उत्तर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तरम्, क्ली, (उत् + तॄ + अप् ।) प्रतिवाक्यम् । इत्य- मरः ॥ जवाव इति यावनी भाषा । (यथा, माघे २ । २२ । “वचसस्तस्य सपदि क्रिया केवलमुत्तरम्” ।) तस्य व्युत्पत्तिः । “उत्तीर्य्यते निस्तीर्य्यते प्रकृताभियोगोऽनेन” । तस्य स्वरूपम् । “पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् । अव्याख्यागम्यभित्येवमुत्तरं तद्विदो विदुः” ॥ तस्य भेदाः । “मिथ्या सम्प्रतिपत्तिश्च अत्यवस्कन्दनं तथा । प्राङ्न्यायश्चोत्तराःप्रोक्ताश्चत्वारः शास्त्रवेदिभिः” ॥ इति नारदः ॥ (अथ उत्तरं नाम साधर्म्योपदिष्टे वा हेतौ वैधर्म्म्यवचनं वैधर्म्म्योपदिष्टे वा साधर्म्म्य- वचनं यथा हेतुमधर्म्माणोविकाराः शीतकस्य द्विव्याधेर्हेतुस्राधर्म्म्यवचनं हिमशिशिरवातसं- स्पर्शा इति ब्रुवतः परो ब्रूयात् हेतुविधर्म्माणो विकाराः यथा शरीरावयवानां दाहौष्ण्यं कोथ- प्रपचने हेतुवैधर्म्म्यं हिमशिशिरवातसंस्पर्शां इति । एतत् सविपर्य्ययमुत्तरम् । इति चरके विमानस्थानेऽष्टमोऽध्यायः ॥)
उत्तरः पुं, विराटराजपुत्त्रः । इति हेमचन्द्रः ॥ (यथा महाभारते ३ । गोहरणपर्ब्बणि ३५ । ३३ “तमुत्तरं वीक्ष्य रथोत्तमे स्थितम्” । तत्रैव ३४ “सहोत्तरे- णास्तु तदद्य मङ्गलम्”) । (स्वनामख्यातपर्ब्बत- भेदः । यया, “दक्षिणस्योत्तरो गिरिः” । इति रामायणे ॥ उत्तरयति संसारसागरात् इति व्युत्पत्तेः । शिवः । हरिः ॥ भारते । १३ । १४९ । ६६ ॥)
उत्तरः, त्रि, (उदतिशयेन उद्गतः । उत् + तरप् ।) ऊर्द्ध्वः । उदीची । (यथा, रामायणे । “उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्” ।) उत्तमः इति मेदिनी अमरश्च ॥ (प्रधानं । श्रेष्ठः । यथा, रघुः १३ । ७ । “नृपा इवोपप्लविनः परेभ्यो, धर्म्मोत्तरं मध्यममाश्रयन्ते” । “ब्रह्मधर्म्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्” इति महाभारतम् ॥) अनन्तरम् । (“वित्तं बन्धुर्बयः कर्म्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम्” ॥ इति मनुः । २ । १३६ ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तर नपुं।
उत्तरम्
समानार्थक:प्रतिवाक्य,उत्तर
1।6।10।1।5
प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे। मिथ्याभियोगोऽभ्याख्यानमथ मिथ्याभिशंसनम्.।
पदार्थ-विभागः : , गुणः, शब्दः
उत्तर वि।
श्रेष्ठः
समानार्थक:ग्रामणी,वर,उत्तर,अनुत्तर,वृष
3।3।191।1।1
उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
उत्तर वि।
उपरि
समानार्थक:अग्र,उत्तर
3।3।191।1।1
उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
पदार्थ-विभागः : , द्रव्यम्, दिक्
उत्तर वि।
उत्तरदिक्
समानार्थक:उदीची,उदक्,उत्तर
3।3।191।1।1
उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
अवयव : उत्तरदिशि_भवम्,उत्तरदिशायाः_ग्रहः,उत्तरदिग्गजः
स्वामी : उत्तरदिशायाः_स्वामी
सम्बन्धि2 : उत्तरदिशि_भवम्,उत्तरदिशायाः_स्वामी,उत्तरदिशायाः_ग्रहः,उत्तरदिग्गजः
वैशिष्ट्यवत् : उत्तरदिशि_भवम्
पदार्थ-विभागः : , द्रव्यम्, दिक्
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तर¦ न॰ उत्तीर्य्यते प्रकृताभियोगोऽनेन उद् + तॄ--अप्, उद्-तरप् वा। राजसमीपे वादिकृताभियोगापनोदके उत्तराख्ये
१ व्यवहाराङ्गे द्वितीयपादे
“प्रश्नश्चोद्यधिया पृच्छा तस्यखण्डनमुत्तरमित्युक्ते”
२ दोषभञ्जनवाक्ये।
३ जिज्ञासित-विषयावेदके वाक्ये।
४ उदीच्यां दिशि स्त्री। अनन्तरे
५ देशे,
६ काले च पु॰।
७ अनन्तरोत्तरदिग्देशकालवृत्तौत्रि॰ अंश्विन्यादिषु
१२ ,
२१ ,
२६ ; संख्यकेषु
८ नक्षत्रेषुन॰ स्त्री।
“उत्तरात्रययाम्यरोहिणीरौद्रसार्पपितृभेषुचाग्निभे”
“रेवत्युत्तररोहिणी मृगशिरो मूलानुराधाभघा”
“त्रीण्युत्तराणि स्वभूः” ज्यो॰ त॰। तत्र वादेउत्तरतदाभासादिलक्षणादि मिता॰ दर्शितं यथा।
“श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ” या॰।
“श्रुतो-भाषार्थोयेन प्रत्यर्थनाऽसौ श्रुतार्थस्तस्योत्तरं पूर्वपक्षादुत्तरत्रभवतीति उत्तरं लेख्यं लेखनीयम्। पूर्वावेदकस्यार्थिनःसमीपे उत्तरञ्च यत्पूर्वोक्तस्य निराकरणन्तदुच्यते। यथाह।
“पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम्। अव्याख्यागम्यमित्येतदुत्तरन्तद्विदोविदुरिति”। पक्षस्य व्या-पकन्निराकरणसमर्थम् सारं न्याय्यं न्यायादनपेतम्,असन्दिग्धं सन्देहरहितम्, अनाकुलं पूर्व्वापराविरुद्धम्,अव्याख्यागम्यं अप्रसिद्धपदयोगेन दुःश्लिष्टविभक्तिसमासा-ध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद्व्या-ख्येयार्थन्न भवति तत्सदुत्तरम्। तच्चतुर्व्विधम्। सम्प्रतिपत्तिर्मिथ्या प्रत्यवस्कन्दनं पूर्वन्यायश्चेति। यथाह[Page1091-a+ 38] कात्यायनः।
“सत्यं मिथ्योत्तरञ्चैव प्रत्यवस्कन्दनं तथा। पूर्व्वन्यायविधिश्चैवमुत्तर स्याच्चतुर्विधमिति”। तत्र सत्यो-त्तरं यथा रूपकशतम्मह्यन्धारयतीत्युक्ते सत्यन्धारयामीति। यथाह।
“साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता”। मिथ्योत्तरन्तु नाहन्धारयामीति। तथा च कात्यायनः।
“अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम्। मिथ्या तत्तुविजानीयादुत्तरं व्यवहारतः” इति। तच्च मिथ्योत्तरञ्चतुर्विधम्।
“मिथ्यैतन्नाभिजानामि तदा तत्र न सन्निधिः। अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधमिति”। प्रत्य-वस्कन्दनन्नाम सत्यं गृहीतं प्रदिदत्तं प्रतिग्रहलब्धमितिवा। यथाह नारदः
“अर्थिना लेखितोयोऽर्थः प्रत्यर्थी यदितन्तथा। प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतमिति”। प्राङ्न्यायोत्तरन्तु यत्राभियुक्त एवं ब्रूयादस्मिन्नर्थे अनेना-हमभियुक्तस्तत्र चायं व्ववहारमार्गेण पराजित इति। उक्तञ्च कात्यायनेन
“आचारेणावसन्नोऽपि पुनर्लेखयतेयदि। सोऽभिधेयोजितः पूर्व्वं प्राङ्न्यायश्च स उच्यते” इति। एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहितानाम् उत्तर-वदभासमानानामुत्तराभासत्वमर्थसिद्धं स्पष्टीकृतञ्चस्मृत्यन्तरे।
“सन्दिग्धमन्यत् प्रकृतादत्यल्पमतिमूरि च। पक्षैकदेशव्याप्यन्यत्तथा नैवोत्तरम्भवेत्। यद्व्यस्तपदम-व्यापि निगूढार्थन्तथाकुलम्। व्याख्यागम्यमसारञ्चनोश्तरं स्वार्थसिद्धये” इति। तत्र सन्दिग्धम् सुवर्णशत-मनेन गृहीतमिति उक्ते सत्यं गृहीतम्, सुवर्णशत-म्माषशतं वेति। प्रकृतादन्यत् यथा सुवर्णशताद्यभि-योगे पणशतन्धारयामीति। अत्यल्पं सुवर्णशताभियोगेपञ्च धारयामीति। अतिमूरि सुवर्णशताभियोगे द्विशत-न्धारयामीति। पक्षैकदेशव्यापि हिरण्यवस्त्राद्यभियोगेहिरण्यं गृहीतन्नान्यदिति। व्यस्तपदम्। ऋणादानाभियोगे पदान्तरेणोत्तरम्। यथा सुवर्णशताभियोगे अने-नाहन्ताडित इति। अव्यापि देशस्थानादिविशेषणाव्यापि। यथा मध्यदेशे वाराणस्यां पूर्ब्ब स्यां दिशि क्षेत्रमनेनापहृत-मिति पूर्व्वपक्षे लिखिते क्षेत्रमपहृतमिति। निगूढार्थंयथा सुवर्णशताभियोगे किमहमेवास्मै धारयामीत्यत्रध्वनिना प्राड्विवाकः सभ्योवाथीं वान्यस्मै धारयतीतिनिगूढार्थम् आकुलं पूर्व्वापरविरुद्धम्। यथा सुवर्णश-ताभियोगे कृते सत्यं गृहीतन्न धारयामीति। व्याख्या-गम्यम् दुःश्लिष्टविभक्तिसमासाध्याहाराभिधानेन अन्यदेश-भाषाभिधानेन वा। यथा सुवर्ण्णशतविषये पितॄणामभि-[Page1091-b+ 38] योगे गृहीतं शतं वचनात् सुवर्ण्णानां पितुर्न जानामीति। अत्र पितुर्वचनात् सुवर्ण्णानां शतं गृहीत-मिति न जानामीति। अन्याय्यं न्यायविरुद्धम्। यथासुवर्णशतमनेन वृद्ध्या गृहीतं वृद्धिरेव दत्ता न मूलमितिअभियोगे सत्यं वृद्धिर्दत्ता न मूलं गृहीतमिति। उत्तर-मित्येकवचननिर्देशादुत्तराणां सङ्करोनिरस्तः। यथाहकात्यायनः।
“पक्षैकदेशे यत्सत्यमेकदेशे च कारणम्। मिथ्या चैवैकदेशे च सङ्करात्तदनुत्तरमिति”। अनुत्तरत्वेकारणन्तेनैवोक्तम्।
“नचैकस्मिन् विवादे तु क्रिया स्या-द्वादिनोर्द्वयोः। नचार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वय-मिति”। मिथ्याकारणोत्तरयोः सङ्करेऽर्थिप्रत्यर्थिनोर्द्वयोःक्रिया--प्राप्नोति।
“मिथ्या क्रिया पूर्व्ववादे कारणेप्रतिवादिनीति स्मरणात्। तदुभयमेकस्मिन् व्यवहारेविरुद्धम्। यथा सुवर्णशतं रूपकशतं चानेन गृहीतमित्य-भियीप सुवर्ण्णं न गृहीतं रूपकशतं गृहीतं प्रतिदत्तञ्चेति। कारण प्राङ्न्यायसङ्करे तु प्रत्यर्थिन एव क्रियाद्वयम्।
