उच्च

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चम्, त्रि, (उच्चिनोतीति । चिञ चित्यां अन्येभ्योऽपि इति डः । उच्चैस्त्वमस्ति अत्र वा । अर्श आद्यच्, अव्ययानामिति टिलोपः ।) उपरि । उ~चु इति भाषा । तत्पर्य्यायः । प्रांशु २ उन्नतम् ३ उदग्रम् ४ उच्छ्रितम् ५ तुङ्गम् ६ । इत्यमरः ॥ उत्तुङ्गं ७ । इति तट्टीका ॥ (यथा, रघुः ३ । १३ । “ग्रहैन्ततः पञ्चभिरुच्चसंश्रयैः, असूर्य्यगैः सूचितभाग्यसम्पदम्” ।) (ज्योतिषोक्तं ग्रहाणामुच्चस्थानम् । यथा, “अजवृषभमृगाङ्गनाकुलीराः झषबणिजौ च दिवाकरादितुङ्गाः । दशशिखिमनुयुक्तिथीन्द्रियांशै- स्त्रिणवकविंशतिभिश्च तेऽप्यनीचाः” ॥ सूर्य्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उच्चस्थानानि स्वस्वतुङ्गा- पेक्षया सप्तमस्थानानि च नीचानि, तत्रोच्चेष्वपि दशमादयो राशित्रिंशाशाः यथाक्रमं उच्चेषु पर- मोच्चा नीचेषु परमनीचा भवन्तीति ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्च वि।

उन्नतः

समानार्थक:उच्च,प्रांशु,उन्नत,उदग्र,उच्छ्रित,तुङ्ग,कराल

3।1।70।1।1

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्च¦ त्रि॰ उत्क्षिय्य वाहू चीयते, उपर्य्युपरिनिविष्टैरवयवै-श्चीयतेऽसौ वा उद् + चि--ड।

१ उन्नते।
“पुरस्तादुच्चम्” कात्या॰

७ ,

१ ,

२१ ।
“स तदुच्चकुचौ भवन् प्रभाझर--चक्रभ्र-मिमातनोति यत्” नैषधम्। अस्मात् उत्कर्षे तरप् तमप्।
“किंस्वित् गुरुतरं भूमेः किं स्विदुच्चतरञ्च खात्” भा॰ व॰

३१ अ॰। उच्चतमम्” कात्या॰

७ ,

१ ,

१५ । देवय-जनवर्णने
“परितः समीपदेशवर्त्तिप्रदेशेभ्यो यद-तिशयेनोच्चम्” कर्कः। राशिचक्रमध्ये ग्रहविशेषाणां

२ राशिभेदे, यथा
“मेषो वृषो मृगः कन्या कर्कमीनतुला-धराः। भास्करादेर्भवन्त्युच्चाः राशयः क्रमशस्त्विमे” ज्योति॰ त॰। स्पष्टमुक्तं तत्रैव
“रविर्मेषे वृषे चन्द्रोगुरुः कर्के बुधः स्त्रियास्। शनिर्युके (तुलायाम्) मृगे(मकरे) भौमः शुक्रो मीने च तुङ्गिनः”। तेषां राशिभाग-भेदे परमोच्चतामाह तत्रैव
“त्रिंशद्भागे दिशो (

१० ) रा-माः (

३ ) अष्टविंशतिभिस्तिथिः

१५ । तथेषुः (

५ ) सप्तविंशश्चविंशतिश्चोच्चसंज्ञकाः”। तथा च रवेर्भेषस्य दशमे भागे,[Page1059-a+ 38] प्ररमोच्चता चन्द्रस्य वृषे

