उत्तराधिकारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराधिकारी, [न्] त्रि, (उत्तरं पूर्ब्बस्वामिकस्वत्त्व- नाशानन्तरं अधिकरोति पूर्ब्बस्वामिकधने स्वा- म्यमाप्नोतीति । उत्तर + अधि + कृ + णिन् ।) प्रथमाधिकारिणः पश्चादधिकारी । दायादः । ओयारिस् इति यावनी भाषा ॥ (मृतधनोत्तरा- धिकारिणो दायभागशब्दे द्रष्टव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराधिकारिन्¦ त्रि॰ उत्तरं पूर्ब्बस्मामिस्यत्वोपरमान-न्तरमधिकरोति तद्धने स्वाप्यमाप्तोति अधि + कृ--णिनि। पूर्ब्बस्यामिस्यत्वोपरमे तद्धने स्वामित्यप्राप्ते पूर्व्वस्वामिस-म्यन्धिपुंत्रादौ स्त्रियां ङीष्। तत्र कस्व धने कस्याधिकारः। तत्र तावत् वङ्गदेशप्रचलितदायभागमतानुसारिक्रमोऽभि-धीयते तत्र तद्व्या॰ श्रीकृष्णेनोक्तम् यथा।
“अत्रायंमृतपुन्धनाधिकारिक्रमः। तत्र प्रथमं पुत्रः तदभायेपौत्रः तदभावे प्रपौत्रः, मृतपितृकपौत्र--मृतपितृपितामह-कप्रपौत्रयोस्तु पुत्रेण मह युगपदधिकारः। प्रपौत्रप-र्य्यन्ताभावे पत्नी सा च प्राप्तभर्त्तृदाया भर्त्तृकुलं[Page1099-b+ 38] तदभावे पितृकुलं वा समाश्रिता सती शरीररक्षार्थ भ-र्तृदायं भञ्जीत तथा भर्त्तुरुपकारार्थं यथाकथञ्चिद्दानादि-कमपि कुर्व्वीत न तु स्त्रीधनवत् स्वच्छन्दं विनियु-ञ्जीत। तदभावे दुहिता तत्र प्रथमं कुमारी तदभावेनाग्दत्ता, तदभावे ऊढा सा च पुत्रवती सम्भावितपुत्राच ते द्वे युगपदेवाधिकारिण्यौ, बन्ध्या पुत्रहीना विधवा चनाधिकारिणी। ऊढायाअभावे दौहित्रः। तदभावेपिता। तदभावे माता, तदभावे भ्राता, तत्रापि प्रथमंसोदरः तदभावे वैमात्रेयः, मृतस्य भ्रातृसंसृष्टत्वे तुसोदरमात्रविषये प्रथमं संसृष्टसोदर एवाधिकारी तद-भावे चासंसृष्टसोदरः, एवं वैमात्रेयमात्रविषये प्रथमंसंसृष्टवैमात्रेयः तदभावे चासंसृष्टवैमात्रेयः, यदा तुसंसृष्टोवैमात्रेयः सोदरश्चासंसृष्टः तदा तावुभौ तुल्य-वदकिकारिणौ। भ्रातॄणामभावे भ्रातृपुत्रः, तत्रापिप्रथमं सोदरभ्रातृपुत्रः तदभावे वैमात्रेयभ्रा तृपुत्रः,संसर्गे तु सोदरभ्रातृपुत्रमात्रविषये प्रथमं संसृष्टसोद-रभ्रातृपुत्रः तदभावे चासंसृष्टसोदरभ्रातृपुत्रः, वैमात्रेय-भ्रातृपुत्रमात्रविषये प्रथमं संसृष्टवैमात्रेयभ्वातृपुत्रः तद-भावे चासंसृष्टवैमात्रेयभ्रातृपुत्रः, यदा तु सोदरभ्रातृ-पुत्रोऽसंसृष्टो वैमात्रेयभ्रातृपुत्रस्तु संसृष्टः तदा द्वौभ्रातृवत्तु