विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इ, इकारः । तृतीयस्वरवर्णः । अस्योच्चारणस्थानं तालु । स च ह्रस्वो दीर्घः प्लुतश्च भवति । (अयञ्च उदात्तानुदात्तसरिद्-भेदात् त्रिविधः । अनुनासिकाननुनासिकभेदाच्च प्रत्येकं द्विविधः एतेन षड्विध एव ।) “इकारं परमानन्दसुगन्धकुसुमच्छविम् । हरिब्रह्ममयं वर्णं सदा रुद्रयुतं प्रिये ॥ सदा शक्तिमयं देवि गुरुब्रह्ममयं तथा । सदाशिवमयं वर्णं परं ब्रह्मसमन्वितम् ॥ हरिब्रह्मात्मकं वर्णं गुणत्रयसमन्वितम् । इकारं परमेशानि स्वयं कुण्डली मूर्त्तिमान्” ॥ इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां ।) तस्य लेखनप्रकारो यथा, “ऊर्द्ध्वाधः कुव्जिता मध्ये रेखा तत्सङ्गता भवेत् । लक्ष्मीर्व्वाणी तथेन्द्राणी क्रमात्तास्वेव संवसेत् ॥ शीर्षाधःकुञ्चिता रेखा दक्षोर्द्ध्वा कामरूपिणी । मात्राशक्तिः कोणयुता ध्यानमस्य प्रचक्ष्यते” ॥ इति वर्णोद्धारतन्त्रम् ॥ * ॥ (यद्यपि सिद्धान्त- कौमुद्यां “इचुयशानाम् तालु” इति सामान्यतः उक्तं तथापि शब्देन्दुशेखरादिष्वस्य विस्तरतो विबृतिरुक्ता । यथा, -- “तुल्यास्य प्रयत्नमिति सूत्रेण प्रशब्देन विलक्षणयन्तबोधेऽपि लोके यत्नप्रयत्नयोः पर्य्यायतेति ध्वनयन्नाह प्रयत्नो हि हिधा इति क्वचित् यत्नो द्विधेत्येव पाठः । एतेषां आभ्यन्तरत्वं वर्णोत्पत्तेः प्राग्भावित्वात् । तथाहि नाभिप्रदेशात् प्रयत्नप्रेरितः प्राणो नाम वायुः ऊर्द्ध्वमाक्रमन् उरःप्रभृतीनि स्था- नान्याहन्ति ततो वर्णस्य तदभिव्यञ्जकध्वनेर्वो- त्पत्तिस्तत्रोत्पत्तेः । प्राक्जिह्वाग्रोपाग्रमध्यमूलानि वर्णोत्पत्तिस्थानं ताल्वादि यदा सम्यक् स्पृशन्ति तदा स्पृष्टता ईषत्स्पर्शे ईषत्स्पष्टता समी- पावस्थाने संवृतता दूरावस्थाने विवृतता अतएव इचुयशानां तालव्यत्वाविशेषेऽपि चवर्गे उच्चा- रयितव्ये जिह्वाग्रादीनां तालु स्थानेन सम्यक् स्पर्शः यकारे ईषत् स्पर्शः शकारेकारयोः समीपदू- रावस्थानं । स्पृष्टं प्रयतनमिति यतेर्नपुंसके भावे ल्युट् । प्रयत्नमित्यपपाठः नङन्तस्य पुंस्तत्वात् । “शेषाः स्पृष्टा हलप्रोक्ताः” इत्यादि । यथा, शिक्षायां शब्देन्दुसारः । तथाहि “अचोऽस्पृष्टाः यणस्त्वीषत् नेमस्पृष्टाः शलः स्मृताः । “शेषाः स्पृष्टाः हलप्रोक्ताः” इत्यादि । अत्र अचः अस्पृष्टाः स्पर्शाभावरूपविवृतत्ववन्तः यणस्त्वीषत् अस्पृष्टा इत्यनुषज्यते तेन ईषदस्पृष्टा ईषद्विवृता इत्यर्थः । नेम इत्यर्द्धे तेन शलः ईषत् विवृताः यणमपेक्ष्याधिकविवृतत्ववन्त इत्यर्थः । अपि च -- “अग्निमीले पुरोहितं यज्ञस्य देवमृत्विजम् । हो- तारं रन्तधातमम्” । ईले इत्येतत् समस्तमपि- पदमनुदात्तम् “तिङ्ङतिङ” इति सूत्रेण अति- ङन्तादग्निशब्दात् परस्य ईल इति तिङन्तस्य निघातविधानात् अग्निमील इति पदयोः सं- हिताकाले तु धातुगतस्य ईकारस्य स्वरितत्वम् “उदात्तानुदात्तस्वरितः” इति सूत्रेण उदात्तात् परस्यानुदात्तस्य स्थाने स्वरितः स्यात् इत्यर्थकेनानु- दात्तस्य ईकारस्य स्थाने स्वरितादेशात् ततःपरस्य ले इत्यत्र एकारस्य तिङ्प्रत्ययरूपस्य स्वरितात् संहितायाम् पूर्ब्बस्येकारस्य नितरां उदात्तत्वम् । अपरञ्च ताल्वादिस्थानमाभ्यन्तरप्रयत्नैति सूच्य- ते । अत्र मूलम् पाणिनीयशिक्षाग्रन्थे । यथा, -- “कण्ठ्यावहा विचुयशास्तालव्या ओष्ठजावुपू” । “स्वराणामुष्मणाञ्चैव विवृतं करणं मतम्” ।) तस्य नामानि यथा, -- “इः सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः । सुमित्रः सुन्दरो वीरः कोटरः काटरः पयः ॥ भ्रूमध्यो माधवस्तुष्टिर्दक्षनेत्रञ्च नासिका । शान्तः कान्तः कामिनी च कामो विघ्नविनायकः ॥ नेपालो भरणी रुद्रो नित्या क्लिन्ना च पावका” । इति वर्णाभिधानतन्त्रम् ॥ (मातृकान्यासेऽस्य दक्षिणचक्षुषि स्थानम् । यथा, मातृकान्यास- धृतमन्त्रः “इं नमो दक्षिणचक्षुषि ईं नमो वामचक्षुषि” । इति ।)

