आसन

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसनम्, क्ली, (आस्यते उपविश्यतेऽस्मिन् । आस् + अधिकरणे + ल्युट् ।) पीठ । पि~डि चौकि इत्यादि भाषा । हस्तिस्कन्धदेशः । यत्र महामात्रो निव- सति । विजिगीषोर्दुर्गादीनवर्द्धयतः स्थितिः । इत्य- मरः ॥ यात्रानिवर्त्तनं । इति मेदिनी ॥ अष्टाङ्ग- योगस्य तृतीययोगाङ्गं । तत्तु पञ्चप्रकारकरचर- णादिसंस्थानविशेषः । यथा, -- “पद्मासनं स्वस्तिकाख्यं भद्रं वज्रासनं तथा । वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम्” ॥ तेषां क्रमः । “ऊर्व्वोरुपरि विन्यस्य सम्यक् पादतले उभे । अङ्गुष्ठौ च निबध्नीयात् हस्ताभ्यां व्युत्क्रमात्तथा ॥ पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ १ ॥ जानूर्व्वोरन्तरे सम्यक् कृत्वा पादतले उभे । ऋजुकायो विशेन्मन्त्री स्वस्तिकं तत् प्रचक्ष्यते ॥ २ ॥ सीमन्याः पार्श्वयोर्न्यस्येद्गुल्फयुग्मं सुनिश्चलम् । वृषणाधःपादपार्ष्णिं पाणिभ्यां परिबन्धयेत् ॥ भद्रासनं समुद्दिष्टं योगिभिः सारकल्पितम् ॥ ३ ॥ ऊर्व्वोः पादौ क्रमान्न्यस्येत् कृत्वा प्रत्यङ्मुखाङ्गुली । करौ निदध्यादाख्यातं वज्रासनमनुत्तमम् ॥ ४ ॥ एकपादमधः कृत्वा विन्यस्योरौ तथेतरम् । ऋजुकायो विशेन्मन्त्री वीरासनमितीरितम् ॥ ५ ॥ इति तन्त्रसारः ॥ अन्यच्च । “आसनानि कुलेशानि यावन्तो जीवजन्तवः । चतुरशीतिलक्षाणि चैकैकं समुदाहृतम् ॥ आसनेभ्यः समस्तेभ्यः साम्प्रतं द्वयमुच्यते । एकं सिद्धासनं नाम द्वितीयं कमलासनम्” ॥ इति निरुक्ततन्त्रम् ॥ शृङ्गारासनानि बन्धशब्दे द्रष्टव्यानि ॥ उपवेशनाधारः । पीठादि । यथा । श्रीभगवानुवाच । “उपचारान् प्रवक्ष्यामि शृण षोडश भैरव । यैः सम्यक् तुष्यते देवी देवोऽप्यन्यो हि भक्तितः ॥ आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा । वास्त्रं वा चार्म्मणं कौशं मण्डलस्योत्तरे सृजेत् ॥ पृथक् पृथक् कल्पयेच्च शोभनं तादृशासनम् । न पत्रमासनं कुर्य्यात् कदाचिदपि पूजने ॥ न प्राण्यङ्गससुद्भूतमस्थिजं द्विरदादृते । मातङ्गदन्तसञ्जातमासनं कामिके चरेत् ॥ चर्म्मपूर्ब्बोदितं ग्राह्यं तथा गन्धमृगस्य च ॥ * ॥ सलिले यदि कुर्व्वीत देवतानां प्रपूजनम् ॥ तत्राप्यासनमासीनो नोत्थितस्तु समाचरेत् । तोये शिलामयं कुर्य्यादासनं कौशमेव वा ॥ दारवं तैजसं वापि नान्यदासनमाचरेत् । आसनारोपसंस्थानं स्थानाभावे तु पूजकः ॥ आसनं कल्पयित्वा तु मनसा पूजयेज्जले ॥ यद्यासनस्य संस्थानं तोयमध्ये न विद्यते ॥ अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत् इत्येतत् कथितं पुत्त्र पूज्यपूजकसङ्गतम् ॥ आसनं पाद्यमधुना शृणु वेतालभैरव” ॥ इति कालिकापुराणे ६७ अध्यायः ॥

आसनः, पुं, (असु क्षेपने + ल्युः + प्रज्ञाद्यण् ।) जीव- कवृक्षः । इति मेदिनी ॥ (जीववृक्षशब्देऽस्य विशेषो ज्ञेयः ।)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन नपुं।

आसनम्

समानार्थक:पीठ,आसन,आस्या,आसना,स्थिति,औशीर

2।6।138।2।6

शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः। गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम्.।

सम्बन्धि1 : मनुष्यः

 : व्रतीनामासनम्, राजासनम्, पीठाद्यासनम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

आसन नपुं।

राज्यगुणः

समानार्थक:सन्धि,विग्रह,यान,आसन,द्वैध,आश्रय

2।8।18।2।4

राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च। सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः॥

