इष्टि
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टिः, स्त्री, (इष्, यज् वा + क्तिन् ।) अभिलाषः । (इति भाष्यकारेष्ट्या गतार्थत्वात् । इति पाणिनिः ।) यागः । इत्यमरः ॥ (यथा, रघुः । १० । ४ । “आरेभिरे जितात्मामः पुत्त्रियामिष्टिमृत्विजः” । “प्राजापत्यं निरूप्येष्टिं सर्व्वदेवसदक्षिणां” । इति मनुः । ६ । ३८ ।) श्लोकसंग्रहः । इति मेदिनी ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टि स्त्री।
इच्छा
समानार्थक:वश,कान्त,इष्टि,काम
3।3।39।1।1
इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु। कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु॥
: परद्रव्येच्छा, बुभुक्षा, पिपासा, जिज्ञासा
पदार्थ-विभागः : , गुणः, मानसिकभावः
इष्टि स्त्री।
यज्ञः
समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव
3।3।39।1।1
इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु। कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु॥
अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः
स्वामी : यागे_यजमानः
सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्
वृत्तिवान् : यजनशीलः
: ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टि¦ स्त्री यज--क्तिन्।
१ यागभेदे। स च कात्या॰ श्रौ॰ सू॰दर्शितः
“कर्मशब्दो द्रव्यदेवतायुक्तो यजतिः”।
४ ,
३ ,
१ , सू॰
“क्रियाशब्दः आख्यातप्रत्ययान्तो निर्वपत्यादिशब्दो यज-तिः प्रत्येतव्यः यागो ज्ञेय इत्यर्थः न निर्वापालम्भादिरूप-संस्कारमात्रविधायकः यजतिशब्दोऽत्र तदर्थयागपरः। एवंयागत्वे सिद्धेऽपि इदं संदिह्यते सौर्यं चरुं निर्व-पेदग्निषोमीयमजमालभेतेत्यादौ किं यागमात्रं भवतिउत धर्मा अपि भवन्तीति यदा च धर्मा भवन्तीति पक्ष-स्तदापि संदेहः किं पूर्णाहुतिसम्बन्धिनी धर्मा भवन्तिउताग्निहोत्रसम्बन्धिनः, आहोस्विद्दर्शपूर्णामासयोः, अथवाज्योतिष्टोमस्येति, अथवा दर्शपूर्णमासयोरेवेति,। धर्मा-णामनाम्नानाद्यथाश्रुतं यागमात्रं कर्तव्यमिति प्राप्ते आह” क॰
“दर्शपूर्णमासधर्मा इष्टिपशुषु सामर्थ्यात्”
२ सू॰। सौ-र्यादौ धर्मा भवन्ति न यागमात्रम् एवमेतानि विधिवाक्यानिसमर्थान्यर्थवन्ति सप्रयोजनानि भवन्ति अन्यथा साकाङ्क्ष-त्वादर्थप्रतिपादनाभावेन निरर्थकान्येव स्युः। तथा हिसौर्येण यागेन ब्रह्मवर्चसं भावयेदित्यत्रांशत्रयवती भावनाविधीयते किम्, केन, कथमिति, किमंशो ब्रह्मवर्चसम्,तत्र केनांशः सौर्येणेति, कथमं शस्तु वाक्यमध्ये नास्ति तेनकथं भावयेदिति वाक्यं कथमंशसापेक्षम्। यच्च सापेक्षंभवति तदध्याहारेणानुषङ्गेण वा पूरयित्वा निराकाङ्क्षंकर्तव्यम्। अन्यथा तस्यानर्थक्यापत्तेः न च वेदे मात्रा-मात्रस्य तदिष्यते तस्मादत्र निराकाङ्क्षीकरणाय विध्यन्ते-तिकर्तव्यतापरपर्यायः कथमंशोऽत्र कश्चिदनुषञ्जनीय इतिसिद्धे आह
“दर्शपूर्णमासधर्म्मा इष्टिपशुषु सामर्थ्यादिति” सर्वासु इष्टिषु अग्नीषोमीये पशौ च दर्शपूर्णमासयोरेव धर्माभवन्ति सामर्थ्यात् पूर्वोक्त एव हेतुरत्रापि योज्यः। दुर्शपूर्ण-मासधर्मा एव सौर्यादिविधीनां शेषीभवितुं समर्थाः चरुपु-रोडाशादयो ह्यवघातादिभिरेव सिध्यन्ति नाभिषवादिभिरि-ति। इष्टिपशुष्विति इष्टिषु सर्वासु अग्नीषोमीये पशौ चपश्वन्तरेषु ह्यग्नीषोमीयधर्मा भवन्ति” क॰। इत्यारभ्यपञ्चविंशत्या सूत्रैस्तद्विशेष उक्तस्तत्र विस्तरेणावसेयः। तधा च दर्शपौर्णमासेतिकर्तव्यताको यागभेद इष्टिरग-[Page1001-a+ 38] न्तव्या। तत्करणप्रकारः आश्वला॰ श्रौ॰ सूत्रे दर्शितो
