देवताः सवनदेवता एवेतितासामावाहनम्।

११ सूक्तवाकेऽपि तासामनुवर्त्त नम्।

१२ अच्छावाकं{??}नाऽन्येषां वषट्कर्त्तॄणाम् प्रवृताहुतिहोमः।

१३ चात्वालमार्ज्जनप्रभृति पाशुक कर्म्मकृत्वा सौ-{??}ककर्म्मकरणम् आदित्याद्युपस्थानञ्च।

१४ आदित्या-द्युपस्थानप्रकारः।

१५ निर्म्मन्थदेशे यूपादिभिः सह आदि-{??}करास्तावानां सव्यावृतामुपस्यानम् (आस्तावोबहिष्पवमान-स्तुतिदेशः)।

१७ आग्नीध्राच्छावाकवदनस्थानदक्षिणमार्जा-लीयग्रहचमससादनदेशरूपखराणां दक्षिणावृतामुक्तप्रकारेणउपस्थानम्।

१८ आग्नीध्रमुत्तरेण परिव्रज्य सदोद्वारं प्राप्यसदोऽभिमर्शनमन्त्रः

१९ द्वारिभवे स्थूणे अभिमृश्य शाला-मुखोयादीनामुपस्थानम्।

२० उपस्थितानुपस्थितयोर्दर्शन-पूर्ब्बकं सर्व्वतोदृष्ट्या सदसः पूर्व्वद्वारस्थेनोपस्थानं कार्य्य-म्।

२१ उरुन्न इत्यृचं सह जपन्तः होता मैत्रावरुणःब्राह्मणाच्छंसी पोता नेष्टेत्येते पञ्च पूर्ब्बद्वारेण सदःप्रविश्यो-पतिष्ठेरन्नित्युक्तिः।

२२ तेषामुक्तक्रमेण सदः प्रवेशः, व्युत्-क्रमेण उपवेशनं ततो मन्त्रविशेषजपः।

२३ प्रसर्पकाणामृत्विजामुपस्थानादिजपान्तधर्म्मस्य ब्रह्मण्यतिदेशः।

२४ स्वस्वभक्ष्यचमससमीपे तेषामुपवेशनम्।

२५ उक्त-[Page0862-b+ 38] रूपेणाग्नीध्रस्य सुप्रकाशम् आग्नीध्रीयस्थानप्रवेशः।

२६ प्रसर्पिणांतेषां दक्षिणादय उदक् संस्थानानीत्युक्ति।

२७ आद्ययोर्होतृमैत्रावरुणयोर्वैपरीत्यं ततश्च मैत्रावरुण-दक्षिणतः स्रस्थानतश्चोत्तरतोहोतुः स्थानम्।

२८ तेषां यथा-स्थान मुपविष्टानां स्वस्वस्थानस्योत्तरदेशस्य विसंस्थितसंचार-संज्ञा।

२९ अनुक्तस्थानानामृत्यिजां दक्षिणधिष्ण्यमुत्तरेणविसंस्थितसञ्चारैत्युक्तिः।

२९ सू॰

५ अ॰

३ क॰।

१ प्रतिसवनमिन्द्रदैवतैः पुरोडाशैश्चरणम्।

२ प्रातःसवनेधानावन्त करस्भिणमित्यनुवाक्या।

३ माध्यन्दिनतृतीयसवनयोः प्रैषभेदः।

४ आदेशपदमुद्धृत्य तेनैव पदेन यागः।

५ यत्र क्वचित् कर्म्मणि प्रैषेण यागे कर्त्तव्ये यज योऽस्तुइत्युद्धृत्य तयोः स्थाने आगूर्वषट्कारौ कृत्वा यागैत्युक्तिः।

६ अनुसवनमनुवाक्याभेदः।

७ अनुवाक्यास्थपुरोडाशस्यबहुवचनान्ततोक्तिः।

८ ऋग्भेदे ऊहनिषेधः।

८ सू॰

५ अ॰

४ क॰।

१ द्विदैवत्ययाज्याप्रैषानुवाक्याभिश्चरणम्।

२ द्विदैवत्ययोरनुकाक्ययोरुक्तिः, तेअप्यपृथक्सप्रणवे प्रयोज्येते च सहानवानम्।

३ प्रैषाणामनवाननिर्ण्णयः।

४ ऋग्-भेदे द्वे याज्ये ते च सहानवानम् एकागुरे पृथक् वषट्कारे च वक्तव्ये इत्युक्तिः।

५ प्रातःसवने इदमादि अनवानंयाज्यानुवाक्ययोरिति निर्ण्णयः।

६ प्रैषौ याज्यानुवाक्ये चउत्तरयोर्ग्रहयोरनवानं भवतीत्युक्तिः।

७ सोमग्रहण-पात्रमहुत्वा अघ्वर्युणा तद्ग्राह्यम्।

८ तत्र च मन्त्रः।

९ तद्गृहीत्वा दक्षिणोरुच्छ्वादनेन तत्र स्थापयित्वा आकाश-वतीभिरङ्कुलीभिरपिधानम्।

१० एवमुत्तरपात्रयोर्ग्रहणा-सादनपिधानानि।

११ प्रतिग्रहभक्षणकाले सव्येन पिधा-नम्।

१२ मैत्रावरुणस्यासादने विशेषः।

१३ अनुवचन-याज्यासंप्रैषाः नित्यमध्वर्युणा कार्य्याः।

१४ अनु-सवनं चमसेषून्नीयमानेभ्यः सोमेभ्य एकैकसूक्तजपः।

१५ अनुसवनं प्रेषितस्य होतुःस्वाभिः प्रस्थितयाज्याभि-र्यजनम्।

१६ प्रशास्त्रादीनां नामादेशं प्रेषिताना-मेव यजनम्।

१७ प्रशास्त्रादिग्राह्यकथनम्।

१८ प्रा-तःसवनीयप्रस्थितयाज्योक्तिः।

१९ तृतीयसवनीयानु-वषट्कारः।

२० मारुत्वतीये हारियोजने प्रस्थितया-ज्यादिभेदः आश्विने याज्याशून्यत्वञ्च।

२१ यज्ञ-गाथा।

२२ प्रतिवषट्कारं भक्षणम्।

२३ तूष्णीमेवो-त्तरभक्षणम्।

२४ अध्वर्योराहवनीयदेशात् सदसो-गतिः।

२५ अगच्छन्तमध्वर्य्युं प्रति अयभिग्नीदिति होतुःप्रश्नः।

२६ पृष्टस्य तस्य होतारं प्रति अयाडित्युत्तरोक्तिः। [Page0863-a+ 38]

२७ ततो होतृजप्यमन्त्रः।

२७ सू॰

५ अ॰

५ क॰।

१ इतरपात्रद्वयं सव्येनापिधाय ऐन्द्रावायव पात्रं दक्षिणह-स्तेनोत्तरभागे गृहीत्वा अध्वर्युणापि तस्य ग्रहणाय एषवसुरिति मन्त्रेण होत्रा प्रणयनम्।

२ नासिकाभ्यामव-घ्राय होत्रा सोमस्य भक्षणे मन्त्रः।

३ होत्रा भक्षितमध्व-र्युणा च प्रतिभक्षितं होतृचमसे किञ्चिदवनीय अनाचम्यैवोपह्वानाटि क्रत्वा पुनः सह भुक्त्वा शेषं होतृचमसे आ-नीय तत्पात्रोत्सर्गः।

४ उत्तरग्रहपात्रे उक्तधर्म्मा-तिदेशः।

५ उत्तरग्रहपात्रयोर्न पुनर्भक्षणम्।

६ द्विदै-वत्यानां मध्ये कस्यचित् ग्रहस्य होतृचमसे अनवनीतस्यनोद्सर्गः।

७ होत्रा मैत्रावरुणस्य ग्रहपात्रस्याध्वर्यवेपूर्व्ववत् प्रणयनम्।

८ तस्य दक्षसव्याभ्यां नेत्राभ्यांक्रमेणेक्षणम्।

९ मैत्रावरुणस्योत्सर्गान्तं कर्म्म कृत्वादक्षहस्तेनाश्विनमपिधाय सव्येन होतृचमसादाने-मन्त्रोक्तिः।

१० सव्यस्यारत्निना सव्योरुवसनमाच्छाद्यतत्र निधायावृताङ्गुलीभिरपिधानम्।

११ होतृचमसंसव्येनापिधाय दक्षिणेनाश्विनं गृहीत्वा पूर्व्ववत् प्रणाम-नम्।

१२ आश्विनमुतसृज्य दक्षहस्तेन होतृचमसंनिधाय जलं स्पृष्ट्वा इडोपह्वानम्।

१३ इडोपह्वान-काले चमसिनः स्वस्वचमसस्येडासमीपे उद्यमनम्।

१४ अवान्तरेडां प्राश्याचम्य होतृचमसभक्षणम्।

१५ दीक्षितस्य होतुः दीक्षिता उपह्वयध्वमित्युक्त्वा चमस-भक्षणम्।

१६ यजमाना उपह्वयध्वमित्युक्त्वा वा होतुश्चमसभक्षणम्।

१७ मुख्यान् प्रति पृथक् तत्तन्नासोत्कीर्त्तनेन इत-रानमुख्यान् प्रति होत्रका उपह्वयध्वमिति कीर्त्तनेन चचमसभक्षणम्।

१८ उक्तरूपेण दीक्षितादीक्षितानां मैत्रा-वरुणादीनां स्वस्वचमसभक्षणम्। अदीक्षितानां समानभक्षं प्रति पूर्व्ववत् उपह्वानं कृत्वा चमसभक्षणमिति भेदः

२० अचमसानां मुख्यचमसाद्भक्षणम्।

२१ द्रोणकलशा-दुद्धृत्याचमसानां सोमभक्षणम्।

२२ सर्व्वत्र सोमभक्षणेवाग्देवीत्यादिमन्त्रजपः।

२३ होतुर्वषट्कर्त्तृत्वात् प्रथम-भक्षणं पश्चादुद्गात्रादीनां भक्षणमिति गौतममतम्।

२४ तौल्वलिमते इतरेषामभक्षणम्।

२५ गाणगारिमतेसर्वेषां भक्षणम्।

२६ सोमभक्षोत्तरं मुखहृदयस्पर्शे मन्त्रः

२७ प्रथमद्वियीययोः सवनयोराद्यानां द्वितीयानाञ्च चम-सानां जलेनाभिमर्शने मन्त्रद्वयम्।

२८ तृतीयसवने आद्या-नामे व तथाभिमर्शनम्।

२९ ऊर्द्ध्वपात्राणि विना सर्व-पात्राणां मुखहृदयाभिमर्शनम्।

३० इत्थमाप्यायनेन[Page0863-b+ 38] भादितानां चमसानां नाराशंससंज्ञा

३० सू॰

५ अ॰

६ क॰।

१ अस्मिन्काले अच्छावाचस्याग्नीध्रस्योत्तरं सदोगत्वास्वस्थाने उपवेशनम्।

२ अध्वर्य्युणा दत्तं पुरोडाशखण्ड-मिडामिवोद्यम्य प्रेषितस्याच्छावाकस्य जप्यं नृचम्।

३ यजमानेत्यादिना अन्त्येन प्रणवेनोपसन्तननरूपनिगदः।

४ उक्तनिगदसमाप्तौ अध्वर्युणा होतुरुपहवाकाङ्क्षा।

५ उप-ह्वाने प्रकारः।

६ उन्नीयमानाय प्रत्यस्मा इति सूक्तस्या-च्छाबाकेनानुवचनपूर्ब्बकंयजनम्।

७ पुरोडाशखण्डं नि-धाय जलं स्पृष्ट्वा चमसभक्षणम्।

८ अस्पृष्टोदकानां सोमे-लेतरहविषां स्पर्शनिषेधः।

९ पुरोडाशखण्डप्राशनप्र-कारः।

१० यदाच्छावाक उपविष्टस्तदा ब्रह्मा तीर्थेन निष्क्रम्यबहिर्वेद्यामाग्नीध्रीयं प्राप्नोति अच्छावाकश्च दृगलरूपं पुरो-डाशखण्डं प्राश्य तीर्थेन निष्क्रम्याचम्य तं देशं प्राप्नु-यात् इतरे होत्रादयोऽप्यनुपविष्टएवाच्छावाके तं देशंप्राप्नुयुरित्युक्तिः।

११ अस्मिन् काले क्षुन्निवृत्त्यर्थभन्यदपिप्राश्य प्रतिसृप्य उत्तरकण्डिकीक्तं कर्म्म कार्य्यम्

११ सू॰

५ अ॰

७ क॰।

१ सर्व्वेषु प्रतिसृप्तेषु ऋतुयाजै-श्चरणम्।

२ तत्र प्रैषाः।

३ प्रैषसमाम्बाये पञ्चमसूक्तस्यॠतुयाजानां प्रैषत्वम्।

४ स्वस्वप्रैषेण प्रेषि तस्य यजनम्।

५ अध्वर्य्युगृहपतिभ्यां प्रेषितस्य होतुर्यजनम्।

६ पार्ष्णिके षष्ठेऽहनि अध्वर्य्युगृहपतिभ्यां स्वयंयजनम्।

७ तयोर्यजनप्रकारः।

८ वषट्कर्तॄणामानान्तर्य्येण ऋतु-पात्रभक्षणम्।

९ तत्र अध्वर्य्योः पृथक्भक्षणम्।

१० तत्रैवकाले प्रतिभक्षकस्योपहानम्

५ अ॰

८ क॰।

१ ऋतु-पात्रभक्षोत्तरमध्वर्योः कार्य्यप्रकारः।

२ प्रातःसवने शस्त्रा-दिषु पूर्वोक्तप्रकारातिदेशः, पर्य्यायप्रभृतीनां सर्व्वत्रान्तःश-स्त्रत्वम्।

३ उक्तेनोपाह्वानेनोत्तरयोरुपसन्तननम्।

४ ओथामोदैवेत्यस्य प्रतिगरसंज्ञा सच शस्त्रस्वरतुल्यस्वरःइत्युक्तिः।

५ आहावे शोंसामोदैवेत्यादेः प्रतिगरसंज्ञा

६ प्रणवे प्लुतादि अवसाने अप्लुतादिरिति परिभाषितम्।

७ आहावोत्तरे प्रणवे प्रणवत्वं न प्लुतादित्वम्।

८ अव-साने प्रणवस्य प्रतिगरमंज्ञा।

९ प्राणवान्तस्य उक्तविषयद्वयविकल्पः।

१० अन्तःशस्यप्रणवावसानो प्रतिगरसंज्ञा शस्त्रान्तेतु प्रणवत्वं न प्लुतादित्वम्

११ त्रिपदषट्पदादौशंसनावसानविशेषः।

१२ निविदो यथापठितमवसानंकर्त्तव्यं तत्रैकश्रुत्यञ्च।

१३ निविदां आह्वानाभावः।

१४ तस्या उपसन्तननाभावश्च। निविदामुत्तमेनपदेनाज्यसूक्तस्योपसन्तननम्।{??}क्तप्रकारेण सर्व्वा[Page0864-a+ 38] निविदः शंस्तव्या इत्युक्तिः।

१७ पदसमाम्नायानामपिनिविदां तुल्यशस्तव्यत्वम्।

१८ अस्या निविदोऽन्यासु नि-वित्सु पदसमाम्नायेषु च उपसन्तननम्।

१९ अन्यासुनिवित्सु आह्वानञ्च भवतीत्युक्तिः।

२० यत्र द्वे सूक्तेत्रीणि वा आज्यकार्य्ये विहितानि तत्राद्यस्यैवाद्ययाःत्रिःशंसनं नोत्तरस्येति नियमनम् अर्द्धर्चशोविगृह्य च तथा-त्वम्।

