उडुप

विकिशब्दकोशः तः

डाउनलोड ]]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुपः, पुं क्ली, (उडुनोजलात् पाति रक्षतीति । उडु + पा + क ।) भेलकम् । भेला माड् इत्यादि भाषा । तत्पर्य्यायः । प्लवः २ कोआलः ३ । इत्यमरः ॥ भेलकः ४ उडूपः ५ तरणः ६ तारणः ७ तारकः ८ । इति शब्दरत्नावली ॥ (“तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम्” ॥ इति रघुवंशे । १ । २ ।) चन्द्रे पुं । इति मेदिनी ॥ (“अपश्यत् वदनं तस्य रश्मिवन्तमिवोडुपम्” । इति महाभारते । वनपर्ब्बणि ॥ चर्म्मावनद्धपान- पात्रं । यथा, -- “चर्म्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्” ॥ इति सज्जनः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुप नपुं।

तृणादिनिर्मिततरणसाधनम्

समानार्थक:उडुप,प्लव,कोल

1।10।11।1।1

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः। आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी॥

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडु(डू)प¦ पु॰ उडुनि जले पाति पा--क।

१ प्लवे भेलायाम्। [Page1072-a+ 38]
“उडुपप्लवसन्तारोयत्र नित्यं भविष्यति” भा॰ आ॰

८१ अ॰।
“वहन्तोवारिबहुलं फेनोडुपपरिप्लुतम्। भा॰ व॰

१४

६ ।
“तितोर्षुर्दुस्तरं माहादुदुपेनास्मि सागरम्” रघुः। उडुरूपजलसन्तारहेतुत्वादस्य उडुपत्वम्। चर्मा-वनद्धयानपात्रे न॰ तच्छ्लोकव्याख्याने मल्लिनाथेन
“उडुपेनचर्मावनद्धयानपात्रेणेत्यभिधाय
“चर्माबनद्धमुडुपं प्लवकाष्ठंकस्ण्डवदिति” सज्जनोक्तिरुदाहृता। पृषो॰। उड-पोऽपि प्लवे अमरटी॰। उडूनि उडूर्पा नक्षत्राणिपाति पा--क।

२ चन्द्रे स हि ताराणां पतिरतस्त-द्रक्षकः। उडूनां दिवा हि सूर्य्यकिरणैरभिभवादप्रकाशत्वेनरात्रौ च प्रकाशवत्त्येन निशाधीशचन्द्रस्य ततपतित्वम्। एवम्
“नक्षत्राणामवीशत्वमोषिधीनां तथैव चेति” का॰ ख॰प्रजापतिना तदधीशत्वदानमुक्तम्”। गोतायामपि
“नक्षत्रा-णामहं शशी” इत्युक्तेः तन्मध्ये तस्य श्रेष्ठत्वादपि तत्पतिता
“सलिलमये शशिनि” वृह॰ सं॰ तस्य जलमयत्वोक्तेःउडुमयत्वात् जलमयत्वात् तस्य उडुपतित्वं वा बोध्यम्दक्षकन्याश्विन्यादितारापतित्वाद्वा तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुप¦ mn. (-पः-पं) A raft or float. m. (-पः) The moon. E. उडु as above, and प from पा to preserve, affix ड।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उडुप/ उडु--प mn. a raft or float MBh. Ragh. etc.

उडुप/ उडु--प mn. a kind of drinking vessel covered with leather Comm. on Ragh. i , 2

उडुप/ उडु--प m. the moon (the half-moon being formed like a boat) MBh. Mr2icch. etc.

"https://sa.wiktionary.org/w/index.php?title=उडुप&oldid=507722" इत्यस्माद् प्रतिप्राप्तम्