वैशिष्ट्य : राजा

पदार्थ-विभागः : , गुणः

आसन नपुं।

गजस्कन्धदेशः

समानार्थक:आसन,स्कन्धदेश

2।8।39।2।1

अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत्. आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन¦ न॰ आस--ल्युट्।

१ स्थितौ
“एकत्रासनभोजनैः” स्मृतिः।

२ स्वस्थानस्थितिरूपे राज्ञां षड्गुणान्तवर्त्तिगुण-भेदे च। तद्विवृतिराग्नेये।
“परस्परस्य सामर्थ्य-विघातादासनं स्मृतम्। अरेश्च विजिगीषोश्च यानवत्पञ्चधा स्मृतम्”। यानस्य पश्चविधत्वञ्च।
“विगृह्यसन्धाय तथा संभूयाथ प्रसङ्गतः। उपेक्षया च निपुणैर्यानंपञ्चविधं स्मृतमिति” तत्रैवोक्तम्।
“परस्य स्वस्य सैन्यानांसाम्यं ज्ञात्वा विवक्षणः। आसनं स्वामिने ब्रूयात्मन्त्री स्वामिहिते रतः इत्युक्ते

३ विजिगोषोर्यात्रानि-वर्त्तकव्यापारे च। आस्यतेऽत्र आधारे ल्युट्।

४ उपवेशना-धारे कम्बलाद्यासने।
“आसनं वसनं शय्या दारामत्रंअमण्डलुः। आत्मनस्तु शुचि प्रोक्तं न परेषां कदाचन” आ॰ त॰ पु॰।
“प्रयत्नमुक्तासनया गृहागतः”{??}।
“स्वहस्तदत्ते मनिमासने मुनिः” माघः
“कॢप्तासनं कौतुकवे-[Page0883-a+ 38] दिमध्यम्” कुमा॰
“शुचौ दे शे प्रतिष्ठाप्य स्थिरमासनमात्मनः” गीता
“स्थापयेदासने तस्मिन् खिन्नः कार्येक्षणे नृणाम्” मनुः।
“स वासवेनासनसन्निकृष्टम्”
“प्राञ्जलिर्जलजासनम्” कुमा॰।