“यथा पौर्ण मासेनेष्टिसोमा उपदिष्टाः”।
२ ,
१ ,
१ , प्रथमेऽ-ध्याये दर्शपूर्ण मासौ व्याख्यातौ विध्यन्तरसहितौ। उत्त-रत्नेष्टयः पशवश्च वक्ष्यन्ते विध्यन्तरविहिताः। तेषां वि-ध्यन्तरापेक्षास्ति”
“अतोऽयमर्थः सूत्रस्य, यस्मिञ्छास्त्रे उ-पदिष्टा इष्टयः पशवश्चापि अविशेषिताज्यभागास्ते सर्वे वार्त्र-ष्नाज्यभागा इति”।
“पौर्णमासेनेत्यस्यायमर्थः, पौर्णमासेनव्याख्याता इति वार्त्रघ्नाज्यभागा इत्य{??}। तेन समा-म्नातानामिष्टीनां पशूनाञ्च अन्यदेवतागममात्रः सिद्धोभवति। तथा चोक्तमिष्ट्ययनप्रकरणे
“असमाम्नातास्वर्थात्तन्त्रविकारः” नारा॰ वृत्तिः तस्य कालस्तत्रेव दर्शितः यथा
“तैरमावास्यायां पौर्णमास्यां वा यजेत” सू॰
२ ,
१ ,
२ ,
“तैरिष्टिपशुसोमैरमावास्यायां पौर्णमास्यां वा यागः कर्तव्य इतिइष्टिपशूनां प्रकृतिप्राप्त एवायं कालः पुनर्विधीयते द्व्यह-कालतां निवर्त्य सद्यस्कालताप्राप्त्यर्थम्। किञ्च दर्शप्रकृतेर-मावास्या पौर्णमासप्रकृतेः पौर्णमासीत्येवं नियमं निवर्त्यअनियमेन उभयकालताप्राप्त्यर्थम्। प्रकृत्यविरोधात् पर्व-णस्तद्वत्यहोरात्रे विकृतिः कर्तव्या। यहाह्नः पूर्वभागे पर्वस्यात् तदा प्रकृतिं कृत्वा विकृतिः कार्या। यदा परभागेरात्रौ वा तदा विकृतिं कृत्वा प्रकृतिः कार्येति सोमस्या-यमप्राप्तः कालो विधीयते। इष्ट्यादिशब्दसम्बन्धादेवयजेतेत्यपि सिद्धे यजेतेतिवचनं सोमस्य याग एवानयोःकालयोः सम्पादनीयो नान्यत् दीक्षादीति” वृत्तिः।
“राजन्य-श्चाग्निहोत्रं जुहुयात्”
३ सू॰।
“क्षत्रियस्याग्निहोत्रहोमःपर्वणोरेव कर्तव्यो नान्यस्मिन् काल इति चशब्दाद्वैश्योऽप्य-नयोरेव कालयोरग्निहोत्रं जुहुयात् नान्यस्मिन्नित्य-वगम्यते। तत्र विशेषमाह” वृत्तिः।
“तपस्विने ब्राह्मणायेतरंकालं भक्तमुपहरेत्”
४ सू॰।
“तपस्वी कर्मनिरतस्तस्मै ब्राह्मणायअतपस्विनेऽपि ब्राह्मणायैव दद्यात् न जात्यन्तराय तपस्वि-नेऽपीति। इतरं कालमिति, इतरेषु सर्वेष्वग्निहोत्रकाले-ष्वित्यर्थः। भक्तमुपहरेत्, भक्तं पक्वोदनं पक्वान्नमुपहरेत्,दद्यात्। एतदुक्तं भवति। राजन्यवैश्ययोः पर्वण्यग्नि-होत्रकालद्वयं वर्जयित्वा इतरेषु कालेषु ब्राह्मणायोदनोदातव्योन होमः कर्तव्य इति। अग्निधारणन्तु क्रियत एव” वृत्तिः। ततोऽग्न्याधानं प्रसङ्गादुक्तं तच्चाधानशब्दे पूर्वंदर्शितम् अग्न्याधानोत्तरं कर्त्तव्यमाह
“यदि त्विष्टय-स्तनुयुः”
२ ,
१ ,
१८ , सू॰
“अग्नीनेवेति वाक्यशेषः। यद्य-नधिकारत्वादाधानविधेर्विनियोजकस्य प्रकरणस्य व्यापारा-[Page1001-b+ 38] सम्भवादाधानाङ्गमिष्टयो न स्युः, इष्टीनाञ्चानधिकारत्वा-दिष्ट्यङ्गमाधानं न स्यात्, तथापि न कश्चिद्दोषः, अग्न्यर्थ-त्वेनैवोभयोरप्यनुष्ठानसिद्धेः”।
