उच्छन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छन्नम्, त्रि, (उत् + छद् + क्त ।) नष्टम् । इति श्रीभगवद्गीता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छन्न¦ त्रि॰ उद्--छद क्त। लुप्तप्राये आच्छन्ने।
“उच्छन्न-प्रच्छन्नग्रन्थे वेदस्याचारमूलत्वेत्यादि विधिवादे मथुरा॰यथा च वेदस्य छिन्नमूलग्रन्थतया उच्छिन्नत्वेऽपि अवि-गीतशिष्टाचारादेव तदनुमानंतथा समर्थनाय शब्दचि॰शब्दाप्रामाण्ये वादिपूर्व्वपक्षं निरस्य व्यवस्थापितं यथा।
“स्यादेतत् स्मृत्याचारयोर्वेदमूलत्वे तत्रोच्छेदादिविवादस्त-देव त्वसिद्धं तथा हि वेदसमानार्था महाजनपरिगृहीता चस्मृतिः, स्वार्थोपस्थित्यनन्तरं स्मृत्यर्थानुभावकवेदानुभानेऽपिप्रतीतिप्राथम्यात् साध्यप्रसिद्ध्यर्थमुपजीव्यत्वाच्च स्मृतेरेवा-पूर्व्वादिपाक्यार्थज्ञानमस्तु किं वेदेन, तदर्थस्य स्मृतितएव सिद्धेः अपूर्व्वस्य शब्दैकवेद्यत्वेन स्मृतितोज्ञातस्यज्ञापकत्वेनानुवादकतापत्तेश्च सा च स्मृत्यन्तरादित्यनादिरेव स्मृतिधारावश्यकी, अन्यथा मनुस्मृतेः पूर्वं तवापिवेदानुमानं न स्यात्। सर्व्वा च स्मृतिः स्मृतिजन्यवा-क्यार्थप्रमाजन्यत्वेन महाजनपरिगृहीतत्वेन च प्रमाण-मिति नान्धपरम्परा। प्रत्यक्षा च स्मृतिः स्मृतिमूलंनानुमिता अनुमितवेदवत् तस्या अनुभावकत्वात्। [Page1065-a+ 38] वेदार्थस्मृतिताप्रसिद्धिस्तु प्रसिद्धवेदमूलस्मृतिसाहचर्य्यभ्रमात् प्रत्यक्षवेदाबोधितलोभन्यायमूलस्मृताविव तान्त्रि-काणां लिङ्गाभासजन्यवेदमूलकत्वभ्रमात् सम्भवन्मूला-लान्तराणां वेदमूलत्वं कल्पयति। अथ स्मृरिनिष्ठतद्वे-वेदमूलकत्वप्रसिद्धिरपि महाजनपरिग्रहीता एवञ्च सावेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूल-त्वप्रसिद्धित्वात् प्रत्यक्षवेदमूलस्मृतौ तत्प्रसिद्धिवत्। एवंवेदार्थस्मृतिताप्रसिद्धिरपि अन्यथा महाजनपरिग्र-हानादरे वेदस्मृत्योरपि प्रामाण्यं न स्यादिति चेत् नयूपहस्त्यादिस्मृतेस्तत्प्रसिद्धौ व्यभिचारात् कॢप्तलो-भादित एव तत्सम्भवात् विचारकाणां विप्रतिपत्तेश्च। तत्र तत्प्रसिद्धौ विगान महाजनानामिति चेत् नतत्रापि मूलान्तरसम्भवाद्विप्रतिपत्तेश्च विगानमेव तेषाम्,अतएव स्मृतीनां न्यायमूलत्वे सम्भवति वेदमूलत्व-प्रसिद्धावपि न वेदमूलत्वं, न च वेदमूलेयमिति कृत्वास्मृतेर्महाजन प्ररिग्रहात्तन्मूलत्वं वेदमूलेयमिति प्र-थमं ग्रहीतुमशक्यत्वात् शक्यत्वे वा किमनुमानेन, न चवेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, असिद्धेः, मन्वा-दिस्मृतित्वेन पूर्वं महाजनपरिग्रहेणोत्तरेषां परि-ग्रहादनुष्ठानाद्युपपत्तेः। एवं होलकाचारेऽपि वेद-लिङ्गेनैव कर्त्तव्यताज्ञानोपपत्तेः किं वेदेन, तदर्थस्यलिङ्गादेवोपपत्तेः, अविगीताऽलौकिकविषयकशिष्टाचा-रस्यवेदमूलत्वदर्शनात् वेदानुमाने चाविगीतशिष्टाचारत्वेनभोजनाद्यावारोऽपि वेदमूलः स्यात् वेदं विनापि तत्कर्त्त-व्यताधीसम्भवान्न तदर्थवेदैति इहापि तुल्यम्। आ-चारकर्त्तव्यतानुमानयोरनादित्वेनाचाराणां कर्त्तव्यतानु-मानमूलकत्वान्नान्धपरम्परा। न च पूर्व्वानुमानसापेक्षमुत्त-रामानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् साध्यव्याप्तिपक्षधर्मतासत्त्वेन पूर्वेषां स्वतन्त्रप्रमाणत्वात्। नापीतरप्रामाण्या-धीनं सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपितथात्वापत्तेः। एतेन