आसव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसवः, पुं, (आङ् + सुञ् + अप् ।) मद्यविशेषः । तत्पर्य्यायः । मैरेयं २ शीधुः ३ । इत्यमरः ॥ “शीवुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानाम्लसंहितम्” ॥ इति माधवेन भेदः कृतस्तथापि सूक्ष्ममनादृत्ये- दमुक्तम् । इति भरतः ॥ मद्यमात्रम् । इति राजनिर्घण्टः ॥ (यथा भनुः ११ । ९५ । “यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवं । तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हरिः” ।) (“यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः” । इति शार्ङ्गधरः । यथा भावप्रकाशे । “आसवस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” ।) आसवभेदेन गुणभेदो यथा ॥ “छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्” । “शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघुः” । इति च वाभटः ॥ “मुखप्रियः सुखमदः सुगन्धिर्वस्तिरोगनुत् । जरणीयः परिणतो हृद्यो वर्ण्यश्च शार्करः” ॥ “रोचनो दीपनो हृद्यः शोषशोफार्शसंहितः । स्नेहश्लेष्मविकारघ्नो वर्ण्यः पक्वरसो मतः” ॥ “मृष्टो भिन्नशकृद्वातो गौडस्तर्पणदीपनः । छेदी मध्वासवस्तीक्ष्णो मैरेयो मधुरो गुरुः” ॥ इति चरकः ॥ तथा च सुश्रुते ॥ “तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ॥ मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः । लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ॥ तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् । तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ॥ कृमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः । बल्यः पित्तहरो वर्ण्यो मृद्वीकेक्षुरसासवः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसव पुं।

इक्षुशाकादिजन्यमद्यम्

समानार्थक:मैरेय,आसव,सीधु

2।10।41।2।2

मध्वासवो माधवको मधु माध्वीकमद्वयोः। मैरेयमासवः सीधुर्मेन्दको जगलः समौ॥

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसव¦ पु॰ आसूयते आ + सू--कर्म्मणि अण्।

