उग्रगन्धः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रगन्धः, पुं, (उग्रस्तीव्रः गन्धो यस्मिन् ।) लशुनः । कटफलः । अर्जकवृक्षः । इति राजनिर्घण्टः ॥ चम्पकः । इति शब्दचन्द्रिका ॥ उत्कटगन्धयुक्ते त्रि ॥ (यथा, हारीते प्रथमस्थानेऽष्टमाध्यायः । “उग्रगन्धं पुराणं स्याद्दशवर्षोषितं घृतम् । यथा यथा जरां याति गुणवत्स्यात्तथा तथा” ॥)

"https://sa.wiktionary.org/w/index.php?title=उग्रगन्धः&oldid=117236" इत्यस्माद् प्रतिप्राप्तम्