“अस्मिन्नर्थे सूत्रयोजना। यद्यासामिष्टोनामाधानाङ्गता स्यात् तथापि आहवनीया-द्यग्निसम्बन्धात् तानेवाग्नीनिष्टयस्तनुयुः विस्तारयेयुःकुर्युः साधयेयुरित्यर्थः। तुशब्दस्तु साधनादिषु विशेषंदर्शयति। आधानेऽग्नीनां साध्यत्वेन सम्बद्धानामेवसाध्यत्वम्। इष्टिषु साधनत्वेन सम्बद्धानामपि कल्पना-गौरवभयात् साध्यत्वमिति विशेषं गृह्णीमः एवं यद्या-धानेनेष्टिभिश्चाग्नय एवांशतः साध्या इत्यनधिकाराणांकथमनुष्ठानसिद्धिरिति न्यायाविदामेष उपालम्भो नास्मा-कम्। अस्माकं तु साध्यसाधनसम्बन्धेऽवगते तदर्थिनांकर्तृत्वेनावगतानां ब्राह्मणादीनां कथञ्चिदधिकारकल्पन-यानुष्ठानसिद्धिः। अथवाऽनधिकाराणामनन्यशेषाणामपितत्साधनसाध्यरूपेणोपकारकत्वेन कामं श्रुतिप्रयुक्त्यैवंवि-धानामनुष्ठानसिद्धिरित्यलमतिविस्तरेण” नारा॰ वृत्तिः।
“प्रथमायामग्निरग्निः पवमानः”
१९ सू॰।
“प्रथमाया-मिष्टौ द्वे देवते। अग्निः प्रथमः केवलः। द्वितीयः पव-मानगुणकोऽग्निः। केवलस्याग्नेर्नित्ये एव।
“अग्नआयूंषि पवसेऽग्ने पवस्व स्वपाः”
२० सू॰।
“एते द्वितीयस्यपवमानगुणकस्य” वृ॰।
“स हव्यवाडमत्याऽग्निर्होता पुरो-हित इति स्विष्टकृतः संयाज्ये इत्युक्ते सौविष्टकृती प्रती-यात्”
२१ सू॰।
“सौविष्टकृत्योर्याज्यानुवाक्ययोरृचोरनेनसंयाज्ये इति संज्ञा विधीयते” वृ॰।
“सर्वत्र देवतागमेनित्यानाभपायः”
२२ सू॰।
“सर्वत्रेति प्रकरणान्तरे-ऽपीति दर्शयति। देवतागम इत्यत्र समासनिर्देशस्यतुल्यत्वाद्देवतायाः देवतयोर्देवतानां वा आगम इत्येवंभवति। नित्यानां प्राकृतीनामित्यर्थः। अपाय उद्धारइत्यर्थः। एतदुक्तं भवति। विकृतौ देवतायाः एकस्याआगमे द्वयोर्बह्वीनां वा अनागमेऽपि प्राकृतीनां सर्वा-सामुद्धार इति स्यां पुनर्विकृतौ इष्टिनोदनां कृत्वादेवतां न विदधाति, तत्र नोद्धारः प्राकृतोनाम्। तत्रता एव देवता भवन्तीत्यर्थः। यथा गदितः सोमेन पशुनाइष्ट्या वा इत्यादौ” वृ॰।
“याः स्विष्टकृतमन्तराज्यभागौ चतास्तत्स्याने”
२३ सू॰।
“नित्यानामपाय उक्तः। तत्र किंसर्वा नित्या उद्धतेव्याः उत काचिद्देवतेत्येतं संशयं निवर्त-यति या आज्यभागौ स्विष्टकृतं चान्तरा देवता यष्टव्यास्ताउद्वर्तव्याः। याः पुनर्विकृतौ विहितास्तास्तत्स्थाने उ-[Page1002-a+ 38] द्धृतानां प्रांकृतीनां स्थाने भवन्ति” इति वचनात्, तद्ध-र्मिकाश्च भतन्तीति गम्यते” वृ॰।
“एष समानजातिधर्मः”
२४ सू॰।
“योऽयमतिदिष्टो विधिर्देर्वताभ्योऽन्यत्रापि ससमानजातीयेषु भवति। समानजातीय एककार्य इत्यर्थः” वृ॰।
“द्वीतोयस्यां वृधन्वन्तौ अग्निः पावकोऽग्निः शुचिःस नः पावकदीदिवोऽग्ने पावकरोचिषाग्निः शुचिव्रततनउदग्ने शुचयस्तव”
२५ सू॰।
“एकः पावकगुणकोऽग्निः,अपरःशुचिगुणकः।
“साह्वान् विश्वा अभियुजोऽग्निमीलेपुरोहितमिति संयाज्ये तृतीयस्यां सामिधेन्यावावपते प्रागु-पोत्तमायाः पृथुपाजा अमर्त्य इति द्वे”
२६ सू॰।
“आवपते( इति वचनात् अधिके एते सामिघेन्यौ भवतः। प्रथ-मायां द्वितीयस्यां तृतीयस्यामिति वचनात् यस्यामिष्टौयत् तन्त्रं विहितं तस्यामेकदेवतायामपि तत् तन्त्रं भवतिन यथोक्तनानादेवतायामेवेति” वृ॰।
“ध्याय्ये इत्युक्त एतेप्रतीयात् पुष्टिमन्तावग्निना रयिमश्नवद्गयस्फानो अमीवहेति। अग्नीषोमाविन्द्राग्नी विष्णुरिति वैकल्पिकानि”
२७ सू॰।
“त्रयाणामेको गृह्यते” वृ॰।
“अदितिः”
२८ सू॰। अदितिश्चान्या, अस्यां द्वे देवते” वृ॰।
“उत त्वामदितेसुव्रतानामृतस्य पत्नीमवसे हुवेम तुविक्षत्रामजरन्तीमुरूचींमहि महीमूषु मातरं सुशर्माणमदितिं सुप्रणीतिम्”