ल्याधिकारिणौ। भ्रातृपुत्राभावे भ्रातृपौत्रःतत्रापि भ्रातुः मोदरासोदरक्रमः संसर्गासंसर्गक्रमश्चबोध्यः। तदभावे पितृदौहित्रः स च सोदरभरिनीपुत्रःवैमात्रेयभगिनीपुत्रश्च, तदभावे पितामहः, तदभावे पिता-मही, तदभावे पितुः सहोदरः तदभावे पितुर्वैमात्रेयः। तदभावे पितृंसोदरपुत्रपितृवैमात्रेयपुत्रपितृसोदरपौत्रपि-तृवैमात्रेयपौत्राणां क्रमेणाधिकारः। तदभावे पितामह-दौहित्रः तत्रापि पितृसोदरभगिनीपुत्रः पितृ-सैमात्रेयभगिनीपुत्रश्च, वक्ष्यमाणप्रपितामहदौहित्राधिका-येऽप्येवम्, तदभावे प्रपितामहः तदभावे प्रपितामहीतदभावे पितामहसहीदरभ्रातृतद्वैमात्रेयभ्रातृतत्पुत्रपौ-त्रप्रपितामहदौहित्राः क्रमेणाधिकारिणः। एता-वत्पर्य्यन्तानां धनिभोग्यपिण्डदातॄणामभावे धनिदेय-पिण्डदातॄणां मातामहमातुलादीनामधिकारः तत्रापिप्रथमं मातामहस्तदभावे मातुलतत्पुत्रपौत्राणां क्रमेणा-धिकारः तदभावे चाधस्तनसकुल्यानां धनिभोग्यलेपदा-तॄणां प्रतिप्रणप्तृप्रभृतिपुरुषत्रयाणां क्रमेणाधिकारः,तदभागे पुनरूर्द्ध्वतनसकुल्यानां धनिदेयलेपभुग्वृद्धप्रपिता-[Page1100-a+ 38] महादितत्सन्ततीनामासत्तिक्रमेणाधिकारः, तदभावे समा-नोदकानामधिकारः! तेषामभावे चाचार्य्यस्य तदभावेशिष्यत्य तदभावे सब्रह्मवारिणीऽघिकारः, तदभावे चै-कग्रामस्थसगोत्रसमानप्रयरयोः क्रमेणाधिकारः। उक्त-पर्य्यन्तानां सर्वेषां सम्बन्धिनामभावे ब्राह्मणधनवर्ज्जंराजा गृह्णीयात्, ब्राह्मणधनन्तु त्रैविद्यादिगुणयुक्ताब्राह्मणा गृह्णीयुः। एवं वानप्रस्थधनं भ्रातृत्वेनानुमतो-ऽपरवानप्रस्थ एकतीर्थी गृह्णीयात्। तथा यतिधनंमच्छिष्यः। नैष्ठिकब्रह्मचारिणोधनमाचार्य्यः उपकुर्व्वा-णस्य तु ब्रह्म वारिणोधनं पित्रादिर्गृह्णीयादिति सङ्क्षेपः”। ( दायक्रमसंग्रहे भ्रातृदौहित्रपितृष्यदोहित्रपितामहसो-दरदौहित्राणामप्यधिकारोऽभिहितः। विवादभङ्गार्णवमतेपुत्रपौत्रदौहित्रयोरष्यधिकारः। इदन्तु वोध्यं पितृधन-विभागे जनन्याः पुत्रतुल्यांशेऽधिकारः। पितामहधनविभागे च पितुर्जनन्याः पौत्रतुल्यां शेऽधिकारः। जीवद्भागेतु पित्रा पितामहेन वा भागद्वयं ग्राह्यम् अप्राप्तस्त्रीध-नानां सर्वासां स्वस्वपत्नीनां पुत्रस्य मृतपितृपौत्रस्य चैकै-कोऽंशोदेयः, अनेकपितृकाणां तु पितृतोभागकल्पनाएवं मातृधने पितामहीधनेऽपि पितृतोभागकल्पना इति। स्थावरे तु विशेषः
“अविभक्तं स्थावरं यत् सर्वेषामेव तद्भ-वेत्” वृहस्पतिवचनात् तुल्यरूपाणां सोदरासोदराणांसमाधिकारः। स्त्रीधने विशेषस्तत्रैव।
