ईर्ष्या
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर्ष्या, स्त्री, (ईर्ष्यणं । ईर्ष्य + अच् + टाप् ।) परोत्- कर्षासहिष्णुता । रीष इति भाषा । तत्पर्य्यायः ॥ अक्षान्तिः २ । इत्यमरः ॥ (यथा, मनुः । ७ । ४८ ॥ (“पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गुणाष्टकः” । स्त्रियः पत्युरन्यप्रियासङ्ग दर्शनादिजनितो मान- भेदः । यथा, श्टङ्गारशतके ॥ “वचोभिरीर्ष्याकलहेन लीलया समस्तभातैः खलु बन्धनं स्त्रियः” ।)
अमरकोशः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर्ष्या स्त्री।
परोत्कर्षासहिष्णुत्वम्
समानार्थक:अक्षान्ति,ईर्ष्या
1।7।24।2।2
क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा। अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि॥
पदार्थ-विभागः : , सामान्यम्, जातिः
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर्ष्या¦ स्त्री ईर्ष्य--भावे अ स्त्रीत्वात् टाप्। अक्षमायाम् पर-वृद्ध्यसहिष्णुतायाम्।
“पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थ-दूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः” मनुः एतेषाञ्च क्रोधप्रभवत्वात् क्रोधजत्वम् अतएव
“क्रुधद्रु-हेर्ष्यासूयार्थानां यं प्रति कोपः” पा॰
“द्रोहादयोऽपिकोपप्रभवा एव गृह्यन्तेऽतो विशेषणं सामान्येन यंप्रतिकोपः” सि॰ कौ॰।
“ईर्ष्याशोकक्लमापेता मोहमात्-सर्य्यवर्ज्जिताः” भा॰ व॰
२६
०
“त्यक्तेर्ष्यस्त्यक्तमन्युश्चस्मगमानोऽब्रवीदिदम्” भा॰ अनु॰
२ अ॰। अयंशब्दोनिर्यकार इति केचित्
“ईर्ष्यतेस्तृतीयस्येति” वार्त्ति॰उक्तेः कविकल्पद्रुमे, पा॰ गणपाठे च यान्ततयापाठात् निर्यकारपाठे मूलं मृग्यम्। तेन सयकारएवसाधीयान्।
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर्ष्या [īrṣyā] र्षा [rṣā], र्षा [ईर्ष्य्-अप्] Envy, jealousy, envy of another's success, spite, malice. ईर्ष्या (र्षा) लु, ईर्ष्यु (र्षु) a. Envious, impatient. ईर्ष्योर्मृतं मनः Av.6.18.2.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईर्ष्या f. envy or impatience of another's success