५ देवतापूजाङ्गे उपचारभेदे तद्भेदादि कालि॰पु॰।
“आसनं प्रथमं दद्यात् पौष्पं दारुजमेव वा। वास्त्रंवा चार्म्मणं कौशं मण्डलस्योत्तरे सृजेत्। पौष्पासनं यद्वि-हितं यस्य तद्यदि गर्भकम्। निवेदयेत्तदा पद्मेविपुलं द्वारिचोत्सृजेत्। पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतम्। अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव!। यज्ञदारुसमु-द्भूतमासनं मसृणं शुभम्। नोच्छृआयं नातिविस्तीर्णमासनंविनियोजयेत्। अन्यदारूद्भवञ्चापि दद्यादासनमुत्तमम्। सकण्टकं क्षीरयुक्तं दारु सारविवर्जितम्। चैत्यश्मशानसंभूतं वर्जषित्वा विभीतकम्। वाल्कलं कोषजं फालं वस्त्रमेतत्त्रयं मतम्। रोमजं कम्बलञ्चैव तदनेन चतुष्टयम्। अनेन रचितं दद्यादासनं चेष्टभूतये। सिंहव्याघ्रतरक्षूणांछागस्य महिषस्य च। गजानां तुरगाणाञ्च कृष्णसारस्थचर्म्मणा। सृमरस्याथ रामस्य मृगाणां नवभेदिनाम्। चर्म्मभिः सर्ब्बदेवानामासनं प्रीतिदं स्मृतम्। वास्त्रेषु कम्बलशस्तमासनं देवतुष्टये। राङ्कवं चार्म्मणं श्रेष्ठं दारवं च-न्दनोद्भवम्। यच्चासनं कुशमयं तदासनमनुत्तमम्। सर्वेषामपि देवानामृषीणाञ्च यतात्मनाम्। योगपीठस्य सदृशमासनं स्थानमुच्यते। आसनस्य प्रदानेन सौभाग्यं भुक्तिमाप्नुयात्। सृमरो रोहितो न्यङ्कुः शंवरो बभ्रुणोरुरुः। शशेणहरिणाश्चेति मृगा नवविधा मताः। हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरव!। ऋष्यः स्वड्गोरुरुश्चैव पृषतश्च मृगस्तथा। एते वलिप्रदानेषु चर्म्म-दाने च कीर्त्तिताः। सर्ब्बेषां तैजसानाञ्च आसनं ज्येष्ठमुच्यते। आयसं वर्ज्जियित्वा तु कांस्यं सीसकमेव व। शिलामयं मणिमयं तथा रत्नमयं मतम्। आसनं देवता-भ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत्। अत्रैव साधकानाञ्चआसनं शृणु भैरव!। यत्रासीतः पूजकस्तु सर्ब्बसिद्धिमवाप्नयात्। ऐणञ्च चार्म्मणं वास्त्रं तैजसञ्च चतुष्टयम्। आसनं साधकानाञ्च सततं परिकीर्त्तितम्। पूर्व्वोक्तंयच्च देवेभ्य आसनं परिकीर्त्तितम्। तत् सर्व्वमासनं शस्तंपूजाकर्म्मणि साधके। न यथेष्टासनो भृयात् पूजाक-र्म्मणि साधकः। काष्ठादिकासनं कुर्य्यात् मितमेवं सदाबुधः। चतुर्व्विंशत्यङ्गुलेन दीर्घं काष्ठासनं मतम्। षोडशाङ्गुल-विस्तीर्णमुत्सेधेचतुरङ्गुलम्। पञ्चाङ्गुलं वा कुर्य्यात्तु नोच्छ्रितं[Page0883-b+ 38] चात्र कारयेत्। पूर्व्वोक्तं वर्ज्जयेद्वर्ज्ज्यमासनं पूजनेष्वपि। वास्त्रं द्विहस्तान्नो दीर्घं सार्द्धहस्तान्न विस्तृतम्। त्र्यङ्गृ-लात्तु तथोच्छायं पूजाकर्म्मणि संश्रयेत्। यथेष्टं चार्म्मणंकुर्य्यात् पूर्व्वोक्तं सिद्धिदायकम्। षडङ्गुलाधिकं कुर्य्यान्नो-च्छ्रये तु कदाचन। काम्बलं चार्म्मणं चैलं महामायाप्रपू-जने। प्रशस्तमासनंप्रोक्तं कामाख्यायास्तथैव च। त्रिपुरा-याश्च सततं विष्णोश्चापि कुशासनम्। बहूच्छ्रायं न चैव स्यात्तथैव वहुविस्तृतम्। दारु भूमिसनं प्रोक्तमश्मापि सर्व्व-कर्म्मणि। पृथक् पृथक् कल्पयेच्च शोभनं तादृशासनम्। न पत्रमासनं कुर्य्यात् कदाचिदपि पूजने। न प्राण्यङ्गं-न मुद्भूतमस्थिजं द्विरदादृते। मातङ्गदन्तसञ्जातमासनंकामिके चरेत्। चर्म्म पूर्व्वोदितं ग्राह्यं तथा गन्धमृगस्य च। सलिले यदि कुर्व्वीत देवतानां प्रपूजनम्। तत्राप्यासनमासीनो नोत्थितस्तु समाचरेत। तोये शिलामयं कुर्य्या-दासनं कौशमेव वा। दारवं तैजसं वापि नान्यदासनमाचरेत्। आसनारोपसंस्थानस्थानाभावे तु पूजकः। आसनं कल्पयित्वा तु मनसा पूजयेज्जले। यद्यासनस्यसंस्थानं तोयमध्ये न बिद्यते। अन्यत्र वा तदा स्थित्वादेवपूजां समाचरेत्। इत्येतत् कथितं पुत्र! पूज्यपूजकसङ्गतम्”। आस्यतेऽनेन करणे ल्युट्।