२१ विग्रहे प्राणसन्तानस्य कार्य्यता।

२२ प्रति-पदामाद्याया ऋचः पूर्वोक्तप्रकारेण गन्तव्यता। ऋगा-वानस्य तथात्वञ्च।

२३ ब्राह्मणविहितस्य आनुपूर्व्येवि-कल्पः।

२४ याज्यान्तानां शस्त्रत्वमुत्तमाया आह्वानपूर्ब्बकप-रिधानीयत्वञ्च।

२५ सर्व्वासु शस्त्रपरिधानीयासु उक्तधर्म्मा-तिदेशः।

२६ उक्थं वाचीत्यादि शस्त्वा जपः तत्र याज्या,उक्थपात्रस्याग्रे भक्षणञ्च

२७ सर्व्वशस्त्रयाज्यान्तेषु चम-सिनश्चमसभक्षणम्।

२८ आदित्यसावित्रग्रहयोर्वषट्कर्त्तु-र्भक्षणाभावः।

५ अ॰

९ क॰।

१ शस्त्रात् परं स्त्रोत्रं भवती-त्युक्तिः।

२ एषेति प्रोक्ते प्रस्तोत्रा उद्गातुर्हिङ्कार काले प्रातःसवने शस्त्रायाह्वयीरन् इत्युक्तिः।

३ उत्तरयोः सवनयोःप्रतिहारकाले तथाह्वानम्।

४ वायुरग्रेगा यज्ञ-प्रीरित्यादीनां सप्तानामृचां पुरोरुक्संज्ञा तस्यास्तस्या-उपरिष्टात् तृच तृच तत्र शंसेदित्युक्तिः। वायवायाहिदर्शतेति सप्तानां तृचसंज्ञा

६ शस्त्रस्य प्रौगसंज्ञा। तत्र द्वितीयायास्त्रिःपाठ्यत्वम्।

७ पुरोरुक्संज्ञकानांसप्तानमृचां मध्ये विश्वान् देवानित्येतस्या षष्ठ्याः अर्द्धर्चेअर्द्धर्चे त्रिरवसानेनाह्वानम्।

८ पुरोरुचा उत्तमया नशंसेत् तस्या अंशसने ऽपि तृचे आह्वानं क्तर्त्तव्यम्।

९ प्रौगस्य भाधुच्छन्दआर्षत्वम्।

१० उक्थं वाचि श्लोकाय-त्वेति शस्त्वा जपः। तत्र विश्वेभिः सोम्यं मध्वितियाज्या। पशस्तां ब्राह्मणाच्छंसी अच्छावाक इत्येते त्रयःशस्त्रिणोहोत्राकाश्च इत्युक्तिः।

११ उक्तानां त्रयाणां प्रातःसवने चतुराहवानि शस्त्राणि। तृतीयसवने पर्य्यायेषुअतिरिक्तेषु भवन्तीत्युक्तिः।

१२ माध्यन्दिने पञ्चाहावानि।

१३ स्तोत्रियानुरूपेभ्यः प्रतिपदनुचरेभ्यः प्रगाथेभ्यःधाय्या-भ्यश्च पृथगाह्वानं कार्य्यम्।

१४ होतुरप्येतानि उपहावस्यनिमित्तानि।

१५ तेभ्योऽन्यदप्यनन्तरम्। होत्राकर्त्तव्यम्।

१५ आदौ निविद्धानीयानां सूक्तानामनेकञ्चेत्प्रथमेष्वाहावः।

१७ आपोहि ष्ठा इत्यादि तृचे आहावःकार्य्यः।

१८ तेषां शस्त्रादिषु ये तृचास्ते स्तोत्रियानुरूपास्तेषु आहावः कार्य्यः।

१९ माध्यन्दिने तेषामेव[Page0864-b+ 38] शस्त्रेषु तृतीया आदेशास्ते प्रगाथाः ज्ञेयाः।

२० प्रगाथइत्युक्ते स्तोत्रियोभवति नान्यथेत्युक्तिः।

२१ याज्या-न्तानि शस्त्राणि। उक्थं वाचीत्यादि शस्त्वा प्रातः सवनेजपः।

२३ षोडशिन ऊर्द्ध्वं यानि शस्त्राणि तेष्वपिअयमेब शस्त्वा जपः कार्य्यः।

२४ सषोडशिनि उक्थेउक्थ वाचीत्यादे र्माध्यन्दिने विशेषः।

२५ अनन्तरस्यपूर्ब्बेण तुल्यविधत्वोक्तिः।

२६ छन्द्रःप्रमाणलिङ्गदैवतैःस्तोत्रियाणां तुल्यता।

२९ आर्षेणापि तुल्यतेत्येके-आहुः।

२८ आनोमित्रावरुण इत्यादयोयाज्याभेदाः तासांमध्ये कासाञ्चित् स्तोत्रीयानुरूपत्वम्। तासां मध्ये यासु-कासुचिद्यदि छन्दोगाः स्तुवीरन् तदा तिसृभिरेव स्तोस्त्रि-यां कृत्वा शिष्टाभिरनुरूपः कर्त्तव्य इत्युक्तिः

५ अ॰

१० क॰।

१ ,

२ ,

३ ,

४ ,

५ अतिरात्रषोडशिनि होत्रादीनां निष्क्रमण-प्रवेशादिप्रकारः।

६ यजमानस्य पूर्व्वद्वारेण प्रतिसर्पणम्

५ अ॰

११ क॰।

१ उक्तकाले ग्रावस्तुतः प्रपदनम्।

२ तस्य उप-सर्पणमपि तदैव।

३ तस्य हविर्द्धानशकटस्य उत्तरशिरोरूपा-क्षशिरोदेशे तृणनिरसनं कृत्वा सोमाभिमुखं स्थितिः।

४ तत्रोपवेशने मन्त्राभावः।

५ उपविष्टस्य यो अद्य सौम्येतिमन्त्रजपः।

६ अध्वर्य्युणा तस्मै उष्णीषदानम्।

७ तस्या-ञ्जलिना ग्रहणेन तेन संमुखे शिरसोवेष्टनोत्तरं सोमाभिषवावग्रावाभिष्टवनम्।

८ इदमादि मध्यमसवनं तत्र मध्यमस्वरेणप्रयोगश्च।

९ अर्वुदनामधेयसूक्तोक्तिः।

१० तस्य प्रा-गुत्तमायाः आ व ऋञ्जसे इति सूक्तपाठः।

११ उक्तसूक्तयोरुपरिष्टात् शिष्टयाऽर्वुदस्योत्तमया परिधाय वेद्यंयजमानस्योष्णीषं तस्मै देयम्।

१२ अन्त्येषु दिनेषु आदायपुनर्यजमानाय दानम्।

१३ अन्यदिनेषु येन तद्दत्तं तस्मैएव तद्दानम्।

१४ गाणगारिमते अपराभिरूपकरणम्।

१५ आप्यायस्व समेतु ते इत्यादयः द्वादश ऋचस्ताश्च चत्वारस्तृचा भवन्ति अर्वुदस्य चतुर्थी उद्धर्त्तव्या तत्र उत्तमा परि-धानीया शिष्टा द्वादश ता अपि चत्वारस्तृचा एताःपावमान्यः।

१६ ,

१७ ,

१८ ,

१९ , एषां चतुर्ण्णां तृचानांक्रमेण कर्म्मभेदे विनियोगज्ञापनम् यथा उदकसेकरूपेआप्यायने प्रथमम् मार्जने द्वितीयम् दोहने तृतीयंअभिषवेण द्रवीकृतस्याधवनीये सम्भरणरूपे आसेचते चतु-र्थम्।

१० प्रतिवृहच्छब्दं चतुर्थ्या विनियोगः।

११ शब्दनेमा चिदन्यद्धीति ऋचो विनियोगः।

१३ अर्वुदपावमावीभ्यो-ऽन्यत् सर्वं समानम्।

१४ केषाञ्चिन्मते अर्बुस्यैव समता

१५ अन्यमते प्र वो ग्रावाण इत्यस्य समता

१६ ,

१७ स्तुते[Page0865-a+ 38] माध्न्यन्दिने पावमाने विहृत्याङ्गारान् उपसर्पणम्।

५ अ॰

१२ क॰।

१ प्रवर्ग्यवति क्रतौ दधिधर्मेण चरणम्। (दधिधर्मःकर्मभेदः)।

२ ऋगावानस्य तद्धर्मत्वम्।

३ भक्षिणइज्या।

४ होतर्वदस्वेत्युक्तस्य उत्तिष्ठतोऽवपश्यतेत्युक्तिः।

५ श्रातं हविरित्युक्तौ श्रातं हविरित्यनुवचनम् इयमनु-वाक्याः।

६ परि त्वाग्ने इत्यादि मन्त्रजपे निमित्त-भदोक्तिः।

७ दीक्षितस्यैव अनिष्ट्वा जपः।

८ सव-नीयानां पुरस्तादुपरिष्टाद्वा पशुपुरोडाशेन चरणम्।

९ एकमते तेन नाचरणम्।

१० आश्मरथ्यमते तेनाचरणम्।

११ अहीनैकाहेषु नारांशंसासादनात् परं दक्षिणानयनम्

१२ अहीनैकाहेषु दीक्षितस्य जप्यमन्त्रोक्तिः।

१३ आग्नी-ध्रेण उल्लेख्यमानानां दक्षिणाहुतीनां हवनम्।

१४ आहुति-मन्त्रप्रकारौ

१५ विहारदेशाभिक्रमेण नीतेषु दक्षिणाद्रव्येषुमध्ये प्राणिरूपदक्षिणाद्रव्यप्रतिग्रहे मन्त्रभेदः।

१६ अप्राणि-द्रव्यस्याभिमर्शनमात्रम्।

१७ कन्याया दैवविवाहविधि-ना दत्ताया आदानेऽभिमर्शनमात्रम् न पाणिग्रहणम्।

१८ एवं प्रतिग्रहनियमः सर्वत्र।

१९ प्रतिगृह्याग्नीध्रीयंप्राप्य उच्छिष्टहविषः सर्वैः घ्राणम्।

५ अ॰

१३ क॰।

१ मरुद्दैवतेन ग्रहेन चरणम्।

२ तत्पात्रभक्षणे मन्त्रः। मरुद्दैवतशस्त्रशंसनम्।

३ माध्यन्दिनसवने शस्त्रादिषुअध्वर्य्योराहावप्रकारः।

४ मरुद्दैवतौ प्रतिपदनुचरसंज्ञौतृची। इन्द्रनिहवः प्रगाथः।

६ ब्राह्मणस्पत्यप्रगाथः।

७ तृचाः प्रतिपदनुचराः, द्व्यृचाः प्रगाथाः। आज्यमारभ्यब्राह्मणस्पत्यपर्य्यन्तं सर्व्वमर्द्धर्चम्।

८ स्तोत्रियानुचराःप्रतिपदनुचराः सर्व्वत्र प्रगाथाः।

९ गायत्रादीनिपङ्क्त्यन्तानि अर्द्धर्चशः शस्यानि भवन्तीत्युक्तिः।

१० पङ्क्त्याउत्तरेषु त्रिषु या अचतुष्पदास्तासामर्द्धर्चशः शंसनम्।

११ पञ्चपदासु पङ्क्तिषु द्वयोर्द्वयोः पादयोर्द्विरवसानम्।

१२ आश्विनशस्त्रे याः पङ्क्तयस्तासामर्द्धर्चशः शंसनम्। पङ्क्तिशंसनं वेति विकल्पः।

१३ सूक्तगतायाः षङ्क्तेः पच्छ्वःशंसनकथनम्।

१४ पङ्क्तैः पच्छः शंसने ये उत्तमे पदेअतिरिच्येते तयोः समं कृत्वा शंसनम्।

१५ उक्ता-दन्यत्र पच्छः शंसनम्।

१६ अर्द्धर्चान्ते प्रणवं कृत्वासन्तननम्।

१७ तत्र धय्याभेदाः।

१८ मरुद्दैवतः प्रगा-थः।

१९ जनिष्ठा उग्र इति सूक्तोक्तिः।

१० उक्तसूक्तस्यार्द्धा एकाधिकाः शस्त्वा तदन्तराले इन्द्रोमरु-त्वान् इत्येतस्या निविदोधानम्।

११ माध्यन्दिनेअयुग्मासु तथा धानम्।

१२ तृचे एकां शस्त्वा युग्मासु च[Page0865-b+ 38] अर्द्धां शस्त्वा निविद्धानम्।

१३ तृतीयसबने एकांशस्त्वा निविद्धानम्।

१४ त्रिष्वपि सवनेषु नेत्रे मृजतात्मनःपापं ध्यायता च निविद्धेया।

१५ सर्व्वत्र तयैव परिधाना-तिदेशः।

१६ शस्त्वा जप्यमन्त्रः याज्यामन्त्रश्च।

५ अ॰

१४ क॰।

१ निष्केवल्येति शस्त्रनाम।

२ यदि पृष्ठकार्य्ये रथन्तरं साम-सामगाः कुर्वीरन् अभि त्वा शूर! नोनु मः” अभि त्वा पू-र्व्वपीतय इत्येतौ प्रगाथौ स्तोत्रियानुचरौ स्याताम् पृष्ठ-शब्देनात्र ज्योतिष्टोमाङ्गभूतं सामाभिव्यक्तमृगक्षरंसम्पाद्य स्तुतिजन्थं शास्त्रैकसमधिगम्यं कार्यमुच्यते।

३ अन्ययोरपि प्रगाथयोः स्त्रोत्रियानुरूपत्वोक्तिः।

४ उक्तानां सर्वेषां प्रगाथत्वम् सामगैर्द्विपदोत्तरं तृचाकार-तया गानेऽपि बद्धृचैरर्द्धर्चत्वेन शंसनम् कार्य्यम्। अ-नभ्यासेन तृचाकारस्तवनेऽपि ता द्वृचा एव न तृचाःकार्य्याः ताभिश्च शंसनं कार्य्यम्।

६ वृहतीच्छन्दस्के द्व्यूचप्रगाथे चतुर्थषष्ठौ पादौ पुनरभ्यस्य पञ्चमसप्तमयोः पाद-यीरवसानकरणविधिः।

७ यदि तिस्रोवृहत्य एव चिकी-र्षितास्तदा चतुर्थषष्ठौ पादौ द्विरभ्यस्यावसानं कार्य्यम्। काकुभेषु प्रगाथेषु तृतीयपञ्चमौ अभ्यस्यावसानं कार्य्यम्

९ प्रत्यादानेन उत्तरा ऋग्रूपा भवति।

१० येष्वहःसु-वृहद्रथन्तरं वा तयोः संहतिर्वा पृष्ठकार्य्ये भवति तत्रवृहद्रथन्तरस्तोत्रियानुरुपयोः शसनं यथा भवति तथाइन्द्रनिहवब्रह्मणस्पत्यानां शंसनम्।

११ इतरपृष्ठेषु तेषांवृहतीं कृत्वा शंसनम्।

१२ यदा वृहद्रथन्तरे गाय-त्र्यादिषु अभ्यस्तापु तिसृषु ऋक्षु स्तुवते स्वयोनिषु वाद्विपदोत्तराकारं तदापीन्द्रनिहवब्राह्मणास्पत्यानां वृहतींकृत्वा शंसनम्।

१३ येषां हीत्रकाणां प्रगाथाः स्तोत्रियानुरूपाःतेऽपीन्द्रनिहवब्राह्मणस्पत्यवच्छस्याः।

१४ उक्तभिन्नस्यसर्वस्य यथाश्रुतं शंसनम्।

१५ एकस्मिन् दिने सर्व-धर्म्मभागितया उपदिश्यमानोज्योतिष्टोम एकाहशब्दवाच्यांपरिमितशस्यः परिपूर्ण्णशसनयुक्तः।

१६ स एकाहः यद्यु-भयसामा वृहद्रयन्तरसामसाध्यः तस्य पवमाने योनिरनुरूपाभवतीति।

१७ ज्योतिष्टोमभिन्नः यःकश्चिदुभयसामा एकाहःस्यात् तत्र पवमाने यत् कृतं तस्य योनिरनुरूपा शस्या।

१८ निष्केवल्ये धाय्याया ऊर्द्ध्वं स्थानं योनिस्थानं तदेवशंसनस्थानम्।

१९ अनेकासां सामयोनीनां सह शंसनेप्राप्ते आदावेव सर्वासामाह्वानं सकृत् पृथक् वा कार्य्यम्।