“अत्रायं स्त्रीधनाधि-कारिक्रममिर्णयः। तत्र कन्याधने प्रथमं सोदरभ्रातुस्तद-भावे मातुस्तदभावे पितुरधिकारः। वरदत्तातिरिक्तवाग्दत्ता-धनेष्वेवं, वरदत्तधने तु वरस्याधिकार इति। ऊढाया यौ-तकधने प्रथमं कुमारी, तदभावे वाग्दत्ताऽधिकारिणी, एत-योरभावे ऊढयोः पुत्रवतीसम्भावितपुत्रयोर्युगपदधिकारः। एकस्या अभावेऽपरायाः, एतयोरभावे बन्ध्याविधवयोस्तुल्या-धिकारः, एकाभावे चापरायाः,। ततः पुत्रदौहित्रपौत्र-प्रपौत्रसपत्नीपुत्रपौत्रप्रपौत्राणां क्रमेणाधिकारः। ग्रन्य-कृन्मते तु सपत्नीपुत्पानन्तर” दौहित्रस्याधिकार इतिविशेवः। ततोब्राह्मादिविवाहपञ्चकसमयलब्धयौतकधनेभर्त्ता, भ्राता माता पिता चेति क्रमः आसुरादिविवाह-त्रयसमयणब्धयौत{??}धने माता पिता भ्राता भर्त्ता चेतिक्रमः। ततो देवरः ततोदेवरपुत्रभ्रातृश्वशुरपुत्रौ, ततो-भगिनोपुत्रः, ततोभर्त्तृभागिगेयः, ततोभ्रातृपुत्रः ततो-जामाता, ततः श्वशुरः, भ्रातृश्वशुरः,। ततआनन्तर्य्य-क्रमेण सपिण्डाः ततः सकुल्याः, ततः समानोदका[Page1100-b+ 38] इति। योतकातिरिक्तेऽपि पितृदत्ते प्रथमं कुसारी,ततः पुत्रः, ततः पुत्रवतीसम्भावितपुत्रे, ततः पौत्रदौहि-त्रप्रपौत्रसपत्नीपुत्रपौत्रप्रपौपुत्राः। ततो बन्ध्या विधवा चयुगपदधिकारिण्यौ, ततोब्राह्मादिक्रमेणैव पूर्ब्बवत् क्रमः। पितृदत्तातिरिक्ते अयौतकधने तु पुत्रकुमार्य्योर्युगपद-धिकारः, तयोरभावे पुत्रवतीसम्भावितपुत्रयोः, ततः पौत्र-दौहित्रप्रपौत्रसपत्नीपुत्रपौत्रप्रपौत्राः क्रमेणाधिकारिणः,। ततो बध्या विधवा च युगपदधिकारिण्यौ ततः पूर्ब्बवत्व्राह्मादिक्रमः”। अत्र सर्षत्रप्रमाणं दायभागेऽनुसन्धेयम्। ( चिन्तामणिमते पुत्रमृतकपौतृमृतपितापितामहक-प्रपौत्राधिकारं दायभागमतवत् सप्रपञ्चं निरूप्य अपुत्र-पुंधने विशेषोऽभिहितो यथा।
“अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्” मनुः।
“आपस्तम्बः अपुत्रधनाधिकारी आसन्नसपिण्ड-स्तदभावे व्यवहितस्तदभावे आचार्य्य स्तदभावेऽन्तेवासी”। याज्ञवल्क्यः
“पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा। तत्सुतीगोत्रजोबन्धुः। शिष्यस्मब्रह्मचारिणः। एषाम-भावे पूर्व्वस्य धनभागुत्तरोत्तरः। स्वर्य्यातस्य ह्यपुत्रस्य सर्व-वर्णेष्वयं विधिः”। पितरावित्यत्र क्रमाकाङ्क्षायामादौ मातातदभावे पिता विष्णुस्मृत्येकमूलत्वात्। तत्सुतो भ्रातृपुत्रःअपुत्रस्य पुत्रपोत्रप्रपौत्रशून्यस्य। कात्यायनः
