ईरिणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरिणम्, त्रि, (ऋ + इरन् ।) शून्यं । ऊषरभूमिः । इति मेदिनी ॥ (यथा, मनुः । ३ । १४२ ॥ “यथेरिणे वीजमुप्त्वा न वप्ता लभते फलम् ॥ तथानृते हविर्दत्वा न दाता लभते फलम्” ॥ “ततस्तदीरिणं जातं समुद्रश्चावसर्पितः” । इति महाभारते अमुशासनपर्ब्बणि । चलनं ।)

"https://sa.wiktionary.org/w/index.php?title=ईरिणम्&oldid=117030" इत्यस्माद् प्रतिप्राप्तम्