२० ब्राह्मणस्पत्यमरुत्वतीयसामप्रगाथानामनेकेषां सह-पातेषु इन्द्रनिहवादूर्द्ध्वमाहावः कार्य्यः।

२१ तत्र[Page0866-a+ 38] धाव्यासामप्रगाथयोः प्रदर्शनम्।

२२ ऋग्विशेषे ऐन्द्रीनिविद् धेयेत्युक्तिः।

२३ अनुब्राह्मणं स्वरः उक्थं वाची-त्यस्य शस्त्वा जपः। पिबा सोममित्यादि याज्या।

५ अ॰

१५ क॰।

१ होत्रकाणां स्तोत्रियानुरूपौ प्रगाथौ याज्या चेति-निर्ण्णयः।

१ तत्रैव याज्यान्तरं तत्काले सवनसंस्थानिमित्तकर्म्मकार्य्यता

५ अ॰

१६ क॰।

१ उत्तमस्वरेणतृतीयसवनम्

२ आदित्यग्रहेण चरणम्।

३ हूयमानग्रहाणामीक्षणे जप्यमन्त्रः।

४ स्तुते आर्भवे पवमाने विहृ-त्याङ्गारान् मनोतादिपश्विडान्तं पशुकर्म्म कृत्वा नारा-शंससादनपर्य्यन्तं पुरोडाशादिकर्म्म कार्य्यम्।

५ नाराशंसेषुसादितेषु पुरोडाशस्य मृदुतमात् प्रदेशात् गृहीत्वा सर्व्वेचमसिनः पुरोडाशं तिस्रःतिस्रः पिण्डीकृत्य स्वात् स्वा-च्चमसात् दक्षिणतः स्वान् स्वान् पितॄनुद्दिश्य चमसान्तिकेअत्र पितर इति मन्त्रे स्व स्व पित्युपस्यतेत्युक्तिः

६ सव्यावृतःआग्न्यीध्रीयं प्राप्य हविरुच्छिष्टं सर्व्वेप्राश्नीयुः।

५ अ॰

१७ क॰।

१ सावित्रेण ग्रहेण चरणम्।

२ तत्र मन्त्रभेदः।

३ वषट्कृते होतुः शस्यवैश्वदेवशस्त्रोक्तिः। संशता तेनद्वेष्यदिशं विहाय सर्व्वदिग्ध्यानञ्च।

४ माध्यन्दिनसव-ने शस्त्रादिषु आहावमन्त्रः।

५ तत् सवितुरित्यादिनवर्चां वैश्वदेवतोक्तिः तत्र उत्तमायाः परिघानीयत्वं।

६ वैश्वदेवाग्निमारुतयोः सूक्तेषु सावित्रादिनिविदोधानम्।

७ तत्र चतस्रोवैश्वदेवशस्त्रे प्रयोज्याः

८ आग्निमारुते शस्ते उत्तरास्तिस्रऋचः पाठ्याः।

९ सूक्तानां दैवतस्यैव निविद्देवतात्वम्।

१० दैवतेनसूक्तान्तनानात्वम् तथाच यावतां सूक्तानामेकं दैवतंतावदेक एव सूक्तान्त इत्युक्तिः।

११ वैश्वदेवाग्निमारु-तयोरेकपातिन्य एव धाय्याः।

१२ सर्व्वत्र प्रकृतौ विकृतौच वैश्वदेवेशस्त्रेद्विः पच्छः अर्ङ्खर्चशः सकृद् भूम्यु पस्पर्शनेपरिधाने च मन्त्रः

१३ उक्थं वाचीत्यादि शस्त्वा जपः। विश्वे देवाः शृणुतेत्यादियाज्याः।

५ अ॰

१८ क॰।

१ सौम्यस्य चरुहविष्ककर्म्मभेदस्य याज्या।

२ तस्योभयपार्श्वे घृतयाजाभ्यामुपांशुयागः।

३ तत्रैव विशेषोक्तिः।

४ अध्वर्युणाहृतस्य उद्गातृभ्यः पूर्ब्बं गृहीत्वे क्षणस्य मन्त्रः।

५ तस्मिंश्चरौ घृतयुते स्वस्वच्छायाऽदर्शने नैमित्तिकः मन्त्र-द्वयजपः तौ च मन्त्रौ।

६ अङ्गुष्ठोपकनिष्ठाभ्यामाज्येननेत्रे अभ्यज्य छन्दोगेभ्यः प्रदानार्थमध्वर्य्यवे दानम्।

७ दर्भेषीकाभवाग्निषु विहृतेषु पात्नीवतस्य आग्नीध्रस्यउपांशुजप्यमन्त्रः।

८ नेष्टुर्विसंस्थितसञ्चारेण तमनु[Page0866-b+ 38] प्रपद्य तस्यान्तिक उपविश्य पात्नीवतस्य भक्षणम्।

५ अ॰

१९ क॰।

१ सदसोनिष्क्रम्य आग्नीध्रं प्रति गतिः।

२ आग्निमारुत शस्त्रं द्रुतयावृत्त्या प्रयोक्तव्यम्।

३ तस्याद्यामृचं पच्छःऋगावानं शंसेत् यदि सा पच्छः शस्याभवेत् तदा पादेपादेऽनुच्छूसन्नेव शंसेत्।

४ यदि साअर्द्धचशःशस्या तदार्द्धचेऽवसायानवानम्।

५ उत्तमेन वच-नेन द्वितीयायाः सन्तननं कत्त व्यम्।

६ स्तोत्रारम्भेप्रावृतशिरस्कत्वादिभूमिस्पर्शान्तगुणोक्तिः।

७ परि-धानीयाया उत्तमेन वचनेन ध्रुवग्रहस्यावसेचनं होतृचमसे कार्य्यम्।

८ आग्निमारुते याज्याकथनम्। एत-दन्तसोमयागस्याग्निष्टोमसंज्ञा

५ अ॰

२० क॰। (

६ अध्याये।

१ तृतीयसवने होत्रकाणामपि शस्त्राणिभवन्ति।

२ तत्र याज्याङ्गर्शस्त्राणां प्रदर्शनम्।

३ तदन्तस्य उक्थ्यक्रतुत्वम्।

३ सू॰

६ अ॰

१ क॰।

१ यदिषोडशी क्रतुःस्यात् तदा तृतीयसवने होत्रकशस्त्रानन्तरंतस्य कार्य्यता। अथ शस्त्रनाम षोडशी तस्य विधाना-धिकारः।

२ तत्र स्तोत्रियानुरूपौ तत्र च षडृचः।

३ तत्र तिस्रोगायत्र्यः।

४ एका द्व्यृचा पङ्क्ती।

५ तृचौउष्णिहवार्हतौ। आधूर्ष्वस्मा इति द्विपदा साच पच्छःशस्या।

६ अन्येषां तृचानां त्रिष्टुबादीनामुक्तिः।

७ तत्र पूर्वं तृचं द्वेधा कृत्वा शंसेत् एकैकामृचं द्वे द्वेकृत्वा शंसेत्। अस्य तृचस्य सप्तपदात्मकत्वात् एकैकामृचमेकैकामनुष्टु भमेकैकां गायत्रीञ्च सम्पादयेत् तथा चआद्यैश्चतुर्भिश्चतुर्भिः पादैरनुष्टुभः शिष्टैस्त्रिभिस्त्रिभिःगायत्र्यः। अनेन प्रकारेण तृचा अपि षड्भवन्तीति।

९ निविदतिपत्तौ अस्मिन्नप्यानुष्टुभे तृचे निविद्धेयेतिपरिधानीयानुष्टुभतृचदर्शनम्।

१० उत्तरमस्योत्तमां-शिष्ट्वा उत्तमां निविदं दध्यात्।

११ निविद्विशेषस्य लिङ्ग-प्रदर्शनम्।

१२ परिधानीया ऋक्। तां उप्त्वा यागः

६ अ॰

२ क॰।

१ विहृतस्य षोडशिनः इन्द्राजुषस्वेत्याद्याः सूत्रे पठिताः षडृचः स्तोत्रियानु-रूपौ भवतः।

२ स्तोत्रियानुरूपाभ्यामूर्द्धं विहृतेयच्छस्यं तदेव गन्तव्यम्।

३ द्वाभ्यां पादाभ्यामनर्द्ध-र्चान्तेऽवसानम् अनृगन्ते प्रणव इत्यमर्द्धर्चशः शंसनम्।

४ पूर्वासां पूर्वपदानां शंसनम्।

५ गायत्रीणां पङ्क्ति-भिर्विहरणम्।

६ पङ्क्तीनां द्वे द्वे शिष्येते ताभ्यां प्रणव-नम्।

७ उष्णिहोवृहतोभिर्विहरणम् उष्णिहामुत्त-मान् पादान् द्वौ कुर्य्यात्।

८ चतुरोभागान् कृत्वा[Page0867-a+ 38] वृहतीपादैर्विहरणम् तेन अष्टाक्षरमन्त्यमाद्यं चतुरक्षरं यथाभवति तथा विहरणम्।

९ द्विपदाश्च तत्र ताः सर्वाश्च-तुर्द्धा कर्त्तव्याः। प्रथमायां सर्वे भागा व्यूहेनाव्यूहेन चपञ्चाक्षराः उत्तरास्तु चतुरक्षराः। तत्र च प्रथमांत्रिष्टुभा विहरेत्। उत्तरास्तिस्रोजगतीभिः।

१० उत्त-मायाद्विपदाया यच्चतुर्थमक्षरं तत् प्रथमस्य भागस्यान्त्यंतदेव द्वितीयस्याद्यम्।

११ तत्र विहरणप्रकारः।

१२ उत्त-रासु इतरान् पादान् षष्ठान् कृत्वाऽनुष्टुभं च कृत्वाशंसनम्।

१३ स्तोत्नियानुरूपाभ्यामूर्द्ध्वं प्रोष्वस्मा इत्येबदन्तस्य शस्त्रावयवस्य विहृतसंज्ञा।

१४ यत्र यत्र वि-हृतो भवति तत्र तत्र यौ प्रतिगरौ तयोरुदा-हृतिः।

१५ याज्यायाजपेन मिश्रणम्।

१६ मि{??}णप्रकारः।

१७ विहृतस्य विशेषस्ततोऽन्यत्र सर्वमविहृतेन समानम्।

१८ विहृतस्यैव विशेषः।

१९ आहुतं षोडशिपात्रसमुपहावं भक्षयेत्।

२० धर्म्मोये भक्षिणस्तेऽपि भक्ष-यन्तीत्यतिदेशः।

२१ सुब्रह्मण्यवर्ज्जितमैत्रावरुणादय-स्त्रयश्छन्दोगाः।

२२ षोडशिभक्षमन्त्रः।

६ अ॰

३ क॰।

१ अतिरात्राधिकारः।

२ प्रथमे पर्य्याये येस्तोत्रियानुरूपास्तेषामाद्यस्याद्यामृचं विना अन्यासुसर्वासु ऋक्षु प्रथमानि पदानि द्विरुक्त्वा तत्रावसानम्।

३ शिष्टयोः पादयोः समस्य प्रणवनम्।

४ होतुराद्यां वि-ना मध्यमानि सर्वासां पदानि सकृदुक्त्वाऽवसाय तान्येव प्र-त्यादाय तैरृगन्तानि सन्धाय प्रणवनम्।

५ उत्तमे पर्य्यायेस्तोत्रियानुरूपेषु सर्वामामृचामुत्तमानि पदानि मध्ये सर्वेसा-च्छावाकाः द्विरुक्त्वा तैः प्रणुयुः।

६ उत्तमे पर्य्याये अच्छा-वाकः अन्तश्चतुरक्षराणि द्विरुक्त्वा प्रणुयात्।

७ शस्त्राणांचतुःपर्य्यायत्वम्।

८ तत्राद्यं शस्त्रं होतुः।

९ याज्याभ्यः पूर्ब्ब-प्रतीकानि पर्याससंज्ञा।

१० पर्यासोदाहरणम्। तेषां पर्या-यसंज्ञापि।

११ पर्य्यासभिन्नानां गायत्राणामावापत्वम्

६ अ॰

१ अतिरात्रे पर्य्यायेषु समाप्तेषु छन्दोगा आश्विनशस्त्रेणस्तुवते।

२ शंसिष्यन् विसंस्थितसञ्चरेण निष्क्रम्याग्नी-ध्रीये जानुभङ्गेन षडाहुतीर्जुहुयात् तत्र मन्त्राः तत-आज्यशेषप्राशनं तुष्णोमेव कुर्य्यात्।

३ होमार्थं पृथक्,कृतस्याज्यस्य शिष्टमाज्यं प्राश्य अप उपस्पृशेन्नाचामेत्अनाचमनेऽपि नाशुद्धिरित्यत्र देवरथ इत्यादिश्रुतिनिद-र्शनम्।

४ प्राश्य प्रतिप्रसृप्य पश्चात् स्वस्वस्थानस्य, समस्त-जङ्खोरुररत्निभ्याम् उपस्थं कृत्वा (पादाङ्गुलीभिर्भूमिमा-श्रित्य) उत्पतिष्यन् पक्षीव उपविशेत्।

५ कृतोपस्थोपवेशन-[Page0867-b+ 38] स्यैव आश्विनशंसनम्।

६ एकपातिन्याः प्रतिपदः पच्छःशंषनम्।

७ प्रतिपदा गायत्रस्याग्नेयस्योपसन्तननम्।

८ स्तोत्रशंसने प्रातरनुवाकधर्म्मातिदेशः।

९ त्रयो वार्हतास्तृचा स्तोत्रियाः प्रगाथा वा तान् यथादैवतं यथाश्रुतं शंसेत्।

१० अन्येषु च्छन्दःसु यथादैवतं शंसेत्।

११ द्विपदाःपच्छः शंसेत्।

१२ एकपदाः प्रणवेनोपसन्तनुयात्।

१३ एकपदाभ्यो याउत्तराः ताः एकपदान्तगैः प्रणवैरुप-सन्तनुयात्।

१४ अर्द्धर्चशस्येषु पच्छः शस्याः पच्छः शस्येषुचार्द्धर्चशस्या यास्ता उद्धरेत्।

१५ सूक्तन्यायेन वा शंस-नम् नोद्धार इति विकल्पः। त्रिष्टुब्जगतीभ्योऽन्यत्रविशेषः।

१७ उदिते सूर्य्ये प्रतिप्रियतममि यस्योत्तमेनप्रणवेन सूर्य्योनोदिव इत्येतत् सन्धाय तदादीनि सौर्य्याणिसूक्तानि शंसेत्।

१८ सौर्य्यसूक्तानि सूर्य्योनोदिव इत्या-दोनि दर्शितानि।

१९ वृहस्पते अति यदर्य इत्यादिपरिधानीया।

२० प्रतिपदे परिधानीयाया आहावत्वविधा-नम्।

२१ यदि वृहत्साम कुर्य्यात् तस्य योनिम् त्वामिद्धि-हवामह इति तृचम्। एतेषु प्रगाथेषु द्वितीयाम् इन्द्र-केतुमित्यस्योपरिष्टात्, तृतीयाम् अभि त्वेत्यस्योपरिष्टात्शंसेत्।

२२ तत्र विकल्पः।

२३ आश्विनग्रहेण पुरोडाशेनचरणम्। तत्र अनुवाक्या प्रैषः याज्याद्वयम् अध्यर्द्धाआनवानञ्चक्रमेणोक्तानि।

२५ आश्विनपुरोडाशस्य स्विष्ट-कृताचरणेसंयाज्याद्वयम् इत्यन्तोऽतिरात्रः क्रतुः।

६ अ॰

५ क॰।

१ नैमित्तिककार्यभेदकथनायीत्तरग्रन्थः यदि सर्वेपर्य्यायाः प्रयुक्ता न भवन्ति इत्यवमाशङ्का स्यात् अतिक्रान्तःप्राया रात्रिः सा पर्य्यायाणामाश्विनस्य चापर्य्याप्तेति तदासर्वेभ्यःपर्य्यायेभ्यः एकं पर्य्यायं समुद्धुत्य कुर्य्युः।