“विभक्तेसंस्थिते द्रव्यं पुत्राभावे पिता हरेत्। भ्राता वा जननीबापि माता वा तत्पितुः क्रमात्”। पित्रर्ज्जितं पिता,भ्रात्राद्यर्ज्जितं भ्रात्रादिरिति व्यवस्थितोविकल्पः। पैष्ठी-नसिः
“अपुअस्य स्वर्य्यातस्य भ्रातृगामि धनं तदभावे पितरौलभेताम्”। देवलः
“ततीदायमषुत्रस्य विभजेरन् महोदराः। तुल्यादुहितरोवापि ध्रियमाणः पितापि वा। सवर्णाभ्रा-तरोमाता भार्य्या चेति यथाक्रमम्। एषामभावे गृह्णीयुःसकुल्याः सहवासिनः”। तुल्बाः सहोदराएव सवर्णा-भ्रातरोऽत्र वैमात्रेयाः। अत्र च देवलोक्तक्रमेण सह वि-ष्णुयाज्ञवल्क्योक्लक्रमयोर्व्विरोधमाशङ्क्य यथाक्रमितिपदं देवलीयं याज्ञवल्क्योक्तक्रमानतिक्रमेणेति हलायुधेनव्याख्यातम्। देवलवचनलिखनानन्तरं विष्णुयाज्ञव-ल्क्योक्तवचने लिखितवतः कल्पतरुकृतोऽप्येवमेवाशयः। एतच्चु न मनोरमं न हि स्वोक्तक्रममुल्लङ्घ्य परोक्तक्रमो-यथाक्रममिति स्वोक्तस्यार्थोभवितुमर्हतीति उपस्थितंविहायानुपस्थितपरिग्रहगौरवात् एवमपि पैठीनसिवच-नविरोधापरीहाराच्च। तस्मात्पूर्बपुरुषार्ज्जितधने विष्णु-[Page1101-a+ 38] याज्ञवल्क्योक्तक्रमस्तदन्यधने तु पैठोनस्याद्युक्तक्रम इतिरत्नाकरः। बौधायनः
“सपिण्डाभावे सापुल्यः तदभावेआचार्य्यः अन्तेवासी ऋत्विग्वा हरेत् तदभावे राजा”। सगौत्रजाभावे बन्धुः याज्ञवल्क्यवचनात् स च स्वबन्धुःपितृबन्धुः मातृबन्धुश्च।
“आत्मपितुःष्वसुः पुत्राआत्ममातुःष्वसुः सुताः। आत्ममातुलपुत्राश्च विज्ञेया-ह्यात्मबान्धवाः। पितुः पितुःष्वसुः पुत्राः पितुर्मातुः-ष्वसुः सुताः। पितुर्मातुलपुत्राश्च विज्ञेयाः पितृबान्ध-वाः। मातुः पितुःष्वसुः पुत्रामातुर्मातुःष्वसुः सुताः। मातुर्मातुलपुत्राश्च विज्ञेयामातृबान्धवाः”। एतेषांक्रमेणाधिकारः। तदयं संक्षेपः। आदौ पुत्रस्तदभावे-पौत्रस्तदभावे प्रपौत्रस्तदभावे साध्वी भार्य्या तदभावे दु-हिता तदभावे माता तदभावे पिता तदभावे दौहित्रस्तदभावे भ्राता तदभावे तत्पुत्रस्तदभावे आसन्नसपिण्ड-स्तदभावे यथाक्रमं व्यवहितसपिण्डस्तदभावे आसन्नसकुल्य-स्तदभावे व्यवहितसकुल्यस्तदभावे मातुलपुत्रादिः सर्वाभावेब्राह्मणधनवर्ज्जं राजगामि ब्राह्मणधने तु ब्राह्मणान्त-रमेव धनग्रहणाधिकारीति। याज्ञवल्क्यः
