इक्ष्वाकुः

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वाकुः पुं, (इक्षुमाकरोतीति । इक्षु + आङ् + कृ + मितद्र्वादित्वात् डुः । यद्वा इक्ष इति शब्दं अकतीति अक गतौ बाहुलकादुण् ।) वैवस्वतमनु- पुत्त्रः । स तु सत्ययुगे अयोध्यायां सूर्य्यवंशीयादि- राजः । इति पुराणम् ॥ (गीतायाम् । ४ । १ । “विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्” । इक्ष्वाकोर्गोत्रे जाताः इति व्युत्पत्त्या वाच्यलिङ्गाः । इक्ष्वाकुवंशोद्भवाः । यथा रघुः । १ । ७२ । “इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः” ।)

इक्ष्वाकुः, स्त्री, (इक्षु + आङ् + कृ + डु ।) कटु- कुम्बी । इत्यमरो मेदिनी च ॥ तितलाउ इति भाषा । (“इक्ष्वाकुकुसुमचूर्णं वा पूर्ब्बवदेव क्षीरेण काशश्वासच्छर्द्दिकफरोगेषूपयोगः” । इति सुश्रुते । “सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते” । अस्याः पर्य्यायो यथा । “लम्बाऽथ कटुकालावुतुम्बी पिण्डफला तथा । इक्ष्वाकौ फलिनी चैव प्रोच्यते तस्य कल्पना” ॥ अस्या रोगविशेषे प्रशस्तता यथा । “कासश्वासविषच्छर्द्दिज्वरार्त्ते कफकर्षिते । प्रताम्यति नरे चैव वमनार्थं तदिष्यते” ॥ अवस्थाभेदेनास्या व्यवहारो यथा । “अपुष्पस्य प्रबालानां मुष्टिं प्रादेशसम्मिताम् । क्षीरप्रस्थे श्टतं दद्यात् पित्तोद्रिक्ते कफज्वरे ॥ पुष्पादिषु च चत्वारः क्षीरे जीमूतके यथा । योगाहरितपाण्डूनां सुरामण्डेन पञ्चमः ॥ फलस्य रसभागञ्च त्रिगुणक्षीरसाधितम् । उरःस्थिते कफे दद्यात् स्वरभेदे सपीनसे ॥ हृतमध्येफलेजीर्णे स्थितं क्षीरं यदा दधि । जातं स्यात् कफजे कासे श्वासे वम्याञ्च तत्पिबेत् ॥ मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्द्धितः । तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत् ॥ अजाक्षीरेण वीजानि भावयेत् पाययेत च । विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च ॥ तुम्ब्याः फलरसैः शुष्कैः सपुष्पैरवचूर्णितम् । छर्द्दयेन्माल्यमाघ्राय गन्धसम्पत्सुखोचितः ॥ भक्षयेत्फलमध्यं वा गुडेन पललेन च । इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ब्बवद्घृतम् ॥ पञ्चाशद्दशवृद्धानि फणादीनां यथोत्तरम् । पिबेद्विमृद्य वीजानि कषायेष्वासुतं पृथक् । यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत् ॥ कषायैः कोविदाराद्यैर्मात्राश्च फलवत् स्मृताः । गुल्ममेहे प्रसेके च कल्कं मांसरसैः पिबेत् ॥ नरः साधु वमत्येवं न च दौर्ब्बल्यमश्नुते” ॥ “इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचां । कुष्ठं किण्वाग्निकौ चापि पिबेत्तुल्यानि पूर्ब्बवत्” ॥) इति चरकः ॥)

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इक्ष्वाकुः [ikṣvākuḥ], 1 N. of the celebrated ancestor of the Solar kings who ruled in Ayodhyā; (he was the first of the Solar kings and was a son of Manu Vaivasvata; (cf. Bhāg. क्षुवतस्तु मनोर्जज्ञ इक्ष्वाकुर्घाणतः सुतः); इक्ष्वाकुवंशो$भि- मतः प्रजानाम् U.1.44.

(pl.) Descendants of Ikṣvāku; गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् R.3.7. -क्रुः f. A kind of bitter gourd, Cucurbita Lagenaria (Mar. कडू दुध्या).

"https://sa.wiktionary.org/w/index.php?title=इक्ष्वाकुः&oldid=223760" इत्यस्माद् पुनः प्राप्तिः