२ तत्रकरणप्रकारः। प्रथमात् पर्य्यात् होता स्वंशस्त्रमाददीत। मैत्रावरुणब्राह्मणाच्छंसिनौ द्वितीयात् पर्य्यायात् स्वे शस्त्रे,उत्तमादच्छवाकः स्वमेव शस्त्रमित्येवं प्रकारः।

३ यदा तुप्रथमः पर्य्यायः प्रयुक्तः मध्यमोत्तमावप्रयुक्तौ तयोराश्वि-नस्य चापर्य्याप्ता रात्रिरित्याशङ्का स्यात् तदैवं कुर्य्युः। द्वौहोतृमैत्रावरुणौ प्रथमात्, ब्राह्मणाच्छंस्यच्छावाकौतु उत्तमात् शस्त्रमाददीत।

४ सर्वेषां वा स्तोमनिर्ह्रासः।

५ स्तोमनिर्ह्रासे शस्यनिर्ह्रामप्रकारः।

६ स्तोमनिर्ह्राससम्भरणयोर्निह्रासविधानम्।

७ एके शाखिनः होतृ-चर्ज्जं स्तोमनिर्ह्रासं कुर्व्वन्ति।

८ अग्ने! विवस्वदूषसइत्येतत् आश्विनीय एकस्तोत्रियः।

९ आग्नेये क्रतौतस्य एकस्तोत्रियस्य वृहतीच्छन्दः।

१० त्रीणि षष्टिशतानि[Page0868-a+ 38] आश्विने पुरस्तात् सकृच्छ शनम् यथाश्रुतमनुदैवतं

११ ।

१२ द्विषामद्विषां वा नद्यादिभिरव्यवधाने सुत्या-सन्निपाते सम्भवोदोषः।

१३ तथा दोषसम्भावनायाम्आसवनदेवतावाहनात् सम्यक्त्वरां कृत्वा कर्म्म कार्य्यम्।

१४ सम्भवे दोषे सति मरुत्वतीये शस्त्रं यस्मिन् सूक्ते निवि-द्धीयते तस्य सूक्तस्य पुरस्तादिदं सूक्तं शंसेत्।

१५ निष्के-वल्ये योजात इवेति सूक्तशसनम्।

१६ वैश्वदेवशस्त्र वैश्व-देवसूक्तस्य पुरस्तात् शंसनम्।

१७ एतेषु आगन्तुषुनिविदादध्यात् यस्य पुरस्तात् शस्यानि सूक्तानि विहि-तानि तान्युद्धारेत्।

१८ निविदः स्थानं यद्यतिहरेत्तदा यस्मिन् सूक्ते निविदतिपन्ना तत्पूर्व्वापरभूतंसमाप्य आगन्तुकात् दैवतात् पुरस्तात्
“मा प्रगामेति” मूक्तम-खण्डितं शस्त्वाऽन्यस्मिन्नागन्तुके तद्दैवतानां निविदंदध्यात्।

६ अ॰

६ क॰।

१ सवनार्यस्य सोमस्य सवनेसमाप्ते अतिरेके सोमातिरेकसंज्ञा। स च स्तुतशस्त्रो-पजननो भवति तत्र छन्दोगैः स्तोतव्यं, बह्वृचैः शस्तव्यम्।

२ तत्र प्रातःसवने स्तोत्रियानुरूपयाज्याकथनम्।

३ गाय-त्र्या वैष्णव्या यजनं वेति विकल्पः।

४ गाणगारि-मते इन्द्रावैष्णव्या यजनम्।


“ऐन्द्रावैष्णवी” च सं वांकर्म्मणेत्यादि” त्रिष्टुप्छन्दस्कात्र यजने ग्राह्या।

६ माध्यन्दिनमवने स्तोत्रियानुरूपयोः याज्यायाश्च उक्तिः।

७ तृतीयसवने यद्यग्निष्टोमे सोमातिरेकः तदा उक्थ्यंकुर्य्यात्। यद्युक्थ्ये सोमातिरेकस्तदा षोडशिनं कुर्य्यात्यदि षोडशिनि तथा स्यात् तदाऽतिरात्रं कुर्य्यात्इत्युक्तिः।

८ आतिरात्राच्चेत् सोमातिरेकस्तदा प्रतत्तेइत्यादिस्तोत्रियानुरूपौ कृत्वा माध्यन्दिनसवनवत् शेषकरणम्।

९ माथ्यदिनीययाज्यात्रयम्

६ अ॰

७ क॰।

१ क्रीतेसोमे नष्टे दग्धे वा प्रायश्चित्तविधिः।

२ सदोऽपिधा-नानि हविर्धानानि अमन्त्रकं कुर्युरिति पूर्व्वपक्षः।

३ सम-न्त्रकं वा तदाचरणमिति सिद्धान्तः।

४ सोमेन यागसिद्धिरि-त्यतोऽन्यसोमविधानेन सोमाभिषवः।

५ सोमान्तरालाभेपूतिका फाल्गुनानि वा संसृष्टान्थभिषुणुयुः। (पूतिका सोम-सदृशी लतारूपा फाल्गुनानि च स्तम्बरूपा ओषधिभेदाअभियुक्तोपदेशेन स्वरूपतोज्ञेयाः)।

६ फाच्छनालाभेदूर्व्वादिसंसृष्टपूतिकाग्रहणम्।

७ दीक्षास्वकृतासु क्रीतसोम-नाशे आ सोमनाशात् दीक्षाकालवर्द्धनम् उपसत्सु जातासुसोमनाशे उपसत्कालवर्द्धनम्। तत्र सर्व्वत्र प्रधानका-द्धानुरोधेन कालवर्द्धनन्। कालवर्द्धनेऽपि सोमालाभे[Page0868-b+ 38] प्रतिनिधिना प्रधानकालमध्ये यागसमापनम्इत्येकः पक्षः। भूः स्वाहेति प्रायश्चित्तं कृत्वारब्धंप्रयोगं विसृज्य सोमं सम्पाद्य पुनर्यागकरणमिति सिद्धान्तपक्षः।

८ सुत्यासु नष्टे सोमे तदलाभे प्रति-निधिप्रयोगकरणमेव न तत्राहर्वृद्धिः प्रयोगत्यागोवेतिसिद्धान्तः। प्रातःसवने सोमे नष्टे प्रतिनिधिद्रव्यम-मिषुत्य तद्रसेन प्रतिदुहोमिश्रणम् (सद्योदुग्धं पयःप्रतिधुक्)।

१० माध्यन्दिने तत्र पक्वपयोमिश्रणम्।

११ तृतीयसवने पूर्ब्बवत् दधिमिश्रणम्।

१२ फाल्गुना-नां प्रतिनिधित्वेन ग्रहणे श्रायन्तीयं साम ब्रह्म-साम भवति वारवन्तीयञ्च यज्ञायज्ञीयस्थाने।

१३ ब्रह्मसाम तु तत्रविषये श्रायन्तीयं साम यज्ञायज्ञीयंतुयथोक्तमेवेति एकमतम्।

१४ प्रतिनिधिना उदवसानी-यान्त यज्ञं समाप्य तस्माद्देशादुदवसाय सोमं सम्पाद्यपुनर्यागः कार्य्यः।

१५ पुनः प्रयोगे पुनर्दक्षिणा।

१६ यद्यु-पात्तेऽपि प्रतिनिधौ यागात् प्राक् सोमलाभः तदा-प्रतिनिधिद्रव्यत्यागेन यथोक्तमेव सोमेन यजनम् प्रतिनि-धिनिमित्तानि सोमश्रपणादीनि न भवन्ति। यदा पुनर-हर्गणेषु मुख्यासम्भवात् प्रतिनिधिनैवैकमहः क्रियतेतदा सत्रप्रयोगं समाप्य उदवसाय तदेवाहः पुनःप्रयुञ्जीरन् तथा च आरब्धं फलसाधनं यज्ञ प्रयुज्य-समाप्यैतत् कर्त्तब्यं नावान्तरमेकस्याह्नः प्रयोगः एका-हेषु प्रतिनिधावुपात्ते प्रतिनिधिनैवेष्ट्वा पुनर्यागः।

१६ सू॰

६ अ॰

८ क॰।

१ दीक्षितानां मध्ये कस्यचित् व्याध्या-द्युपतापे प्रायश्चित्तविधानम्।

२ जीवानामस्थता इत्यादिमन्त्रचतुष्टयेन या ओषधीरिति सृक्तेन च पीडितंस्नपयित्वानुमार्जनं कार्य्यम् एतत्सर्व्वं ब्रह्मणा कार्य्यम्।

३ अनुमार्जने मन्त्रभेदाः।

४ एवमुपतप्तस्य कर्म्मणि कृतेसर्वेषां यथास्थानं गतिः।

५ तस्मिन्निमित्ते त्रातार-मिन्द्रमित्याद्या ऋक् तार्क्ष्यकार्य्यंस्याद्या भवति।

६ तस्मिन्वैश्वदेवसूक्तादिजपः कार्य्यान्तरञ्च।

७ रोगनिवृत्तौ यथो-पदिष्टतया प्रकृत्यैव सर्व्वं कार्यम्।

७ सृ॰

६ अ॰

९ क॰।

१ मृते तस्मिन् अतीर्थेन निर्गमय्य अवभृतार्थं सङ्कल्पितेदेशे मृतस्य प्रेतालङ्कारादिकरणम्।

२ मृतस्य कशश्मश्रु-लोमनखवापनम्।

३ उशीरेणानुलेपनम्।

४ नलकृत-मालापरिधापनम्।

५ प्रेतस्य देहस्थान्त्राणि निःपुरीषाणिकृत्वा पृषदाज्येन पूरयित्वा पुनर्देहे बन्धनीयानी{??}कमतम्।

६ मृतस्य वाससा वेष्टनप्रकारः।

७ तस्यैव[Page0869-a+ 38] वस्त्रस्यैकदेशस्य प्रेतक्रियाधिकारिणा ग्रहणम्।

८ प्रतेस्या-ग्नीन् द्वयोररण्योः समारोप्य देवयजनस्य बहिर्वेदिप्रेतमा-नीयाग्निं मथित्वा विहृत्य तत्रैव दहेयुः।

९ अनाहिताग्ने-रौपासनरूपेणाहार्येण दाहः।

१० दीक्षितस्य पत्नीमर-णेऽपि लौकिकाग्निना दाहः। आहिताग्नेरपि सर्वा-धाने लौकिकाग्निनैव पत्न्या दाहः। औपसनाग्निसत्त्वेतु तेन दाह इति भेदः।

११ प्रेतदाहदेशादागत्य पूर्वा-परीभूताहःसमापनं यथाविहितं कुर्य्युः।

१२ दी-क्षितदहनोत्तरं शास्त्रानुवचनाभिष्टवनसंस्तवनेषु विशे-षोक्तिः।

१३ श्मशानायतने परितः कर्त्तव्यभेदः।

१४ होतुःस्वस्थानात् पश्चादुपवेशनम्।

१५ तत्र अध्व-र्य्योरुपवेशनप्रकारः।

१६ तत्र आयं गौरित्यादिषु ऋक्षुउपांशुस्तुतिप्रदर्शनम्।

१७ स्तवनोत्तरंहोतुः कर्त्त-व्यम्।

१८ ।

१९ । तत्र यमदृष्टान्ततया प्रेहिप्रेहीत्यादिसूक्तजपः।

२० अनुद्रवणास्थिसञ्चने कृत्वा यथासन-मृत्विजामासादनम्।

२१ तेषां भक्षणप्रकारादि।

२२ दीक्षितस्य मृत्युदिने उक्तप्रकारं कर्म्म समाप्य सप्तदशस्तोमंत्रिवृत्पवमानकं रथन्तरपृष्ठमग्निष्टोमसंस्थं वृहद्रथन्तरंदीक्षितमरणनिमित्तं सत्रमध्ये सत्रिणः कुर्य्युः।

२३ उक्तेअह्नि समाप्ते एतान्यस्थीनि अवभृतकाले अवभृतार्थं संङ्क-ल्पितास्वप्मु कुम्भेन सह क्षिपेयुः एतस्य मृतस्य तद-हरिति वदन्तः सर्वे सत्रिणः कुर्य्युः।

२४ मृतस्य दाहा-दारभ्य कार्य्यान्तरोपदेशः।

२५ शेषसमापने मृतस्य संख्या-पूरणाय तत्सन्निकृष्टं दीक्षयित्वा सत्रसमापनं कुर्य्युः

२६ गृहपतौ मृते तदहःप्रवृत्तं समाप्यावभृथंकृत्वा सदोदग्ध्वा च सत्रादुत्थानं भवति न पुनः शेष-समापनम्।

२७ गृहपतेरपि अस्थिसंञ्चषादयः पूर्व्वेणतुल्याःकार्य्याः।

२८ एकाहेषु यजमानस्य पूर्ब्धासने तस्य तस्यशयनम्।

२९ मृतस्य गृहपतेः वहन्तीषु अप्सु अवभृथकर्म्म कृत्वा प्रेतस्य तत्र निक्षेपः एवमालेखनस्य आचार्य्यस्योक्तिः।

३० आश्मरथ्यमते तस्य यज्ञपात्रैः सह-दाहः।

३१ एतत्पक्षे अयमेव अवभृथोनान्यः।

६ अ॰

१० क॰।

१ सोमयागस्य अग्निष्टोमोऽत्यग्नि-ष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इतिसप्त संस्थाः।

२ तासां मध्ये यामुपयन्ति तस्यान्ते यज्ञपुच्छंनाम कर्म्म कर्त्तव्यम्।

३ यज्ञपुच्छस्य प्रकारः। तत्रसूक्तवाकप्रैषस्य उत्तमत्वम्।

५ तत्र पुरोडाशकरणंतद्देवता च।

६ सवनीयस्य पशोःपशुपुरोडाशपक्षे अवीवृधेतां[Page0869-b+ 38] पुरोडाशैरिति वचनमित्युक्तिः।

७ सवनीयैः कार्म्मभिःइन्द्रवृद्धिः पशुपुरोडाशेन पशुदेवतावृद्धिः।

८ शंयु-वाकादूर्द्ध्वं हारियोजनं कार्य्यम्।

९ हारियोजनस्य अनु-वाक्याप्रैषयाज्याः।

१० अहर्गणेषु अन्त्येष्वहःसु उक्तेएव याज्यानुवाक्ये।

११ अहर्गणेष्वन्त्येभ्योऽन्यानि, तेषां चप्रतीकोक्तिः।

१२ सारस्वतसत्रादिषु यानि सुत्यानि सौत्या-होभिरुत्तरवन्ति तेष्वन्त्येष्वनुवाक्या।

१३ हारियो-जने मैत्रावरुणस्य अनुवषट्कारात् प्राकतिप्रैषनामक-प्रैषकथनम्।

१४ अतिरात्रे तेऽश्वः इत्यत्र तेऽद्येतिप्रयोगः।

१५ वक्ष्यमाणे श्वःसुत्यामित्यत्र अद्य सुत्या-मिति प्रयोगः।

१६ आग्नीध्रः अतिप्रैषस्यान्तं श्रुत्वायज्ञः श्वः मुत्यामित्यादि मन्त्रं वदेत्

६ अ॰

११ क॰।

१ उन्नेत्राहृतं द्रौणकलशमिडामिव प्रतिगृह्यो-पहवमिष्ट्वा द्रोणकलशस्थसोममवपश्येत्।

२ शस्तुः प्राणभक्षमन्त्रः हरिवत इत्यादि। द्रोणकलशस्थमोमं गृहीत्वामन्त्राभ्यां मुखहृदथमभिमृश्य येन पथा सदोहवि-र्धानं वा गतः तेन पथा तत्र प्रतिनिवृत्तिः। विनि-सृप्ताहुतिनामकौ होमौ कुर्य्यात् तत्र होममन्त्रौ च।

३ षड्भिर्मन्त्रैः आहवनीये षट्षट्शकलाभ्याधानम्। ते च देवकृतस्यैनसैत्यादयः सूत्रोक्ताः षट्।