३ अंशे, कुजस्य मकर

२८ भागेबुधस्य कन्यायाः

१५ भागे, गुरोः कर्क

५ भागे, भृगोः मीन

२७ भागे शनेस्तुला

२० भागे तथात्वम्।
“स्वोच्चाच्चसप्तमं नीचं प्राग्वद्भागैर्विनिर्द्देशेत्। उच्चान्तः सूच्चसंज्ञःस्यात् नीचान्ते तु सुनीचकः” परिपूर्णबलः सूच्चे सुनीचेदुर्बलोग्रहः। सूच्चसुनीचयोरन्तर्भागहारात् फलं दिशेत्” ज्योति॰ त॰ राहुकत्वोस्तु
“उच्चं नृयुग्मं घटभं त्रिकोणं कन्यागृहं शुक्र शनी च मित्रे। सूर्य्यः शशाङ्को-धरणीसुतश्च राहो रिपुर्विंशतिकः परांशः। सिंहस्त्रि-कोणं धनुरुच्चसंज्ञं मीनोगृहं शुक्रशनी विपक्षौ। सूर्य्यार-चन्द्राः सुहृदः समानौ जीवेन्दुजौ षष्ट्शिखिनः परांशाः” ज्यो॰ त॰। राशिपरत्वेऽस्य पुंस्त्वं भपरत्वे क्लीवतेति भेदः। भागहारात् ग्रहबलमुक्तं तदानयनप्रकारः नी॰ ता॰सूर्य्यादेर्मेषादीन्युच्चान्यभिधाय
“तत् सप्तमं नीचमनेनहीनो ग्र होऽधिकश्चेत् रसभाद्विंशोध्यः। चक्रात्, तदं-शाङ्कलवो बलं स्यात्”

२ तथा च ताजके स्वोच्चे

२० कलाबलं तेन षड्भिः राशिभर्यदि पूर्णवलं तदा इष्टांशैःकिमिति

१८

० ,

२० ,

१ , त्रैराशिकेन प्रत्येकाशं

१९ बलमा-याति। जातके तु स्वोच्चे

६० कला बलं तेन प्रत्यंशं

१३ बलम्। नी॰ ताजके
“त्रिंशत्स्वभे विंशतिरुच्चभे स्वे” इतिउक्तम्। जातके तु श्रीपतिः

६० कला बलमाह यथा
“नीचोनोद्युचरोऽधिको यदि भवेत् षड्भात् तदाप्त-च्युतश्चक्रात् कॢप्तकलः खखाष्टखकुभि (

१०

८०

० ) र्भक्तो-बलं तुङ्गजम्। पादोनं तु बलं

३४ , त्रिकोणगृहगे स्वर्क्षे

१२ दलं च त्रयो

३८ वखं शा ह्यधिमित्रगेऽथ चरणो{??}

४ मित्रे समर्क्षेऽष्टमः।

१८ । शत्रुभे भवति षोडं-शांशक

११

६ श्चाधिशत्रुभवने रदांशकः

१३

२ । अत्र त्रिकोणादौ पादोनादिवलकथनात् स्वोचचे पूर्णबल-मिति प्रतीयते तेन

६० कलास्तत्र थलमु। उच्चाभिमानिनि ग्रहाणां गतिभेदकारके भगणस्थे

३ जीव-भेदे तेनैवाकर्षणात् ग्रहाणामुच्चादिगतिसम्भवः। ( स चं द्विविधः शीघ्रोच्चः मन्दोच्चश्च तादृशोच्च-तायां कारणञ्च सू॰ सि॰ रङ्गनाथाभ्यां दर्शितंयथा
“अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः। शीध्रम-न्दोच्चपाताख्या ग्रहाणां गतिहेतवः” सू॰ सि॰

१ ।
“शीघ्रो-च्च मन्दोच्चपातसञ्ज्ञकाः पूर्व्वोक्तपदार्था जीवविशेषाः सूर्य्या-दिग्रहाणां गतिकारणभूताः सन्ति। ननु कालेनैव ग्रह-चलनं भवतीति कालो गतिहेतुर्नैत इत्यत आह[Page1059-b+ 38] कालस्येति। पूर्व्वप्रतिपादितकालस्य स्वरूपाणि तथाचैषां कालमूर्त्तित्वेन ग्रहगतिहेतुत्वं नासम्भवीतिभावः। ननु कालस्य घठ्यादिमूर्त्तित्वादेषां तदात्मक-त्वाभावात् कथं कालमूर्तित्वमित्यत आह भगणाश्रिताइति। भगोलस्थक्रान्तिवृत्तानुसृतग्रहगोलस्थकान्तिवृत्त-प्रदेशाश्रिता इत्यर्थः। तथा च ग्रहराश्यादिभोगानांकालवशेनैवोत्पन्नत्वात् तदात्मकानां कालमूर्तित्वमिति भावः। ननु ते दृश्यन्ते कुतो नेत्यत आह अदृश्यसूपा इति। वायवीथशरीरा अव्यक्तरूपत्वादप्रत्यक्षा इति भावः। एवंच ग्रहाणामुच्चादिसम्भवात् स्पष्टक्रियोत्पन्नेति तात्पर्य्यम्