२९ सू॰।
“एषा कल्पजा” वृ॰।
“प्रेद्धो अग्नइमो अग्न इति संयाज्ये विराजावित्युक्त एते प्रतीया-दिति तिस्रः”
३० सू॰।
“इत्येतास्तिस्र इष्टयोऽनु-क्रान्ता इत्यर्थः। उक्तानुकीर्त्तनमुत्तरार्थम्। यदाद्योत्तमेवैव स्यातामाद्या वेति पक्षस्तदापि तिसॄणामिष्टीनां याव-त्यो देवतास्ताः सर्वा यष्टव्या इत्येवमथेम्। आद्योत्तमपक्षेमध्यमायां ये देवते ते आद्यायामेव प्रक्षेप्तव्ये। यदा पुन-राद्यैव तदा सर्वा देवता आद्यायामेव प्रक्षेप्तव्या इत्येव-मर्थम्” वृ॰।
“आद्योत्तमे वैव स्याताम्”
३१ सू॰।
“इष्टी इति शेषः।
“आद्या वा”
३२ सू॰।
“आद्यैव-वेष्टिर्भवतोत्यर्थः” वृ॰।
“तथा सति तस्यामेव धाय्येविराजौ”
३३ सू॰।
“यद्याद्यैव भवति तदा द्वितीय-तृतीययीरपि देवतास्तत्र भवन्तीत्युक्तम्। अतस्तस्यामेवधाय्ये विराजौ भवतः। धाय्याविराजामनुप्रवेशस्यनिमित्तं तृतीयस्या इष्टेर्देवतानुप्रवेश इत्येवमर्थं तथासतीत्युक्तम्” वृ॰।
“इतिमात्रे विकारे वैराजतन्त्रेति प्रती-यात्”
३४ सू॰।
“पौर्णमासतन्त्रायामिष्टौ धाय्याविराण्-मात्रे विकारे सति सेष्टिर्वैराजतन्त्रेति वेदितव्या” वृ॰। [Page1002-b+ 38]
“आधानाद् द्वादशरात्रमजस्राः”
३५ सू॰।
“अत्रा-धानमिष्टीश्चोक्त्वा आधानादूर्द्ध्वं द्वादशरात्रमजस्रा इत्यु-क्तम्। तस्यायमभिप्रायः, यावता कर्मसमुदायेनाग्नीनांसिद्धिर्भवति तावतः कर्मसमुदायस्याधानशब्दो वाचक इतिज्ञापयितुम्। तेनाग्न्याधेयं पुनराधेयं वेत्यत्र सेष्टिकस्या-धानस्य ग्रहणं भततीति सिद्वम्। आधानेनेष्टिभिश्चसिङ्गाग्नयो द्वादशाहोरात्राणि सर्वे स्वरूपेणैव धार्यन्ते। एतदजस्रधारणमग्निहोत्रपूर्व एवाधाने भवति, अग्नि-होत्रस्यैवानन्तरमुच्यमानत्वात्। अनुष्ठानक्रमेणैव कर्मणांव्याख्यानमित्युक्तत्वाच्च” वृत्तिः। एवमिष्टिसामान्यं प्रदर्श्यविशेषेष्टयस्तत्र दर्शिताः तत्रादौ नवशश्येष्टिः साचाग्रायण-शब्दे दर्शिता तत्र राज्ञ एवाधिकारः त्रयाणां वर्ण्णानाम-विशेषेणेतिकल्पद्वये प्राप्ते राज्ञो विशेष उच्यते
“इष्टिस्तुराज्ञः”
“सर्व्वेषां चैके एके सर्वेषामिष्टिरेवेति मन्यन्ते”
२ ,
९ ,
६ ,
७ ,।
“श्यामाकेष्ठ्यासौम्यचरुः स च वर्षत्तौ तत्रयाज्यादिकं
२ ,
९ ,
८ ,
९ ,
१० , सू॰ उक्तम्। अन्यनवान्नभोज-ने जप्यमन्त्रादिकमुक्तम्
१२ ,
१३ । एतानित्या इष्टयः अथ-काम्याः इष्टयः
२ ,
१० ,
१२ , सूत्रादौ। तत्र आयुष्कामे-ष्टिस्तत्र अग्निगुणभेदजीवातुमद्देवता
२ ,
१० ,
२ ,
३ ,
४ , सू॰। स्वस्त्ययनेष्टिः रक्षितवद्देवताका तत्र याज्यादिकम्
५ ,
६ ,
७ ,पुत्रकामेष्टिः पुत्रयद्गुणकाग्निदेवताका तत्र याज्यादि
८ ,
१ ,
१० , वैमृधेष्टिः विमृद्गुणकेन्द्रदेवताका तत्र याज्यादिकं
१३ ,
१४ ,
१५ , सू॰। आशेष्टिराशापालदेवताका तत्र याज्या-दिकम्
१७ ,
१८ , सू॰। लोकेष्टिः पृथिव्यन्तरिहदेवताकातत्र याज्यादिकम्
२० ,
२१ ,
२२ , सू॰ मित्रप्राप्ति-कामेष्टिः अग्निसोमवरुणमित्रेन्द्रवृहस्पतिसवितृपूषन्स्वरस्वतादेवताका तत्र याज्यादि
११ ,
२ ,
३ ,
४ ,
३ । इयमिष्टिःमहावैराजीनामा। अभिचारकामेष्टिः स्नुषाश्वशुरीयनाम्नीसूरगुणकेन्द्रदेवताका तत्र याज्यादि
११ ,
७ ,
८ ,