५ देहस्थैर्यसाधनेकरचरणादिबन्धभेदरूपे योगाङ्गभेदे
“यमनियमासनप्राणा-यामप्रत्याहारध्यानधारणासमाधयोऽष्टावङ्गानि” विभज्य
“स्थिरसुखमासनम्” पात॰ सू॰ लक्षितं तस्य वृत्तिः यथा
“निश्चलं सुखावहं च यदासनं तद्योगाङ्गम्। आस्यतेऽनेने-त्यासनं तच्च द्विविधम् बाह्यं शारीरं च तत्र चैलाजि-नकुशोत्तरं बाह्यं, शारीरं पद्मस्वस्तिकादि। तत्र पद्मासनंप्रसिद्धम्। सव्यमाकुञ्चितचरणम् दक्षिणजङ्घोर्वन्तरे,दक्षिणं च सव्यजङ्घोर्वन्तरे, निक्षिपेदिति स्वस्तिकासनम्। द्वे पादतले वृषणसमीपे संपुटीकृत्य संपुटोपरिपाणिक-च्छपिकां न्यसेदिति भद्रासनम्। योगपट्टेन सोपाश्र-यासनम्। जानुप्रसारितवाह्वोःशयनं पर्य्यङ्कासनं क्रौञ्चो-ष्ट्रगजादिवदुपवेशनं क्रौञ्चाद्यासनं द्रष्टव्यम्। आसन-स्थैर्य्योपायमाह।
“प्रयत्नशौथिल्यानन्तसमापत्तिभ्याम्” पात॰ सू॰।
“स्वाभाविकः प्रयत्नश्चलत्वादासनविघातकःतस्योपरमेणासनं सिध्यति अनन्ते नागनायके स्थिर-तरफणासहस्रविधृतविश्वमण्डले चित्तस्य समापत्त्या देहा-भिमानाभावेनासनदुःखास्फूर्त्तेरासनं सिध्यति। तत्सिद्धि-लिङ्गमाह।
“ततोद्वन्द्वानभिघातः” पात॰ सृ॰।
“आसन-[Page0884-a+ 38] जयाच्छीतोष्णादिमिरनभिघातो बाधाभावो भवति” वृत्तिःइदञ्च राजयोगाङ्गं हटयोगाङ्गानि पुनरन्येऽपि वन्धाः-काशी॰ उक्ताः यथा
“महामुद्रां नभोमुद्रामुड्डीयानं जल-न्धरम्। मूलबन्धन्तु योवेत्ति स योगी योगसिद्धिभाक्। शोधनं नाडिजालस्य घटनञ्चन्द्रसूर्ययोः। रसानां शोषणंसम्यक् महामुद्राभिधीयते। योनिं वामाङ्घिणापीड्य कृत्वावक्षःस्थले हनुम्। हस्ताभ्यां प्रसृतं पादं धारयेद्दक्षिणञ्चि-रम्। प्राणान् कुक्षौ समापूर्य्य चिरं सञ्चारयेच्छ्वनैः। एषा प्रोक्ता महामुद्रा महारोगविनाशिनी। चन्द्राङ्गे तुसमभ्यस्य सूर्य्याङ्गे पुनरभ्यसेत्। या वहुल्या भवेत्संख्या ततोमुद्रां विसर्जयेत्। न हि पथ्यमपथ्यं वा रसाःसर्व्वेऽपि नीरसाः। अपि घोरं विषं पीतं पीयूषमिवजीर्य्यति। क्षयकुष्ठगुदावर्त्तगुल्माजीर्ण्णषुरोगमाः। तस्यदोषाः क्षयं यान्ति महामुद्राञ्च योऽभ्यसेत्। कपाल-कुहरे जिह्वा प्रतिष्ठा विपरीतगा। भ्रुवोरन्तर्गता दृष्टि-र्मुद्रा भवति खेचरी। न पीद्ध्यते स रोगेण न च लिप्येत क-र्म्मणा। बाध्यते न स कालेन यीमुद्रां वेत्ति खेचरीम्। चि-त्तञ्चरति खे यस्माज्जिह्वा चरति खेगता। तेनैषा खेचरीनाम मुद्रा सिद्धैर्निषेविता। यावद्विन्दुः स्थितोदेहे ताव-न्मृत्युभयं कुतः। यावद्बद्धा नभोमुद्रा तावद्विन्दुर्न गच्छति। उड्डीनङ्कुरुते यस्मादहोरात्रं महाखगः। उड्डीयानंततः प्रोक्तं तत्र बन्धोऽभिधीयते। जठरे पश्विमं जानु-नाभेरूर्द्धञ्च धारयेत्। उड्डीयानं ह्ययं बन्धोमृत्योरपिभयं जयेत्। बध्नाति हि शिराजालमधोगामि न भोजनम्। एष जलन्धरो बन्धः कण्ठे दुःखौघनाशनः। जलन्धरे कृतेबन्धे कण्ठसङ्कोचलक्षणे। न पीयूषं पतत्यग्नौन च वायुःप्रधावति। पर्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्गुदम्। अपानमूर्द्धमाकृष्य मूलबन्धोऽभिधीयते। अपानप्राणयो-रैक्यं क्षये मूत्रपुरीषयोः। युवा भवति वृद्धोऽपि सततं मूलबन्ध-नात्”। ( रुद्रयामलेऽनेकविधान्यासनानि दर्शितानि यथा।
“अथा-सनप्रभेदञ्च शृणुष्व सिद्धिकाङ्क्षिणाम्। यत्र तत्रपूजकानां सिद्धिरत्र महीतले। अधोमुखासनं नाथ!सर्वेषां प्राणिनां सुखम्। ऊर्द्ध मार्गेण देवेश! धारयेत्मारुतं सुधीः। सर्व्वासनानां श्रेष्ठं हि ऊर्द्धपादो हि यत्-चरेत्। तदैव महितां सिद्धिं ददाति वायवी कला। पद्मासनं तथा कुर्य्यात्प्राणवायुषु सिद्धये। शुभासनं सदाध्यायेत् पूरयित्वा पुनःपुनः। उरुमूले वामपादं पुन-[Page0884-b+ 38] स्तद्दिक्षणं पदम्। वामोरौ स्थापयित्वा च पद्मासनमितिस्मृतम्। सव्यापसव्ययोगेन आसनं परिकल्पयेत्। तदैका-सनकाले तु द्वितीयासनमारभेत्। पृष्ठे पादद्बयं सीम्रि-वृद्धाङ्गुष्ठद्वयं सुधीः। कायसङ्कोचमाकृत्य धृत्वा बद्धासनंभवेत्। इति बद्धासनं बद्ध्वा वायुबद्धः पुनःपुनःचिवुके स्थापवेद्यत्राद्धृदि तेजश्च भास्करे। इत्यासनं हिसर्व्वेषां प्राणिनां सिद्धिकारणम्। वायुं वशे तुकुर्य्याद्यः स योगी नात्र संशयः। भावसिद्धिकरं नाथ!