१ । अथानयोरुच्चपातयोर्मध्य उच्चयोर्गतिहेतुत्वं प्रतिपादयति” र॰ ना॰


“तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः। प्राक्पश्चादप्रकृष्यन्ते यथासन्नं स्वदिङ्मुखम्”

२ सू॰ सि॰।
“तेषामुच्चसंज्ञकजीवानां वायुरूपा ये रश्मयो रज्जवस्ता-भिर्बद्धा बिम्बात्मकग्रहास्तैरुच्चसंज्ञकजीवैः सव्यवामहस्तै-रुच्चबहुत्वेन हस्तबाहुल्याद्बहुवचनं हस्ताभ्यामित्यर्थः। स्वदिङ्मुखं स्वाभिमुखं यथासन्नं ग्रहविम्बं भवति तथाग्राक् पश्चात् पूर्ब्बपश्चिममार्माभ्यामित्यर्थः। अपकृष्यन्तेआकष्यन्ते। अयमभिप्रायः भवक्रगोलस्यक्रान्ति-वृत्तानुसृतग्रहाकाशगोलान्तर्गतक्रान्तिवृत्ते कक्षारूपे स्वस्व-प्रदेशे ग्रहोच्चपातास्तिष्ठान्ति। तत्र बिम्बव्यासोनकक्षा-कारसूत्रं प्रवहयाय्वतिरिक्तवायुरूपं स्वतोगतिस्थानेकम्पमानं ग्रहबिम्बष्यासे पूर्वापरे प्रोतमुच्चजीवहस्तद्व-यान्तर्गतमस्ति। अथ ग्रहबिम्बमुच्चस्थानात् स्वशक्त्यागच्छदपि वामहस्तस्थितसूत्रेणोच्चस्थानात्, पूर्वरूपेरा ग्रह-स्थानात् पश्चिमरूपेण वृहत्सूत्रावयवात्मकेन स्वस्था-नाद् पश्चात् स्वाभिमुखमपकृष्यते निरन्तरमुच्चदैवतैः स्व-शक्त्या यावत् षड्भान्तरं तयोरन्तरं तन्मार्गेणाकर्षणस-म्भवात् पूर्वस्मिन् गच्छद्ग्रहबिम्बं, सव्यहस्तस्थितसूत्रे-णोच्चस्थानात् पूर्वस्मिन् स्वामिमुखमाकृष्यते स्वशक्त्या नि-रन्तरं यावदन्तराभावस्तयोरिति” र॰ ना॰।
“अथात एवैक-रूपां पूर्वाधिकारावगतां गतिं त्यक्त्वा कुतः प्रत्यक्षविलक्षणांगतिं प्राप्ता ग्रहा इत्यत आह।
“प्रवहाख्यो मरुत् तांस्तुस्वोच्चाभिमुखमीरयेत्। पूर्वापरापकृष्टास्ते गतिं यान्ति पृ-थग्विधाम्” सू॰ सि॰