१ अभिषव-णीये मद्ये (चोयानमद) तल्लक्षणादि भावप्र॰।
“यच्चपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः। आसवस्य वीज-द्रव्यगुणैर्ज्ञेयागुणाःःसमाः” नवपुराणमद्ययोर्गुणास्तत्रैव।
“मद्यं नवमभिष्यन्दि त्रिदोषजनकः परम्। अकृच्छ्रंवृंहणं ग्राहि दुर्गन्धं विशदं गुरु। जीर्ण्णं तदेव रोचिष्णकृमिश्लेष्मानिलापहम्। हृद्यं सुगन्धि गुणवल्लघु श्रम-[Page0887-a+ 38] विशोधनम्”। सात्विकादिपानकर्त्तृभेदेन चेष्टाविशेषाश्च त-त्रोक्ताः
“सात्विकोगीतिहास्यादि राजसो साहसादिकम्। तामसो निन्द्यकर्म्माणि निद्रां च मदिरां चरन्”। चरन्पिबन् कुर्य्यादिति शेषः।
“विधिना मात्रया काले हितैरन्यैर्यथाबलम्। प्रहृष्टोयः पिबेन्मद्यं तस्य स्यादमृतंयथा। किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्” सुश्रुते तु मद्यभेदेन गुणविशेषादिकमुक्तं यथा(
“सर्व्वं पित्तकरं मद्यमम्लं दीपनरोचनम्। भेदनं कफ-वातघ्नं हृद्यं वस्तिविशोधनम्। पाके लघु विदाह्युष्णंतीक्ष्णमिन्द्रियबोधनम्। विकाशि सृष्टविण्मूत्रं शृणुतस्य विशेषकम्। मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा। रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते। मधुरं तद्धिरूक्षञ्च कषायानुरसं लघु। लघुपाकि सरं शोथविषम-ज्वरनाशनम्। मार्द्वीकाल्पान्तरं किञ्चित् खार्जूरं वात-कोपनम्। तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु। कषायमधुरं हृद्यं सुगन्धीन्द्रियबाधनम्। कासार्शो-ग्रहणीदोषमूत्राघातानिलापहा। स्तन्यरक्तक्षयहितासुरा वृंहणदीपनी। कासार्शोग्रहणीश्वासप्रतिश्यायविना-शिनी। श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा। छर्द्य-रोचकहृत्कुक्षितोदशूलप्रमार्दनी। प्रसन्ना कफवातार्शो-विबन्धानाहनाशिनी। पित्तलाल्पकफा रूक्षा यवै-र्य्यातप्रकोपणी। विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधू-लिका। रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता। त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः। ग्राह्युष्णो-ऽजगलः पक्ता रूक्षस्तृट्कफशोफहृत्। हृद्यः प्रवाहि-काटोपदुर्नाभानिलशोषहृत्। वक्वसो हृतसारत्वा-द्विष्टम्भी वातकोपनः। दीपनः सृष्टविण्मूत्रो विश-टोऽल्पमदो गुरुः। कषायो मधुरः शीधुर्गौडः पाचनदीपनः। शार्करो मधुरो रुच्यो दीपनो वस्तिशोधनः। वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः। तद्वत् पक्व-रसः शीधुर्वलवर्णकरः सरः। शोफघ्नो दीपनो हृद्योरुच्यः श्लेष्मार्शसां हितः। कर्शनः शीतरसिकः श्वयथूदर-नाशनः। वर्णकृज्जरणः स्वर्य्यो विबन्धघ्नोऽर्शसां हितः। आक्षिकः पाण्डुरोगघ्नोव्रण्यः संग्राहको लघुः। कषायमधुरः शीधुः पित्तघ्नोऽसृक्प्रसादनः। जाम्बवोबद्धनिस्यन्दस्तुवरो वातकोपनः। तीक्ष्णः सुरासवो हृद्योमूत्रलः कफवातनुत्। मुखप्रियः स्थिरमदो विज्ञेयोऽ-निलनाशनः। लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः। [Page0887-b+ 38] तिक्तः कषायशोफघ्नस्तीक्ष्णः स्वादुरवातकृत्। तीक्ष्णःकषायो मदकृद्दुर्नामकफगुल्महृत्। कृमिमेदोऽनिलहरोमैरेयो मधुरो गुरुः। बल्यः पित्तहरो वर्ण्यो मृद्वी-केक्षुरसासवः। शीधुर्मधूकपुष्पोत्थो विदाह्यग्निबलप्रदः। रूक्षः कषायकफहृद्वातपित्तप्रकोपणः। निर्दिशेद्रसत-श्चान्यान् कन्दमूलफलासवान्। नवं मद्यमभिस्यन्दि गुरुवातादिकोपनम्। अनिष्टगन्धं विरसमहृद्यञ्च विदाहिच। सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम्। स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम्। अरिष्टोद्रव्यसंयोगसंस्कारादधिको गुणैः। बहुदोषहरश्चैव दोषा-णां शमनश्च सः। दीपनः कफवातघ्नः सरः पित्त-विशोधनः। शूलाघ्मानोदरप्लीहज्वराजीर्ण्णार्शसां हितः। पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः। चिकि-त्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक्। अरिष्टास-वशीधूनां गुणान् कर्म्माणि चादिशेत्। बुद्ध्या यथास्वंसंस्कारमवेक्ष्य कुशलो भिषक्। सान्द्रं विदाहि दुर्गन्धंविरसं कृमिलं गुरु। अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भा-जनस्थितम्। अल्पौषधं पर्य्युषितमत्यच्छं पिच्छिलञ्चयत्। तद्वर्ज्यं सर्व्वदा मद्यं किञ्चिच्छेषन्तु यद्भवेत्। तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु। कफप्रकोपितन्मद्यं दुर्जरञ्च विशेषतः। पित्तप्रकोपि बहुलं तीक्ष्ण-मुष्णं विदाहि च। अहृद्यं फेनिलं पूति कृमिलं विरसंगुरु। तथा पर्य्युषितञ्चापि विद्यादनिलकोपनम्। सर्व्व-दोषैरुपेतन्तु सर्वदोषप्रकोपणम्। चिरस्थितं यातरसंदीपनं कफवातजित्। रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं म-दावहम्। तस्यानेकप्रकारस्य सद्यस्य रसवीर्य्यतः। सौ-क्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकाशित्वाच्च वह्निना। समेत्यहुदयं प्राप्य धमनीरूर्द्ध्वमागतम्। विक्षोभ्येन्द्रियचेतांसिवीर्य्यं मदयतेऽचिरात्। चिरेण श्लेष्मिके पुंसि पानतोजायते मदः। अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु। सात्विके शौचदाक्षिण्यहर्षमण्डनलालसः। गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः। राजसे दुःखशीलत्वमात्म-त्यागं ससाहसम्। कलहं सानुबन्धन्तु करोति पुरुषेमदः। अशौचनिद्रामात्सर्य्यागम्यागमनलोलताः। अस-त्यभाषणञ्चापि कुर्य्याद्धि तामसे मदः। रक्तपित्तकरंशुक्तं छेदि भुक्तविपाचनम्। वैस्वर्य्यं जरणं श्लेष्मपाण्डु-क्रिमिहरं लघु। तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटु-पाकि च। तद्वत्तदासुतं सर्वं रोचनञ्च विशेषतः। गौडानि[Page0888-a+ 38] रसशुक्तानि मधुशुक्तानि यानि च। यथापूर्व्वं गुरुतराण्य-भिस्यन्दकराणि च। तृषां तु दीपनं हृद्यं हृत्या-ण्डुकृमिरोगनुत्। ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकंतथा। धान्याम्लं धान्ययोनित्वाद्दीपनं दाहनाशनम्। स्पर्शात्पानात्तु पवनकफतृष्णाहरं लघु। तैक्ष्ण्याच्च निर्ह-रेदाशु कफं गण्डूषधारणात्। मुखवैरस्यदौर्गन्ध्यमल-शोषक्लमापहम्। दीपनं जरणं भेदि हितमास्थापनेषुच। समुद्रमाश्रितानाञ्च जनानां सात्म्यमुच्यते। ”( स्मृतौ तु जातिभेदेन मद्यविशेषपाननिषेधार्थं मद्य-विभागादि दर्शितं यथा प्रा॰ वि॰ मनुहारीतयमैः।
“सुरा वै मलमन्नानां पाप्मा च मलमुच्यते। तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुराम्पिबेत्”। तथा च श्रुतिः
“सुरावै मलमन्नानामनृतं पाप्मतमंसुरेति”। यद्यप्यन्नशब्दःशूक-धान्यतण्डुलविकारविशेष ओदने प्रसिद्धस्तथापि बहुतरवचनात् पिष्टयवान्नादिविकारमपि लक्षयति। तेनान्न-विकारविशेषोमदहेतुः सुरा इत्युच्यते। अत्रिः।
“गौडी-पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा। यथैवैका तथासर्व्वा न पातव्या द्विजोत्तमैरिति” त्रिविधैव सुरेति पन-सादिविकारव्यावृत्तस्य त्रितयस्यानुगतस्यैकस्य प्रवृत्तिनिमि-त्तस्याभावात् न पानक्रियाव्याप्यत्वम् इतरव्यावर्त्तकधर्म्मश्चमहापातकहेतुपानकर्मत्वमुपाधिः सुराज्ञानाधीनं महा-पातकं तज्ज्ञानाधीनञ्च सुराज्ञानम् इतरेतराश्रयापत्तेः-पुलस्त्यवचनविरोधाच्च यथा पुलस्त्यः।
“पानसं द्राक्षं माधूकंखार्ज्जूरं तालमैक्षवम्। माक्षिकं टाङ्कं माध्वीकमैरेयं नारि-केलजम्। समानानि विजानीयान्मद्यान्येकादशैव तु। द्वादशन्तु सुरा मद्यं सर्वेषामधमं स्मृतम्”। अनेनैकादशानांसुरात्वं निषेधति। मद्यशब्दस्तु मदहेतुद्रवद्रव्यमात्र-वचनः अस्मादेव वचनात् न तु मद्यमात्रं सुराशब्दस्यार्थःतथा च वृहस्पतिः।
“गौडीं माध्वीं सूरां पैर्ष्टी पीत्वा-विप्रः समाचरेत्। तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्र-मात्”। त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तत्रयं न स्यात्। तथा भविष्ये
“सुरा पैष्टी तु मुख्योक्ता न तस्यश्चेतरे समे”। पैष्टीति तण्डुलविकारमात्रोपलक्षणम्। इतरे गौडी-माध्व्यौ। अतो अन्नविकार एव सुराशब्दस्य मुख्यत्वात्त्रिविधा सुरेति गौडीमाध्व्योर्गौणसुरात्वज्ञापनार्थम् तेनै-तत्पानेऽपि महापातकत्वमतिदिशति यथैवैका तथा सर्वेतिपैष्ट्यां पूर्ब्बप्रसिद्धिं दर्शयति यथा पैष्टी सुरा तथा सर्व्वागौडी माध्वी च। पूर्ववचनोक्तापि पैष्टी दृष्टान्तत्वेनात्र-[Page0888-b+ 38] दर्शिता। न पातव्या द्विजोत्तमैर्ब्राह्मणैरित्यर्थः। त्रैवर्ण्णिकपरत्वे उत्तमपदानर्थक्यात्। न तु बहुवच-नानर्थक्यपरीहारार्थमुत्तमप्रातिपादिकानर्थक्यं युक्तंबहुवचनस्य सजातीयोपस्थापकत्वेन चरितार्थत्वात्। अतोब्राह्मणस्य त्रिविधसुरापानं महापातकम्।
“क्षत्रियवैश्य-योस्तु” सुरा वै मलमन्नानामिति वचनेन पैष्ट्येवेति स्थितम्गोविन्दराजविश्वरूपवीरेश्वराणामयमनुमतोऽर्थः। अतएव
“एवं माध्वी च गौडी च पैष्टी च त्रिविधा सुरा। द्विजातिभिर्न्नपातव्या कदाचिदपि कर्हिचित्” इतिमनुवच-नेऽपि द्विजातिपदं ब्राह्मणपरमेव। अतएव द्विविधसुरा-पाने क्षत्रियादीनां महापातकं तावदस्तु दोषाभावमेवाहवृद्धयाज्ञल्क्यः।
“कामादपि हि राजन्योवैश्यो वापि कथ-ञ्चन। मद्यमेवासुरां पीत्वा न दोषं प्रतिपद्यते” तदेवं पैष्टीनिषेधस्त्रैवर्ण्णिकानाम् गौडीमाध्वीनिषेधस्तु ब्राह्मणस्यैवननु ब्राह्मणराजन्याविति कर्तृविशेषणं पुंलिङ्गं तत्र विवक्षि-तम् अतः कथं व्राह्मण्याः सुरापानं महापातकम् उच्यतेनिषिध्यमानक्रियायाविधेयत्वेन तत्कर्त्तुरनुपादेयत्वात्तद्विशेषणं लिङ्गमविवक्षितम् हविरुभयत्ववत्। अतस्त-ज्जातिस्त्रीणामपि पाननिषेधः। तथा च भविष्ये
“तस्मान्न पेयं विप्रेण सुरामद्यं कथञ्चन। ब्राह्मण्यापि नपेया वै सुरा पापभयावहा”।
“यद्व्राह्मणी सुरापी स्यान्न तांदेवाः पतिलोकं नयन्तीति” श्रुतिः।
“पतत्यर्द्धशरीरेणभार्य्या यस्य सुरां पिबेत्। पतितार्द्धशरीरस्य निष्कृतिर्नो-पपद्यते”। न चैवं क्षत्रियवैश्यस्त्रीणामनिषेधः ब्राह्मणी-पदस्य निषिद्धसुरापानकर्त्तभार्य्योपलक्षकत्वात्
“भार्य्या यस्यसुरां पिबेदिति सामान्यश्रवणाच्च। ( वेदविहितः मद्यसवनप्रकारस्तु सौत्रामणीशब्दे वक्ष्यते।
“यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम्। तत्ब्राह्म-णेन नात्तव्यं देवानामश्नता हविः” मनुः।
“अनासवाख्यंकरणं मदस्य” कुमा॰।
“नानासवपात्रसङ्घुलम्” काद॰।
“मुखं लालाक्लिन्नं पिबति चषकं सासवमिव” शान्तिश॰।
“संविदासवयोर्मध्ये संविदैव गरीयसी” तन्त्र॰। भावे घञ्।