४ द्रोण-कलशाद्धानागृहीत्वा पश्येयुः तत्र मन्त्रः आपूर्य्या इत्युक्तिः

४ तुष्णीमवघ्राय ता धानाः अन्तःपरिधिदेशे निवपेयुः। आहवनीयदेशात् सर्वे दक्षिणावृतः प्रत्येत्याग्नीघ्रीयंगच्छेयुः विनिसृप्ताहुतिपर्य्यन्तमेतत् सर्वं सर्वे कुर्युः।

७ तांश्चमसान् गत्वा आर्द्रदूर्वाजातीयानि निष्पीड्यस्वेस्वे चमसेंऽन्तरा प्रक्षिप्य सर्वे चमसिनः स्वान् स्वान्चमसान् दूर्वादिरसयुक्तान् गृहीत्वा प्रोक्षिताभिरद्भिः स्वंखमात्मानं दक्षिणैः पाणिभिरप्रदक्षिणं पर्युक्षेरन्।

८ सव्यैर्वा पाणिभिः प्रदक्षिणं पर्युक्षेरन्।

९ तत्र पर्युक्षणे गाथा-मन्त्रः।

१० पित्रादित्रयजीवने नैता गाथा पाठ्याः नापिपर्युक्षणं कुर्य्युः तद्वर्जं सर्वं सर्वे कुर्युः।

११ अवध्राणा-भिमर्शनमन्त्राः।

१२ सयजमानर्त्विजां परस्परस्य हस्तग्रहणे मन्त्राः

६ अ॰

१२ क॰।

१ पत्नीसंयाजैश्चरित्वा-पत्न्यै वेदप्रदानादि पूर्ण्णपात्रनियननान्तं कर्म्म कृत्वावेदस्तरणं कृत्वाऽकृत्वा वा प्रायश्चित्तानि जुहूयात्।

२ पञ्चभक्तिकस्य साम्नोनिधनरूपामन्त्यां भक्तिं कृत्वासर्वेऽवभृथं कुर्युः।

३ जले क्रियमाणा इष्टिरवभृथेष्टिः। तया चरणम्।

४५ अत्र विशेषाः। अस्यामिष्टौ प्रया-[Page0870-a+ 38] जाद्यनुयाजान्ता नास्यामिडा न बर्हिष्मन्तौ प्रयाजानुया-जावप्सु मन्तौ तौ च गायत्रौ।

६ तत्र वारुणं हनिःहविर्दोषे सति यागावसरे हविरेवोत्पाद्य यष्टव्यम्।

७ स्विष्टिकृद्यागे अग्नीवरुणौ देवते अव ते होडोवरुण नमो-भिरिति द्वे ऋचौ तत्र साधनम्। अत्र च निगदाभावात्अग्नीवरुणावादिश्य स त्वंन इत्यृचा यष्टव्यम्।

८ अस्या-मिष्टौ नमोवरुणाय इति मन्त्रेण दक्षिणान्पादानुदके{??}दध्युः।

९ तत्र आचमने मन्त्रत्रयम्।

१० आचमनप्रकारः।

११ शौचाङ्गमाचमनं कृत्वा स्नाना-ङ्गमाचमनं कृत्वा आस्नायुः तत्र मन्त्राः।

१२ अदीक्षिता-नामुक्तमन्त्रैराप्लावनं वाऽभ्युक्षणं वा।

१३ उन्नेता स्व-शास्वोक्तविधिना सर्व्वानुदकदादुत्तारयेत्।

१४ उन्नेत्रा उन्नीयमानाः उन्नेतरित्यादि मन्त्रं जपेयुः।

१५ उद-कादुत्तीर्य उद्वयं तमस इत्यादि मन्त्रं जपेयुः।

१६ इतऊर्द्धं संस्थाजपपर्य्यन्तं हृदयशूलेन समानं तथा चअनवेक्षमाणाः इत्यादयः समिदाधानान्ताः सर्व्वैःकार्य्याः।

१७ अपवृत्तकर्म्माणः संस्थाजपं कुर्य्युः

१७ सू॰

६ अ॰

१३ क॰।

१ गार्हपत्ये उदयनीयया चरणम्।

२ सा च प्रायणीयया तुल्या।

३ सर्व्वसाम्येऽपि अयंविशेषः। तत्र चतस्र आज्यहविषोदेवता अदितिःपञ्चमी चरुहतिः पथ्या स्वस्तिस्तत्र प्रथमा इहचतुर्थी भवतीति।

४ याज्यानुवाक्ये च विपरीते तत्र यायाज्या सा इह अनुवाक्या। तत्रानुवाक्या इह याज्या।

५ प्रायणीयायाः कर्त्तार एवात्र कर्त्तारः।

६ संया-ज्याया ऐकरूप्यं न याज्यात्वेन वैपरीत्यम्।

७ उदय-नीयायां समाप्तायां मैत्रावरुणदैवतोऽनूबन्ध्यः पशुः।

८ सदसि आसीनैर्होत्रादिभिः पशुः कार्य्यः स च वारुणीयइत्येके

९ उत्तरवेदिसमीपे आसीनैस्तैः कार्य्यइत्येके।

१० तत्र नैमित्तिकः कर्म्मभेदः। अनूवन्ध्य्यपशो-र्वपायां हुतायां यद्येकादशिन्यग्रतः कृता तदाऽग्निषो-मायीयेण सञ्चरेण गत्वा गार्हपत्ये त्वाष्ट्रेण पशुना चरणम्।

११ त्वाष्ट्रपशुकरणप्रकारः। त्वाष्ट्रं पशुं यूपाञ्जनादि-कृत्वा उत्सृजेत् इत्येकः पक्षः।

१२ यदि अध्वर्य्यवआज्येन तं पशुयागं समापयेयुः तदा होतापि तथा कुर्य्यात्

१३ आज्येन समापने अनेके पक्षाः। ब्राह्मणोक्तदिशा-वेद्याः।

१४ आज्येन करणपक्षे पशुवत् शब्दप्रयोगः।

१५ यद्यत्र देषिका हवींषि अनुनिर्वपेयुः धाताऽनुमतिः राकासिनीवाली कुहूरिति पञ्च देवताः।

१६ तत्र धातुरुपस्थाने मन्त्र-[Page0870-b+ 38] भेदः।

१७ एषाञ्च पञ्चानां देव्य इति संज्ञा। देवीत्वपक्षे सूर्यःद्यौः ऊषा गौः पृथिवीति पञ्च देवताः।

१८ तत्र सूर्यस्य चा-तुर्मास्येभ्यो याज्यानुवाक्येग्राह्ये।

१९ अनुबन्ध्यपशुद्रव्यस्या-लाभे मैत्रावरुणीया पयस्या कर्त्तव्याः।

२० सा च आज्य-भागादिः वाजिनान्ता कार्य्या।

२१ कर्म्मिणो वाजिनं भक्ष-येयुः। सत्रविषये सर्वे भक्षयेयुः।

२३ उदवसनीयया चरणंतत्करणप्रकारः।

२४ प्रकृतेन ज्योतिष्टोमाख्येन सोमेनयजमानदक्षिणीयया दीक्षां प्रविष्टः स सोमेनेष्ट्वा अवभृथेष्टौदीक्षोन्मोचनं कृत्वा तस्मादुत्थित एवानूबन्ध्यान्तं प्रयोगंसमाप्य तदन्तेऽग्नीनरण्योः समारोप्य उदग्देवयजनात् योदेशस्तस्मिन्नग्नीन्मथित्वोदवसानीयया यजते इत्येकोऽर्थः। अपरस्तु यदि सर्वे दीक्षिताः स्युः सत्रञ्चेति दीक्षिताउत्यिता इति पाठः कर्त्तव्यः समासपाठेऽर्थस्य दुर्गमत्वात्यदि सर्वे दीक्षिताः स्युस्तदा पूर्ववदेवानूबन्ध्यान्तं कर्म-कृत्वा सर्वे स्वान् स्वानाग्नीन् स्वे स्वे चारणीषु पृथक्पृथक् समारोप्य पूर्बवन्मथित्वा पृथगेवोदवसानीययायजेरन्निति विशेषतोऽर्थः। सेयमुदवसानीया एवं-रूपा भवति। पुनराधाने याम्नाता इष्टिस्तद्रूपा। सा च अविकृता अविभक्ताज्य भागविकारा उपांशुत्वरहिताकेवलमग्निदेवता।

६ अ॰

२४ क॰( इथं पूर्वार्द्धस्य षष्टाध्यायीरूपस्य प्रतिसूत्रमभिधेयार्थादर्शिताः उत्तरार्द्धमपि षडध्यायीरूपम् बाहुल्यभयात् तत्र-त्यप्रतिसूत्रप्रतिपाद्यार्था न दर्शिता मूलग्रन्थे दृश्याः। संक्षे-पेणायमर्थस्तत्रत्यः। सप्तमाष्टमाध्याययोः सत्राधिकारेणइतिकर्त्तव्यतादिदर्शनम्। नवमे अहीनेकाहाधिकारेण इतिकर्त्तव्यताकलापः। दशमे रात्रिसत्रविवरणम्। एकादशे कामनाविशेषेण तदाचरणम् गवामयनचरणञ्च। द्वादशेगवायमनस्यैवदिनसङ्कलनादि। प्रागस्य चतुरध्यायात्मकत्वोक्तिः प्रामादिकी। ( तदीयगृह्यसूत्रे प्रतिपाद्यविषया स्तावदभिधोयन्ते। तत्र प्रथमाध्याये। स्थालीपाकाद्यु पाकर्म्मान्तानि कर्म्माणि।

१ गृह्यव्याख्यानप्रतिज्ञा।

२ पाकयज्ञप्रकारः।

३ पाकयज्ञप्रकारस्य त्रैविध्योपदेशः।

४ एतान्यपिकर्माणि नित्यानि श्रौतैस्तुल्यानि आहिताग्नेरपीत्युक्तिः।

५ पाकयज्ञानामर्थवादरूपं ब्राह्मणम्।

१ अ॰

१ क॰।

१ सायम्प्रातःपक्वहविष्यहोमः।

२ देवयज्ञः।

३ स्वा-हाकारेण बलिहरणम्।

४ बलिप्रदानार्हदेवतानिर्णयः।

५ दिक्षु देवताभ्यो देवतापुरुषेभ्यो बलिहरणम्।

६ मध्येब्रह्मणे ब्रह्मपुरुषेभ्यश्च बलिहरणम्।

७ मध्ये विश्वेभ्यो[Page0871-a+ 38] देवेभ्यो बलिहरणम्।

८ मध्ये, दिवसे, दिवाचारिभ्योभूतेभ्यो बलिहरणम्।

९ रात्रौ, नक्तञ्चारिभ्यो भूतेभ्योबलिहरणम्।

१० सर्व्वशेषे रक्षोभ्यो बलिहरणम्।

११ पितृयज्ञे प्राचीनावीती अन्यत्र निनयादिषु दक्षि-णावीतीत्युक्तिः।

१ अ॰

२ क॰।

१ वक्षामाणकर्म्मणां होम-विधिः।

२ पवित्राभ्यामाज्यस्योत्पवनम्।

३ पवित्रलक्षणो-त्पवनयोर्निर्ण्णयः। आज्यहोमेषु परिस्तरणं कार्य्यं वा नरेति निर्ण्णयः।

५ पाकयज्ञेषु आज्यभागौ कार्य्यौ वा नवेति निर्ण्णयः।

६ धन्वन्तरियज्ञं शूलगवञ्च वर्जयित्वासर्वेषु पाकयज्ञेषु ब्रह्मा कार्य्यो वा नवेति निर्ण्णयः।

७ अनादेशे नामधेयेन होमः।

८ अनादेशे देवता-निर्ण्णयः।

९ एकबर्हिरादियज्ञाः समानकालिकाः।

१० पूर्वोक्तस्य प्रमाणार्थं यज्ञगाथोदाहरणम्।

१ अ॰

३ क॰।

१ चौलकर्म्मादीनां कालविधिः।

२ एके आचार्य्याःसर्व्वस्मिन् काले विवाहमिच्छन्ति।

३ आज्यहोमः।

४ ऋगाहुतयोव्याहृत्याहुतयश्च।

५ उभयाहुतिसमुच्च-यपक्षः। एके अनादेशाहुतिमिच्छन्तीत्युक्तिः।

७ तेषा-माहुतयः।

१ अ॰

४ क॰।

१ वंशपरीक्षा।

२ वरगुणकथ-नम्।

३ कन्यागुणकथनम्।

४ परीक्षान्तरम्।

५ क्षेत्रा-द्यष्टमृत्पिण्डैः परीक्षा।

६ पिण्डानां मृद्विशेषकथ-नम्।

१ अ॰

५ क॰।

१ ब्राह्माद्यविधविवाहोक्तिः।

१ अ॰

६ क॰।

१ विवाहे देशधर्म्मग्रामधर्म्मकुलधर्म्माणां कर्त्त-व्यता।

२ जनपदादिधर्म्मस्य सर्वत्र समानत्वमित्युक्तिः।

३ पाणिग्रहणविधिः। पुत्रकामिना अङ्गुष्ठस्य ग्रहणम्।

४ दुहितृकामिना अङ्गुलेर्ग्रहणम्।

५ उभयकामिनांअङ्गुष्ठाङ्गुलिसहितहस्तस्य ग्रहणम्।

६ अग्न्युदककुम्भ-प्रदक्षिणे वधूजप्यमन्त्रः।

७ अश्मारोहणे आचार्य्यज-प्यमन्त्रः।

८ लाजहोमप्रकारः। भ्रात्रादिर्द्विर्लाजानावप-तीत्युक्तिः।

९ वरोजामदग्न्यश्चेत् त्रिर्लाजानावपति।

१० लाजेषु हविरवधारणम्।

११ वरकर्त्तृकमवदा-नम्।

१२ अवदानस्य सर्व्वत्रातिदेशः।

१३ वरकर्तॄक-होममन्त्राः।

१४ अमन्त्रकं शूर्पपुटेन वधूकर्तृकंलाजदानम्।

१५ एके लाजानोप्य पश्चात्परिण-यमाहुरित्युक्तिः।

१६ शिखाविमोचनम्।

१७ दक्षिणशिखाविमोचनम्।

१८ उत्तरशिखाविमोचनम्।

१९ सप्तपदीनमनम्।

२० उभयोः शिरसि उदकुम्भसेचनम्।

२१ ग्रामान्तरगमने अन्तरा वसतिः।

१२ ध्रुवारुन्धत्यादिंदृष्ट्वा वाग्विसर्जनम्।

१ अ॰

७ क॰।

१ यानारोहणमन्त्रः। [Page0871-b+ 38]

