उच्छिष्ट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उच्छिष्टम्, त्रि, (उत् शिष्यते यत् । उत् + शिष + क्त ॥) भुक्तावशिष्टम् । इति पुराणम् ॥ ए~टो इति भाषा । तद्भोजनप्रायश्चित्तं यथा (प्रायश्चित्ततत्त्वे चाण्डालाद्यन्नभक्षणप्रायश्चित्तप्रकरणे ।) विष्णुः । “आमश्राद्धाशने त्रिरात्रं पयसा वर्त्तेत ब्राह्मणः शूद्रोच्छिष्टाशने च वमनं कृत्वा सप्तरात्रमुपवसेत्” इति । एवं उच्छिष्टे यः पराक उक्तोऽङ्गिरसा सोऽपि प्रागुक्तसकृदापदादिविषये बोध्यः । विष्णु नापि अनुच्छिष्टे पराकोक्तेः । तथाचाङ्गिराः । “चाण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । द्विजः शुध्येत् पराकेण शूद्रः कृच्छ्रेण शुध्यति” ॥ यत्तु मिताक्षरायामापस्तम्बः । “अन्त्यानां भुक्तशेषन्त भक्षयित्वा द्विजातयः । चान्द्रं कृच्छ्रं तदर्द्धन्तु ब्रह्मक्षत्रविशां विधिः” ॥ चान्द्रं चान्द्रायणम् । कृच्छ्रं तप्तकृच्छ्रम् । एतच्च ब्राह्मणस्य सकृदज्ञानविषयं बलात्कारानुत्तारे- ऽप्यन्नेतरताम्बूलाद्युत्सृष्टपरञ्च । तत्राज्ञाने आप- स्तम्बेन उच्छिष्टे चान्द्रायणविधानात् । अङ्गिरसा अन्त्यावसायिनामित्यादि प्रागुक्तवचने सामान्यत- स्तप्तकृच्छ्रविधानात् अनुच्छिष्टेऽपि तथात्वादेव सर्व्वत्रानुच्छिष्टादुच्छिष्टे द्वैगुण्यं बोध्यम् । प्राय- श्चित्तविवेके संसर्गप्रकरणेऽप्येवम् । क्षत्रियवि- शीश्चापदि ज्ञेयम्” ॥ * ॥ “सर्व्वत्रोच्छिष्टे तु व्रत- द्वैगुण्यं आपदज्ञानभुक्तोत्तारिते मासयावकव्रतं तदशक्तौ धेनुद्वयं षट्कार्षापणा वा देयाः । तत्रो- च्छिष्टान्ने पराक इति । अभ्यासभेदे त्वावृत्ति- रूहणीया” । इति प्रायश्चित्ततत्त्वम् ॥ * ॥ अथो- च्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तम् । (तत्रैव उच्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तप्रकरणे द्रष्टव्यम् ।) आपस्तम्बः । “भुक्तोच्छिष्टस्त्वानाचान्तश्चाण्डालैः श्वपचेन वा । प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्विशोधनम् ॥ गायन्यष्टसहस्नन्तु द्रुपदां वा शतं जपेत् । त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्यति ॥ भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत् । अर्द्धोच्छिष्टे स्मृतः पादः पाद आमाशने तथा” ॥ प्राजापत्यं ज्ञाने अर्द्धोच्छिष्टो येनाद्यग्रास आस्ये निक्षिप्तः न तु निगीर्णः । दक्षः । “पाने मैथुनसंसर्गे तथा मूत्रपूरीषयोः । संस्पर्शं यदि गच्छेत्तु शवोदक्यान्त्यजैः सह ॥ दिनमेकं चरेन्मूत्रे पुरीषे तु दिनद्वयम् ।” दिनत्रयं मैथुने स्यात् पाने स्याच्च चतुष्टयम् ॥ काश्यपः । श्वशूकरान्त्यचाण्डालमद्यभाण्डरजस्वलाः । यद्यच्छिष्टः स्पृशेत्तत्र कृच्छ्रं सान्तपनं चरेत् ॥ एतद्ज्ञानाभ्यासे सान्तपने धेनुद्वयं ॥ ब्रह्मपुराणे । “उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः । उपवासेन शुद्धिः स्यात् शुना संस्पृष्ट एव वा ॥ उच्छिष्टेन तु विप्रेण विप्रः स्पृष्टस्तु तादृशः । उभौ स्नानं प्रकुरुतं सद्य एव समाहितौ” ॥ अनुच्छिष्टशूद्रस्पर्शे उच्छिष्टब्राह्मणस्य नक्तमिति प्रायश्चित्तविवेकः ॥ त्यक्तं । इति हेमचन्द्रः ॥ (यथा, शतपथब्राह्मणे २ । ३१ । ११ । “हुतोच्छिष्टमिदम्” । इति । अनाचान्तो भक्षकः । यथा मनुः २ । ५६ । “नचैवात्यशनं कुर्य्यात् नचोच्छिष्टः क्वचित् व्रजेत्” ।