इ, गतौ । (भ्वादिं-इलपक्षे अदां-परं-सकं-अनिट् ।) अयति । ल एति । पृथक्पाठसामर्थ्यात् पूर्ब्बो न लित् । शेषस्तु इन गताविति प्रसिद्धः । यिनो- ऽच्यणावित्यादिषु ग्रहणमस्यैव । इति दुर्गादासः ॥ (उत् ।) उदये । समुन्नतौ । यथा, -- “उदयति यदि भानुः पश्चिमे दिग्विभागे” इति । (अभि + उत् ।) अभ्युदये । समुन्नतौ । सर्व्वेः गत्यर्था ज्ञानार्थाः प्राप्त्यर्थाश्च इत्यनेन प्राप्त्यर्थेऽप्यस्य बहुलः प्रयोगः । यथा, -- मनुः । “ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्” । “अयमेति मन्दं मन्दं कावेरीवारिपावनः पवनः” । इति साहित्यदर्पणम् । (अति) अतिक्रमे । परा- भवे । यथा, हितोपदेशे । १ । “अतीत्य हि गुणान् सर्व्वान् स्वभावो मूर्द्धि वर्त्तते” । “ततः परं जनस्थानं क्रोशत्रयमतीत्य वै” । इति रामायणे । (अनु) अनुकरणम् । “धानुरादेशमन्वेति तद्यथा हि तदर्पणः । नात्माधीनो मनुष्योऽयं कालं भजति कञ्चन” ॥ इति महाभारते । (अप) अपगमने । पलायने । “प्रत्यादेशव्यलीकमपैतु ते” । इति शाकुन्तले । (सम् + आ) सम्मिलने । “देवाश्चैतान् सभत्यो- चूर्न्याय्यं वः शिशुरुक्तवान्” । इति मनुः । २ । १५२ । इत्यादयो ज्ञेयाः ।)