२ नावारोहणमन्त्रः।

३ उदकादुत्तारणमन्त्रः।

४ वधूर्यदिरोदिति तदा ऋग्विशेषं जपेत्।

५ विवाहाग्निं गृहीत्वागन्तव्यम्।

६ देशवृक्षचतुष्पथादौ जप्यमन्त्रः।

७ पथिकाईक्षकाः सन्ति चेत् तदीक्षणमन्त्रः।

८ गृहप्रवेश-मन्त्रः।

९ उपवेशनदधिप्राशनहृदयाञ्जनादयः।

१० वि-वाहावधि ब्रह्मचर्य्यधारणादिः।

११ त्रिरात्रं द्वादश-रात्रं वा ब्रह्मचर्य्यधारणम्।

१२ संवत्सरं वा ब्रह्म-चर्य्यधारणम्।

१३ व्रतानन्तरं वधूवस्त्रदानम्।

१४ ब्राह्म-णेभ्योऽन्नदानम्।

१५ स्वस्तिवाचनम्।

१ अ॰

८ क॰।

१ पाणिग्रहणप्रभृतिगृह्याग्निपरिचरणम्।

२ अग्नौनष्टे प्रायश्चित्तं कृत्वा पुनरग्निपरिग्रहणम्।

३ एकेअग्न्युपशान्तौ पत्न्या उपवासं वदन्तीत्युक्तिः।

४ तदग्निप-रिग्रहणं अग्निहोत्रविधानेनेत्युक्तिः।

५ होमादिकालव्य-वस्था।

६ होमद्रव्याणि।

७ उक्तद्रव्याभावे द्रव्यान्तरप्रति-निधिः।

८ सायम्प्रातर्होमः।

१ अ॰

९ क॰। पार्व्वणस्थाली-पाकः।

२ भोजननियमः।

३ इध्मबर्हिषोर्व्वन्धनम्।

४ तद्देवता।

५ काम्यदेवता।

६ शूर्पमुष्टिनिर्व्व-पणम्।

७ शूर्पमुष्टिप्रोक्षणम्।

८ अवघातप्रक्षालनेना-नेकत्र श्रपणानि।

९ एकत्र श्रपणं वा।

१० नानाश्रपण-प्रकारः।

११ एकत्र श्रपणप्रकारः।

१२ आज्यो-त्पवनादिः।

१३ आघाराज्यभागौ स्विष्टिकृद्धोमश्च।

१४ आग्नेयादिहोमः।

१५ आज्यभागयोर्यज्ञचक्षुरूप-त्वम्।

१६ यज्ञपुरुषस्य उपवेशननियमः।

१७ अग्ने-रुत्तरपूर्ब्बदेशे होमः।



८ हविःस्थापनदेशः।

१९ पश्चाद्वर्त्ति-होमनिर्णयः।

२० स्विष्टिकृद्धोमनियमः।

२१ स्विष्टकृद्धोमेहविःशेषाभावः।

२२ स्विष्टिकृद्धोममन्त्रः।

२३ पूर्णपात्रनिन-यनम्।

२४ पूर्णपात्रनिनयनकालः।

२५ पाकयज्ञतन्त्रम्।

२६ दक्षिणादानम्।

१ अ॰

१० क॰।

१ पशुकल्पः।

२ प्रशूप-स्मर्शनम्।

३ पशुप्रोक्षणम्।

४ पशुनिनयनम्।

५ मन्त्र-वर्जम् पशुनिनयनम्।

६ उल्मूकाहरणम्।

७ शामि-त्रोक्तिः।

८ पश्वन्वारम्भणम्। अन्वारम्भे कर्त्तृकथनम्।

१० वपाहोमः।

११ स्थालीपाकश्रपणम्।

१२ पश्वव-दानं स्थालीपाकहोमश्च।

१३ अवदानसहितहोमो वा।

१४ प्रत्येकावदाने द्विर्द्विरवदानम्।

१५ तूष्णीं हृदय-शूलाचरणम्।

१ अ॰

११ क॰।

१ चैत्ययज्ञे स्विष्टि-कृतः प्राक् बलिहरणम्।

२ विदेशस्थचैत्यपक्षे पलाश-दूतेन बलिहरणम्।

३ भयसम्भावनायां दूताय शस्त्र-दानम्।

४ नद्यन्तरा चेत् प्लवदानम्।

५ धन्वन्तरि-[Page0872-a+ 38] चैत्यश्चेत्पुरोहिताय बलिहरणम्।

१ अ॰

१२ क॰।

१ पुंसवनम्, अनवलोभनञ्च।

२ तृतीयमासे पुष्यनक्षत्रेउपोष्य तुल्यवर्ण्णावत्सायागोर्दधिमात्रया प्राशनम्।

३ प्रश्न-वचनम्।

४ त्रिःप्राशनम्।

५ दूर्वारसस्य नासिकायांसेचनम्।

६ नस्तस्तद्धरणम्।

७ हृदयस्पर्शमन्त्रः।

१ अ॰



३ क॰।

१ सीमन्तोन्नयनं कर्म्म।

२ तस्य कालनिर्णयः।

३ होममन्त्रः।

४ सीमन्तव्यूहनम्।

५ चतुर्धा व्यूहनम्।

६ वीणागाधकप्रेषणम्।

७ गेयगाथाकथनम्।

८ ब्राह्मण्योयद्ब्रूयुस्तदाचरणम्।

९ दक्षिणादानम्।

१ अ॰

१४ क॰।

१ जातकर्म।

२ मेधाजननजपः।

३ अंसस्पर्शनम्।

४ नामकरणम्।

५ नामलक्षणम्।

६ चतुरक्षरं वा नाम।

७ नाम्नि कामनाभेदेनाक्षरनिर्ण्णयः।

८ पुंनामधेयानि युग्मा-क्षराणि।

९ स्त्रीनामधेयानि अयुग्माक्षराणि।

१० येननाम्ना उपनीतः तेनाभिवादनं कुर्य्यात्।

११ मूर्द्धावघ्राणेमन्त्रजपः।

१२ कुमार्य्या अमन्त्रकं कर्म्म।

१ अ॰

१५ क॰।

१ अन्नप्राशनम्।

२ अजमांसान्नाशनम्।

३ तित्तिरिमां-सान्नाशनम्।

४ घृतौदनान्नाशनम्।

५ अन्नाशनमन्त्रः।

६ कुमार्य्या अमन्त्रकम्।

१ अ॰

१६ क॰

१ चौलं कर्म।

२ पूर्णापात्राधानम्।

३ कुमारावस्थानं द्रव्यासादनञ्च।

४ कुशपिञ्जूलहस्तकुमारपित्रवस्थानम्।

५ ब्रह्मा वाकुशपिञ्जूलानि धारयेत्।

६ अपां निनयनमन्त्रः।

७ शिरौन्दनमन्त्रः।

८ कुशपिञ्जूलनिधानमन्त्रः।

९ तेषु ताम्रक्षुरस्थापनमन्त्रः।

१० केशच्छेदनमन्त्रः।

११ केशस्थापनम्।

१२ द्वितीयस्य तृतीयस्य मन्त्रौ।

१३ चतुर्थस्य मन्त्रः।

१४ एवमुत्तरतस्त्रिर्वारम्।

१५ क्षुर-धारशोधनमन्त्रः।

१६ नापितानुशासनम्।

१७ केश-सन्निवेशकरणम्।

१८ कुमार्य्या अमन्त्रकम्।

१ अ॰

१७

१ गोदानं कर्म्म।

२ तत्र कालनिर्णयः।

३ मन्त्रेकेशशब्देषु श्मश्रुशब्दकरणम्।

४ श्मश्रुवपनम्।

५ क्षु-रधारशोधने विशेषमन्त्रः।

६ नापितानुशासनम्।

७ आचार्याय दानप्रार्थना।

८ गोमिथुनदक्षिणा-दानम्।

९ संवत्सरव्रताचरणादेशः।

१ अ॰

१८ क॰।

१ उपनयनम्। अष्टमे वर्षे ब्राह्मणस्य।

२ गर्भाष्टमेवर्षे वा।

३ एकादशे वर्षे क्षत्रियस्य।

४ द्वादशे वैश्यस्य।

५ आ षोडशात् ब्राह्मणस्य नातीतः कालः।

६ आ द्वा-विंशात् क्षत्रियस्य, आ चतुर्विंशात् वैश्यस्य।

७ अत ऊर्द्ध्वम्अचीर्णप्रायश्चित्तान् नाध्यापयेत्।

८ संवीतचर्मनि-र्णयः।

९ परिधेयवासोनिर्णयः।

१० मेखलाविकारः। [Page0872-b+ 38]

११ जातिभेदे मेखलानिर्णयः।

१२ दण्डाधिकारः।

१३ जातिभेदे दण्डनिर्णयो दण्डपरिमाणञ्च।

१ अं॰

१९ क॰।

१ सर्वे दण्डाः सर्वेषां वा भवन्ति।

२ आचार्य्या-न्तिके उपवेशननिर्ण्णयः।

३ ब्रह्मचारिण उपवेशननिर्ण्णयः।

५ साङ्गुष्ठापाणिग्रहणम्।

५ पाणिग्नहणमन्त्रः।

६ आदि-त्यावेक्षणम्।

७ तत्र जप्यमन्त्रः।

८ प्रदक्षिणावर्त्तनम्। हृदयस्पर्शनम्।

१० अमन्त्रकं समिदाधानम्।

१ अ॰

२० क॰।

१ एकमते मन्त्रेण समिदाधानम्।

२ मुख-मार्ज्जनम्।

३ तेजसा मार्जनम्।

४ सावित्र्युपदेशप्रार्थना।

५ सावित्र्युपदेशः।

६ सावित्रीवाचनम्।

७ ब्रह्मचारिणोहृदयदेशे ऊर्द्ध्वाङ्गुलिस्थापनं मन्त्रश्च।

१ अ॰

२१ क॰।

१ ब्रह्म-चर्य्यादेशः।

२ ब्रह्मचर्य्यादेशमन्त्रः।

३ वेदब्रह्मचर्य-कालनिर्ण्णयः।

५ वेदग्रहाणान्तं वा ब्रह्मचर्य्यं भवति।

५ भिक्षाकालनिर्ण्णयः।

६ सभिदाधानकालनिर्ण्णयः।

७ प्रथमभिक्षानिर्णयः।

८ भिक्षामन्त्रः।

९ भैक्ष्यमाहृत्या-चार्य्याय निवेदनम्।

१० पाकयज्ञः।

११ आघाराज्य-भागान्तहोममन्त्रः।

१२ सावित्र्या द्वितीयम्।

१३ महा-नाम्न्यादिहोमः।

१४ ऋषिभ्यस्तृतीयम्।

१५ सौविष्टिकृतंचतुर्थम्।

१६ वेदसमाप्तिवाचनम्।

१७ ब्रह्मचर्य्यव्रत-धारणम्।

१८ मेधाजननम्।

१९ उदकम्भाभिषेक-वाचनम्।

२० व्रतादेशशेषः।

२१ अनुपेतस्यविधिविशेषः।

२२ उपेतस्य विधिः।



३ कृतम-कृतञ्च।

२४ गोदानमनूक्तम्।

२५ कालोऽनिरुक्तः।

२६ प्रायश्चित्तार्थे सावित्र्यन्तरम्।

१ अ॰

२२ क॰।

१ ऋत्विग्लक्षणम्।

२ एके युवानं वदन्ति।

३ वरण-निर्णयः।

४ वरणविशेषनिर्णयः।

५ सदस्यवरणम्।

६ वरणविशेषः।

७ होतृवरणमन्त्रः।

८ ब्रह्मवरण-मन्त्रः।

९ अध्वर्य्वादिवरणमन्त्रः।

१० होतृप्रतिज्ञा।

११ ब्रह्मप्रतिज्ञा।

१२ अपरप्रतिज्ञा जप्यमन्त्रश्च।

१३ याज्य-लक्षणम्।

१४ ।

१५ ।

१६ ।

१७ ।

१८ आयाज्यनिर्णयः।

१९ सोमप्रवाकप्रश्नः।

२० कल्याणैः सह संप्रयोगः।

२१ तत्र निषिद्धानि।

२२ आज्याहुतिहोमः।

२३ अना-हिताग्निगृह्यशेषः।

१ अ॰

२३ क॰

१ ऋत्विजे मधु-पर्काहरणम्।

२ एवं गृहागताय स्नातकाय, विवा-हार्थिने।

३ राज्ञे उपस्थिताय।

४ आचार्य्यश्वशुरपितृव्य मातुलेभ्यः।

५ मधुपर्कस्वरूपनिर्ण्णयः।

६ सध्व-लाभे घृतद्रव्यप्रतिनिधिः।

७ आसनपाद्यार्घाचसनीयानिगाञ्च त्रिस्त्रिर्वेदयेत्।

८ आसनग्रहणे मन्त्रप्रकारौ। [Page0873-a+ 38]

९ पादप्रक्षालननिर्णयः।

१० वामपादादिप्रक्षालनम्।

११ अर्घ्यग्रहणम्।

१२ अर्घ्य ग्रहणमन्त्रः।

१३ मधुपर्केक्षणमन्त्रः।

१४ मधुपर्कग्रहणादिमन्त्राः।

१५ त्रिरुद्धरणम्।

१६ मधुपर्कभोजनम्।

१७ सर्व्व-भक्षणनिषेधः।

१८ तृप्तिनिषेधः।

१९ अवशिष्टमधुपर्क-प्रक्षेपः।

२० सर्व्वभक्षणं वा।

२१ आचमनम्।

२२ द्वि-तीयाचमनम्।

२३ आचान्तोदकाय गोदानम्।

२४ आ-लम्भनपक्षे जपोऽनुज्ञा च।

२५ उत्सर्गपक्षे उत्स-र्गमन्त्रः।

२६ मधुपर्काङ्गं भोजनममांसं न भवति।

१ अ॰

२४ क॰। (

२ अध्याये।

१ श्रवणाकर्म्मकालः।

२ सक्तुकलश-दर्व्वीस्थापनम्।

३ दिवाक्षतदानादि।

४ अस्तमितेस्थालीपाकहोमः।

५ अवस्थाननिर्णयः।

६ पुरोडाशो-परिहोमः।

७ धानाञ्जलिहोमः।

८ हुतशेषस्य प्रतिपत्तिः

९ सर्पबलिहरणम्।

१० प्रदक्षिणोपवेशने परिदान-मन्त्रश्च।

११ अमात्याय परिदानम्।

१२ परिदानान्त-रम्।

१३ बलिमात्मानं चान्तरा न व्यवेयुरन्ये।

१४ साय-म्प्रातर्बलिहरणम्।

१५ प्रकारान्तरबलिहरणम्।

२ अ॰

१ क॰ आश्वयुज्याम् आश्वयुजीकर्म्म।

२ स्थालीपाक-होमः।

३ पृषातकहोमः।

४ आहिताग्रेः आग्रहय-णन्त्रेतायां स्थालीपाकश्च।

५ अनाहिताग्नेर्लौकिकेऽग्नौ-

२ अ॰

२ क॰। मार्ग शीर्ष्यां चतुर्द्दश्याम् प्रत्यवरोहण-कर्म्म।

२ पौर्णमास्यां वा।

३ पायसहोममन्त्रौ।

४ स्विष्टिकृन्निषेधः।

५ ध्यानं तन्मन्त्रश्च।

६ पुनर्जप्य-मन्त्रः।

७ अमात्यप्रवेशः। वृद्धवृद्धतर प्रवेशः।

९ मन्त्र-विदो मन्त्रजपः।

१० उत्थाय त्रिर्जप्यमन्त्रः।

११ त्रिदिङ्मु-खानां जपब्राह्मणभोजनस्वस्त्ययनानि, चतुर्थजप्यमन्त्रश्च

१२ स्वस्त्ययनवाचनम्।

२ अ॰

३ क॰।

१ अष्टकाकर्म्मकालः।

२ एकस्याम् अष्टम्यां वा।

३ पूर्ब्बदिवसे सप्तम्यां पितृभ्योदानम्।

४ तत्र ओदनकृषरपायसानां श्रपणम्।

५ चतुःशरावपरिमितधान्यं पिष्ट्वा पूपश्रपणम्।

६ मन्त्राष्टकैर्होमः, यावद्भिः कामयेत तावद्भिर्व्वा।

७ परदिनेअष्टम्याम् अष्टका, पशुना स्थालीपाकेन वा।

८ अनु-डुहो यवसमाहरेद्वा।

९ त्रयाणामप्यसम्भवे अग्नि-ना कक्षं दहेत्।

१० यवसदाने कक्षदाहे मनसाध्यानम्।

११ चतुर्णामेकस्याप्यनुष्ठाने नानष्टकः स्यात्।

१२ देवताविकल्पप्रदर्शनम्।

१३ वपाहोममन्त्रः।

१४ सप्त होममन्त्राः।

१५ स्विष्टिकृति अष्टमहोमः। [Page0873-b+ 38]

१६ ब्राह्मणभोजनोत्तरं स्वस्त्ययनवाचनम्।

२ अ॰

४ क॰।

१ आन्वष्टक्यं तदुत्तरनवस्यां कार्य्यम्।

२ मांसकल्पादि।

३ पिण्डपितृयज्ञकल्पत्वप्रदर्शनम्।

४ पितृभ्यः मधुमन्थवर्जंपिण्डनिपरणम्।

५ मातृपितामहीप्रपितामहीभ्यः सुराच-मेन पिण्डनिपरणम्।

६ अवटसंख्यानिर्ण्णयः।

७ पित्रा-दिपिण्डस्थानम्।

८ मात्रादिपिण्डस्थानम्।

९ भ्राद्रापरप-क्षीयसप्तम्यादिदिनत्रये कर्त्तव्ये साध्यावर्षे उक्तधर्म्मातिदेशः।

१० कृष्णपक्षे अयुग्मासु तिथिषु आन्वष्टक्यवत्। मासि मासि पितृभ्य एव श्राद्धं कर्त्तव्यं न मात्रादिभ्यः।

