इन्द्रनीलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इन्द्रनीलः, पुं, (इन्द्रवत् नीलः ।) मरकतमणिः । इति हेमचन्द्रः ॥ पान्ना इति भाषा । (अस्य परीक्षा यथा, चिन्तामणिधृतवचनम् । “क्षीरमध्ये क्षिपेत् नीरं क्षीरञ्चेत् नीलतां व्रजेत् । इन्द्रनीलमितिख्यातं तदाहि रत्नकोविदैः” ॥ “क्वचित् प्रभालेपिभिरिन्द्रनीलै- र्मुक्तामयी यष्टिरिवानुविद्धा” ॥ इति रघुवंशे । १३ । ५४ । यथा, भावप्रकाशः ॥ अथ इन्द्रनीलगोमेदयोर्नामानि । “नीलन्तथेन्द्रनीलञ्च गोमेदः पीतरत्नकम्” ।)

"https://sa.wiktionary.org/w/index.php?title=इन्द्रनीलः&oldid=116696" इत्यस्माद् प्रतिप्राप्तम्