९ । विमत-सम्मतिकामेष्टिः संज्ञानी नाम वसुरुद्रादिगुणकाग्निसोमादिचतुष्टयदेवताका तत्र याज्यादि
१० ,
११ । भेदकामेष्टिः। इन्द्रामरुद्देवताका तत्र याज्यादि
१३ ,
१४ ,
१५ ,
१६ , सू॰। सम्पत्तिकामेष्टिः ऐन्द्रामारुती संज्ञानोवत् याज्यादिकम्।
१७ , सू॰। शत्रभिभवनिवृत्तिकामेष्टिः ऐन्द्रावाहेस्पत्यातत्र याज्यादि
१८
१९ सू॰। पवित्रेष्टिः। अग्न्यादिदेव-ताका तत्र याज्यादि
२ ,
१२ ,
१ ।
“वैश्यानरीं व्रातपतींपवित्रेष्टिं तथैव च। ऋतावृतौ प्रयुञ्जानः पुनाति दशपौ-रुषम्”। वृष्टिकामेष्टिः कारीरी नाम सा च अग्न्यादि-[Page1003-a+ 38] नानादेवताका अग्निदेवताका वा तत्र याज्यादि
२ ,
१२ ,
१ ,
३ ,
४ ,
५ ,
६ ,
७ ,
८ ,
९ , सू॰। सर्वाश्च एता दर्शपौर्णमासेतिकर्त-व्यताकाः। पश्रुगुणके कर्म्मणि पशोरुभयतोऽन्यतरतो वापशुकामेष्टिः सा च आग्नेयी आग्नावैष्णवी वा आश्व॰श्रौ॰ सू॰
३ ,
१ ,
२ ,
३ ,
४ सू॰। तस्यामितिकर्त्तव्यतायाज्यादितदुत्तरसूत्रजातैरुक्तम्। विध्यपराधप्रायश्चित्तीष्टिः
३ ,
१० ,
१ , सू॰ विध्यपराधस्वरूपकारणप्रदर्शनपूर्बकं तत्करण-प्रकारादि तदुत्तरसूत्रजौर्दर्शितम्। वारुणीष्टिः तत्-प्रकारादि
३ ,
१२ ,
५ , प्रातःकालातिपत्तौ प्रातरिष्टिः तत्रदेवतादि
३ ,
१२ ,
१२ , आर्त्त्याश्रुपात्रे च सैवेष्टिः
३ ,
१२ ,
१५ निमित्तभेदेर्य्य प्रायश्चित्तीष्टौ देवताभेदादि
३ ,
१२ ,
१६ ,आरम्य आध्यायात् सूत्रैरुक्तम्। उखासम्भरणीयेष्टिःतद्देवतादि
४ ,
१ ,
२१
२६ सू॰। दीक्षाप्रयोजनेष्टिः दीक्ष-णीया नाम तत्रदेवतादि
४ ,
२ ,
१ ,
१८ , सू॰ पर्य्यन्तेनोक्तम्। प्रायणीयेष्टिः तत्र देवतादि
४ ,
३ ,
१ सूत्रादौ। आतिथ्येष्टिःतत्र देवतादि
४ ,
५ ,
१ सूत्रादौ। उदयनीयेष्टिः तद्देवतादि
६ ,
१४ ,
१ , सूत्रादौ उदवसनीयेष्टिः तद्देवतादि
६ ,
१४ ,
१ ,
२३ , सूत्रादौ। अन्याः पुनराधेयेष्टिप्रभृतयोऽपि इष्टयःविस्तरभयान्नोक्ताः आकरेषु दृश्याः। ( शत॰ ब्रा॰
१ ,
६ ,
२ ,
१२ , इष्टिकरणप्रकारविशेषोदर्शितःयथा।
“स यदीष्टिंकुव्वींत सप्तदश सामिधेनीरनु-ब्रूयादुपांशु देवता यजति तद्धीष्टिरूपं, मूर्द्धन्यतौ याज्यानु-वाक्ये स्यातां वार्तघ्नावाज्यभागौ, विराजौ संयाज्ये”
“अग्ने-रिष्टिमभिधाय अथ पृथक् प्रयोक्तव्याया आग्नेयेष्टेर्वैशे-षिकमङ्गजातमाह। यदीष्टिं दर्शपूर्णमासाभ्यां पृथगेवकुर्व्वीत प्रधानदेवता उपांशु यजेत तदुपांशुत्वं काम्येष्टिरूपं खलु। मूर्द्ध्वन्वत्यौ
“अग्निर्मूर्द्धा”
“भुवोयज्ञस्य” इत्येते। (यजु॰
१३ ,
१४ ,
१५ ,) मूर्द्धन् शब्दवत्यौ प्रधानस्य याज्ये स्विष्ट-कृद्याज्यापुरोऽनुवाक्ये, विराजौ विराट्छन्दस्के
“प्रेद्धो अग्ने”
“इमो अग्न” इत्येते (यजु॰
१७ ,
७६ ,
७७ ) भवतः” भा॰( दर्शपौर्णमासयाग कृत्वा प्रायश्चित्तेष्टिः कार्य्या तत्प्रकारःशत॰ ब्रा॰
११ ,
१ ,
३ ,
१ , दर्शितो यथा।
“पौर्णसासेनेष्ट्वा इन्द्रायविमृधेऽनुनिर्वपति तेन यथेष्ट्यैवं यजतआमावास्येनेष्ट्वा-अदित्यै चरुमनुनिर्वपति तेन यथेष्ट्यैवं यजते
१ । सयत्पोर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपतीन्द्रो वै यज्ञस्यदेवताथैतदग्नीषोमीयं पौर्णमासं हविर्भवति तत्र नेन्द्रायत्वेति किं चन क्रियते एतेनी हास्यैतत् सेन्द्रं हविर्भवत्ये-तेन सेन्द्रो यज्ञोऽथ यद्विमृधे त्वेति सर्वा उ हि मृधो[Page1003-b+ 38] नाष्ट्राः पौर्णमासेन हन्ति
