ईर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर, कि गतौ । प्रेरणे । इति कविकल्पद्रुमः । (वा, चुरां-परं -सकं -सेट् ।) नुदि । कि ईरयति ईरति । नुदि प्रेरणे । इति दुर्गादासः ॥
ईर, ङ ल, कम्पे । गतौ । इति कविकल्पद्रुमः ॥ (अदां-आत्मं -सकं कम्पार्थे, अकं -सेट् ।) दीर्घादिः । ङ ल ईर्त्ते लता वायुना । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर¦ गतौ प्रेरणे च चुरा॰ उभ॰ पक्षे भ्वा॰ पर॰ सक॰ सेट्। ईरयति ते--ईरति ऐरिरत्--त--ऐरीत्। ईरयाम्--ईराम्वा बभूव आस चकार। ईरयिता। ईरिता ईरयिष्यति-ईरिष्पति। ईरणम्। ईरितः इरयन्--इरन्। ईरः ईर्य्य-[Page1009-b+ 38] माणः।
“आपः समुद्रमैरयन्” ऋ॰
८ ,
६ ,
१३ ।
“अंशो-रूर्म्मिमीरय” ऋ॰
९ ,
७९ ,
१४ ।
“यदस्य शुष्ममैरयन्” ऋ॰
२ ,
१७ ,
३
“ऐरिरच्च महाक्रमम्” भट्टिः कथने च।
“अथ वाचमीरयति” शत॰ ब्रा॰
“ब्रह्मा रथन्तरं सामईरयति भवान्तिके भा॰ आनु॰
१४ अ॰। विरोध-वाक्यञ्च यथेर्य्यमाणम्” भा॰ व॰
१३
३ अ॰।
“दमयन्त्यायथेरितम्” भा॰ व॰
२७
४३ ।
“हितं न गृह्णन्ति सुहृद्भि-रीरितम्” रामा॰
“इतीरिता पत्ररथेन तेन” इतीरयित्वा विरचय्य वाङ्मयम्” नैष॰। उद् उत्क्षेपणे।
“उदीरयामासुःसलीलमक्षान्” रघुः। उच्चारणे कथने च
“यदशोकोयमुदीरिष्यति” रघुः।
“उदीरयामासुरिवोन्मदानाम्” रघुः। अभि + उद् + आभिमुख्येनोच्चारिते।
“आस्तीकस्तिष्ठस्तिष्ठेतिवाचस्तिस्रोऽभ्युदैरयन्” मा॰ अ॰
२१
७१ । सम् + उद् + सम्यगुच्चारे समुत्तीलिते च। पांशवोऽपि कुम-क्षेत्रे वायुना समुदीरिताः” भा॰ व॰
५०
७० । प्र + प्रेरणे। प्रेरयति।
“समीरणः प्रेरयिता भवेति” कुमा॰।
“अपः प्रेरय सागरस्य बुध्नात्” अ॰
१० ,
८९ ,
४ ।
“किमुद्दिश्यकाश्यपेन मत्सकाशमृषयः प्रेरिताः स्युः” शकु॰
“या-त्रायै प्रेरयामास तं शक्तेः प्रथमं शरत्” रघुः। सम् + सम्यक्प्रेरणे समुगुच्चारणे सम्यग्गतौ च
“समीरणः।
“समीरयाञ्चकाराथ राक्षसस्य कपिः शिलाम्” भट्टिः।
“ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः” भा॰व॰
१२
१८ अ॰।
ईर¦ अदा॰ आत्म॰ सक॰ सेट्। ईर्त्तेईराते ईरते ऐवत ऐरिष्टईराम् बभूव आस--चक्रे ईरिष्यति
“द्रप्सा मधुमन्त ईरते” ऋ॰
५ ,
६३ ,
१४
“रुशदीर्त्ते पयो गोः” ऋ॰
९ ,
९१ ,
३ ।
“अस्मे राजास ईरताम्” ऋ॰
४ ,
८ ,
७ । वायुप्रच्युतादिवोवृष्टिरीर्त्ते” तैत्ति॰। अस्मात् निष्ठायानेट्।
“न हि राज्ञानुदीर्ण्णानाम्” भा॰ आ॰
५१
३८ श्लो॰।
“उदीर्ण्णरागप्रतिरोधकम् मुहुःः” माघः। अस्यैव पक्षे चुरादित्वं तेन न तस्य भ्वादित्वमित्येके।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर¦ r. 2nd cl. (ईर्त्ते)
1. To go.
2. To shake. r. 1st and 10th cls. (ईरति, ईरयति)
1. To go.
2. To throw or direct, to drive or force on; with उत् prefixed, to say or speak; with प्र, to send, to make to go; with सम्, to go like the wind.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईरः [īrḥ], Wind. -जः, पुत्रः N. of Hanūmat.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर m. wind.