२ मद्यादेरभिषवे (मदचोयान)आसूयतेऽत्र आधारे घञ्।

३ अभिषवपात्रे। आ + सू-प्रसवे अच्।

६ प्रसवकर्त्तरि त्रि॰।
“देवस्य सवितुर्मति-मासवं विश्वदेव्यम्” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसव¦ n. (-वं)
1. Rum, spirit distilled from sugar or molasses.
2. Spi- rituous liquor in general. E. आङ् before षूञ् to be generated, and अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसव [āsava], see under आसु.

आसवः [āsavḥ], [आ सु-अण्]

Distillation.

Decoction.

Any spirituous liquor (distilled from sugar, molasses &c.); अनासवाख्यं करणं मदस्य Ku.1.13; कुमारी˚, द्राक्षा˚ &c.; यच्च पक्वैषधाम्बुभ्यां सिद्धं मद्यं स आसवः Bhāva. P. Mādhava, however, seems to differ and says, शीधुरिक्षुरसैः पक्वैरपक्वै- रासवो भवेत् । मैरेयं धातकीपुष्पैर्गुडधानाम्लसंहितम् ॥; आसवरागताम्रम् Ki.16.46.

A vessel for liquor.

Exciting.-Comp. -द्रुः [आसवस्य कारणं द्रुः शाक˚ त˚] N. of the Palmyra tree (the juice of which, on fermenting, forms a spirituous liquor).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसव/ आ-सव m. distilling , distillation L.

आसव/ आ-सव m. decoction

आसव/ आ-सव m. rum , spirit distilled from sugar or molasses , spirituous liquor in general

आसव/ आ-सव m. juice MBh. Sus3r. Vikr. Prab. Ya1jn5. etc.

आसव/ आ-सव m. the nectar or juice of a flower S3is3. vi , 7

आसव/ आ-सव m. the nectar or juice of the lips (of a woman) , S3a1ntis3.

आसव/ आ-सव m. exciting , enlivening VS.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--also पानम्; different kinds of; forbidden to ब्राह्मणस्, widows and girls. Br. IV. 7. ६३.

"https://sa.wiktionary.org/w/index.php?title=आसव&oldid=491538" इत्यस्माद् प्रतिप्राप्तम्