३ ।
“प्रवहाख्यः प्रवहसंज्ञको मरुद्वायुःपश्चिमाभिमुखं भ्रसंस्तात् तुकारादुच्चानि स्वोच्चाभिमुखस्वस्य प्रवहभ्रमणेनोच्चं भावप्रधाननिर्देशादुच्चता यस्यांदिशि तत् स्वोच्चं पूर्वदिक् पूर्वंभाग एव ग्रहाणां प्रवहभ्रमे-[Page1060-a+ 38] णोच्चगमनदर्शनात् तत्सम्मुखं पूर्व्वदिशीति तात्पर्य्यार्थः। ईरयेत् पश्चिमाभिमुखम्रमणसिद्धप्रागुक्तग्रहावलम्बनरूपेणचालयतीत्यर्थः। अतः कारणात् ते ग्रहाः पूर्वं पश्चि-मदिशोराकृष्टाः पृथग्विधां प्रथमावगतैकरूपभिन्नप्रका-रावगतां प्रतिक्षणविलक्षणां गतिं गमनक्रियां यान्तिप्राप्नुवन्ति। अवलम्बनाकर्षणाभ्यां प्रतिदिनं ग्रहाणांगतेरन्यादृशत्वं तदनुसारेण ग्रहचारज्ञानं युक्तमितिग्रहाणां स्पष्टक्रियोत्पन्नेति भावः। यद्वा ननु वायु-रज्जुभिः कथं ग्रहाणामाकर्षणं सम्भवति तद्रज्जूनांविरलतया धनीभूतत्वाभावेनाकर्षणायोग्यत्वादित्यत आह। प्रवाहाख्य इति। उच्चदेवताहस्तद्वयस्थितकक्षाकारसूत्रंवायुः प्रवहवायुसम्बन्धात् प्रवहसञ्ज्ञो न पश्चिमाभिमु-खभ्रमत्प्रवहात्मकस्तान् ग्रहान् स्वोच्चाभिमुखं स्वीच्चदेवतास्थानसम्मुखमीरयेत् प्रेरयति चालयति। तुकारादुच्चस्थानात् पूर्वस्मिन् ग्रहे वायुः पश्चिमगत्या ग्रहं चाल-यति पश्चिमस्थे वायुः पूर्वगत्या ग्रहं चालयतीत्यर्थः। तथा च कक्षाकारसूत्रं तदा तदा तथा तथा भ्रमतीतिदैवतैराकृष्यत इत्युपचारादुच्यत इति भावः। अत एवग्रहाणां स्वष्टक्रियोत्पन्नेत्याह। पूर्वापरापकृष्टा इतिउच्चदैवतैः पूर्वापरदिशयोराकृष्टा ग्रहाः पृथग्विधांमध्यमातिरिक्तप्रकारां गतिं गमनक्रियां यान्ति। अतोन केवलं मध्यक्रियया निर्वाहः”

३ र॰ ना॰। अथ प्राक्पश्चादपकृष्यन्त इत्युक्तं विशदयति।
“ग्रहात् प्राग्भगणा-र्द्धस्थः प्राङ्मुखं कर्षति ग्रहम्। उच्चसञ्ज्ञोऽपरार्द्धस्थ-स्तद्वत् पश्चान्मुखं ग्रहम्”

४ सू॰ सि॰।
“ग्रहस्थानात्पूर्वभागस्थराशिषट्कस्थित उच्चसञ्ज्ञो जीवो ग्रहविम्बंपूर्व्वदिगभिमुखं स्वाभिमुखं कर्षत्याकर्षति। अपरा-र्द्धस्थो ग्रहस्थानात् पश्चिमभागस्थराशिषट्कस्यितौच्च-सञ्ज्ञो जीव इत्यर्थः। ग्रहविम्बं पश्चान्मुखं पश्चिम-दिगभिमुखं स्वाभिमुखं तद्वदाकर्षतीत्यर्थः”

४ र॰ ना॰।
“अथ पूर्वोक्तसिद्धं फलितमाह।
“स्वोच्चापकृष्टा भणणैःप्राङ्मुखं यान्ति यद्ग्रहाः। तत् तेषु धनमित्युक्तमृणंपश्चान्मुखेषु तु” सू॰ सि॰

५ ।
“स्वोच्चजीवाकर्षिताग्रहाः पूर्वाभिमुखं मगणैः राशिभिर्भगोलस्थक्रान्ति-वृत्तानुसृतस्वाकाशगोलान्तर्गतक्रान्तिवृत्ते द्वादशराश्य-न्तिके यद्राशिविभागैरित्यर्थः। यद् यत्संख्यामितंगच्छन्ति तत् तत्सङ्ख्यामितं भागादिकं फलरूपं तेषुपूर्वावगत{??}रहराश्यादिभोगेषु धनं योज्यम्। पश्चान्मुखेषु[Page1060-b+ 38] पश्चिमाकर्षितग्रहपूर्वावगतराश्यादिभोगेषु तुकाराद्यत्स-ङ्ख्यामितं फलरूपं पश्चिमतो गच्छन्ति तदित्यर्थः। ऋणंहीनमिति एतत् पूर्वैः कथितम्” र॰ ना॰

