इन्द्रनील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रनीलः, पुं, (इन्द्रवत् नीलः ।) मरकतमणिः । इति हेमचन्द्रः ॥ पान्ना इति भाषा । (अस्य परीक्षा यथा, चिन्तामणिधृतवचनम् । “क्षीरमध्ये क्षिपेत् नीरं क्षीरञ्चेत् नीलतां व्रजेत् । इन्द्रनीलमितिख्यातं तदाहि रत्नकोविदैः” ॥ “क्वचित् प्रभालेपिभिरिन्द्रनीलै- र्मुक्तामयी यष्टिरिवानुविद्धा” ॥ इति रघुवंशे । १३ । ५४ । यथा, भावप्रकाशः ॥ अथ इन्द्रनीलगोमेदयोर्नामानि । “नीलन्तथेन्द्रनीलञ्च गोमेदः पीतरत्नकम्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रनील¦ पु॰ इन्द्रैव नीलः श्यामः। (पान्ना) इतिख्याते जरकतमतमणौ” तल्लक्षणमुक्तं रत्नपरीक्षायाम्
“क्षीरमध्ये क्षिपेन्नीलं क्षीरञ्चेन्नीलतां व्रजेत्। इन्द्रनीलइति ख्यातः सर्व्वरत्नोत्तमोत्तमः”। अस्य नीलवर्णत्वं चरघौ गङ्गायमुनासंगमे यमुनासादृश्याय वर्ण्णितम् यथा
“कचित् प्रभालेपिमिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धाअन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव”
“प्राप्येन्द्रनीलं किमुतोन्मयूखम्” रघुः।
“एकं मुक्तागुण-[Page0949-b+ 38] मिव भुवः स्थूलमध्येन्द्रनीलम्”
“पेशलैरिन्द्रनीलैः” मेघदू॰। अस्य हिंहलद्वीपसम्भवत्वे महानीलसंज्ञा यथा हि
“महा-महानीलशिलारुवः पुरः” माघव्याख्यायां मल्लिनाथेन
“सिंहहास्याकरोद्भूता महानीलास्तु ते स्मृताः” इति अग-स्त्यवाक्यं प्रमाणतयोपन्यस्तम्।
“वापीष्वन्तर्महानीलद-लासु” माघः वाख्याने तेन तथेवोक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रनील¦ m. (-लः) A sapphire. E. इन्द्र best, and नील blue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रनील/ इन्द्र--नील m. a sapphire Ragh. Megh. S3is3. BhP.

"https://sa.wiktionary.org/w/index.php?title=इन्द्रनील&oldid=491861" इत्यस्माद् प्रतिप्राप्तम्