२ । अथ यदामावास्येनेष्ट्वाअदित्यै चरुमनुनिर्वपत्येष वै सोमो राजा देवानामन्नंयच्चन्द्रमाः स यत्रैष एतां रात्रिं न परस्तान्न पश्चाद्ददृशेतेनैतदनद्धेव हविर्भवति तेनाप्रतिष्ठितमियं वै पृथिव्य-दितिः सेयमद्धा सेयं प्रतिष्ठितैतेन हास्यैतदद्धेव हविर्भवत्येतेननाप्रतिष्ठितमेतन्नु तद्यस्मादनुनिर्वपत्यथ तस्मादनुनिर्वपेत्
४ । स यत्पौर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपतिसेन्द्रो मे यज्ञोऽसदिति सर्वो वै यज्ञ इन्द्रस्यैव स यत्सर्वोयज्ञ इन्द्रस्यैवैतेनो हास्यैतत् सेन्द्रं हविर्भवतृतेन सेन्द्रोयज्ञः
४ । अथ यदामावास्येनेष्ट्वा अदित्यै चरुमनुनिर्वप-त्यामावास्य” वा अनुनिर्वाप्यं पौर्णमासेन वा इन्द्रो वृत्र-महंस्तस्मा एतद्वृत्रं जघ्नुषे देवा एतद्धविरनुनिरवपन् यदा-मावास्यं किमनुनिर्वाप्येऽनुनिर्वपेदिति तस्मान्नानुनिर्व-पेत्
५ । स यत् पौर्ण्णमासेनेष्ट्वा अथान्यद्धविरनुनिरपत्या-मावास्येनेष्ट्वाथान्यद्धविरनुनिर्वपति द्विषन्तं ह स भ्रातृव्यंप्रत्युच्छ्रयतेऽथ यः पौर्णमासेनैव पौर्णमासीं यजतआमा-वास्येनामावास्यामसपत्ना हैवास्यानुपबाधा श्रीर्भवति
६ । पौर्णमासेन वै देवाः पौर्णमासीं यजमाना आमावा-स्येनामावास्यां क्षिप्रएव पाप्मानमपाघ्नत क्षिप्रे प्रायाजन्तस यो हैवं विद्वान् पौर्णमासेनैव पौर्णमासीं यजतआ-मावास्येनामावास्यां क्षिप्रएव पाप्मानमपहते क्षिप्रे प्रजा-यते स यद्यनुनिर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादितिह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इतिन्वनुनिर्वाप्यस्याथाभ्युदितस्य
७ ”
३ कण्डिका।
“अद्यामावास्येतिमन्यमान उपवसति। अथैष पश्चाद्ददृशे स हैषदिव्यः श्वा, स यजमानस्य पशूनभ्यवेक्षते तदपशव्यंस्यादप्रायश्चित्तिकृत एतस्मादु हैतद्भीषावचन्द्रमसादिति”
१ । छायामुपसर्पन्ति। एतेनो हैतदुपतपदाचक्षते श्वलचित-मित्येतमु हैवैतदाचक्षते
२ । शशश्चान्द्रमस इति। चन्द्रमावै सोमो देवानामन्नं तं पौर्णमास्यामभिषुण्वन्ति सोऽपर-पक्षेऽप ओषघीः प्रविशति पशवो वा अप औपधीरदन्तितदेनमेतां रात्रिं पशुभ्यः संनयति
३ । सोऽद्याभावास्येतिमन्यमान उपवसति। अर्थष{??}द्ददृशे तद्यजमानो यज्ञ-पथादेति तदाहुः कथं कुर्यादित्वा यज्ञपथाद्यजेता
३ न यजेता
३ इति यजेत हैव न ह्यन्यदपक्रमणं भवति श्वः--श्वःएवैष ज्यायानुदेति स आमावास्यविधेनैवेष्ट्वाथेष्टिमनुनिर्वपतितदहर्वैव श्वो वा
४ । तस्य त्रीणि हर्वींषि मवन्ति। अग्नयेपथिकृतेऽष्टाकपालं पुरोडाशम्, इन्द्राय वृत्रघ्नएकादशकपा-[Page1004-a+ 38] लम्, अग्नये बैश्वानराय द्वादशकपालं पुरोडाशम्
५ । स यद-ग्नये पथिकृते निर्वपति। अग्निर्वै पथः कर्ता स यस्मादेवादोयजमानो यज्ञपथादेति तमेनमग्निः पन्थानमापादयति
६ । अथ यदिन्द्राय वृत्रघ्ने। पाप्मा वै वृत्रो यो भूतेर्वारयित्वातिष्ठति कल्याणकर्मणः साधोस्तमेतदिन्द्रेणैव वृत्रघ्ना पा-प्मानं वृत्रं हन्ति तस्मादिन्द्राय वृत्रघ्ने
७ । अथ यदग्नयेवैश्वानराय द्वादशकपालं पुरोडाशं निर्वपति यत्र वाइन्द्रो वृत्रमहंस्तमग्निना वैश्वानरेण समदहत्तदस्य सर्वंपाप्मानं समदहत्तथोएवैष एतदिन्द्रेणैव वृत्रघ्ना पाप्मानंवृत्रं हत्वा तमग्निना वैश्वानरेण संदहति तदस्य सर्वपाप्मानं संदहति स यो हैवं विद्वानेतयेष्ट्या यजते नहास्याल्पश्चन पाप्मा परिशिष्यते