“वानप्रस्थयतिबह्मचारिणामृक्थमागिनः। क्रमेणाचार्य्यसच्छिष्यधर्म्म-भ्रात्रेकतीर्थिनः”। क्रमेण प्रतिलोमक्रमेण तेन ब्रह्मचारि-णोगुरुकुलस्थस्याचार्य्यः, यतेः सच्छिष्यः, वानप्रस्थस्यभ्रातृत्वेनानुमतोऽपरोवानप्रस्थएव”। ( अधिकारिक्रमे पितृदौहित्रादेरकीर्त्तनात् तस्य नाधि-कार इति विशेषः। ( स्त्रीधने विशेषः
“तत्र मनुः जनन्यां संस्थितायान्तु समंसर्वे सहोदराः। भजेरन्मातृकं रिक्थं भगिन्यश्चसनाभयः। यास्तासां स्युर्दुहितरस्तासामपि यथांशतः। मातामह्याधनात् किञ्चित् प्रदेयं प्रीतिपूर्वकम्”। सममविष-मांशम्, सनाभयः सहोदराः, भगिन्यः कुमार्य्य एव समांशा-स्तदाह वृहस्पतिः
“स्त्रीधनं स्यादपत्यानां दुहिता चतदंशिनी। अप्रत्ता चेत्समूढा तु लभते मानमात्रकम्”। अपत्यानां पुत्राणां तदंशिनीति विशेषाश्रुत्या समत्वलाभः समूढा विवाहिता मानमात्रकं द्रव्यानुसारेणकिञ्चित्। गौतमः
“स्त्रीधनं दुहितॄणामप्रत्तानामप्रतिष्ठि-तामाञ्च”।
“अप्रतिष्ठिता अनपत्या निर्धनभर्तृका दुर्भ-गा” चेति रत्नाकरादयः। एता अपुत्रा अपि पुत्रवन्मातृ-धनभाजः। मनुः
“मातुश्च यौतुकं यत्स्यात्कुमारीभागएवसः”। यौतुकं विवाहकाले पित्रादितो लव्धम्। वशिष्ठः[Page1101-b+ 38]
“मातुः पारिणाय्यं स्त्रियोविभजेरन्”। पारिणाय्यं परि-च्छदादर्शकङ्कतिकादि। याज्ञवल्क्यः
“मातुर्दुहितरः शेष-मृणात्ताभ्य ऋतेऽन्वयः”। मातुर्धनं तदृणाच्छेषं दृणशो-धनावशेषं दुहितरोभजेरन्, ताभ्य ऋते दुहितॄणामभावे-ऽन्वयः दौहित्रीदौहित्रौ मनुवचनानुरोधात्। ब्राह्म्या-दिवैवाहिकं परिच्छदादिकञ्च यत्मातुर्धनं तद्विषयमेतत्। कात्यायनः
“दुहितॄणामभावे तु ऋक्थम्पुत्रेषु तद्भवेत्। बन्धूनामप्यभावे तु भर्तृगामि तत् स्मृतम्। भगिन्योबान्धवैःसार्द्ध्वं विभजेयुः सभर्तृकाः। स्त्रीधनस्थेति धर्म्मोऽयं विमागस्तुप्रकल्पितः”। दुहितॄणामिति पारिणाय्यं विवाहकालेयौतुकलब्धं पितृदत्तञ्च यन्मातुर्धनं तत्तस्याः पुत्र्यभावेपुत्रगामि भवतीत्यर्थः तदतिरिक्तन्तु स्त्रीधनं तस्या अभावेपुत्रीपुत्रोभयगामि इत्युक्तमेव प्राक्। बन्धुदत्तमिति पित्र-तिरिक्तेन दत्तं यत्तद्भ्रातॄभगिन्यौ किन्तु कन्या तत्स-मांशा विवाहिता तु किञ्चिद्भागभागिनीति भगिन्य इत्यादे-रर्थः। अभावे पुत्रीपुत्राद्यभावे स्त्रियाधनं पतिगामी-त्यर्थः मनुः
“ब्राह्म्यदैवार्षगान्धर्ब्बप्राजापत्येषु यद्धनम्। अतीतायामप्रजायां भर्तुरेव तदिष्यते। यत्त्वस्याः स्या-द्धनं किञ्चिद्विवाहेष्वासुरादिषु। अतीतायामप्रजायांमातापित्रोस्तदिष्यते”। अप्रजायामनपत्यायाम्। गौतमः