सर्वेषां दृष्टिकारणम्। वामपादतले कुर्य्यात् पादं दक्षिण-मेव तत्। सव्यापसव्ययोगेन आसनद्वयमेव च। सर्वत्रैवं-प्रकारञ्च कृत्वा नातीव साधयेत्। शृणुष्वान्यान्यासनानिद्वात्रिंशत्संख्यकानि च। सव्यापसव्ययोगेन द्विगुणं प्रभ-वेदिह। चतुःषष्ट्यासनानीह वदामि वायुशीधनात्। द्वात्रिंशद्ग्रन्थिभेदेन कल्पयेत् वायुवृद्धये। कार्म्मुकासनमा-कृत्य उदरे पूरयेत् मुखम्। तदा वायुर्वशं याति कालेनसूक्ष्मवायुना। बद्धपद्मासनं मन्त्री वेष्टयित्वा प्रधा-रयेत्। करेणं दक्षिणेनैव वामपादाङ्गुलीतटम्। सव्यापसव्यद्विगुणं कार्म्मुकासनमेव च। कार्म्मुकद्वययोगेन शरव-वद्वायुना नयेत्। कुक्कुटासनमावक्ष्ये नाडीनिर्म्मलहेतुतः। सत्कुलागममार्गेण कुर्य्यात् वायुनिवेशनम्। निजहस्त-द्वयं भूमौ पातयित्वा जितेन्द्रियः। पद्भ्यां बद्ध्वा करौदेव! कर्परद्वयमध्यतः। सव्यापसव्ययुगलं कुक्कुटं ब्रह्मणा-कृतम्। बद्धं कृत्वा अधःशीर्षं यः करोति खगासनम्। खगासनप्रसादेन श्रमलोपोभवेद्रुतम्। पुनःपुनः श्रमा-देव विषयश्रमलोपकृत्। लोलासनं सदा कुर्य्यात् वायु-लौल्यापघातनात्। स्थिरवायुप्रसादेन स्थिरचेता भवेद्द्रुतम्। पद्मासनं समाकृत्य पादयोः सन्धिगह्वरे। हस्तद्वयमधोदेशे नियोज्य कुक्कुटाकृति। निजहस्तद्वयंलग्नं निपात्य हस्तनिर्भरम्। तस्मात् शरीरमुत्याप्य स्थिरप-द्मासनेऽनिलम्। स्थित्वैतदासने मन्त्री अधःशीर्षं करोतिचेत्। उत्तमं त्वासनं ज्ञेयं योगिनामतिदुर्ल्लभम्। एतदागनमात्रेण शरीरं शीतलं भवेत्। पुनःपुनःशोधनेन चेतना कुण्डली भवेत्। सव्यापसव्ययोगेनयः करोति पुनःपुनः। पूरयित्वा मूलपद्मे सूक्ष्मवायुंविकुम्भयेत्। कृत्वा कुम्भकमेवं हि सूक्ष्मवायौ लसद्विधौ। मूलादिब्रह्मरन्ध्रान्ते स्थापयेत् गगने पदे। एतत् शुभा-सनं कृत्वा सूक्ष्मरन्ध्रेष्वशेषतः। सूचीरन्ध्रे यथा सूत्रंपूरयेत् सूक्ष्मवायुना। एवं क्रमेण षन्मासात् पूरकस्यापि[Page0885-a+ 38] लक्षणम्। महासुखं समाप्नोति योगाष्टाङ्गनिषेवणात्। अथ वक्ष्येमहादेव! पर्वतासनमुत्तमम्। यत् कुत्वा स्थिर-रूपःस्यात् षट्चक्रादिविलोडनः। योन्यासनं सर्व्व-योगे योगिनामबलम्बनम्। तत्कालं सकलं तावत् खे-चरोयावदेव हि। पादगोष्ठेन चाक्रम्य लिङ्गाग्रं योनियोजयेत्। अन्यं पादमुरौ दत्त्वा तत्र योन्यासनं भुवि। एतन्मध्ये महादेव! बद्धयोन्यासनं शृणु। यत् कृत्वा विचरेत्योगी पृथिव्यामीश्वरो यथा। कृत्वा योन्यासनं नाथ!लिङ्गगुह्यादिबन्धनम्। मुखनासानेत्रकर्ण्णं कनिष्ठाङ्गुलि-भिस्तथा। ओष्ठाधरं कनिष्ठाभ्यामनामाभ्याञ्च नासिके। मध्यमाभ्यां नेत्रयुग्मं तर्जनीभ्यामथ श्रुती। एतत् सिद्धा-सनं नाम योगिनामतिदुर्लभम्। कृत्वा वायुस्तम्भनं चमूलमारभ्य स्तम्भयेत्। सव्यापसव्ययोगेन सिद्धो भवतिसाधकः। शनैःशनैः समारुध्य कुम्भयेच्च प्रपूरयेत्। अरु-णोदयकालाच्च वसुदण्डेन भैरव! सव्यापसव्ययोयेन-गृहीत्वा बाह्यगानिलम्। द्वितीयप्रहरे कुर्य्यात् बाह्य-पूजां मनोरमाम्। एतदासनमाकृत्य सिद्धो भवतिसाधकः। अथान्यदासनं वक्ष्ये यत् कृत्वा चामरोभ-वेत्। मत्साधकः शुचिः श्रीमान् कुर्य्याद्भावाभिभावितः। भेकनामासनं योग्यं नाथ! वक्ष्यामि तद्गु-णम्। निधाय पादयुगलं स्कन्धे वाहौ पदोपरि। ध्यायेदिष्टपदं श्रीमान् आसनस्थः सुखाय च। यदिसर्व्वाङ्गमुत्तील्य गगने खेचरासनम्। महाभेकासनं प्रोक्तंसर्व्वसिद्ध्विप्रदायकम्। महाविद्या--महामन्त्रं प्राप्नोतिजपतीह यः। एतत् प्रभेदं वक्ष्यामि यः करोति सचा-भरः। एकं पादमुरौ बद्ध्वा स्कन्धेऽन्यपादरक्षणम्। एतत्प्राणासनं नाम सर्वसिद्धिप्रदायकम्। वायुं मूलेसमारोप्य प्रत्याकुञ्च्य प्रसारयेत्। केवलं पादमेकञ्चस्कन्धे चारोप्य यत्नतः। एकपादेन गगने तिष्ठेत् स