आस्तिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तिकः, पुं, (अस्तीत्यस्य । अस्ति + ठक् ।) मुनि- विशेषः । स तु जरत्कारुमुनिपुत्त्रः । तत्पिता गर्भस्थं तं ज्ञात्वास्तीत्युक्त्वा गत इत्यस्मादास्तिकः । (यथा, -- “अस्तीत्युक्त्वा गतो यस्मात् पिता गर्भस्थमेव तम् । वनं तस्मादिदं तस्य नामास्तिकेति विश्रुतम्” ॥) इति महाभारतम् ॥ (“आस्तिकस्य मुनेर्माता भगिनी वासुकेस्तथा” । इति मनसाप्रणाममन्त्रः ।)

आस्तिकः, त्रि, (अस्ति ईश्वर इति मतिर्यस्य । अस्ति + ठक् ।) नास्तिकभिन्नः । ईश्वरोऽस्तीति- वादी । वेदप्रामाण्यवादी । तत्पर्य्यायः । श्रद्धालुः २ श्राद्धः ३ । इति हेमचन्द्रः ॥ (“सत्यधर्म्मच्युतात् पुंसः क्रुद्धादाशीविषादिव । अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः” ॥ इति महाभारते आदिपर्ब्बणि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तिक¦ त्रि॰ अस्ति परलोक इति मतिर्यस्य ठक्।

१ परलोका-स्तित्ववादिनि
“आस्तीत्युक्त्वा गतो यस्मादास्तिकस्तेनकथ्यते” इति निरुक्तसंज्ञके जरत्कारमुनिसुते

२ मुनिभेदेआस्तिकोत्पत्तिकथा आस्तीकशब्दे वक्ष्यते।
“आस्तिकस्यमुनेर्माता भगिनी वासुकेस्तथा जरत्कारमुनेः पत्नीमनसादेवि ते नमः” मनसाप्रणाममन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तिक¦ m. (-कः) The name of a Muni or saint. E. अस्ति who is and वुञ् affix; from an expression of his father, (he is in the womb,) pro- nouncing his conception to have taken place before there were any external indications of it. mfn. (-कः-की-कं) A believer, pious, faith- ful. E. अस्ति as before, saying that there is a God, &c. in opposition to the नास्तिक an atheist, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तिक [āstika], a. (-की f.) [अस्ति परलोकः इति मतिर्यस्य, ठक्]

One who believes in God and another world; यन्नास्त्येव तदस्ति वस्त्विति मृषा जल्पद्भिरेवास्तिकैः Prab.2

A believer in sacred tradition.

Pious, faithful, believing; आस्तिकः श्रद्दधानश्च Y.1.268. -कः or आस्तीकः N. of a Muni. cf. अगस्त्यो माधवश्चैव मुचकुन्दो महामुनिः । कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आस्तिक mf( ई)n. (fr. अस्ति, " there is or exists " Pa1n2. 4-2 , 60 ), one who believes in the existence (of God , of another world , etc. )

आस्तिक mf( ई)n. believing , pious , faithful MBh. Ya1jn5. Sus3r.

आस्तिक m. = आस्तीकSee.

"https://sa.wiktionary.org/w/index.php?title=आस्तिक&oldid=491577" इत्यस्माद् प्रतिप्राप्तम्