“प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियामिति”। यथा सुवर्णं गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेण प-राजित इति। अत्र च प्राङ्न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर्वा भावयितव्यम्। कारणोत्तरे तु साक्षि-लेख्यादिभिर्भावयितव्यमिति विरोधः। एवमुत्तरत्रयसङ्करेऽपि द्रष्टव्यम्। यथाऽनेन सुवर्णं रूपकशतंवस्त्राणि च गृहीतानीत्यभियोगे सत्यं सुवर्णं गृहीतंप्रतिदत्तञ्च रूपशतं तु न गृहीतं वस्त्वविषये पूर्वन्या-येन पराजित इति। एवञ्चतुःसङ्करेऽपि। एतेषाञ्चानु-त्तरत्वं योनपद्येन। तस्य तस्यांशस्य तेन तेन विनाऽसिद्धेः क्रमेणोत्तरत्वमेव। क्रमश्चार्थिनः प्रत्यर्थिनःसभ्यानाञ्चेच्छया भवति यत्र पुनरुभयोः सङ्करे यस्य प्र-भूतार्षबिषयत्वन्तत्क्रियोपादानेन पूर्ब्बं व्यवहारः प्रव-र्त्तवितव्यः पश्चादल्पविषकीत्तरोपादानेन व्यवहारो द्र-ष्ट{??}यः। यत्र च सम्प्रतिपत्तेरुत्तरान्तरस्य सङ्करस्तत्रोत्तरा-न्तरीपादानेन व्यवहारो द्रष्टव्यः। सम्प्रतिपत्तौ क्रिया-भावात्। यथाहारीतेन
“मिथ्यीत्तरङ्कारणञ्च स्याता-मेकत्र चेदुभे। सत्यं वापि सहान्येन तत्र ग्राह्यंकिमुत्तरम्” इत्युक्त्वोक्तम्।
“यत् प्रभूतार्थविषयं यत्र वास्यात् क्रियाफलम्। उत्तरन्तत्र तज्ज्ञेयमसङ्कीर्णमतो-ऽन्यथा”। सङ्कीर्ण्णम्भवतीति शेषः शेषायेक्षया ऐच्छिकःक्रमो भवतीत्यर्थः। तत्र प्रमूतार्थं यथाऽनेन सुवर्ण्णं[Page1092-a+ 38] रूपकशतं वस्त्राणि च गृहीतानि इत्यभियोगे सत्यंसुवर्णं गृहीतं रूपकशतञ्च न गृहीतं वस्त्राणि तु गृ-हीतानि प्रतिदत्तानि चेति अत्र मिथ्योत्तरस्य प्रमूत-विषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्त्तयि-तव्यः। पश्चाद्वस्त्रविषयो व्यवहारः। एव मिथ्या-प्राङ्न्यायसङ्गरे कारणप्राङ्न्यायसङ्करे च योजनीयम्। तथा तस्मिन्नेवाभियोगे सत्यं सुवर्णं रूपकशतञ्च गृहीतन्दास्यामि वस्त्राणि तु न गृहीतानि गृहीतानि प्रति-दत्तानीति वा। वस्त्रविषये पूर्ब्बं पराजित इति वो-त्तरे सम्प्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियामावान्मिथ्याद्युत्तरक्रियामादायं व्यवहारः प्रवर्त्तयितव्यः। यत्र तुमिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वम्। यथाशृङ्गग्राहितया कश्चिद्वदति इयङ्गौर्मदीया अमुकस्मिन्काले नष्टा अथास्य गृहे दृष्टेति। अन्यस्तु मिथ्यैत-देतत्प्रदर्शितकालात् पूर्ब्बमेवास्मद्गृहे स्थिता मम गृहेजाता चेति वदति। इदन्तावत् पक्षनिराकरणसमर्थत्वा-न्नानुत्तरम्। नापि मिथ्यैव कारणोपन्यासात्। नापिकारणम्। एकदेशस्याभ्युपगमाभावात्। तस्मात् सका-रणं मिथ्योत्तरमिदम्”। अत्र कश्चिद्विशेषोव्यव॰ त॰ दर्शितः यया
“कात्यायनः।
“सद्यः कृतेषुकार्य्येषु सद्यएव विवादयेत्। कालातीतेषु वा कालंदद्यात् प्रत्यर्थिने प्रभुः”। वादिनोक्तस्य साध्यस्य प्रतीपमर्थयते इति प्रत्यर्थी। नारदः।
“गहनत्वाद्धि वादा-नामसामर्थ्यात् स्मृतेरपि। ऋणादिषु हरेत् कालं काम-न्तत्त्वबुभुत्सया” दा॰। वृहस्पतिः।
“यदा त्वेवंविधः पक्षःकल्पितः पूर्व्ववादिना। दद्यात् तत्पक्षसम्बन्धं प्रतिवादीतदोत्तरम्”। सम्बन्धमुयुक्तम् अन्यथा अन्यवादि-त्वेन भङ्गप्रसङ्गात्।
“अन्यवादी क्रियाद्वेषी तोप-स्थायी निरुत्तरः। आहूतः प्रपलायी च हीनः पञ्च-विधः स्मृतः”। प्रपलायी त्रिपक्षेण मीनकृत् सप्तभिर्दिनैः। क्रियाद्वेषी तु मासेन साक्षिभिन्नस्तु तत्क्षणात्” इतिनारदोक्तेः क्रिया लेख्यादिका, साक्षिभिन्नः पराजितः। वादिनोक्तस्य साध्यस्य प्रतीपं वदतीति प्रतिवादी उत्ती-र्य्यते निस्तीर्य्यते प्रकृताभियोगोऽनेनेति उत्तरम्। उत्तरस्वरूपं तद्भेदांश्चाह नारदः।
“पक्षस्य व्यापकंसारमसन्दिग्धमनाकुलम्। अव्याख्यागम्यमित्येवमुत्तरंतद्विदोविदुः। मिथ्यासंप्रतिपत्तित्वं प्रत्यवस्कन्दनन्तथा। प्राङ्त्यायश्चोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभि। अभि-[Page1092-b+ 38] युक्तोऽभियोगस्य यदि कुर्य्यादपह्नवम्। मिथ्या तत्तुविजानीयादुत्तरं व्यवहारतः”। पक्षस्य माषार्थस्यव्यापकम् आच्छादम् अभितोगप्रतिकुलमिति यावत्। अतएव