इ, ल, स्मृत्यां । (अदां-परं-सकं-अनिट् ।) अधि- पूर्ब्बोऽयं । अधिग्रहणं अन्यपूर्ब्बस्य । केवलस्य च प्रयोगनिरासार्थं । एवं सर्व्वत्र । ल अध्येति तव लक्ष्मणः । इक स्मरणे इति प्रसिद्धोऽयं । इन्व- दिक इत्यत्रास्यैव ग्रहणम् । इति दुर्गादासः ॥

इ ङ ल अध्ययने । (अदा०-आ० -सक० -अनिट् ।) अधिपूर्ब्बोऽयं । अध्ययनमर्थतः शब्दतश्च गुरुतो ग्रहणं । ङ ल वेदमधीते विप्रः । इति दुर्गादासः ॥ (“यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः” इति मनुः । २ । १३७ ।)

इ, व्य, भेदः । क्रोधोक्तिः । अपाकरणं । अनुकम्पा । इति मेदिनो ॥ खेदः । इति हेमचन्द्रः ॥ ।

इः, पुं, (अस्य विष्णोः श्रीकृष्णस्यापत्यम् पुमान् । अ + इञ् ।) कामदेवः । इति पुरुषोत्तमहला- युधौ ॥ यथा, आग्नेये एका क्षराभिधानम् । “इः कामे रतिलक्ष्म्योरी उः शिवे ब्रह्मकाद्य ऊः” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


¦ पु॰ अस्य विष्णोरपत्यम् अ + इञ्।

१ कामदेवे स हि-रुक्मिण्यां विष्णोरंशात् कृष्णात् जातः तत्कथा यथा
“रूक्मिण्यां वासुदेवाच्च लक्ष्म्यां कामोधृतव्रतः। शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः” हरि॰

१६

३ अ॰। एवं व्युत्पत्तिमत्त्वेन कामदेवस्यैव इशब्दार्थता नाभिणाषस्येति बहवः। कामदेवदैवत्याच्च अभिलाषे औपचारिकइत्यन्ये। नञर्थकस्य अ इस्येदम् अ + इञ्।

२ भेदे,

३ रोषो-क्तौ,

४ निराकरणे,

५ अनुकम्पायाम्,

६ गदे,

७ विस्मये,

८ नि-न्दायाम्,

९ सम्बोधने च अव्य॰ चादि। निपातैकाच्कत्वात्अस्य प्रगृह्यसंज्ञा तेन इ इन्द्र इत्यादौ न सन्धिः

¦ गतौ भ्बादि॰ पर॰ सक॰ अनिट्। अयति ऐषीत् इयायइयतुः इयुः इययिथ इयेथ। अयन् इतः इतिः अय-नम्। आयः इत्वा।
“उदयति स्म तदद्भुतमालिभिः” नैष॰
“अयमुदयति मुद्राभञ्जनः पद्मिनीनाम्” उद्भटः।
“उदयति विततोर्द्धरश्मिरज्वौ” माघः। अयञ्च धातः[Page0909-a+ 38] कटी गतौ इत्यत्र इ ई इति प्रश्लेषात् लब्धः सि॰ कौ॰

¦
“इःसू क्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः। सुमित्रःसुन्दरोधीरः कोटरी कोटरःपयः। भ्रुमध्योमाधवस्तुष्टि-र्दक्षनेत्रञ्च नासिका। शान्तः कान्तिः कामिनी च का-मोविघ्नविनायकः। नेपालो भरणीरुद्रोनित्यक्लिन्ना चपोवकः”।

¦
“इकारं परमानन्दं सुगन्धकुसुमच्छविम्। हरिब्रह्ममयंवर्णं सदारुद्रयुतं प्रिये॥ सदा शक्तिमयं देवि! गुरुब्रह्ममयं तथा। सदाशिवमयं वर्णं परं ब्रह्मसमन्वितम्। हरिब्रह्मात्मकं वर्णं गुणत्रयसमन्वितम्। इकारं परमे-शानि! स्वयं कुण्डलीमूर्त्तिकम्”।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इ¦ The third vowel of the alphabet, corresponding to I short, and pro- nounced as that letter in kill, &c.