५ । सि॰ शि॰
“सूष्ट्वा भचक्रं कमलोद्भवेन ग्रहैः सहैतद्भगणादिसंस्थैः। शश्वद्भ्रमे विश्वसृजा नियुक्तं तदन्ततारे च तथाध्रुवत्वे। ततोऽपराशाभिमुखं भपञ्जरे सखेचरे शीध्रतरेभ्रमत्यपि। तदल्पगत्येन्द्रदिशं नभश्चराश्चरन्ति नीचो-च्चतरात्मवर्त्मसु”।
“यदेतद्भचक्रं ग्रहैः सह भ्रमद्दृश्यतेतद्विश्वसृजा जगदुत्पादकेन कमलोद्भवेन ब्रह्मणा सृ-ष्ट्यादौ सृष्ट्वा ततः शश्वद्म्रमेऽनवरतभ्रमणे नियुक्तम्। एतदुक्तं भवति। भान्यश्विन्यादीन्यन्यानि विशिष्टानिज्योतींषि तेषां समूहश्चक्रं ग्रहाश्च सूर्य्यादयस्तैः सहसृष्टम्। तानि भानि प्राक्संस्थाया समन्तान्निवे-शितानि। ग्रहास्तु भगणादावश्चिनीमुखे निवेशितास्तउपर्य्युपरिसंस्थया। तत्रादौ तावदधश्चन्द्रः तदुपरिबुधः, ततः शुक्रः, ततो रविः तस्माद्भौमः, ततो गुरुःततः शनिः। सर्वेषामुपरि दूरे भचक्रम्। एषां कक्षा-प्रमाणानि चक्षाध्याये प्रतिपादयिष्यन्ते। अहो यद्यू-र्ध्वोर्ध्वस्था ग्रहास्तदोपरि दूरतो भगणस्तत् कथं भग-णादिसंस्थैर्ग्रहैरित्युच्यते? सत्यम्। अत्र भूमध्ये सूत्र-स्यैकमग्रं बद्ध्वा द्वितीयमग्रं भचक्रेऽश्विनीमुखे किल नि-बद्धम्। तस्मिन् सूत्रे प्रोता मणय इव चन्द्रादयोग्रहा सृष्ट्यादौ ब्रह्मणा निवेशिताः। भमण्डलं द्वाद-दशधा विभज्यैवं भूमध्यात् सूत्राणि प्रतिभागं नीत्वाकिल बद्धानि तैः सूत्रैः सह ग्रहकक्षायां ये संपातास्तेतासु कक्षासु राश्यन्ताः। तद्वत्प्रकारा राशय इतिसंक्षिप्तमिहोक्तम्। कक्षाध्याये गोले च किञ्चिद्विस्तार्य्यबक्ष्यामः। एवंविधं भचक्रं सृष्ट्वा ब्रह्मणा गण्ने नि-वेशितम्। यत्र निवेशितं तत्र प्रवहो नाम वायुः। स च नित्यं प्रत्यग्गतिः। तेन समाहतं भचक्रं सखेचरंपश्चिमाभिमुखभ्रमे प्रवृतम्। यत् तस्य प्रत्यग्भ्रमणंतच्छीघ्रतरम्। यत एकेनाह्ना भमण्डलस्य परिवर्त्तः। एवं तस्मिन् भपञ्जरे सखेचरे शीघ्रतरे भ्रमत्यपि खेचराइन्द्रदिशं चरन्ति पूर्व्वाभिमुखं व्रजन्ति नीचोच्चतरा-त्मवर्त्मसु। अनन्तरकथितेषु खस्वमार्गेषु तेषां प्राग्भ्र-मणम्। तत् तदल्पगत्या, प्रत्यग्गतेर्बहुत्वात् प्रागल्प-गत्या व्रजन्तो नोपलक्ष्यन्त इति भावः। तथा तस्म भप-ञ्जरस्य यो दक्षिणोत्तरावर्त्तौ तत्र ये तारे ते ध्रूवत्वे[Page1061-a+ 38] नियुक्ते” प्रमि॰। तथा श्रीपतिः।
“स्वव्यापारात्प्राग्गतिः खेचराणामूर्ध्वाधस्ताद्याम्यसौम्यापराणि। गो-लाभिज्ञैः पञ्च यातानि यानि तेषामुक्तान्यन्यहेतूनितानि। प्रत्यग्गतिः प्रवहवायुवशेन तेषां नीचोच्चवृत्तजनि-तीर्ध्वमधश्च सा स्यात्। याम्योत्तरा त्वपमवृत्तविमण्ड-लाभ्यां षोढा गतिर्निगदितैवमिह ग्रहाणाम्” उच्चता चमहत्त्वव्याप्यगुणभेदः। सा च उपर्य्युपरिसन्निवेशि-तावयवनां महत्त्वे भवति तस्य गुणचनत्वात् ततः भावेऽर्थेष्यज्। औच्च्यम् उच्चतायां न॰। त्व। उच्चत्व तत्रार्थेन॰ तल्। उच्चता स्त्री।
“उच्चस्थे ग्रहपञ्चके सुरगुरौसेन्दौ नवम्यां तिथौ लग्ने कर्कटके पुनर्वसुदिनेमेषं गते पूषणि। निर्दग्धुं निखिलाः पलाशसमिधःमध्यादयोध्यारणेराविर्भूतमभूदपूर्व्वविभवं यत्किञ्चिदेकंमहः” तिथित॰ पु॰।
“ग्रहैस्ततः पञ्चभिरुच्चसंस्थितै-रसूर्य्यगैः सूचितभाग्यसम्पदम्” रघुः।
“स्वोच्चस्थःस्वगृहेऽपि वा स्वसुहृदां वर्गेऽपि वा” ज्योति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्च¦ mfn. (-च्चः-च्चा-च्चं) High, tall. m. (-च्चः) The apex of the orbit of a planet. E. उत् upwards, चि to gather, and ड aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्च [ucca], a.