“भगिनीशुल्कं सोदर्य्याणामूर्द्ध्वं मातुः पूर्व्वंचेत्येके”। आसु-रादिविवाहत्रयलब्धविषयमेतत्। बौधायनः
“ऋक्थं मृ-तायाः कन्यायागृह्णीयुः सोदराः खयम्। तदभावे भवे-न्मातुस्तदभावे भवेत्पितुः” वि॰ चि॰। अत्रयस्य भर्त्तृ-गामित्वमुक्तं तदभावे तत्सपिण्डानामासत्तिक्रमेणाधि-कारः। यस्य तु पितृगामितोक्ता तत्न तदभावे तत्प्रत्या-सन्नसापिण्डा अधिकारिणः इति बोध्यम्। मिताक्षरामते तु जन्माधीनस्वत्वाङ्गीकारेण पैतामहे पित्रेच धने पितापुत्रयोः पितामहपौत्रयोश्च तुल्याधिकारः। पितुः पितामहस्य चोपरमे पुत्रस्य, पौत्राणाञ्च स्वपितृ-योग्येऽशेऽधिकारः। जीवद्विभागे तु स्वार्ज्जिते पितुर्द्व्यंशहा-रिता पैतामहे तुल्यांशिता। धनिकृतविभागे तदुपरमे पुत्रा-दिकृतविभागे च धनिपत्निनामेकैकांशेऽधिकारः। दुहि-तृणान्तु प्रत्येकं स्वजातीय कल्पितभागचतुर्थांशभागिता। सामुदयिकस्वत्वाङ्गीकारेण च भ्रात्रादीनामपुत्रादीनामविभक्तत्वे संसृष्टत्वे च एकस्य मरणे इतरस्य स्वत्वस्थितेः तत्रपत्न्यादीनां न स्वत्वमुत्पद्यते तथा च विभक्तासंसृष्टधनएवपत्न्यादीनामधिकारः। पत्नीदुहितरश्चैवेत्यादि या॰ वचनात्[Page1102-a+ 38] तव्व वचनं चिन्तामणिमते

११

०० पृष्ठे दर्शितम् तस्य वचनस्यव्याख्यायाम् मिता॰ तत्क्रमोदर्शितो यथा
“तस्मादपुत्रस्य स्वर्य्यातस्य विभक्तस्यासंसृष्टिनः परि-णीता स्त्री संयता सकलमेव धनं गृह्णातीति स्थितम्। तदभावे दुहितरः। दुहितर इति बहुवचनं समानजातीयानामसमानजातीयानाञ्च समयिषमांशप्राप्त्य-र्थम्। तथा काव्यायनः।
“पत्नी भर्तुर्द्धनहरो या स्यादव्यभिचारिणी। तदभावे तु दुहिता यद्यनूढा भवेत्तदेति” वृहस्पतिरपि
“भर्तुर्द्धनहरी पत्नी तां विना दुहिता स्मृता” अङ्गादङ्गात्सम्भवति पुत्रवद्दुहिता नृणाम्। तस्मात्पितृ-धनं त्वन्यः कथं गृह्णाति मानवः” इति। तत्र चोढानूढा-समवायेऽनूढैव गृह्णाति।
“तदभावे तु दुहिता यद्यनूढाभवेत्तदेति” विशेषस्मरणात्। तथा प्रतिष्ठिताऽप्रति-ष्ठितासमवायेऽप्रतिष्ठिता तदमावे प्रतिष्ठिता
“स्त्रीधनंदुहितॄणाम् अप्रत्तानामप्रतिष्ठितानाञ्चेति” गौतमवचनस्यपितृधनेऽपि समानत्वात् नचैतत्पुत्रिकाविषयमितिमन्तव्यम्।
“तत्समः पुत्रिकासुतः” इति पुत्रियास्तत्सु-तस्य चौरससमत्वेन पुत्रप्रकरणेऽभिधानात्। चशब्दा-द्दुहित्रभावे दौहित्रो धनभाक् यथाह विष्णुः।
“अपुत्रपौत्रसन्ताने दौहित्रा धनमाप्नुयुः। पूर्ब्बेषां तुस्वधाकारे पौत्रा दौहित्रकाः समा” इति मनुरपि।