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उच्छिष्ट¦ त्रि॰ उत् + शिष--क्त।
१ भुक्तावशिष्टे,
२ त्यक्ते च। अर्शा॰ अच्।
३ अकृतशौचे भुक्तान्ने। तत्रोच्छिष्टस्याभक्ष्यतासापवादपभक्ष्यशब्दे
३७
९ पृष्टे उक्ता तत्रायं भेदः वर्ण-विशेषस्योच्छिष्टभोजने पापतारतम्यात् प्रायश्चित्ततारतम्यंप्रायश्चित्तविवेकादाबुक्तं यथा
“स्वभुच्छिष्टन्तु यो भुङ्क्ते यो-[Page1066-b+ 38] भुङ्क्ते त्यक्तभाजने। एवंवैवस्वतः प्राह भुक्त्वा चान्द्रायण-ञ्चरेत्” चतुरृषिवचनम्।
“तच्च ज्ञानाभ्यासविषयमिति” प्रा॰ वि॰।
“ब्राह्मणोच्छिष्टभोजने महाव्याहृतिभिरभिम-न्त्र्यापः पिबेत्, क्षत्रियोच्छिष्टभोजने ब्राह्मीरसविपक्वेनत्र्यहं क्षीरेण वर्त्तयेत्, वैश्योच्छिष्टभोजने त्रिरात्रोपोषितोब्रह्मवर्चलां पिबेत्, शूद्रोच्छिष्टभोजने सुराभाण्डोदक-पाने च षड्रात्रमभोजनं चान्द्रायणं वा अभिमन्त्रितंजलं पीत्वोपवसेत्” शङ्खलि॰
“व्रतरूपत्वात् एतद्ब्राह्मणस्यब्राह्मणाद्युच्छिष्टाशनेऽज्ञानतः सकृत् एवं क्षत्रिया-देः समाधमवर्ण्णोच्छिष्टाशने समाधमवर्ण्णोक्तमेतदेवयथायथमुन्नेयम् शूद्रोच्छिष्टाशने तु ब्राह्मणस्य ज्ञानतःसकृद्विषयम् षड्रात्राभोजनम्” प्रा॰ वि॰। यथापस्तम्बः।
“अज्ञानाद्यस्तु भुञ्जीत शूद्रोच्छिष्टं द्विजो-त्तमः। त्रिरात्रोपोषितोभूत्वा पञ्चगव्येन शुद्ध्यति”।
“एतद्द्विजोत्तमग्रहणाद्व्राह्मणविषयम्। क्षत्रियादिपरत्वेवक्ष्यमाणविष्णुवचनविरोधात्। एतदपि सकृद्विषयं अ-त्र च त्रि रात्रेऽघमर्षणमपि जपनीयम्” प्रा॰ वि॰। यथासुमन्तुः।
“शूद्रोच्छिष्टभोजने त्रिरात्रमघमर्षणञ्च जपेत्”
“चान्द्रायणन्तूभयत्रैव ज्ञानाभ्यासे क्षत्रियादीनाञ्च त्रि-पादपादहानिरूह्या। क्षत्रियस्य च ब्राह्मणोच्छिष्टाशनेब्राह्मणोक्तप्रायश्चित्तार्द्धं, वैश्यस्य ततोऽप्यर्द्धम्। एवं वैश्यशूद्रयोरपि स्वापेक्षया पूर्व्व वर्णत्वेनोन्नेयम् उशनोवचने वर्णक्रमेण ह्रसितप्रायश्चित्तदर्शनात्” प्रा॰ वि॰। यथा
“अन्नानां भुक्तशेषस्तु भक्षितोयैर्द्वि जातिभिः। चान्द्रं कृच्छ्रंतदर्द्धञ्च क्रमात्तेषां विशोधनम्”। तथा विष्णुरपि न्याय-प्राप्तमेवार्थमन्वाह।
“आमश्राद्धाशने त्रिरात्रं, वर्त्तेतब्राह्मणः शूद्रोच्छिष्टाशने वमनं कृत्वा सप्तरात्रं वै-श्योच्छिष्टाशने पञ्चरात्रम्, राजन्योच्छिष्टाशने त्रि-रात्रम्, राजन्यः शूद्रोच्छिष्टाशने पञ्चरात्रम् बैश्योच्छि-ष्टाशने। त्रिरात्रं वैश्यः शूद्रोच्छिष्टाशने च”
“अत्र वमनंकृत्वा पयसा वर्त्तेतेति सर्व्वत्रान्वेति” प्रा॰ वि॰।
“चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे। द्विजः शुध्येत्पराकेण शूद्रः कृच्छ्रेण शुद्ध्यति” अङ्गिराः
“एतदज्ञान-विषयं ज्ञानतो द्वैगुण्यादिकम् प्रा॰ वि॰। मनुनापि सामा-न्याभ्योज्यप्रकरणे।
“शुष्कं पर्य्युषितं चैव शूद्रस्योच्छिष्ट-मेव च