High (in all senses); tall; क्षितिधारणोच्चं Ku.7.63; elevated, superior, exalted (family &c.)

Loud, high-sounding; उच्चाः पक्षिगणाः Śi.4.18.

Intense, violent, strong.

(In astr.) Ascendant; see उच्चसंश्रय below.

च्चः The apex of the orbit of a planet.

Height, high place; ज्वरश्च मरणं जन्तोरुच्चाच्च पतनं यथा Mb.12.28.25. -Comp. -अवच a. High and low, great and small; see उच्चावच. -गिर a. Having a loud voice; स्वगुणोच्चगिरो मुनिव्रताः Śi.16.29.

तरुः the cocoanut tree.

a lofty tree in general. -तालः (heightened) music, dancing &c. at a tavern. -देवः N. of Viṣṇu or kṛiṣṇa. -देवता time personified, chronos. -ध्वजः N. of Śākyamuni. -नीच a.

high and low.

various, multiform.

(चम्) the upper or lower stations of planets.

change of accent.-भाषणम् speaking aloud, vociferous. -भाषिन् a. shouting, bawling. -ललाटा, -टिका a woman with a high or projecting forehead. -संश्रय a. occupying a high station (said of a planet); ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैः R.3.13; see Malli. thereon.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्च mfn. (said to be fr. चfr. अञ्च्with 1. उद्) , high , lofty , elevated

उच्च mfn. tall MBh. Kum. S3is3. Katha1s. etc.

उच्च mfn. deep Caurap.

उच्च mfn. high-sounding , loud Bhartr2. VarBr2S.

उच्च mfn. pronounced with the उदात्तaccent RPra1t. VPra1t. etc.

उच्च mfn. intense , violent R.

उच्च m. height MBh.

उच्च m. the apex of the orbit of a planet , कालs. R. etc.

उच्च m. compar. उच्च-तर, superl. उच्च-तम; ([ cf. Hib. uchdan , " a hillock " ; Cambro-Brit. uched , " cleve. "])

"https://sa.wiktionary.org/w/index.php?title=उच्च&oldid=492128" इत्यस्माद् पुनः प्राप्तिः