“पूर्ब्बपक्षार्थसम्बन्धं प्रतिपक्षं निवेदयेदि” त्युक्तम्। न च विप्रतिपत्त्या न्यायोऽर्थमागतस्य धारयसीत्यभि-युक्तस्य धारयामीति संप्रसिपत्तेः कथमुत्तरत्वम् अभियोगाप्रतिकुलत्वादिति वाच्यम् भाषावादिनोमूर्खत्वेनापटु-करणतया वा कदाचिद्भाषातिवादादेवायं हीयते इतिभाषाविमर्षपर्य्यन्तं विप्रतिपन्नस्याप्युत्तरवादिनोभाषार्थंसम्यगवगम्य तन्निषेधार्थं सम्यगुत्तरासम्भवात् विद्वत्सभायां चासत्यवचनमत्यन्ताधर्म्मकारकम्। परोक्तिपराजयेच दण्ड्यत्वं वादिना च वैरमित्यादि प्रतिसन्दधतःसम्प्रतिपत्तेरुत्तरत्वं सम्भवत्येव। एवम् एतेभ्य एवानि-स्तारात् साध्यत्वे नोपदिष्टस्य पक्षस्य सिद्धत्वेनोपन्यासेनसाध्यत्वनिवारणात् सिद्धसाधनेनापि वादिनः प्रत्यव-स्थानाच्चोत्तरत्वं सम्प्रतिपत्तेः सिद्ध्वमिति सारं प्रकृतोप-योगि अनाकुलं पूर्व्वापरविरोधशून्यं अव्याख्यागम्य-मध्याहारादिकं विनैव प्रतीतम् अभियोगस्य अभियुज्यतेइत्यभियोगः सहेतुकं साध्यं तस्यापह्नवमित्यर्थः”।
“उत्त-राभासमाह कात्यायनः।
“प्रकृतेन त्वसम्बन्धमत्यल्पमति-भूरि च। पक्षैकदेशव्याप्येवं तच्च नैवोत्तरं भवेत्। अस्त-व्यस्तपदव्यापि निगूढार्थं तथाकुलम्। व्याख्यागम्यमसा-रञ्च नोत्तरं शस्यते बुधैः”। अस्तव्यस्तपदव्यापि अनन्वि-तार्थपदव्याप्तमिति व्यवहारतिलके भवदेवभट्टाः। सिथ्यो-त्तरभेदमाह पुनर्व्यासनारदौ।
“मिथ्यैतन्नाभिजानामिमम तत्र न सन्निधिः। अजातश्चास्मि तत्काले इतिमिथ्या चतुर्विधन्”। मिथ्यैतदितिशब्दतोनाभिजानामी-व्यादिकमर्थतोऽपह्नवः। तथा च कात्यायनः।
“श्रुत्वाभाषार्थमन्यस्तु यदि तं प्रतिषेधति। अर्थतः शब्दतोवापिमिथ्या तज्ज्ञेयमुत्तरम्”। त्वं मह्यं धारयसीति प्रति-ज्ञायां न गृहीतमिति शब्दतः। कालविशेषगर्भायां तस्यांसत्यां तदानाहं जात इति अर्थतः। देशकालविशेषगर्भा-यां तदा तत्र नाहमासम् इत्यप्यर्थतः। देशादिमत्यां तच्-छून्यायां वा न जानामीत्यर्थतएव योम्यास्मरणेनार्थतस्त-दग्रहणप्रतिपादनात्। अत्र चरमत्रयं ग्रहणावस्कन्दनमु-खेन ग्रहणाभावप्रतिपादकं सापदेशमिथ्योत्तरमात्रम् आद्यंमिथ्योत्तरमात्रम्। तच्च कारणोत्तरं त्रिविधं वलवत्तु-ल्यवलं दुर्वलञ्च तत्र बलवदुत्तरं यथा त्वत्तः तं गृहीत-[Page1093-a+ 38] मिति सत्यं किन्तु परिशोधितमिति अत्रोत्तरवादिनएव क्रियानिर्देशः। तथा च नारदः।
“आधर्य्यं पूर्व-पक्षस्य यस्मिन्नर्थवशाद्भवेत्। विवादे साक्षिणस्तत्र प्रष्टव्याःप्रतिवादिनः”। आधर्य्यं दुर्बलत्वं पूर्व्वपक्षस्य। ततश्चस्थापकसाध्यस्य धार्य्यमाणत्वस्य ध्वंसकारणं निर्य्यातनादितद्रूपमुत्तरं कारणोत्तरम्। अतएव मिथ्योत्तरादस्य भेदःतद्ध्वि धार्य्यमाणत्वस्यात्यन्ताभावप्रयोजकमग्रहणरूपं न तुध्वंसरूपम्। तुल्यवलकारणोत्तरं यथा मदीयेयं भूमिःक्रमागतत्वादिति वाद्युक्ते मदीयेयं भूमिः क्रमागतत्बादितिप्रतिवादिना तथीत्तरमिति तत्र पूर्ववादिनः साक्ष्युप-न्यासः। तदसामर्थ्ये प्रतिवादिनः। तथा च याज्ञवल्क्यः।
“साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः। पूर्वपक्षेऽ-धरीमूते भवन्त्युत्तरवादिनः”। दुर्बलकारणोत्तरं यथाममेयं भूः क्रमागतत्वादिति वाद्युक्ते ममेयं भूर्दशवर्षभुज्य-मानत्वादिति प्रत्युत्तरम्” व्य॰ त॰ रघु॰।
“शोधयेत् पूर्ब्बवादं तु यावन्नोत्तरदर्शनम्। अवष्टब्धस्यी-त्तरेण निवृत्तं शोधनं भवेत्” नार॰।
९ न्यायावयवभेदेन॰।
“विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्। निर्ण्णय-श्चेति सिद्धान्ताः शास्त्रेऽधिकरणं स्मृतम्” मीमांसा। तच्चसिद्धान्तानुकूलतर्कोपन्यासरूपम्।
१० प्रतिवचने न॰
“प्रचक्रमेच प्रतिवक्तुमुत्तरम्” रघु॰।
११ उपरिस्थे,
“समे देशे प्रतिष्ठाप्यचेलाजिनकुशोत्तरम्” गीता।
“मृदुप्रवालोत्तरपुष्पशय्याम्” रघुः
१२ ऊर्द्ध्वमागे
“तद्वाहनादवनतोत्तरकायमीषत्” रघुः
“दूर्वाङ्कुरयवप्लत्वक्षत्वगभिन्नपुटोत्तरः इति रघुः।
१३ वाम-मागे।
“पितृपात्रे निधायार्घं न्यब्जमुत्तरतोन्यसेत्” मत्स्यपु॰।
“न्यसेदित्यत्राख्यातोपस्थापितकर्तुर्वामपार्श्वे न्यासःकर्तव्यः” श्रा॰ त॰ रघु॰। तस्य तदर्थत्वे उदा॰ तत्रैव यथा
“तस्माद्यस्य दक्षिणतो लक्ष्म भवति तं पुण्यलक्ष्मीकमित्या-चक्षते उत्तरतः स्त्रियाः उत्तरायणा हि स्त्रीति” शत-पथश्रुतिः।