११ आन्वष्टक्ये नवावरान् भोजयेत्।

१२ अशक्तौ सप्त पञ्चत्रीन् एकं वा।

१३ वृद्धिकर्म्मणि पूर्त्तकर्म्मणि च युग्मान्भोजयेत्।

१४ इतरत्र युग्मब्राह्मणभोजनम् तिलस्थाने यव-दानञ्च।

२ अ॰

५ क॰।

१ रथारोहणात् पूर्व्वं तत्-स्पर्शनमन्त्रः।

२ अक्षस्पर्शनमन्त्रः।

३ आरोहण{??}स्त-न्मन्त्रश्च।

४ रश्मिस्पर्शनमन्त्रः।

५ गमनप्रवर्त्तमानेषुरथेषु जप्यमन्त्रः।

६ शकटाद्यारोहणेऽपि तस्य जपः।

७ शकटाद्यङ्गस्पर्शनमन्त्रः।

८ नावारोहणमन्त्रः।

९ नवरथेविशेषः।

१० कुटुम्बोपयोगिद्रव्याहरणम्।

११ गृहसमीपाग-मनम्।

१२ रथावरोहणमन्त्रः।

१३ नवरथावरोहणमन्त्रः।

१४ तत्र जप्यमन्त्रः।

१५ तत्र पुनर्जप्यमन्त्रः।

२ अ॰

६ क॰।

१ वास्तुपरीक्षा।

२ भूमिलक्षणम्।

३ मूमेरपरलक्षणम्।

४ भूमेरन्यलक्षणञ्च।

५ विरूढदुष्टवृक्षोत्पाटनम्।

६ मूमेरुच्च-निम्नतानिर्णयः।

७ भोजनगृहस्याननिर्णयः।

८ तत्-फलम्।

९ सभागृहस्थाननिर्णयः।

१० तत्फलम्।

११ तदपरस्थाननिर्णयः

२ अ॰

७ क॰।

१ वास्तुपरीक्षणक्रमः।

२ तत्र खातखननं तत्पूरणञ्च।

३ प्रशस्तमध्य-मगर्हितवास्तुनिर्णयः।

४ अस्तमितेऽर्के जलैस्तत्पूरणम्। प्रशस्तमध्यमगर्हितनिर्णयः।

६ ब्राह्मणवास्तुनिर्णथः।

७ क्षत्रियवास्तुनिर्णयः।

८ वैश्यवास्तुनिर्णयः।

९ बहु-हलैः वास्तुकर्षणम्।

१० समचतुष्कोणं दीर्घं वा।

११ वास्तुप्रोक्षणम्।

१२ अविच्छिन्नधारया प्रोक्षणे मन्त्रः।

१३ अवान्तरगृहप्रभेदनिर्णयः।

१४ स्थूणानां गर्त्तेषु विशे-षविधिः।

१५ मध्यमस्थूणागर्त्तेविशेषः।

१६ मध्यमस्थूणा-गर्त्ते मन्त्रः।

२ अ॰

८ क॰।

१ वंशाधानानुमन्त्रणम्।

२ वर्शा-धानमन्त्रः।

३ मणिकप्रतिष्ठापनम्।

४ तन्मन्त्रान्तरविधानम्।

५ मणिकसेचनमन्त्रः।

६ वास्तुदोषशमनम्।

७ तत्प्रो-क्षणम्।

८ अविच्छिन्नजलधारादानम्।

९ स्थालीपा-कश्रपणादि शिववाचनञ्च।

२ अ॰

९ क॰।

१ गृहप्रपदनम्। [Page0874-a+ 38]

२ वीजवद्गृहप्रपदनम्।

३ तत्कालनिर्णयः।

४ तत्र होम-कर्म्म।

५ अनुमन्त्रणम्।

६ आयतीनां गवामनुमन्त्रणेमन्त्रः।

७ एके अन्यसूक्तमिच्छन्ति।

८ अयातीनां गवा-भनुमन्त्रणे।

२ अ॰

१० क॰( तृतीयाध्याये पञ्चयज्ञादिसन्नाहान्तानि कर्माणि।

१ पञ्चयज्ञप्रतिज्ञा।

२ पञ्चानां नामकथनम्।

३ पञ्चानांस्वरूपकथनम्।

४ तेषामहरहःकर्त्तव्यता।

३ अ॰

१ क॰।

१ स्वाध्यायविधिः।

२ स्वाध्यायाध्ययननियमः।

३ ओं-पूर्व्वा व्याहृतोः समस्ता ब्रूयात्।

४ सावि-त्र्यध्ययननियमः।

३ अ॰

२ क॰।

१ स्वाध्यायक्रमः।

२ अध्ययने दैवाहुतिनिर्ण्णयः।

३ अध्ययने पैत्राहु-तिनिर्ण्णयः।

४ अध्ययने कालावधिनिर्ण्णयः।

२ अ॰

३ क॰।

१ देवतर्पणम्।

२ ऋषितर्पणम्।

३ प्राचो-नावीती।

४ आचार्य्यतर्पणम्।

५ पितृतर्पणम्। दक्षिणावीती।

६ तिथिविशेषादौ निषेधवचनं नित्यस्वाध्या-यस्यैव, न ब्रह्मयज्ञस्य।

७ ब्रह्मयज्ञानध्यायः

३ अ॰

४ क॰।

१ अध्ययनप्रारम्भः।

३ अध्ययनकालनिर्ण्णयः।

३ तत्रकालाऽन्तरम्।

४ आज्यभागाहुतिः।

५ दधिसक्तु-होमः।

७ होममन्त्रः।

७ तत्रान्ये द्व्यृचा मन्त्राः।

८ ए-कोमन्त्रः।

९ तत्रापरोमन्त्रः।

१० देवताहोमादिमार्ज-नम्।

११ जपनियमः।

१२ व्याहृतिसावित्रीजपोवे-दारम्भश्च।

१३ उत्सर्गविधिः।

१४ अध्ययनकालनिर्देशः।

१५ ब्रह्मचारिधर्म्मयुक्तोऽधीयीत।

१६ ब्रह्मचारिणामपिअध्ययनम्।

१७ समावृत्तोजायां गच्छेदित्येके।

१८ प्र-जोत्पत्त्यर्थं जायागमनमपरे।

१९ उपाकरणकर्म्म।

२० माध्यां पौर्ण्णमास्यां तत्करणम्।

२१ तत्र सावित्र्यादि-तर्पणम्।

१२ आचार्य्यादितर्पणम्।

२३ ततः षण्मासो-त्तरमुत्सर्जनकर्म्म।

३ अ॰

५ क॰।

१ काम्यकर्म्म-स्थाने पाकयज्ञः। पुरोडाशस्थाने चरुः।

३ काम-प्राप्तिफलम्।

४ नैमित्तिकहोमः।

५ होममन्त्रः।

६ अशुभस्वप्नदर्शने उपस्थानमन्त्रः।

७ तत्र मन्त्रान्तरम्।

८ जृम्भणादौ जप्यमन्त्रः।

९ अगमनीयगमनादौ आज्य-होमः।

१० तत्र समिदाधानं वा।

११ तत्र मन्त्र-जपो वा।

३ अ॰

६ क॰।

१ अभ्युदितेऽर्के स्वपतःप्रायष्टित्तम्

२ तत्र भन्त्रचतुष्टयम्। अभिनिर्मुक्तस्य प्रायश्चित्तहोमः।

३ सन्ध्योपासनम्।

४ तत्र सायङ्काले कर्त्तव्यभेदः।

५ तत्र प्रातर्नियमभेदः।

६ तत्र कालनिर्णयः।

७ कपोत-पाते होमजपौ।

८ अर्थार्थं गच्छतो होमजपौ। [Page0874-b+ 38]

९ नष्टं वस्तु लब्धुमिच्छतो होमजपौ।

१० महान्तम-ध्वानं गमिष्यतो होमजपौ।

३ अ॰

७ क॰।

१ समाव-र्त्तनम्। तत्र आचार्य्याय आत्मने वा एकादशद्रव्या-हरणम्।

२ उभयोद्देश्यद्रव्यालाभे आचाय्यायैव दानम्।

३ समिदाहरणनियमः।

४ कामनाविशेषे समिन्निर्णयः।

५ उभयकामस्यार्द्रशुष्का समित्।

६ समिदाधानादि गोदा-नम्।

७ मन्त्रान् आत्मवाचकान् कुर्य्यात्।

८ करञ्चोन्ममर्दनम्।

९ स्नानाञ्जनविधिः।

१० कुण्डलबन्धनम्।

११ अनु-लेपनविधिः।

१२ स्रग्बन्धनम्।

१३ त्रान्यविधिः।

१४ छत्रादानम्।

१५ वैणवदण्डादानम्।

१६ मण्युष्णी-षसमिधादानम्।

३ अ॰

८ क॰। ( तृतीये

१ उपदेशमन्त्रः।

२ प्रत्यृचं समिदा-घानम्।

३ मधुपर्केण पूजनम्।

४ अनुज्ञाते समा-वर्त्तनस्नानम्।

५ व्रतविशेषः।

६ निषेधविशेषः।

७ निषेधान्तरम्।

८ स्नातकस्य माहात्म्यम्।

३ अ॰

९ क॰।

१ गुरवे नामकथनम्।

२ उपवेशनानुज्ञा।

३ उच्चै-र्नामकथनम्।

४ उपांशुकथने मन्त्रः।

५ शिष्य-स्य उपांशुकथने मन्त्रः।

६ आचार्य्यजप्यमन्त्रः।

७ जपा-न्तरम् अनुमन्त्रणञ्च।

८ तत्प्रशंसा।

९ पक्षिणाम् अम-नोज्ञा वाचः श्रुत्वा जप्यमन्त्रः।

१० मृगस्यामनोज्ञावाचः श्रुत्वा जप्यमन्त्रः।

११ भयप्राप्तौ जप्यमन्त्रः।

३ अ॰

१० क॰।

१ सर्व्वाभ्योदिग्भ्यो भयप्राप्तौ जप्यमन्त्रो-होमश्च।

२ तत्र जप्यमन्त्रः सूक्तविशेषश्च।

३ अ॰

११ क॰।

१ राजसन्नाहनम्।

२ तत्र जप्यमन्त्रः।

३ राज्ञे कवचदाने-मन्त्रः।

३ धनुर्दाने मन्त्रः।

५ राज्ञोजप्यमन्त्रः।

६ स्वीयजप्यमन्त्रः।

७ इषुधिदाने मन्त्रः।

८ रधगमनेजप्यमन्त्रः।

९ अश्वानुमन्त्रणम्।

१० इषूनवेक्षमाणस्य जप्य-मन्त्रः।

११ संनह्यमानराजजप्यमन्त्रः।

१२ मारथिनारो-प्यमाणे नृपे जप्यमन्त्रः।

१३ राजेक्षणमन्त्रः।

१४ सौपर्ण-मन्त्रः।

१५ अनुक्रमेण रथगमनम्।

१६ युद्धप्रदेशनिर्णयः।

१७ दुन्दुभिवादने मन्त्रः।

१८ वाणत्यागमन्त्रः।

१९ युध्यमानेराजनि पुरोहितजप्यमन्त्रः।

२० तत्रपुनर्म्मन्त्रः।

३ अ॰

१२ क॰( चतुर्थाध्याये। आहिताग्नेः पीडाप्रशमनादिशन्ताती-यजपान्तानि कर्माणि।

१ व्याधिपीडितस्याहिताग्रेः कर्त्त-व्यम्।

२ ग्रामकामत्वे प्रमाणम्।

३ ग्रामे वास्तव्यत्वे प्रमाणम्।

४ अगदः सोमादिभिरिष्ट्वा ग्रामं प्रविशेत्।

५ अनिष्ट्वा वाग्रामं प्रविशेत्।

६ मृतस्याहिताग्नेश्चिताभूमिखननम्।

७ खातस्य निम्नोच्चतानिर्णयः।

८ खातस्य आयामनिर्णयः। [Page0875-a+ 38]

९ खातस्य विस्तृतिनियमः।

१० खातस्य अधोनिर्णयः।

११ श्मशानदेशनिरूपणम्।

१२ तत्स्थानस्य बहुलौष-धिकत्वम्।

१३ कण्टकिवृक्षाद्युद्वासनम्।

१४ दहन-लक्षणश्मशानस्य विशेषविधिः।

१५ प्रेतस्य केशादि-वपनम्।

१६ बर्हिराज्यादिसंस्थापनम्।

१७ पृषदाज्य-नयनम्।

४ अ॰

१ क॰।

१ अग्नियज्ञपात्रादिनयनम्।

२ प्रेतनयनकर्त्तृनिर्ण्णयः।

३ शकटादिना प्रेतन-यनमित्येके।

४ अनुस्तरणीपशुस्त्रीनयनम्।

५ अनु-स्तरणीं गामाहुरेके कृष्णाम् एकवर्ण्णामजामित्यपरे

८ पशोः सव्यबाहुवन्धनं कृत्वा आनयनम्।

९ तदनु-अमात्यादोनामागमनम्।

१० दाहकर्त्तुः कर्त्तव्यभेदः।

११ दक्षिणपूबदेशै आहवनीयनिधानम्।

१२ उत्तरपश्चिमेगार्हपत्यनिधानम्।

१३ दक्षिण पश्चिमे दक्षिणाग्निनिधानम्।

१४ चिताग्निचयनम्।

१५ चितायां प्रेतसंवेशनम्।

१६ प्रेतपत्नीसंवेशनम्।

१७ क्षत्रियप्रेतस्य धनुःसवे-शनम्।

१८ देवरादिना पत्न्याउत्थापनम्।

१९ तत्र वृषलेउत्थापके कर्त्त्रा, देवरे तेनैव मन्त्रस्य जपः।

२० धनुरप-नयने मन्त्रः।

२१ पुनः कर्त्रुत्थापकयोर्मन्त्रजपः।

२२ धनुर्भक्त्वा क्षेपः।

४ अ॰

२ क॰।

१ पात्रयोजनम्।

२ दक्षहस्ते जुहूयोजनम्।

३ सव्ये उपभृतानयनम्। दक्षे पार्श्वे स्फ्यस्य सव्येऽग्निहोत्रहवन्या योजनम्।

५ उरः प्रभृतिषु ध्रवादिनिधानम्।

६ नासिकयोःस्रुवाधानम्।

७ एकां स्रुवं भित्त्वा नासिकाद्वयेयोजनम्।

८ कर्णयोः प्राशित्राधानम्।

९ एकञ्चेत्भित्त्वोभयत्र तन्निधानम्।

१० उदरे हविः पात्रीनिधा-नम्।

११ तत्र समवत्तधानचमससंयोजनम्।

१२ उपस्थेशभ्यानिधानम्।

१३ अरणीसूर्वोः, उदूखलमुषले जङ्घयोर्निदध्यात्।

१४ प्रादद्वये शूर्पनिधानम्।

१५ एकञ्चेत्छित्वा निधानम् पूर्ब्बवत्।

१६ आसेचनपात्रे पृषदा-ज्यपूरणम्।

१७ दृषदुपलाद्यु पयोगद्रव्यनिधानम्।

१८ लोहमृण्मयादिनिधानम्।

१९ अनुस्तरण्या वपामुत्-खिद्य तत्र प्रेतस्य शिरोमुखाच्छादनं तन्मन्त्रश्च।

२० प्रेतपाण्योर्वुक्कयोर्निधानम्।

२१ हृदये हृदयाधानम्।

२२ प्रेतपाण्योः पिण्ड्याधानमित्येके।

२३ वुक्काभावेपिण्ड्याधानभित्यन्ये।

२४ प्रणीताप्रणयनानुमन्त्रणे।

२५ दक्षिण जानुपातेन दक्षिणाग्नौ चतुराज्याहुतिहोमः।

२६ प्रेतस्योरसि पञ्चमाहुतिहोममन्त्रः।

४ अ॰

३ क॰।

१ युगप-दग्निप्रज्वालने प्रेषणम्। आहवनीयस्य प्राक् प्रेतदेहप्राप्तौ[Page0875-b+ 38] प्रेतस्य स्वर्गलांकगतिः पुत्रविशिष्टर्द्धिश्च फलम्। गार्हप-त्यस्य तथात्वे प्रेतस्यान्तरिक्षलोकप्राप्तिः पुत्रस्य वृद्धिश्चफलम्। दक्षिणाग्नेस्तथात्वे प्रेतस्य मनुष्यलोकप्राप्तिःपुत्रस्य वृद्धिश्च फलम्।