इ¦ m. (इः) A name of KAMADEVA. Ind. An interjection.
1. Of anger.
2. Of calling.
3. Of sorrow or distress.
4. Of compassion. E. इ to go, क्विप् aff.

इ¦ r. 1st cl. (अयति) To go, to go to or towards: with उत् prefixed, to rise or ascend, as the sun, &c. with अभि and उत् the same, or to rise in the world, to prosper. (ङ) इङ् and अधि always prefixed अधीङ् r. 2nd cl. (अधीते) To study, to learn, to read over or through. (क) इक् and अधि prefixed r. 2nd cl. (अध्येति) To remember, to think of. (ण) इण् r. 2nd cl. (एति) To go. This root takes many prefixes, implying with अति,
1. To surpass, to surmount.
2. To pass, to spend time or to elapse as time. With अनु,
1. To go after, to follow.
2. To go like, to imitate in going.
3. To succeed. With अभि,
1. To obtain, to get.
2. To proceed, to go on.
3. To go.
4. To ap- proach.
5. To serve or worship. With अप,
1. To go away, to de- part.
2. To perish. With अभि and उप, To arrive. With उप,
1. To receive.
2. To aid or assist.
3. To approach or go near so. With निर्, To go forth or out from. With प्रति,
1. To trust, to confide.
2. To follow, to be added or subjoined to.
3. (In the passive verb,) To become evident or manifest. With वि, To expend, to waste, to de- part. With सम् and उप, To obtain, &c.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इ [i], The third letter of the Devanāgarī alphabet.

इ [i], I. 2 P. (In Dhātup. written as इण्) (एति, इयाय, अगात्, एतुम्, इत)

To go, go to or towards, come to or near; शशिनं पुनरेति शर्वरी R.8.56; ईयुर्भरद्वाजमुनेर्निकेतम् Bk. 3.4.

To arrive at, reach, obtain, attain to, go to or be reduced to a particular state, fall into; निर्बुद्धिः क्षयमेति Mk.1.14 goes to (ruin, is ruined; so वशम्, शत्रुत्वम्, शूद्रताम् &c.).

To return.

To go away, retire; elapse, pass.

To spring from, come or arise from.

To undertake anything (with acc.); सत्रमायन् Vāj.

To ask, beg.

To be; to appear.

To be employed in, go on with, be in a particular condition or relation, with a part. or instr.; कृषन्तो ह स्म वै वपन्तो यन्ति Śat. Br.; गवामयनेनेयुः Kāty.

To thrive, prosper. II.1 U. = अय् q. v. III.4 Ā.

To come, appear.

To run, wander.

To go quickly or repeatedly.

To ask, request. -Caus. To cause to go or come. [cf. L. eo; Gr. eimi with एमि].

इः [iḥ], [अ-इञ्]

N. of Kāmadeva; cf. Ki.15.45.

the number 1; Gīrvaṅa. ind. An interjection of (1) anger; (2) calling; (3) compassion; (4) reproach; (5) wonder; (6) sorrow; (7) distress. cf. इः कामः स्थाणुरिन्द्रो$र्को वरुणः पादयो द्विपः । शुचिः श्रीमानजो बालो विरिञ्चिः कृत्तिकासुतः ॥ Enm.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इ the third vowel of the alphabet , corresponding to इshort , and pronounced as that letter in किल्ल्etc.

इ ind. an interjection of anger , calling , sorrow , distress , compassion , etc. , ( g. चा-दिPa1n2. 1-4 , 57 , etc. )

इ base of Nom. and Acc. sg. du. and pl. of the demonstrative pronoun इदम्, " this " or " that "

इ ([ cf. इतर, इतस्, इतिइद्, इदा, इयत्, इव, इह: cf. also Lat. id ; Goth. ita ; Eng. it ; Old Germ. iz ; Mod. Germ. es.])

इ m. N. of कामदेवL.