दण्ड-वत् प्रभो!। अपानासनमेतद्धि सर्वेषां पूरकाश्रयम्। कृत्वा सूक्ष्मशीर्षपद्मे समारोप्य च वायुभिः। तदा मिद्धोभवेन्मर्त्यो नात्र कार्य्या विचारणा। प्राणापानासने कृत्वामन्त्री योगेश्वरो भुवि। समानासनमावक्ष्ये सिद्धिमन्त्रादिसा-धनम्। एकं पादमुरौ दत्त्वा गुह्येऽन्यं लिङ्गवक्त्रके। एत-द्वीरासनं नाथ! समानासनसंज्ञकम्। इत्याकृत्य जपे-न्मन्त्रं धृत्वा वायुं चतुर्दले। कुण्डलीं भाययेन्मन्त्री कोटिविद्युल्लताकृतिम्। आत्मचन्द्रामृतरसैराप्लुतां योगिनींसदा। वीरासनं तु वीराणां योगवायुप्रसाधनम्। योजा-[Page0885-b+ 38] नाति महावीरः स योगी भवति ध्रुवम्। अथ वक्ष्येमहाकाल। समानासनसाधनम्। भेदक्रमेण यज्ज्ञात्वावीराणामधिपोभवेत्। समानासनमाकृत्य बद्ध्वाङ्गुष्ठं करेणच। एतेन साधुकारी स्यात् सर्वयोगादिसाधने। आसनंयोहि जानाति वायुना हरणं तथा। कालादीनां निर्ण्णयन्तुस कदाचित् न नश्यति। कालेन लभ्यते सिद्धिः काल-रूपोमहोज्ज्वलः। साधकैर्योगिभिर्ध्येयः सिद्धवीरासना-त्मना। अथ वक्ष्ये नीलकण्ठ। ग्रन्थिभद्रासनं शुभम्। ज्ञात्वा रुद्रो भवेत् क्षिप्रं सूक्ष्मवायुनिषेवणात्। कृत्वा-पद्मासनं मन्त्री जङ्घायाः कुहरे करौ। कर्परस्थलपर्य्यन्तंविभिद्य स्कन्धधारणम्। भित्त्वा पद्मासनं मन्त्री हस्तार्द्धे-न विपाटयन्। येन शीर्षं भवेन्नम्रं सर्वाङ्गुलिभिराश्रितम्। ग्रन्थिभेदासनं कुर्य्यात् खेचरादिप्रदर्शनम्। कृत्वा सूक्ष्म-वायुलयं परमात्मनि कारयेत्। अथान्यासनमावक्ष्ये-योगपूर्वकरक्षणात्। कृत्वा पद्मासनं पादाङ्गुष्ठं जङ्घांहि संस्थितम्। हस्तमेकन्तु जङ्घायां कार्म्मुकं कर्परोर्द्धकम्। पद्मासने समाधाय अङ्गुष्ठं परिधारयेत्। कार्म्मुकासनमेतद्धि सव्यापसव्ययोगतः। पद्मासनं वेष्ट-यित्वा अङ्गुष्ठं च प्रधारयेत्। यः करोति सदा नाथ!कार्म्मुकासनमुत्तमम्। रोगादिनाशं शत्रूणां क्षयं नीत्वासुखी भवेत्। अथ वक्ष्येऽत्र संक्षेपात् सर्वाङ्गासनमुत्त-मम्। यत् कृत्वा निपुणो योगी विद्याभिः पण्डितोभवेत्। अधो निधाय शीर्षञ्च ऊर्द्धपादद्घयञ्चरेत्। पद्मा-सनं तु तत्रैव भूमौ कर्परयुग्मकम्। दण्डे दण्डे तु यःकुर्य्यात् श्वासशान्तिपरः सुधीः! नित्यं सर्वासनं हित्वान कुर्य्याद्वायुधारणम्। मासेन तस्य सिद्धिः स्यात् सर्व्व-रोगविनाशनम्”। अन्यान्यप्यामनानि तत्रोक्तानि विस्त-रान्न दर्शितानि। निर्वाणतन्त्रे जन्तुसंख्यया चतुर-शीतिलक्षसंख्यकान्यासनान्युक्तानि किन्तु तेषां लक्षणवि-शेषास्तत्र नोक्ताः तेषां मध्ये द्वयोरेव प्राधान्थमित्यपितत्रैवोक्तम्। यथा
“आसनानि कुलेशानि! यावन्तोजीव-जन्तवः। चतुरशीतिलक्षाणि चैकैकंसमुदाहृतम्। आस-नेभ्यः समस्तेभ्यः साम्प्रतं द्वयमुच्यते। एकं सिद्धासनंनाम द्वितीयं कमलासनम्”। एषां बहुविधानामासनांनांमध्ये
“सुखेनैव भवेद्यस्मिन्नासने ब्रह्मचिन्तनम्। आसनंतद्विजानीयादितरत् सुखनाशनम्” इत्यभियुक्तोक्तेःपातञ्जलोक्तस्य स्थिरमुखस्यैवासनस्य ब्रह्मचिन्तने ग्राह्य-तेत्येवसेयम्। तन्त्रसारे योगाङ्गासनानि पञ्च सलक्षणान्यु-[Page0886-a+ 38] क्तानि यथा
“पद्मासनं खस्तिकाख्यं भद्रं वज्रासनन्तथा। वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम्। उर्व्वोसपरिबिन्यस्य सम्यक् पादतले उभे। अङ्गुष्ठौ च निबध्नीयाद्ध-स्ताभ्यां व्युत्क्रमात्ततः। पद्मासनमिदं प्रोक्तं योगिनांहृदयङ्गमम्। जानूर्व्वोरन्तरे सम्यक् कृत्वा पादतले उभे। ऋजुकायो विशेद्योगी स्वस्तिकन्तत् प्रचक्षते। सीमनिपार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चलम्। वृषणाधः पार्श्व-पादौ पाणिभ्यां परिरक्षयेत्। भद्रासनं समुद्धिष्टंयोगिभिः परिकल्पितम्। उर्वोः पादौ क्रमान्न्यस्येत्ताल्वोःप्रत्यङ्मुखाङ्गुली। करौ निदध्यादाख्यातं वज्रासनमनुत्तमम्। एकम्पादमधः कृत्वा विन्यस्योरौ तथेतरम्। ऋजुकायोविशे-न्मन्त्री वीरासनमितीरितम्” यत्र महामात्रोवसतितस्मिन्