“उत्तरे चास्य सौवर्ण्णं लक्ष्म पार्श्वे भविष्यति” भारतम् दिशि
“अस्त्युत्तरस्यां दिशि देवतात्मात्मा” कुमा॰।
“सर्वेषाञ्चैव वर्षाणां मेरुत्तरतः स्थितः” पृ॰ अत्र वृत्तौपुंवद्भावः। दिग्दिशकालवर्त्तिपरत्वेऽपि अस्य स्वाभिधेयावधिनियमरूपव्यवस्थावाचित्वात् सर्वनामतया तत्कार्य्यम्उत्तरे ग्रामाः उत्तरस्यै नगर्य्यैः उत्तरस्मिन् दिने, संज्ञायांतु न सर्वनामकार्य्यम् उत्तराः कुरवः। तत्रोत्त रकालवृत्तौ
“ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोदुत्सवः” रघुः
“सखोभिरस्रोत्तरमीक्षित्ममिमाम्” कुमा॰। अवधिश्च[Page1093-b+ 38] द्विविधःदशिकः कालिकश्च तत्र दैशिकः
“समुद्रस्योत्तरे तीरेजम्भला नाम राक्षसी” गर्भप्रसवमन्त्रः। अत्र दिग्देशा-वधिवाचित्वे उद् + ऊर्द्ध्वार्थे तरप्। तथा हि लङ्कावधि-मेरुपर्य्यन्तदेशानाम् भूवलये क्रमश उन्नतत्वात् तत्सन्नि-हितदेशस्य उन्नत्वादुत्तरत्वम्
“स्वापेक्षया मेरुसन्नि-हितत्वमेव उत्तरत्वमिति” मुक्ता॰। अतएव तद्देशस्यो-च्चत्वादेव च क्रमशस्तत्र उत्तरध्रुवस्यौन्नत्यम्” सि॰ शि॰उक्तम्
“निरक्षदेशे क्षितिमण्डलोपगौ ध्रवौ नरःपश्यति दक्षिणोत्तरौ। तदाश्रितं स्वे जजयन्त्रवत्तथाभ्रमद्भचक्रं निजमस्तकोपरि। उदग्दिशं याति नरोयथा यथा तथा तथा तन्नतमृक्षमण्डलम्। उदकंध्रुवपश्यति चोन्नतं क्षितेस्तदन्तरे योजनजाः पनांशकाः” तद्दिशः क्रमशः उच्चत्वाच्च दक्षिणस्या अधस्त्वम्। अतएवतद्दिशोऽवाचीत्वम्। तद्दिक्कृतदेशस्यापि उत्तरदिक्स्थत्वेनो-त्तरत्वम्। कालिकस्य उत्तरत्वं तु स्वापेक्षया परत्वम् तच्चस्वापेक्षया ऽल्पसूर्य्यक्रियासामानाधिकरण्यम्। सूर्य्य-क्रिययैव स्वण्डकालव्यवहारात् तत्र प्राग्वर्त्तिका-लवृत्तेः वहलसूर्य्यक्रियासामानाधिकरण्यात् तथा-त्वम्। तथा च एतादृशार्थपरत्वे उदः उत्क्रान्तिप्रकर्षे तरप्। उत्तरकालवाचित्वेऽपि अव्यवहिते एवास्यवृत्तिरौत्सगिकी लक्षणया अधिककालोत्तरत्वमपि प्रता-य्यते। तेन स्याव्यवहितोत्तरक्षणवृत्तिकत्वमित्यादिप्रयोगो-द्रष्टव्यः। अधिकार्थे तु उदः उत्कर्षार्थत्वमिति विवेकः।
१४ प्रधाने
“धर्मोत्तरं मध्यममाश्रयन्ते” रघुः
“कस्मा-त्तात तवाद्येह शोकोत्तरमिदं मनः” भा॰ अनु॰
१६
३ अ॰
१५ अधिके
“देवीं तु मनसा ध्यात्वा शतमष्टो-त्तरं जपेत्” तन्त्रम्।
“सप्तोत्तरं मर्मशतं द्वे चसन्धिगते तथा” या॰ स्मृ॰। उत्तीर्य्यतेऽस्मात्संसारः अपादाने अप्।
१६ विष्णौ पु॰।
“उत्तरोगो-पतिर्गोप्ता” विष्णुस॰
“जन्मसंसारबन्धनादुत्तरन्त्यतउत्तरः विश्वस्मात् वा उत्कृष्टः--भा॰।
१७ शिवे पु॰तस्यापि तथात्वात्। भावे अप्।
१८ उत्तरणे उल्लङ्घने।
१९ विराटनृपस्य पुत्रे पु॰ स च भूमिञ्जयापरनामा।
२० तत्कन्यायां स्त्री तत्कथा यथा भा॰ विरा॰प॰
३५
१३
६ अ॰।
“दृष्ट्वा भूमिञ्जयं नाम पुत्रं मत्स्यस्यमानिनम्” इत्युपक्रम्य
“उवाच रहसि प्रीतः कृष्णांसर्वार्थकोविदः। उत्तरं ब्रूहि कल्याणि। क्षिप्रंमद्वचनादपि”।
“उत्तरायाः प्रमुखतः सर्वं जान-[Page1094-a+ 38] न्नरिन्दमः”
“अथोत्तरा च कन्याश्च स ख्यस्तमब्रुवंस्तदा”
“यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान्” इति च। उत्तरा च अभिमन्योः पत्नी तत्कथापि तत्रैव
७१ , अ॰।
“उत्तरां प्रतिगृह्णातु सव्यपाची धनञ्जयः” इति विराटेनोक्ते
“प्रतिगृह्णाम्यहं राजन्! स्नुषां दुहितरंतव”
“स्नुषार्थे उत्तरां राजन्! प्रतिगृह्णामि ते सुताम्”
“तां प्रत्यगृह्णात् कौन्तेयः सुतस्यार्थे धनञ्जयः। सौभद्र-स्यानवद्याङ्गी विराटतनयां तदा। तत्रातिष्ठन् महाराजोरूपमिन्द्रस्य घारयन्। स्नुषां तां प्रतिजग्राह कुन्तीपुत्रोयुधिठिरः। प्रतिगृह्य च तां पार्थः पुरस्कृत्य जनार्द्दनम्। विवाहं कारयामास सौभद्रस्य महात्मनः”
७२ अ॰।
२१ अपृष्टकथने
“कृतात्र देवी वचनाधिकारिणी त्वमु-त्तरं दासि! ददासि का सती” नैष॰। उत्तरकालभावित्वा-दुत्तरत्वाच्चास्य तथात्वमजिज्ञासिताधानतया चास्य निग्रहस्थानत्वं तदभिप्रायेण उक्तश्लोकेन निग्रहार्थकाक्षेपः कृतः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तर¦ mfn. (-रः-रा-रं)
1. Superior, high, lofty.
2. Northern.
3. Best, excellent.
4. (In composition) Fit, appertaining to.
