आस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस, ञि ङ ल उपवेशने । (अदा ०-आत्म ० अक ०- सेट् ।) इति कविकल्पद्रुमः ॥ विद्यमानतायां । इति तट्टीका ॥ (“आसने भगवानास्तां सहैभिर्मुनिपुङ्गवैः” । इति रामायणे १ काण्डे) ञि आसितोऽस्ति । ल ङ आस्ते सिंहासने नृपः । विद्यमानतायामप्ययं । आकाशमास्ते । इति दुर्गादासः ॥ (सम् + अधि) सम्यगुपवेशने । व्याप्तौ । यथा रघुवंशे, १३ । ५२ । “वीरासनैर्ध्यानजुषागृषीणा- ममी समध्यासितवेदिमध्याः” । (अनु) पश्चादुपवेशने । यथा रघौ, २ । २४ । “तामन्तिकन्यस्तबलिप्रदीपा- मन्वास्य गोप्ता गृहिणीसहायः” । इति । उपासनायां । यथा रामायणे, -- “ततश्चीरोत्तरासङ्गः सन्ध्यामन्वास्य पश्चिमाम्” । इति । (अभि) अभ्यासे । (उत्) उपेक्षायां । यथा माघे । २ । ४२ । “विधाय वैरं सामर्षे नरोऽरौ य उदासते” । इति । (उप) समीपोववेशने । यथा मनुः, ४ । १५४ । “कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात्” । इति । बद्धाञ्जलिश्च गुरुसमीपमासीत इति तट्टीका ॥ उपासनायां । यथा, -- “मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते” । इति गीतायां १२ । २ । सेवने । यथा, -- “उपासते ये गृहस्था ! परपाकमबुद्धयः” । इति मनुः ३ । १०४ । परपाकमुपासते सेवन्ते इति तट्टीका । (निर्) निरासे । अपसारणे । (प्रति + सम्) प्रतिद्वन्द्वितयावस्थाने । “कोऽन्यः प्रति- समासेत कालान्तकयमादृते” । इति भारतम् । इत्यादि ।)
आसः, पुं, (अस्यन्ते शरा अनेनेति । अस् + करणे घञ् ।) धनुः । इति हेमचन्द्रः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस¦ उपवेशनेअदादि॰ आ॰ अक॰ सेट्। आस्ते आस्ताम्आसते आसीत आस्ताम् आस्स्व आद्ध्वम् आस्त आसतआसिष्ट आसांबभूव आसामास आसाञ्चक्रे आसिताआसिष्यते। आसीनः आसितम् आसितवान् आसितुम्आसिता आस्तिः आसः आसनम् आसना
“य आस्ते मनसास्मरन्” गीता
“दिवि देवास आसते” ऋ॰
१ ,
२० ,
२ ।
“आसीतामरणात् क्षान्ता” नासीत गुरुणा सार्द्धं शिला-फलकनौषु च” इति च मनुः।
“सुखितमास्स्व ततः शरदांशतम्” सा॰ द॰।
“निबद्ध्वमाध्वं पिबतात्त शेध्वम्” भट्टिः।
“जगन्ति यस्यां सविकाशमासत” माघः।
“आसिष्ट नैकत्रशुचा व्यरंसीत्” भट्टिः भावे आस्यते
“आस्यतामितिचोक्तः सन्नासीताभिमुखं गुरोः” मनुः।
“इच्छामि नित्य-मेवाहं त्वया पुत्र। सहासितुम्” भा॰ व॰। अ॰
“जन-कोह वैदेह आसाञ्चक्रे” शत॰ व्रा॰
१४ ,
६ ,
१ ,
१ । तूष्णींभूय भयादासाञ्चक्रिरे मृगपक्षिणः” भट्टिः
“कैलास-शिखरासीनम्” तन्त्रम्
“आसीनानां सुरभितशिलं नाभि-गन्धैर्मृगाणाम्” मेघदू॰।
“आसितं भाषितं चैव मतंयच्चाप्यनुष्ठितम्” रामा॰।
“जृम्भासितादिकृत” सा॰ द॰। अधि--अध्यारोहणे सक॰। गगनमध्यमध्यास्ते दिवाकरःकाद॰
“छायामध्यास्य सैनिकाः
“ययौ मृगाध्यासित-शाद्वलानि” इति च रघुः। जम्बूविटपमध्यास्तेपरभृता” विक्रमो॰।
