उच्चावचः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्चावचः, त्रि, (उदक् च अवाक् च । मयूरव्यंसका- दित्वात् साधुः ।) अनेकप्रकारः । तत्पर्य्यायः । नैकभेदः २ । इत्यमरः ॥ (यथा, मनुः १ । ३८ । (“उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च” । “उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः” । इति च मनुः ६ । ७३ ॥)

"https://sa.wiktionary.org/w/index.php?title=उच्चावचः&oldid=117330" इत्यस्माद् प्रतिप्राप्तम्