5. Subse- quent, posterior. n. (-रं)
1. An answer, a reply.
2. (In law) A defence, a rejoinder.
3. A consequence, a result.
4. Remainder, difference, (in arithmetic.) m. (-रः)
1. The son of VIRATA. f. (-रा)
1. The wife of ABHIMANYU, the son of ARJUNA.
2. The north. E. उत् above, and तर from तृ to pass, affix अप्।
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तर [uttara], a. [उद्-तरप्]
Being or produced in the north, northern (declined like a pronoun).
Upper, higher P.I.1.34 (opp. अधर); उत्तरे-अधरे दन्ताः Śat. Br.; अवनतोत्तरकायम् R.9.6; P.II.2.1.
(a) Later-latter, following, subsequent (opp. पूर्व); पूर्वमेघः, उत्तरमेघः, ˚मीमांसा; उत्तरार्धः &c. ˚रामचरितम् later adventures of Rāma U.1.2; पूर्वः उत्तरः former-latter H.1.9; एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् Ms.2.136. (b) Future; concluding; ˚कालः subsequent time; ˚फलम्; ˚वचनम् a reply.
Left (opp. दक्षिण).
Superior, chief, excellent; dominant, powerful. आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् Rām.2.13.2; वाद्यमानेषु तूर्येषु मल्लतारोत्तरेषु च Bhāg.1.42.36.
Exceeding, transgressing, beyond; तर्कोत्तराम् Mv.2.6.
More, more than (generally as the last member of a comp. with numerals); षडुत्तरा विंशतिः 26; अष्टोत्तरं शतं 18; दशनागबलाः केचित् केचिद्दशगुणोत्तराः Rām.5.43.22.
Accompanied or attended with, full of, consisting chiefly of, followed by (at the end of comp.); राज्ञां तु चरितार्थता दुःखोत्तरैव Ś.5; चषकोत्तरा R.7.49; अस्रोत्तर- मीक्षिताम् Ku.5.61; उत्सवोत्तरो मङ्गलविधिः Dk.39,166; K.311; H.1.15; प्रवाल ˚पुष्पशय्ये R.6.5 over spread with; धर्मोत्तरम् 13.7 rich in; 18.7; कम्प ˚ 13.28;17.12; 19.23.
To be crossed over.
रः Future time, futurity.
N. of Viṣṇu.
N. of Śiva.
रा The north; अस्त्युत्तरस्यां दिशि देवतात्मा Ku.1.1.
A lunar mansion.
N. of the daughter of Virāṭa and wife of Abhimanyu.
N. of a plant (Mar. पिंपरी).
रम् An answer, reply; प्रचक्रमे च प्रतिवक्तुमुत्तरम् R.3.47; उत्तरादुत्तरं वाक्यं वदतां संप्रजायते Pt.1.6; a reply is suggested to a reply वचस्तस्य सपदि क्रिया केवलमुत्तरम् Śi.
(In law) Defence, a rejoinder.
The last part or following member of a compound.
(In Mīm.) The fourth member of an अधिकरण q. v. the answer.
The upper surface or cover.
Conclusion.
Remainder, rest, what followed or took place next; शान्तमथवा किमिहोत्तरेण U.3.26.
Superiority, excellence.
Result, the chief or prevalent result or characteristic.
Excess, over and above; see above (उत्तर a. 8).
Remainder, difference (in arith.).
A rectangular moulding (Mānasāra 13.67.)
The next step, further action; उत्तरं चिन्तयामास वानरो मरुतात्मजः Rām.5.13.59.
A cover (आच्छादन); सूस्करं सोत्तरबन्धुरेषम् Mb.6.6.9. -रम् ind.
Above.
Afterwards, after; तत उत्तरम्, इत उत्तरम् &c. शापं तं ते$भिविज्ञाय कृतवन्तः किमुत्तरम् Mb.1.36.1. -Comp. -अगारम् An upper room, garet. -अधर a. higher and lower (fig. also). (-रौ du.) the upper and under lip, the two lips; पुनर्विवक्षुःस्फुरितोत्तराधरः Ku.5.83 (स्फुरण- भूयिष्ठो$धरो यस्य Malli.). -अधिकारः, -रिता, -त्वम् right to property, heirship, inheritance. -अधिकारिन् m. an heir or claimant (subsequent to the death of the original owner). -अपरा north-west. -अभिमुख a. Turned towards the north. -अयनम् (˚यणं. न being changed to ण)
the progress of the sun to the north (of the equator); अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् Bg.8.24. cf. भानोर्मकरसंक्रान्तेः षण्मासा उत्तरायणम् । कर्कादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम् ॥
the period or time of the summer solstice. -अरणिः, -णी f. the upper अरणि (which by cutting becomes the प्रमन्थ or churner); दारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम् (दत्त्वा) Rām.6.111.116. -अर्थa. for the sake of what follows.
अर्धम् the upper part of the body.
the northern part.
the latter half (opp. पूर्वार्ध).
the further end. -अर्ध्य a. being on the northern side. -अहः the following day. -आभासः a false reply, an indirect, evasive, or prevaricating reply. ˚ता, -त्वम् the semblance of a reply without reality. -आशा the northern direction. ˚अधिपतिः, -पतिः the regent of the northern direction, an epithet of Kubera.
आषाढा the 21st lunar mansion consisting of three stars.