“अ-कृता वा कृता वापि यं विन्देत्सदृशात्सुतम्। पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनमिति”। तदभावे पित-रौ मातापितरौ धनभाजौ। यद्यपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते। तथापि विग्रहवाक्येमातृशब्दस्य पूर्ब्बनिपातादेकशेषाभावपक्षे च मातापितराविति मातृशब्दस्य पूर्ब्बश्रवणात्पाठक्रमावगमाद्धनसम्बन्धेऽपि क्रमापेक्षयां प्रतीतक्रमानुरोधेनैव प्रथमं माता धनभाक्, तदभावे पितेति गम्यते। किञ्च पिता पुत्रान्तरे-ष्वपि साधारणो माता तु न साधारणीति प्रत्यासत्त्य-तिशयात्
“अनन्तरः सपिण्डांद्यस्तस्य तस्य धनम्भवेदिति” वचनान्मातुरेव प्रथमन्धनग्रहणं युक्तं न च सपिण्डे-ष्वेव प्रत्यासत्तिर्नियामिका अपि तु समानोदकादिष्वप्यविशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिरेव नियामिकेत्यस्मादेव वचनादवगम्यत इति। मातापित्रोर्म्मातुरेव प्रत्या-सत्त्यतिशयात् धनग्रहणं युक्ततरम्। तदभावे पिता धन-भाक्। पित्रभावे भ्रातरी धनभाजः। तथा च मनुः। [Page1102-b+ 38]
“पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वेति अनपत्यस्यपुत्रस्य माता दायमवाप्नुयात्। मातर्यपि च वृत्तायांपितुर्माता हरेद्धनमिति” मनुवचनाज्जीवत्यपि पितरिमातरि वृत्तयां पितुर्माता पितामही धनं हरेन्न पिता। यतः पितृगृहीतन्धनं विजातीयेष्वपि पुत्रेषु गच्छति। पितामही गृहीतं तु सजातीयेष्वेव गच्छतीति पितामह्येवगृह्णातीति। एतदप्याचार्य्योनानुमन्यते। विजातींयपुत्राणामपि धनग्रहणस्योक्तत्वात्
“चतुस्त्रिद्व्येकभागिनः” इत्यादिनेति। यत्पुनः
“अहार्य्यं ब्राह्मणद्रव्यं राज्ञानित्यमिति स्थितिः” इतिमनुस्मरणम् तन्नृपाभिप्रायंन पुत्राभिप्रायम्। भ्रातृष्वपि सोदराः प्रथमं गृह्णीयुर्भि-न्नोदराणां मातृविप्रकर्षात्।
“अनन्तरः सप्रिण्डाद्यस्तस्यतस्य धनं भवेदिति” स्मरणात्। सोदराणाममावे भिन्नो-दरा धनभाजः। भ्रातॄणामप्यभावे तत्पुत्राः पितृक्तमेण्णधनभाजः। भ्रातृभ्रातृपुत्रसमवाये म्रातृपुत्राणाम-नधिकारः भ्रात्रभावे भ्रातृपुत्राणामधिकारवच-नात्। यदा त्वपुत्रे भ्रातरि स्वर्याते तद्भ्रातॄणामवि-शेषेण धनसम्बन्धे जाते भ्रातृधनविभागात्प्रागेव यदिकश्चिद्भ्राता मृतस्तदा तत्पुत्राणाम्पितृतोऽधिकारे प्राप्ते-तेषां भ्रातृणाञ्च विभज्य ग्रहणे पितृतोभागकल्पनेतियुक्तम्। भ्रातृपुत्राणानप्यभावे गोत्रजा धनभाजः गो-अजाः पितामहादयः सपिण्डाः समानोदकाश्च तत्र पिता-मही प्रथमन्धनभाक्।