इ cl.2 P. एति( Impv. 2. sg. इहि)and 1. P. A1. अयति, अयते([ cf. अय्]) , ( pf. इयाय[2. sg. इयथAV. viii , 1 , 10 , and इयेथRV. ] fut. एष्यति; aor. ऐषीत्; inf. एतुम्, एतवेRV. and AV. , एतवैRV. एतोस्RV. इत्यैRV. i , 113 , 6 , 124 , 1 )to go , walk; to flow; to blow; to advance , spread , get about; to go to or towards (with acc. ) , come RV. AV. S3Br. MBh. R. Hit. Ragh. etc. ; to go away , escape , pass , retire RV. AV. S3Br. R. ; to arise from , come from RV. ChUp. ; to return (in this sense only fut. ) MBh. R. ; (with पुनर्)to come back again , return MBh. R. Pan5cat. etc. ; to succeed Mn. iii , 127 ; to arrive at , reach , obtain RV. AV. S3Br. S3ak. Hit. etc. ; to fall into , come to; to approach with prayers , gain by asking( cf. इत); to undertake anything (with acc. ); to be employed in , go on with , continue in any condition or relation (with a part. or instr. e.g. असुर-रक्षसानि मृद्यमानानि यन्ति, " the असुरs and Rakshases are being continually crushed " S3Br. i , 1 , 4 , 14 ; गवामयनेने-युः, " they , were engaged in the [festival called] गवामयन" Ka1tyS3r. xxv , 5 , 2 ); to appear , be Kat2hUp. : Intens. A1. ईयते( RV. i , 30 , 18 ; p. इयानRV. ; inf. इयध्यैRV. vi , 20 , 8 )to go quickly or repeatedly; to come , wander , run , spread , get about RV. AV. VS. ; to appear , make one's appearance RV. AV. Br2A1rUp. ; to approach any one with requests (with two acc. ) , ask , request RV. AV. : Pass. ईयते, to be asked or requested RV. : Caus. आययति, to cause to go or escape Vop. ; ([ cf. Gk. ? , ? ; Lat. e-o , i1-mus , i-ter , etc. ; Lith. ei-mi4 , " I go " ; Slav. i-du7 , " I go " , i-ti , " to go " ; Goth. i-ddja , " I went. "])

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ikṣumatī ...................................... p295
ikṣumālinī .................................. p295
ikṣuvardhanikā .......................... p295
ikṣvāku ........................................ p632
ikṣvāku (addition) .................. p943
indrakīla .................................... p295
indrajāla .................................... p93
indratīrtha ................................ p295
indratoyā .................................... p295
indradyumna ................................ p295
indraparvata .............................. p296
indraprastha .............................. p512
indramārga .................................. p296
indralokābhigamana .................. p172
indravatsa .................................. p633
indravijaya ................................ p173
indrasya āyatanam .................... p602
indrasya prasravaṇam .............. p296
indrāstra .................................... p93
irāmā ............................................ p296
irāvatī ........................................ p296
ilāvṛta ........................................ p634
ilāspada ...................................... p297
iṣīkā ............................................ p93

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।



ikṣumatī ...................................... p295
ikṣumālinī .................................. p295
ikṣuvardhanikā .......................... p295
ikṣvāku ........................................ p632
ikṣvāku (addition) .................. p943
indrakīla .................................... p295
indrajāla .................................... p93
indratīrtha ................................ p295
indratoyā .................................... p295
indradyumna ................................ p295
indraparvata .............................. p296
indraprastha .............................. p512
indramārga .................................. p296
indralokābhigamana .................. p172
indravatsa .................................. p633
indravijaya ................................ p173
indrasya āyatanam .................... p602
indrasya prasravaṇam .............. p296
indrāstra .................................... p93
irāmā ............................................ p296
irāvatī ........................................ p296
ilāvṛta ........................................ p634
ilāspada ...................................... p297
iṣīkā ............................................ p93

"https://sa.wiktionary.org/w/index.php?title=इ&oldid=491664" इत्यस्माद् पुनः प्राप्तिः