N. of bread-fruit or Jak tree (Mar. फणस).
आसङ्गः an upper garment; कृतोत्तरासङ्गम् K.43; Śi.2.19; Ku.5.16.
contact with the north. -इतर a. other than उत्तर i. e. southern. (-रा) the southern direction. -उत्तर a. [उत्तरस्मादुत्तरः]
more and more, higher and higher, further and further.
successive, ever increasing; ˚स्नेहेन दृष्टः Pt. 1; Y.2.136.
(रम्) a reply to an answer, reply on reply; अलमुत्तरोत्तरेण Mu.3.
conversation, a rejoinder.
excess, exceeding quantity or degree.
succession, gradation, sequence.
descending. (-रम्) ind. higher and higher, in constant continuation, more and more. उत्तरोत्तरमुत्कर्षः K. P.1; उत्तरोत्तरं वर्धते H.1.-उत्तरिन् a.
ever-increasing.
one following the other. -ओष्ठः the upper lip (उत्तरो-रौ-ष्ठः). Vārt. on P.VI.1.94. ओत्वोष्ठयोस्समासे वा -काण्डम् the seventh book of the Rāmāyaṇa. -कायः the upper part of the body; तं वाहनादवनतोत्तरकायमीषत् R.9.6.
कालः future time.
time calculated from one full moon to another. -कुरु (m. pl.) one of the nine divisions of the world, the country of the northern Kurus (said to be a country of eternal beatitude). -कोसलाः (m. pl.) the northern Kosalas; पितुरनन्तरमुत्तरकोसलान् R.9.1.-कोशला the city of Ayodhyā; यदुपतेः क्व गता मथुरा पुरी रघुपतेः क्व गतोत्तरकोशला ॥ Udb. -क्रिया funeral rites, obsequies. -खण्डम् the last section of book. -खण्डनम् refutation. -गीता N. of a section of the sixth book of the Mahābhārata. -ग्रन्थः supplement to a work. -च्छदः a bed-covering, covering (in general); शय्योत्तरच्छदविमर्द- कृशाङ्गरागम् R.5.65,17.21; नागचर्मोत्तरच्छदः Mb. -ज a. born subsequently or afterwards; चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् Y.1.59. -ज्या the versed sine of an arc (Wilson); the second half of the chord halved by the versed sine (B. and R.). -ज्योतिषाः (m. pl.) the northern Jyotiṣas. -ततिः f. Ectype (lit. subequent proceedings) उत्तरस्यां ततौ तत्प्रकृतित्वात् MS.1.4.25. शबर explains उत्तरस्यां ततौ as विकृतौ), -तन्त्रम् N. of a supplementary section in the medical work of Suśruta.-तापनीयम् N. of the second part of the नृसिंहतापनीयो- पनिषद्. -दायक a. replying, disobedient, pert, impertinent; दुष्टा भार्या शठं मित्रं भृत्याश्चोत्तरदायकाः H.2.11. -दिश् f. the north.
˚ईशः, पालः Kubera, the regent of the north.
the planet बुध. ˚बलिन्
the planet Venus.
the moon. -देशः the country towards the north.-धेय a. to be done subsequently. -नारायणः the second part of the नारायणसूक्त or पुरुषसूक्त (Rv.1.9.).
पक्षः the northern wing or side.
the dark half of a lunar month.
the second part of an argument,i. e. a reply, the reason pro. (opp. पूर्वपक्ष); प्रापयन् पवनव्याधेर्गिरमुत्तरपक्षताम् Śi.2.15.
a demonstrated truth or conclusion.
the minor proposition in a syllogism.
(in Mīm.) the fifth member of anAdhikaraṇa, q. v.
पटः an upper garment.
a bed-covering (उत्तरच्छदः). -पथः the northern way, way leading to the north; the northern country; P.V.1 77. उत्तरपथेनाहृतं च. -पथिक a. travelling in the northern country.
पदम् the last member of a compound.
a word that can be compounded with another.-पदिक, -पदकीय a. relating to, studying, or knowing the last word or term. -पर्वतकम् A variety of hides. Kāu. A.2.11. -पश्चार्धः the northwestern half. -पश्चिमa. northwestern. (-मः) the north-western country. (-मा) [उत्तरस्याः पश्चिमायाश्च दिशोन्तरालम्] the north-west; आलोकयन्नुत्तरपश्चिमेन Mb.12.335.8. -पादः the second division of a legal plaint, that part which relates to the reply or defence; पूर्वपक्षः स्मृतः पादो द्वितीयश्चोत्तरः स्मृतः । क्रियापादस्तृतीयः स्याच्चतुर्थो निर्णयः स्मृतः ॥ -पुरस्तात् ind. north-eastward (with gen.). -पुराणम् N. of a Jaina work. -पुरुषः = उत्तमपुरुषः q. v. -पूर्व a. north-eastern. (-र्वा) the north-east. -प्रच्छदः a cover lid, quilt.
प्रत्युत्तरम् a dispute, debate, a rejoinder, retort.
the pleadings in a law-suit. -फ (फा) ल्गुनी the twelfth lunar mansion consisting of two stars (having the figure of a bed). -भागः The second part.
भाद्रपद्, दा the 26 th lunar mansion consisting of two stars (figured by a couch).
N. of a plant (Mar. कडुनिंब).-मन्द्रा a loud but slow manner of singing. ˚मन्द्राद्या a. particular मूर्च्छना in music. -मात्रम् a mere reply.-मीमांसा the later Mīmāmsā, the Vedānta Philosophy, an inquiry into the nature of Brahman or Jñāna Kāṇḍa (distinguished from मीमांसा proper which is usually called पूर्वमीमांसा). -युगम् A particular measure (= 13 Aṅgulas). -रहित a. without a reply. -रामचरितम् -त्रम् N. of a celebrated drama by Bhavabhūti, which describes the later life of Rāma. -रूपम् The second of two combined vowels or consonants. -लक्षणम् the indication of an actual reply. -लोमन् a. having the hair turned upwards. -वयसम्, -स् n. old age, the declining period of life. -वरितः a kind of small syringe.-वल्ली f. N. of the second section of the काठकोपनिषद् when divided into two अध्यायs. -वस्त्रम्, -वासस् n. an upper garment, mantle, cloak; जग्राह तामुत्तरवस्त्रदेशे Mb.3.268. 24. -वादिन् m.
a defendant, respondent; (Opp. पूर्ववादिन्.) साक्षिषूभयतः सत्मु साक्षिणः पूर्ववादिनः । पूर्वपक्षे$धरीभूते भवन्त्युत्तरवादिनः ॥ Y.2.17.
one whose claims are of later date than another's. -विद् -वेदन or वेदिन् An elephant sensitive to slight stimuli (Mātaṅga L.1.29; 9.39). -वीथिः f. The northern orbit; Bṛi. S.