५ युगपत्प्राप्तौ सर्वसमृद्धिः फलम्।

६ दहनमन्त्रः।

७ दहनप्रशंसा।

८ जानुमात्रे गर्चेऽव-स्थाय दाहोत्तरमातिवाहिकशरीरमास्थाय धूमेन सहस्वर्गलोकगमनम्।

९ दाहकर्त्तृजप्यमन्त्रः पृष्ठतोऽनीक्षित्वासर्वेषां गमनञ्च।

१० सकृत्स्नात्वा प्रेताय जला-ञ्जलिं दत्त्वान्यानि वासांसि परिधाय दिवा आ-नक्षत्रदर्शनात् तत्रावस्थानम्।

११ रात्रौ आदित्यमण्डलंदृष्ट्वा गृहं प्रविशेत्।

१२ गृहप्रवेशे वृद्धादिपूर्व्वापरनिर्णयः

१३ गृहमागत्य अश्मादीनामुपस्पर्शः।

१४ तस्मिन् दिनेअन्नं न पचेरन्।

१५ क्रीताद्यन्नेन वर्त्तेरन्।

१६ सपिण्डानां त्रिरात्रमक्षारलवणान्नाशनम्।

१७ महागुरु-मृतौ द्वादशारात्रं तथाशनं दानाध्ययनवर्जनञ्च

१८ सपिण्डेषु दशाहं दानाध्ययनवर्ज्जनम्।

१९ उपनेतृगुरौ असपिण्डेऽपि दशाहं द्वादशाहं वाऽशौ-चम्।

२० अदत्तासु स्त्रीषु मृतासु दशाहम्।

२१ एकदेशाध्यापकेषु त्रिरात्रम्।

२२ असपिण्डज्ञातौत्रिरात्रम्।

२३ दत्तासु स्त्रीषु त्रिरात्रम्।

२४ अदन्तजाते त्रिरात्रम्।

२५ असम्पूर्णगर्भे त्रिरात्रम्।

२६ सहाध्यायिषु मृतेषु एकाहम्।

२७ समानग्रा{??}येश्रोत्रिये एकाहम्।

१ अस्थिसञ्चयनम्।

२ स्त्रीपु-रुषभेदेन कुम्भनियमः।

३ प्रोक्षणमन्त्रः।

४ सञ्चयनेपूर्ब्बापरनिर्ण्णयः।

५ सञ्चयनानन्तरमवधाननिर्ण्णय।

६ पांशुप्रक्षेपः।

७ पांशुप्रक्षेपानन्तरम् उत्तरामृचंजपेत्।

८ मृत्कपालेन कुम्भं पिधाय पृष्ठतोऽनवेक्षं प्रत्यागत्याप उपस्पृश्य प्रेताय श्राद्धदानम्।

४ अ॰

५ क॰।

१ मृत-गुरुकस्यान्यतोवाऽपक्षीघमाणपश्वादिकस्यामावस्यायां शान्ति-कर्म।

२ क्रव्यादाग्निहरणम्।

३ चतुष्पथे तदग्निपरित्यागः।

४ पृष्ठतोऽनबवेक्षणादि कृत्वा प्रत्यागत्याप उपौस्पृश्य केशा-दीन् वापयित्वा नवघटादिकुशपिञ्जूलान्तकल्पनम्।

५ पच-ननामाग्निजननम्।

६ अग्निदीपनम्।

७ अग्निसेचनम्।

८ अनडुच्चर्म्मण्यमात्यारोहणम् (कर्तृभिन्नाः सर्व्वे पुमां-सः स्त्रियश्चामात्याः)।

९ परिधिपरिधानम्।

१० आहुतिचतुष्टयमन्त्रः।

११ अमात्याः स्त्रियः तरुणतृणैर्नवनीतं गृ-हीत्वा तेनाङ्गुष्ठोपकनिष्ठाभ्यां चक्षुषी आञ्जीरन्।

१२ अज्य-मानानां स्त्रीणां कर्त्त्रावीक्षणम्।

१३ कर्त्तुः अश्माभिमर्शनम्[Page0876-a+ 38]।

१४ परिक्रमणजपः।

१५ स्विष्टिकृदादिसमापनम्।

१६ अहतवाससाच्छाद्योपवेशनम्।

१७ आ उदयादस्वपन्तआसीरन्।

१८ होमसमापनम्।

४ अ॰

६ क॰।

१ श्राद्भाधि-कारः।

२ पार्व्वणकाम्यवृद्धिश्राद्धैकोदिष्टरूपश्राद्धे पात्रविप्र-लक्षणसंख्ये।

३ सपिण्डीकरणभिन्ने यथेष्टं विप्रसंख्या तत्रतु त्रयाणां त्रय एव कार्य्या इति भेदः।

४ पिण्डपितृयज्ञेउक्तानां पिण्डनिपरणादीनां श्राद्धेऽतिदेशः।

५ ब्राह्मणायजलदानम्।

६ दर्भासनदानम्।

७ पुनर्जलदानम्।

८ अर्घ-पात्रे तिलावपनं तन्मन्त्रश्च।

९ पित्र्यं कर्म्म अप्रदक्षिणंकार्य्यम्।

१० अर्घदानम्।

११ अर्घदानात् पूर्ब्बं जल-दानम्।

१२ अर्घस्थजलनिवेदनम्।

१३ अर्घानुमन्त्रणं-तन्मन्त्रश्च।

१४ अर्घ्या आपो यस्मिन् पात्रे एकीकृताः तत्प्रथमपात्रं नोद्धरेत्।

४ अ॰

७ क॰।

१ गन्धादिदानम्।

२ अग्नौ करणानुज्ञा।

३ प्रत्यनुज्ञा।

४ अग्नौ करण-होमः।

५ पाणिष्वेव बा होमः।

६ देवपितॄणां क्रमे-णाग्निमुखपाणिमुखत्वे।

७ भोजनपात्रेऽन्नदानविधा-नम्।

८ हुतशेषान्नदानम्।

९ भोजनपात्रे अधिकान्न-दानम्।

१० भोजनात् तृप्तेषु पाठ्यमन्त्रः।

११ पिण्डार्थमन्नमुद्धृत्यशेषनिवेदनम्।

१२ अनाचान्तेषु पिण्डनिपरणम्।

१३ आचान्तेषु तदित्येके।

१४ ब्राह्मणानुज्ञानविकिरदानम्।

१५ अस्तु खधेति प्रत्यनुज्ञानम् विसर्जनञ्च।

४ अ॰

८ क॰।

१ अथ शूलगवः।

२ तस्य कालादिनिर्णयः।

३ पशु-निरूपणम्।

४ पशुलक्षणम्।

५ कृष्णविन्दुयुक्तःपशुरित्येके।

६ जम्बुसदृशं कृष्णं कामं गृह्णीयात्।

७ पश्व-भिषेकः।

८ शिर आरभ्य पुच्छदेशपर्य्यन्तमभिषेकः।

९ पशू-त्सर्गः।

१० पशोर्वृद्धिपर्य्यन्तं पालनम्।

११ तत्र दिग्-निर्ण्णयः।

१२ ग्रामदर्शनायोग्यदेशे पालनम्।

१३ अर्द्धरा-त्रादूर्द्ध्वमुदितेऽर्के वा काले शूलगवः कार्य्यः।

१४ यूपनिस्वननंतत्र पशुबन्धनञ्च।

१५ प्रोक्षणादि पशुकल्पेन समानम्।

१६ विशेषस्त्रयं पात्र्या पलाशेन वा वपाहोमः।

१७ हरादिद्वादशनामकः होममन्त्रः।

१८ उग्रादिषड्नामकोवा मन्त्रः।

१९ रुद्रनामको वा मन्त्रः।

२० बलिहरणम्।

२१ चतुर्भिः सूक्तैश्चतुर्दिशमुपस्थानम्।

२२ सर्व्वरुद्रयज्ञेतस्या-तिदेयः।

३३ स्थालीपाकव्रीहीणां तुषफलीकरणानां पुच्छच-र्म्मशिरःपादानामग्नावनुहरणम्। (सूक्ष्मकणाः फलीक-रणाः)

२४ शांवात्यमते विशेषः।

२५ अङ्गावदनसमयेशोणितनिनयनम्।

२६ संज्ञपनदेशेभूमौ निपतितं रुधिरंसर्पेभ्य उद्दिशेत्।

२७ सर्व्वशब्दानां रुद्रनामधेय[Page0876-b+ 38] त्वोत्या तस्य सर्वात्मत्वम्।

२८ अस्यैव सर्ब्बा सेनाः।

२९ सर्व्वाण्युत्कृष्टान्यस्यैवांशभूतानि।

३० इत्येवं विदंयजमानं रुद्रः प्रीणाति।

३१ अस्य कर्म्मणो वक्तारञ्च रुद्रोन हिनस्ति।

३२ अस्य हुतशेषं न प्राश्नोयादेकमतम्।

३३ अस्य द्रव्याणि ग्रामं नाहरेयुः।

३४ नात्रागन्त-व्यमिति पुत्त्रादीन् प्रतिषेधयेत्।

३५ नियमेन हुतशेषंप्राश्नीयाति सिद्धान्तः।

३६ शूलगवस्य फलानि

३७ शूलग-वेतेष्टा अन्यं पशुमुत्सृजेत्।

३८ सर्व्वथानुत्सृष्टपशुर्नैवस्यात्

३९ शूलगवनामकेन पशुकर्म्मणा रहितो न भवेत्तेन शूलगवस्य नित्यता।

४० शन्तातीयं जपित्वा गृह-प्रवेशः।

४१ पशूपतापे गोष्ठे अस्यैव रुद्रस्य यजनम्।

४२ स्थालीपाकं निधाय सर्वहुतं कुर्य्यात्।

४३ प्रतिधूमंगवानयनम्।

४४ शन्तातीयं जपन् पशूनां मध्यमियात्।

४५ समाप्तिज्ञापनार्थ आचार्य्यनमस्कारः।

४ अ॰

४५ क॰( आश्वलायनगृह्यपरिशिष्टप्रतिपाद्यार्थाः।

१ आच-मनादि सामान्याङ्गम्।

२ सन्ध्योपासनाङ्गाचमनादि।

३ मार्जनम्।

४ पापशोधनम्।

५ गायत्रीस्वरूपादि।

६ तस्या ध्यानादि।

७ आचमनमन्त्रादि।

८ मन्त्राणा-मृषिदैवतच्छन्दांसि।

९ स्नानविधिः।

१० माध्यन्दिनस्नानविधानम्।

११ मन्त्रस्नानम्।

१२ वैश्वदेवः।

१३ स्वस्तिवाचनादि।

१४ होमे स्थण्डिलादि।

१५ स्रुक्स्रुवा-दिसम्मार्गः।

१६ ब्रह्मणः पञ्चकर्म्माणि।

१७ पार्व्वण-स्थालीपाकः।

१८ नित्यमौपासनम्।

१९ पुनरा-घानम्।

२० अनेकभार्य्यस्य परतऊढाया धर्म्मभागित्वम्।

२१ कन्यावरणम्।

२२ उपयमनादि।

२३ अन्योन्या-वलोकनम्।

२४ आर्द्राक्षतारोपणादि।

२५ ऋतुमती-कृत्यादि।

२६ जातकर्म्मादि। इत्येते

१ अ॰ गताः(

२ अध्याये

१ ग्रहयज्ञादि।

२ ग्रहयज्ञसम्भारादि।

३ अर्च्चनाङ्गानि।

४ अर्च्चनविधिः।

५ आवाहनमन्त्राः।

६ ग्रहाणामधिदेवतादि।

७ गणपत्यादिदेवतावाहनम्।

८ अग्न्युपधानादि।

९ यजमानाभिषेकः।

१० होमविधानादि।

११ भोजनविधिः।

१२ शयनादि-विधिः।

१३ श्राद्धानि।

१४ ब्राह्मणनियमः।

१५ गन्धादिदानादिपिण्डपितृयज्ञान्तं कर्म।

१६ अग्नौकरणादिकर्म।

१७ पिण्डदानादिश्राद्धशेषसमापनान्तंकर्म।

१८ अग्निदग्धपिण्डदानादि।

१९ आभ्युदयिकेविशेषः। इत्येते

२ अ॰ गताः पदार्थाः। ( तृतीयाध्याये

१ पितृमेधः।

२ अग्निदाननियमः। [Page0877-a+ 38]

३ अग्निकार्य्यसमापनम्।

४ कर्त्तुरुदकावाधः।

५ पिण्ड-क्रिया।

६ नवश्राद्धानि।

७ सञ्चयनम्।

८ दशाहकृत्यम्

९ एकोद्दिष्टम्।

१० एकोद्दिष्टविधिः।

११ सपिण्डीकर-णम्।

१२ आमश्राद्धम्।

१३ अतीतसंस्कारः।

१४ पाला-शविधिः।

१५ नारायणवलिः।

१६ नागवलिः।

१७ पुराणमेकोद्दिष्टम्।

१८ वृषोत्सर्गः।

३ अ॰ पदार्थाः।

४ अध्याये

१ पूर्त्तकर्म्मादीनि अग्निकार्य्यान्तानि कर्म्माणि।

१ पूर्त्तानि।

२ मण्डलादिविधिः।

३ प्रतिमाद्रष्याणि।

४ प्रासादप्रतिष्ठादि।

५ तदनुष्ठानादि।

६ अग्निस्थापनादि।

७ देवाभिषेकादि।

८ शान्तिप्रतिष्ठादि।

९ वाप्यादिविधिः

१० आरामादिविधिः।

११ होमविशेषः।

१२ प्राचींदिशमन्वावर्त्तते।

१३ दक्षिणां दिशमन्वावर्त्तते।

१४ प्रतीचीं दिशमन्वाबर्त्तते।

१५ उदीचीं दिशमन्वावर्त्तते

१६ पृथिवीमन्वावर्त्तते।

१७ अन्तरिक्षमन्वावर्त्तते

१८ दिवसमन्वावर्त्तते।

१९ रात्रिमन्वावर्त्तते।

२० परमन्वावर्त्तते।

२१ सर्व्वा दिशोऽन्वाघर्त्तते।

२२ अग्निकार्य्यफलम्।

४ अ॰ गताः एते पदार्थाः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वलायन¦ m. (-नः) The name of a sage and legislator, &c. E. अश्वलायन and अण् patronymic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वलायनः [āśvalāyanḥ], N. of the author of a celebrated ritual work, called the Āśvalāyana Sūtras; कौसल्यश्चाश्वलायनः Praśn. Up.1.1. -शाखा The school of आश्वलायन.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आश्वलायन m. (fr. अश्वलg. नडा-दिPa1n2. 4-1 , 99 ), N. of a pupil of शौनक's , author of सूत्रor ritual works (relating to the ऋग्- वेद) and founder of a Vedic school

आश्वलायन mf( ई)n. relating or belonging to आश्वलायन

आश्वलायन m. the school of आश्वलायन.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of सहिष्णु अवतार् of the Lord. वा. २३. २१३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀŚVALĀYANA I : A son of Viśvāmitra. (M.B., Anu- śāsana Parva, Chapter 4, Verse 54).


_______________________________
*5th word in left half of page 95 (+offset) in original book.

ĀŚVALĀYANA II : An Ācārya. He was a disciple of Śaunaka. Āśvalāyana composed three famous works: Āśvalāyana Gṛhyasūtra, Āśvalāyana Śrautasūtra and Āśvalāyana Stuti.


_______________________________
*6th word in left half of page 95 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आश्वलायन&oldid=491502" इत्यस्माद् प्रतिप्राप्तम्