६ गजस्कन्धदेशे आस्यतेऽनेन आ + अस--कर्म्मणिल्युट्।

७ सम्यग् विक्षेपणसाधने। असनएव अण्।

८ अस-नवृक्षे पु॰

९ जीवकवृक्षे पु॰। आसनशब्दस्थाने शसादौतद्धितयाजादौ च परे आसन्नादेशः इति काशिकादयःमसोरमायान्तु तत् दूषयित्वा आस्यशब्दस्थाने एव तदादेशइत्युक्तं यथा
“यत्तु आसनशब्दस्य आसन्नादेश इतिकाशिकायामुक्तन्तत् प्रामादिकम्
“आस्रोवृकस्य वर्त्तिकाम-भीके” इति मन्त्रे मुखादित्यर्थस्यौचित्यात्
“वृकस्य चित्वर्त्तिकामन्तराणादिति” मन्त्रान्तरसंवादाच्च वाख्यातञ्चतथैव वेदभाष्ये इति।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन¦ n. (-नं)
1. A stool, a seat.
2. Maintaining a post against an enemy.
3. The withers of an elephant, the part where the driver sits.
4. Halting, stopping.
5. Sitting in some peculiar posture, as is the custom of devotees, &c. eighty-four kinds are enumerated: see पद्मासन, &c. m. (-नः) A tree, (Pentapheca tomentosa.) Also असन। f. (-ना-नी) Stay, abiding, sitting. (-नी)
1. A shop, a stall.
2. A small seat, a stool. E. आस् to abide, and युच or ल्युट् aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसनम् [āsanam], [आस्-ल्युट्]

Sitting down.