वेदिः the northern altar made for the sacred fire.
N. of a Tīrtha near the कुरुक्षेत्र. -सक्थम् the left thigh. -संझित a. denoted or named in reply (as a witness). (-तः) hearsay-witness. -साक्षिन् m.
a witness for the defence.
a witness deposing to facts from the reports of others. -साधक a.
finishing what remains or follows, assisting at a ceremony.
who or what proves a reply. (-कः) an assistant, helper-हनुः Ved. the upper jaw-bone.
उत्तर [uttara], a.
Crossing over.
To be crossed over, as in दुरुत्तर.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तर mfn. ( compar. fr. 1. उद्; opposed to अधर; declined Gram. 238 अ) , upper , higher , superior( e.g. उत्तरे दन्तास्, the upper teeth) RV. AV. TS. ChUp. Ragh. etc.
उत्तर mfn. northern (because the northern part of India is high) AV. Mn. Sus3r. Pan5cat. etc.
उत्तर mfn. left (opposed to दक्षिणor right , because in praying the face being turned to the east the north would be on the left hand) AV. Ka1tyS3r. MBh. etc.
उत्तर mfn. later , following , subsequent , latter , concluding , posterior , future RV. AV. Ka1tyS3r. MBh. Ragh. Hit. etc. (opposed to पूर्व, etc. e.g. उत्तरः कालः, future time ; उत्तरं वाक्यम्, a following speech , answer , reply ; फलम् उत्तरम्, subsequent result , future consequence ; वर्षो-त्तरेषु, in future years)
उत्तर mfn. followed by( e.g. 531144 स्मो-त्तरmfn. followed by " स्म" Pa1n2. 3-3 , 176 )
उत्तर mfn. superior , chief , excellent , dominant , predominant , more powerful RV. AV.
उत्तर mfn. gaining a cause (in law)
उत्तर mfn. better , more excellent RV.
उत्तर m. N. of a son of विराटMBh.
उत्तर m. of a king of the नागs L.
उत्तर m. N. of a mountain Katha1s.
उत्तर m. of several men
उत्तर m. pl. N. of a school
उत्तर n. upper surface or cover MBh. Ragh. Das3. etc.
उत्तर n. the north R. Dhu1rtas.
उत्तर n. the following member , the last part of a compound
उत्तर n. answer , reply Ragh. R. Prab. etc.
उत्तर n. (in law) a defence , rejoinder , a defensive measure
उत्तर n. contradiction Car.
उत्तर n. (in the मीमांसाphilosophy) the answer (the fourth member of an अधिकरणor case)
उत्तर n. superiority , excellence , competency R. Pan5cat. Katha1s. etc.
उत्तर n. result , the chief or prevalent result or characteristic , what remains or is left , conclusion , remainder , excess , over and above , (often ifc. e.g. भयो-त्तर, attended with danger , having danger as the result ; धर्मो-त्तर, chiefly characterized by virtue ; षष्ट्य्-उत्तरं सहस्रम्, one thousand with an excess of sixty , i.e. 1060 ; सप्तो-त्तरं शतम्, 107)
उत्तर n. remainder , difference (in arithmetic)
उत्तर n. N. of a song Ya1jn5.
उत्तर n. N. of each of the नक्षत्रs that contain the word " उत्तर"
उत्तर n. a particular figure in rhetoric
उत्तर n. N. of the last book of the रामायण
उत्तर etc. See. p. 178 , col. 1
उत्तर for 2.See. उत्-तॄ, col. 2.
उत्तर/ उत्-तर mfn. (for 1. See. p. 178 , col. 1) , crossing over
उत्तर/ उत्-तर mfn. to be crossed(See. दुर्-उत्तर).
Purana index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the father of इरावति and father-in-law of परीक्षित्. भा. I. १६. 2.
--a Pravara--sage. M. १९९. १७.
Purana Encyclopedia
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Uttara : m. (pl.): Name of a people ?
Bhīma in his expedition to the east, south, and north before the Rājasūya conquered the Uttaras along with the Uttamas (sottamān api cottarān/…vyajayat prabhuḥ) 2. 27. 3; (for other references and an alternative explanation of the word see Uttama ).
_______________________________
*3rd word in right half of page p634_mci (+offset) in original book.
previous page p633_mci .......... next page p635_mci
Mahabharata Cultural Index
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
Uttara : m. (pl.): Name of a people ?
Bhīma in his expedition to the east, south, and north before the Rājasūya conquered the Uttaras along with the Uttamas (sottamān api cottarān/…vyajayat prabhuḥ) 2. 27. 3; (for other references and an alternative explanation of the word see Uttama ).
_______________________________
*3rd word in right half of page p634_mci (+offset) in original book.
previous page p633_mci .......... next page p635_mci
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तर वि.
(उद् + तरप्) 1. उत्तरी (दिशा) (दी गयी वस्तु के) उत्तर की ओर, (बौ.शु.सू. I.28), आश्व.श्रौ.सू. 2.19.17; शां.श्रौ.सू. 17.13.2; 2. (वह) जो बाद में आता है, पश्चाद्वर्ती, दूसरा आने वाला ‘उत्तर उत्तरः प्रतिप्रस्थातुः’, का.श्रौ.सू. 9.13.4; 16.2.23; शां.श्रौ.सू. 16.13.11; मा.श्रौ.सू. 2.1.1.25।
- यन्त्रोपारोपितकोशांशः-कल्पद्रुमः
- यन्त्रोपारोपितकोशांशः-अमरकोशः
- यन्त्रोपारोपितकोशांशः-वाचस्पत्यम्
- यन्त्रोपारोपितकोशांशः-शब्दसागरः
- यन्त्रोपारोपितकोशांशः-Apte
- यन्त्रोपारोपितकोशांशः-Monier-Williams
- यन्त्रोपारोपितकोशांशः-Purana index
- संस्कतशब्दाः
- यन्त्रोपारोपितकोशांशः-Purana Encyclopedia
- यन्त्रोपारोपितकोशांशः-Mahabharata Cultural Index
- यन्त्रोपारोपितकोशांशः-Vedic Rituals Hindi