“आचख्यौ दिवमध्यास्स्व[Page0878-b+ 38] शासनात् परमेष्ठिनः” रघुः। अत्राधारस्य कर्म्मता। अनु--पश्चादुपवे{??}न सेवने सक॰।
“अन्वासितमरुन्धत्यास्वाहयेव हविर्भुजम्” रघुः।
“वृतः सखायमन्वास्तेसदैव धनदं नृपः” भा॰ स॰
१० अ॰। अभि--आभिमुख्येन स्थितौ नैकट्ये च अक॰ अभ्यासः अ-भ्यासोयत्ते कपूययोनिमापद्येरन्” छा॰ उ॰। उद--औदास्ये प्रकृतकर्म्मण उपरमे अक॰
“विधाय वैरं सामर्षेनरोऽरौ य उदासते” माघः।
“उदासीनवदासीनः” गीताउप--सेवने सक॰।
“नोपास्ते यश्च पश्चिमाम्” मनुः।
“उपास्येते हरिहरौ लकारोदृश्यते यतः” वाक्यप॰।
“वायुवच्चानुगच्छन्ति तथा दीनानुपासते” मनुः।
“ऋतवस्त-मुपासते” कुमा॰। परि--उप--उपासनस्य प्रकर्षार्थे
“यथैव क्षुधिता बाला मातरंपर्य्युपासते”
“पितामहं च के तस्यां सभायां पर्य्युपासते” भा॰ स॰
१ अ॰। (एनम्)
“भुजङ्गाःपर्य्युपासते” कुमा॰। सम्--उप--सम्यगुपासने सक॰।
“समुपास्यत पुत्रभोग्यया” रघुःपरि--परितः स्थितौ अक॰ सम्यक् सेवने सक॰। तामेतद्देवाश्चपर्य्यासते ये चेमे ब्राह्मणाः” शत॰ ब्रा॰। सम्--सम्यक् स्थितौ उपवेशने च।
“भोगिभोगसमासीनम्”
“पश्चिमां तु समासीनः” मनुः।
आस¦ पु॰ आस--घञ्।
१ आसने
२ स्थितौ
३ उपवेशने आस्यतेऽ-नेन करणे घञ्।
४ उपवेशनस्थाने गुह्यपार्श्वभागे
“यथाकप्यासं पुण्डरीकमेवमस्याक्षिणी” छा॰ उ॰ छान्दसं न॰। अस्यते क्षिप्यतेऽनेन अस--करणे घञ्।
५ धनुषि
“स सासिःसासुसूः सासः” किरा॰
“सासः सचापः” मल्लि॰। इष्वासः अस क्षेपे भावे घञ्।
६ विक्षेपे निरासः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस¦ r. 2d cl. (आस्ते or आस्स्ते)
1. To sit.
2. To be present.
3. To be or exist. With अधि prefixed.
1. To inhabit, to dwell in.
2. To sit over or upon.
3. To mistake or err by taking one thing for another from similarity of appearance. With अभि, to sit or apply to, to study, to learn. With उत्,
1. To leave, to abandon.
2. To shake, agitate, &c. (as wind.) With उप, to worship, to do homage. With निर्, to expel. With प्र and निर्, to reject, to refute, to invalidate. [Page103-b+ 60]
आस¦ ind. (-आः) An interjection, ah! oh! &c. implying.
1. Recollection.
2. Anger.
3. Menace.
4. Pain.
5. Affliction.
आस¦ m. (-सः) A bow. E. अस् to send or throw, affix घञ्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आसः [āsḥ], [आस्-घञ्]
A seat.
A bow (-सम् also); स सासिः सासुसूः सासः Ki.15.5.
Ashes.
सम् Seat or lower part of the body.
Proximity.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आस m. seat (in स्व्-आस-स्थSee. ) RV. TS. S3Br. etc.
आस m. the lower part of the body behind , posteriors ChUp.
आस m. (2. अस्) , ashes , dust AV. ix , 8 , 10 S3Br.
आस n. a bow L.