विवादपदमाचारोनिरपेक्षप्रमाणमूलकःअविगीतमहाजनाचारत्वात् प्रत्यक्षवेदमूलाचारवदिति नि-रस्तम् अनुमानस्य निरपेक्षप्रमाणत्वात् प्रमाणमूलत्वेनैवबुद्धेरुपपत्तेः निरपेक्षत्वस्य गौरवेणाप्रयोजकत्वाच्च। न च सापे-क्षत्वेन न प्रमाणता व्याप्त्यादिसत्त्वात् अन्यथा प्रमाणनैर-पेक्ष्यस्य वैयर्थ्यात्। नचाचारे वेदमूलकत्वप्रसिद्धेस्तदनुमानम्,असिद्धेः व्यभिचारादन्यथोपपत्तेश्च। न च वेदमूलत्वेनमहाजनपरिग्रहात्तथा। न हि वेदमूलोऽयमिति कृत्वा-[Page1065-b+ 38] महाजनानां तत्परिग्रहः वेदमूलत्वस्य प्रथमं ज्ञातुमशक्य-त्वात् शक्यत्वे वा किमनुमानेन। न च वेदमूलत्वेन महा-जनपरिगृहीतोऽयमाचारः इति ज्ञात्वा तत्र महा-जनपरिग्रहः, गौरवात् असिद्धेश्च पूर्ब्बमहाजनपरिग्र-हादेवोत्तरेषां परिग्रहानुष्ठानोपपत्तेः। तादृशस्मृत्याचा-रयोर्वेदमूलत्वेन व्याप्तेर्वेदमूलत्वसिद्धिरिति चेत् न अस-म्भवन्मूलान्तरस्योपाधित्वात् अन्यथा लोभन्यायमूलस्मृतेस्तत्प्रसङ्गः। अस्तु स्मृत्याचारयोरनादित्वं न चाचारात्स्मृतिः स्मृत्या चाचारः इत्यन्धपरम्परा मूलीभूतप्रमाणा-भावादिति वाच्यं स्मृत्याचारयोरुभयोरपि प्रमाण-त्वात्। अन्यथा न ततो वेदानुमानमिति। ( उच्यते प्रलये पूर्ब्बस्मृत्याचारयोरुच्छेदात् सर्गादौ नित्य-सर्व्वज्ञेश्वरप्रणीतवेदमूलत्वं स्मृत्याचारयोः, अन्यथा मूला-भावेनान्धपरम्पराप्रसङ्गः। न च मन्वादीनामतीन्द्रियार्थ-दर्शित्वं तदुपायश्रवणादेस्तदानीमसत्त्वात् पूर्व्वपूर्व्वसर्ग-सिद्धसर्व्धज्ञा एव त इति चेत् न प्रमाणाभावात। स्मृ-त्याचारयोः प्रमाणमूलकत्वमेव तत्कल्पकमिति चेत् नप्रतिसर्गं तेषामन्यान्यकल्पने गोरवमित्येकस्यैव नित्य-सर्व्वज्ञस्य कल्पनात्। न च स्मृतय एव तत्प्रणीताःतासां मन्वादिकर्तृकत्वेन स्मृतौ बोधात्, स्मृतावेवस्मृतीनां वेदमूलत्वस्मरणाच्च। एवञ्च स्मृत्याचारयोर्महा-जनपरिग्रहाद्वेदमूलत्वसाधकमपि भगवति प्रमाणम्। अतएव
“प्रतिमन्वन्तरं चैषा श्रुतिरन्याऽभिधीयत” इत्याग-मोऽपि। एवञ्च पूर्व्वप्रत्यक्षवेदमूलावेव स्मृताचारौ अग्रेच कालक्रमेणायुरारोग्यबलश्रद्ध्वाग्रहणधारणादिशक्तेर-हरहरपचीयमानत्वात् तदध्ययनविच्छेदात् शाखोच्छेदात्स्मृत्याचाराभ्यामेव कर्त्तव्यतामधिगत्य प्रवृत्तिः। नन्वेवंस्मृतिरस्तु वेदमूला मङ्गलाद्याचारस्तु ईश्वरादेव भविष्यतिघटलिप्याइसम्प्रदायवदिति चेत् न बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वेन
“मङ्गलमाचरेदित्यादिवाक्य-स्यैव लाघवेन कल्पनात्”।
“निवृत्ताचारशौचेषु परपाकोपजीविषु उच्छन्नबलिभिक्षेषुभिन्नकांस्योपभोजिषु” सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छन्न¦ mfn. (-न्नः-न्ना-न्नं) Destroyed. m. (-न्नः) Peace obtained by ceding valuable lands. E. उत् before छद् to go, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छन्न [ucchanna], a. [उद्-छद्-क्त]

Destroyed, cut down (perhaps for उत्सन्न); see उच्छिन्न.

Extinct (as a work).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच्छन्न/ उच्-छन्न mfn. uncovered , undressed

उच्छन्न/ उच्-छन्न mfn. (for उत्-सन्नSee. )lost , destroyed etc. Sus3r. Mudr.

"https://sa.wiktionary.org/w/index.php?title=उच्छन्न&oldid=492164" इत्यस्माद् प्रतिप्राप्तम्