“क्रूरस्योच्छिष्टभोजिन” इति चोक्तम्। शूद्रस्यतु द्विजोच्छिष्टभोजने न दोषः। द्विजोच्छिष्टन्तु भोज-नमिति” तस्य मनुना तद्वृत्तितयोक्तेः। एकपङ्क्तिस्थमध्ये[Page1067-a+ 38] केनचिदग्रे भोजनपात्रत्यागे तत्पङ्क्तेस्थानां तदन्नमुच्छिष्ट-वत् यथा
“अप्येकपङ्क्त्यां नाश्नीयात् संवृतः स्वजनैरपि। कोहि जानाति किं कस्य प्रच्छन्नं पातकं महत्। भसस्त-म्भजलद्वारमार्गैः पङ्क्तिञ्च भेदयेत्” व्यासः। जलादिना पङ्क्ति-भेदाकरणे तु शङ्खः
“एकपङ्क्त्युपविष्टानां विप्राणां भोजनेक्वचित्। यद्येकोऽपि त्यजेत्पात्रं शेषमन्नं विवर्जयेत्। मोहात् भञ्जीत यः पङ्क्त्यामुच्छिष्टसहभोजनम्। प्राजा-पत्यं चरेद्विप्रः क्षत्रः सान्तपनन्तथा”।
“विडालादिभि-रुच्छिष्टं दुष्टमन्नं विवर्जयेत्, अन्यत्र हिरण्योदकस्पर्शात्” देवलः अज्ञानादुच्छिष्टादिभोजने तदुत्तार्य्यमित्याह
“अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता। अज्ञानाद्भुक्तमुत्तार्य्यं शोध्यं वाप्याशु शोधनैः” वमनपक्षेऽपिअल्पप्रायश्चित्तं भवत्येव
“आमश्राद्धाशने त्रिरात्रं पयसावर्तेत ब्राह्मणः, शूद्रोच्छिष्टाशने वमनं कृत्वा सप्त-रात्रमुपवसेत्” विष्णुना वमनोत्तरमपि प्रायश्चित्तविधानात्
“अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः। चान्द्रं कृर्च्छं तदर्द्धं तु ब्रह्मक्षत्रविशां विधिः” मिता॰आप॰ वचनन्तु ब्राह्मणस्य सकृदज्ञानविषयम् बलात्-कारानुत्तारेऽप्यन्नेतरताम्बूलाद्युच्छिष्टपरमिति” प्रा॰ त॰रघु॰। अन्त्यजैः बलात्कारिते उच्छिष्टादेर्मार्जमेऽपि दो-षएव।
“दासीकृतोबलान्म्लेच्छश्चाण्डाद्यैश्च दस्युभिः। अशुभंकारितः कर्म्म गवादेः प्राणहिंसनम्। उच्छिष्टमार्ज्ज-नञ्चैव तथा तस्यैव भक्षणम्” इत्याद्यभिधाय
“मासोषितेद्विजातौ तु प्रजापत्यं विशोधनम्। चन्द्रायणन्त्वाहिता-ग्नेः पराकमथ वा भवेत्” देवलोक्तेः। उच्छिष्ट-चाण्डादिस्पर्शेऽपि दोषः” प्रा॰ त॰ उक्तः यथा।
“आपस्तम्बः
“भुक्तोच्छिष्टस्त्वनाचान्तश्चाण्डालैः श्वप-चेन वा। प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्वि-शोधनम्। गायत्र्यष्टसहस्रन्तु द्रुपदां वा शतं जपेत्। त्रिरात्रोपोषितो भूत्या पञ्चगव्येन शुद्ध्यति। भुक्तोच्छिष्टो-ऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत्। अर्द्धोच्छिष्टेस्मृतः पांदः पाद आमाशने तथा”।
“प्राजापत्यं ज्ञानेअर्द्धोच्छिष्टोयेनाद्यग्रासः आस्ये निक्षिप्तः न तु निगीर्णः” प्रा॰ त॰ रघु॰। काश्यपः
“श्वशूकरान्त्यचाण्डाल-मद्यभाण्डरजस्वलाः। यद्युच्छिष्टः स्पृशेत्तत्र कृच्छ्रंसान्तपनं चरेत्।
“एतज्ज्ञानाभ्यासे सान्तपने धेनुद्वयम्”। प्रा॰ त॰ ब्रह्मपुराणे
“उच्छिष्टेन तु शूद्रेण विप्रः स्पृ-ष्टस्तु तादृशः। उपवासेन शुद्धिः स्यात् शुना संस्पृष्टएव[Page1067-b+ 38] वा। उच्छिष्टेन तु विप्रेण विप्रःस्पृष्टस्तु तादृशः। उभौ स्नाभं प्रकुरुतं सद्य एव समाहितौ”।
“अनुच्छिष्ट-ब्राह्मणस्य नक्तमिति” प्रायश्चित्तविवेकः। (
“सर्वमन्नमेकत्रोद्धृत्य उच्छिष्टसमीपे दर्भेषु” श्रा॰ त॰गोभिलः।
३ दत्तावशिष्टे च।
“उच्छिष्टे सतिलान्दर्भान् दक्षिणाग्रान्निधापयेत्” श्रा॰ त॰ ब्रह्मपु॰।
“अ-संस्कृतप्रमीतानां, योगिनां, कुलयोषिताम्। उच्छिष्टंमागधेयं स्यात् दर्भेषु विकिरश्च यः” श्रा॰ त॰ ब्रह्मपु॰।
