ईहामृगः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईहामृगः, पुं, (ईहाप्रधानो मृगो वृकः ।) कुक्कुर- प्रमाणहरिणघ्नकपिलवर्णजन्तुविशेषः । इति भरतः ॥ घो¤घ इति ख्यातः । तत्पर्य्यायः । कोकः २ ष्टकः ३ । इत्यमरः ॥ (“पुलहस्य सुता राजन् शलभाश्च प्रकीर्त्तिताः । सिंहाः किम्पुरुषा व्याघ्रा यक्षा इहामृगास्तथा” ॥ इति महाभारते । आदिपर्ब्बणि ॥) (नायको मृग- वदलभ्यामपि नायिकामीहते वाञ्छत्यत्र इति ।) नाटकरूपकभेदः । इति मेदिनीकरहेमचन्द्रौ ॥ (तल्लक्षणं यथा, साहित्यदर्पणे षष्ठपरिच्छदे । “ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्त्तितः । मुखप्रतिमुखे सन्धी तत्र निर्व्वहनं तथा ॥ नरदिव्यावनियमौ नायकप्रतिनायकौ । ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥ दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः । शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् ॥ पताका नायका दिव्या मर्त्त्या अपि दशोद्धताः । युद्धमानीय संरब्धं परं व्याजान्निवर्त्तयेत् ॥ महात्मानो बधप्राप्ता अपि बध्याः स्युरत्र नो । एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः ॥ दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे” ॥ “मिश्रं ख्याताख्यातम् । अन्यः प्रतिनायकः । पताकानायकास्तु नायकप्रतिनायकयोर्मिलिता दश । नायको मृगवदलभ्यां नायिकामत्र ईहते वाञ्छतीति ईहामृगः । यथा--कसुमशेखर- विजयादि” ॥)

"https://sa.wiktionary.org/w/index.php?title=ईहामृगः&oldid=117166" इत्यस्माद् प्रतिप्राप्तम्