८ । तस्यै सप्तदश सामिधे-न्यो भवन्ति। उपांशु देवता यजति याः कामयते ता या-ज्यानुवाक्याः करोत्येवमाज्यभागावेवं संयाज्ये
९ । तिसृ-धन्वं दक्षिणां ददाति। धन्वना वै श्वानं बाधन्ते तदेत-मेवैतद्बाधते यत्तिसृधन्वं दक्षिणां ददाति
१० । दण्डं द-क्षिणां ददाति। दण्डेनवैश्वानं बाधन्ते तदेतमेवैतद्बाधतेयद्दण्डं दक्षिणां ददात्येषा ऽन्वादिष्टा दक्षिणा दद्यात्त्वेवा-स्यामप्यन्यद्याइतरा दक्षिणास्तासां यत् सम्यद्येत सासा हैषा पशव्येष्टिस्तयाप्यनभ्युद्दृष्टो यजेतैव”
४ क॰।
“दर्शयागे पुरस्ताच्चन्द्रदर्शनप्रायश्चित्तेष्टिरुक्ता अथ पश्चा-त्तद्दर्शने नैमित्तिकीमिष्टिं विधित्सुराह। अथानन्तरंसायंकाले एष चन्द्रमाः पश्चात् प्रतीच्यां दिशि ददृशेदृश्यते। अभ्यवेक्षते अभ्यवहर्तुं पश्यति यथा शालावृकोवने संचरतो मेषादीन् पशूनभ्यवजिहीर्षति। एतस्मादेवस्वलु चन्द्रसम्बन्धिस्वरूपेण पूर्वोक्तवत् अकारः समा-सान्तः तस्माच्चन्द्रादिति भीषा उक्तरूपया भीत्या, छाया-मुपगच्छन्ति गवाद्याः पशवः तिरोहिता यजमानस्य भव-न्तीत्यर्थः पशूनामुपतापकारि यदेतच्चन्द्रदर्शनं तत् श्वलु-चितं शुना रिक्रीकृतमित्याचक्षते
२ । एतमेव चन्द्रगतं दोष-मेवमाचक्षते, चन्द्रमसः सम्बन्धी तन्मण्डलमध्यवर्त्ती शशइति अत एय तस्य शशाङ्क इति प्रसिद्धिः। उपवसथकाष्ठांगतं देवान्नरूपं चन्द्रमसं पौर्णमासीकाले द्रवीकुर्वन्ति। पशवओषघीर्जग्ध्वा अपश्च पीत्वात्मनि तं चान्द्रमसं कृत्स्नं रस-ममावास्यायां धारयन्ति तत एनं रसममावास्यासम्बन्धिन्यांरात्रौ पशुभ्यः सकाशात् संनयति सम्यक्पापयति। तत्-सनयन प्रतिपच्चन्द्रदर्शने सति नोपपद्यते।
६ दर्शयाग-स्यातिक्रान्तकालत्वे दोषमुपन्यस्य तन्त्रानुष्ठानप्रकारमाह। [Page1004-b+ 38] प्रकृतो दर्शयागः शीघ्रं समापनीयः अनन्तरमेवैवेतद्दोषप-रिहाराय प्रायश्चित्तेष्टिः कर्त्तव्या। स आमावास्यविधेनै-वेति यश्चोदितकालेऽनुष्ठितोऽमावास्यायागस्तत्प्रकारेणैवप्रतिपदि प्रक्रान्तां दर्शेष्टिं समाप्य
४ । अथास्यामिष्टौ प्रकृ-तिवद्विकृतिः कर्त्तव्येति नोदकप्राप्तेष्वङ्गेषु विशेषं विधत्ते। प्रकृती पञ्चदश अत्र नोदकप्राप्तास्ताः पृथुवाजवत्यौधाय्ये द्वेइति सप्तदश (सामिधान्यः) भवन्ति। प्रकृतौ प्र-धानयागे उच्चैष्ट्वघर्मः। प्रकृतदेवतालिङ्गयुक्ताश्चतुःषष्ट्यांदाशतय्यां समाम्नाता या ऋचताः कामयते। आज्यभागयोःस्विष्टकृद्यागे च याथाकाम्यम्
९ । तिसृभिरिषुभिर्युक्तं धनुःतिसृधन्वम् पूर्ववदकारः समासान्तः। एतं चन्द्रात्मकंदिव्यं श्वानम्
१० । अदृश्यमानचन्द्रेऽ,ऽपि”
११ भा॰
“इष्टीः पार्वायणान्तीयाः केवलानिर्वपेत् सदा” मनुः
“प्राजा-पत्यां निरूप्येष्टिम्”।
“हेमन्ते नवशस्येष्ट्या” मनुः
“आ-रेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः” रघुः।
२
“याग-मात्रे च
“कर्तुमिष्टिमभिवाञ्छता मया” माघः राजसूयया-गाभिप्रायमिदम्। इष--क्तिन्।
३ इच्छायाम्। इष्टप्रयोग-निर्वाहाय पातञ्जलभाष्यकृतः इच्छाबोधके
४ श्लोकाद्यात्मकवाक्यभेदे च। यथा।
“द्विपर्य्यन्तानामेवेष्टिः” सर्वनाम्नोवृ-त्तिमात्रे पुंवद्भाव” इत्यादि। एतयेष्ट्या