“प्रेतश्राद्धे यदुच्छिष्टं ग्रहे पर्य्युषितं च यत्। दम्पत्यो-र्भुक्तशेषञ्च न भुञ्जीत कदाचन” श्रा॰ त॰ स्मृतिः।
“उच्छिष्टंपाकपात्रेऽवशिष्टम्, ग्रहे उपरागे पर्य्युषितं,दम्पत्योराश्रमस्वामिनोर्भोजनानन्तरं पाकस्थाल्यामव-शिष्टमिति” श्राद्धचिन्तामणिः।
४ मघुनि। मक्षिकोच्छि-ष्टत्वात्तस्य तथात्वम्।
“उच्छिष्टं शिवनिर्माल्यम्--श्राद्धेप्रशस्यते” पु॰। उष्टिमोदनः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उच्छिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Left, rejected as food; (i. e. spit out of the mouth, or orts, crumbs, fragments, &c.)
2. Left, abandoned. E. उत् up, शिष् to leave as a residue, and क्त aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उच्छिष्ट [ucchiṣṭa], p. p.
Left as a remainder
Rejected, abandoned; अन्˚ R.12.15.
Stale; ˚कल्पना stale idea or invention.
Unholy, impure; उच्छिष्टं तु यवक्रीतम- पकृष्टकमण्डलुम् Mb.3.136.14.
(Used actively). One who has not washed his mouth and hands after meals, and hence considered impure; न चोच्छिष्टः क्वचिद् व्रजेत् Ms.2.56;
ष्टम् Leaving, fragments remainder, (especially of food or sacrifice); उच्छिष्टमपि चामेध्यम् Bg.17.1; नोच्छिष्टं कस्यचिद्दद्यात् Ms.2.56.; so द्विज˚, गृध्र˚.
Honey. -Comp. -अन्नम् leavings, offal. -गणपतिः (or गणेशः) (opposed to शुद्ध गणपति) Gaṇesa as worshipped by the उच्छिष्टs (or men who leave the remains of their food in their mouth during prayer).-चाण्डालिनी a form of the goddess मातङ्गी. -भोजन, -भोजिन्, -भोक्तृ a. one who eats the leavings of another or eats the leavings of offerings to gods (as an attendant upon an idol). चिकित्सिकस्य क्रूरस्योच्छिष्टभोजिनः Ms.4.212. -भोजनम् eating the leavings of another.-मोदनम् Wax.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उच्छिष्ट/ उच्-छिष्ट mfn. left , rejected , stale
उच्छिष्ट/ उच्-छिष्ट mfn. spit out of the mouth (as remnants of food) TS. ChUp. S3Br. MBh. Ya1jn5. etc.
उच्छिष्ट/ उच्-छिष्ट mfn. one who has still the remains of food in the mouth or hands , one who has not washed his hands and mouth and therefore is considered impure , impure Gaut. Mn.
उच्छिष्ट/ उच्-छिष्ट n. that which is spit out
उच्छिष्ट/ उच्-छिष्ट n. leavings , fragments , remainder (especially of a sacrifice or of food) AV. S3Br. Ka1tyS3r. Mn. A1s3vGr2. etc.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उच्छिष्ट न.
(उद् + शिष् + क्त) हविस् का बचा हुआ भाग (हविःशेष) जिससे यज्ञ के असमाप्त (अपूर्ण) भाग का अनुष्ठान किया जा सकता है, भा.श्रौ.सू. 9.17.7; ऋत्विक् लोग इसका भक्षण करते है, आप.श्रौ.सू. 18.6.11; भोजन का बचा हुआ भाग भी, भा.श्रौ.सू. 1.12.19; हि.गृ.सू. 1.13.8 (मधुपर्क)।