A seat, place, stool; Bg.11.42; स वासवेनासनसन्निकृष्टम् Ku.3.2; आसनं मुच् to leave one's seat, rise; R.3.11.

A particular posture or mode of sitting; cf. पद्म˚, वीर˚, भद्र˚, वज्र˚ &c. cf. अनायासेन येन स्यादजस्रं ब्रह्मचिन्तनम् । आसनं तद् विजानीयाद् योगिनां सुखदायकम् ॥

Sitting down or halting, stopping, encamping.

Abiding, dwelling; Ms.2.246; 6.59.

Any peculiar mode of sexual enjoyment (84 such āsanas are usually mentioned).

Maintaining a post against an enemy (opp. यानम्), one of the six modes of foreign policy; which are: संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः Ak.; प्रतिबद्धशक्त्योः कालप्रतीक्षया तूष्णीमवस्थानमासनम्; परस्परस्य सामर्थ्यविघातादासनं स्मृतम् Agni P.; Ms.7.16,162,166; Y.1.347; Pt.3.

The front part of an elephant's body, withers.

Throwing (fr. अस् to throw).

N. of two trees (असन and जीवक).

Place where the elephant-rider sits, cf. मस्तकद्वितयं दन्तावासनं वंश एव च । षडेते प्रोन्नता यस्य स गजो राजवाहनः ॥ Mātanga L.2.1.

Neutrality (as of a nation); Kau. A.7.1.

A moving piece (draught) in the game of dice; प्राणग्लहो$यं समर इष्वक्षो वाहनासनः Bhāg.6.12.17. -ना A seat, stool, stay.

नी Stay, abiding, sitting.

A small seat or stool.

A shop, stall. -Comp. -बन्धधीर a. resolute to sit down, firm in one's seat; निषेदुषीमासनबन्धधीरः R.2.6. -मचूडकम् Semen (मचूडकं विथावीति ख्यातम्); आसनमचूडकं शयनीय- प्रच्छदपटापवारितं भवति किं न वेति Māl.7. (v. l. आसनमयूरकम्).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसन n. (but आसनS3Br. )sitting , sitting down Ka1tyS3r. Mn.

आसन n. sitting in peculiar posture according to the custom of devotees , (five or , in other places , even eighty-four postures are enumerated ; See. पद्मा-सन, भद्रा-सन, वज्रा-सन, वीरा-सन, स्वस्तिका-सन: the manner of sitting forming part of the eightfold observances of ascetics)

आसन n. halting , stopping , encamping

आसन n. abiding , dwelling AV. xx , 127 , 8 Mn. Ya1jn5. Hit. etc.

आसन n. seat , place , stool Ka1tyS3r. S3Br. xiv Kum. Mn. etc.

आसन n. the withers of an elephant , the part where the driver sits L.

आसन n. maintaining a post against an enemy

आसन = असन2 Terminalia Tomentosa.

आसन See. 2. आस्.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀSANA : Posture in Yogābhyāsa. There are different types of āsanas. The chief of them are given below:

1) Bhujaṅgāsana. Lying flat, face downwards on a sheet with hands placed close to the body on either side. After relaxing all the muscles of the body, concen- trate the mind on health. Keeping the feet close to- gether and pressing the knees against the ground, raise the soles upwards to the sky. Place both palms, pressing against the ground, touching the shoulders on both sides. Then raise the head and bend the neck back- wards as far as possible. At this time, the trunk and legs should be in close contact with the ground. Gra- dually raise the chest, supported by the hands on the ground. Bring the head down in the same way as it was raised and restore the body to its former position. This āsana strengthens the backbone.

2) Śalabhāsana. Lie flat on the sheet, face downwards. Keep the legs close together and raise the feet up with the heels touching each other. Place the hands close to the body on either side and close the fists upwards. Place the fists and shoulders close to the ground and make the whole body stiff after inhaling the breath. Then try to raise the legs. Support the weight of the body with the breast and hands. This is possible by pressing the fists, firmly against the ground. Until the āsana is completed, do not send out the breath. Keep the legs straight and stiff. The lower abdomen and legs may be raised slightly. This makes the āsana complete. On feeling suffocation, the legs must be brought down slowly.

Besides these, there are many other āsanas like Dhanur- āsana, Paścimātānāsana, Halāsana, Mayūrāsana, Sarvāṅgāsana, Matsyāsana, Śīrṣāsana, Arddhamatsy- endrāsana, Pādahastāsana, Trikoṇāsana, Uḍḍīyāsana, Nauli, Viparītakaraṇi, Yogamudrā, Śavāsana, etc. (See under Yoga).


_______________________________
*9th word in right half of page 92 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आसन&oldid=491527" इत्यस्माद् पुनः प्राप्तिः