“ठक्छशोश्च” वार्त्ति॰
“एकतद्धिते चेति” सूत्रञ्च गतार्थम्ऽ सि॰ कौ॰।
“अनुत्-सूत्रपदन्यासेति” माघव्याख्याम् अनुत्सृष्टसूत्राक्षराइष्ट्युपसंख्याननैरपेक्ष्येण सूत्राक्षरैरेव” इति मल्लि॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टि¦ f. (-ष्टिः)
1. Wish, desire.
2. A sacrifice, any sacrificial rite.
3. A compendious verse easily committed to memory. E. इष् to wish, or इष् substituted for यज्, to sacrifice; affix क्तिन्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टिः [iṣṭiḥ], f. [इष्-क्तिन्]
Wish, request, desire.
Seeking, striving to get.
Any desired object.
A desired rule or desideratum; (a term used with reference to Patañjali's additions to Kātyāyana's Vārttikas; इष्टयो भाष्यकारस्य, इति भाष्यकारेष्टया &c.; cf. उपसंख्यान).
Impulse, hurry.
Invitation, order.
(यज्-क्तिन्) A sacrifice. Ms.11.2.2. शबर seems to interpret the word especially in the sense of 'a दर्शपूर्णमास sacrifice'. इष्टिराजसूयचातुर्मास्येषु । &c. MS.II.2.12.
An oblation consisting of butter, food &c.
Summary in verses (= संग्रहश्लोक). एभिर्यज्ञेभिस्तदभीष्टिमश्याम् Rv.1.166.14.-Comp. -अयनम् a sacrifice lasting for a long time.
पचः a miser.
a demon; an Asura; so ˚मुष्.-पशु an animal to be killed at a sacrifice. -श्राद्धम् A particular funeral rite.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टि f. impulse , acceleration , hurry
इष्टि f. invitation
इष्टि f. order
इष्टि f. despatch RV.
इष्टि f. seeking , going after RV.
इष्टि f. endeavouring to obtain
इष्टि f. wish , request , desire RV. VS. etc.
इष्टि f. any desired object
इष्टि f. a desired rule , a desideratum , a N. applied to the statement of grammarians who are considered as authoritative.
इष्टि f. sacrificing , sacrifice
इष्टि f. an oblation consisting of butter , fruits , etc. , opposed to the sacrifice of an animal or सोमRV. i , 166 , 14 ; x , 169 , 2 S3Br. A1s3vS3r. Ya1jn5. Mn. S3ak. Ragh. etc.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
इष्टि स्त्री.
(यज् + क्तिन्) याज्यानुवाक्या के पश्चात् वषट्कार द्वारा अनुगत (के साथ-साथ) वेदि के दक्षिण की तरफ से अध्वर्यु द्वारा खड़े होकर प्रदान की गयी हविस् की आहुति का.श्रौ.सू.1.3.6; 9.8. इष्टि, शब्द का ‘आहुति’ एवं ‘होम’ से अन्तर बतलाया गया है। कृत्यों के तथाकथित वर्ग का प्रतिदर्श (प्रकृति) दर्श है, इसमें इन ऋत्विजों की आवश्यकता होती है ः अध्वर्यु, आगनीध्र, होता एवं ब्रह्मा। यजमान एवं यजमान-पत्नी द्वारा सहायता एवं आयोजन किया जाता है, बौ.श्रौ.सू. 2.3। इष्टिकाल (इष्टेः कालः) (अग्न्याधेय से सम्बद्ध) इष्टि (संज्ञक यज्ञ) के लिए निर्धारित समय, शां.श्रौ.सू. 2.2.1। इष्टिपरिवेष (इष्टेः परिवेषः) इष्टि के लिए आवश्यक द्रव्य अथवा वस्तुएं, मा.श्रौ.सू. 9.1.1.35। इष्टिपरिवेष