“मातार्यपि च वृत्तायाम्पितुर्माताधनं हरेदिति” मात्रनन्तरं पितामह्या धनग्रहणे प्राप्तेधित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशा-भावात्पितुर्माता धनं हरेदित्यस्य धनग्रहणाधिकारप्राप्तिमात्रपरत्वादुत्कर्षे तत्सुतानन्तरम् पितामही गृह्णातीत्यविरोधः। पितामह्याश्चाभावे समानगोत्रजाः सपिण्डाःपितामहादयोधनभाजः भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात्। तत्र च पितृसन्तानाभावे पितामहीपितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः पितामहसन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूनवश्चेत्येवमासप्तमात्समानगोत्राणां सपिण्डानान्धनग्र-हणं वेदितव्यं तेषामभावे समानोदकानान्धनसम्बन्धः। ते च सपिण्डानामुपरि सप्त वेदितव्या जन्मनामज्ञानावधिका वा। यथाह वृहन्मनुः।
“सपिण्डता तु पुरुषेसप्तमे विनिवर्तते। समानोदकभावस्तु निवर्तेता चतुर्द-शात्। जन्मनाम्नोः स्मृतेरेके तत्परङ्गोत्रमुच्यत” इति। [Page1103-a+ 38] गोत्रजाभावे बन्धवोधनभाजः। बन्धवश्च त्रिविधा आत्म-बन्धवः पितृबन्धवो मातृबन्धवश्चेति। यथोक्तम्। आत्म-पितुष्वसु पुत्रा इत्यादि चिन्तामणिमते

११

०१ पृ॰ दर्शितम्तत्र चान्तरङ्गत्वात् प्रथममात्मबन्धवोधनभाजस्तदभावेपितृबन्धवस्तदभावे मातृबन्धव इति क्रमोवेदितव्यः। बन्धू-नामभावे आचार्य्यस्तदभावे शिष्यः
“पुत्राभावे यः प्रत्या-सन्नः सपिण्डस्तदभावे आचार्यः आचार्य्याभावेऽन्तेवासी” इत्यापस्तम्बस्मरणात्। शिष्याभावे सब्रह्मचारी धनभाक्येन सहैकस्मादाचार्य्यादुपनयनाध्यनतदर्थज्ञानप्राप्तिःस सब्रह्मचारी तदभावे ब्राह्मणद्रव्यं यः कश्चिच्छ्रोत्रियोगृह्णीयात्
“श्रोत्रिया ब्राह्मणस्यानपत्यस्य ऋक्थम्भजै-रन्निति” गौतमस्मरणात्। तदभावे ब्राह्मणमात्रम् यथा-ह मनुः
“सर्वेषामप्यभावे तु ब्राह्मणारिक्थमागिनः। त्रैविद्याः शुचयोदान्तास्तथा धर्म्मोन हीयत” इति। न कदा-चिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात्
“अहार्य्यं ब्राह्म-णद्रव्यं राज्ञा नित्यमिति स्थितिरिति” मनुवचनात्। नार-देनाप्युक्तम्
“ब्राह्मणार्थस्य तन्नाशे दायादश्चेन्न कश्चन। ब्राह्मणायैव दातव्यमेनस्वी स्यान्नृपोऽन्यथेति”। क्षत्रियादि-धनं सब्रह्मचारिपर्य्यान्तानामभावे राजा हरेन्न ब्राह्मणः। यथाह मनुः।
“इतरेषान्तु वर्णानां सर्वाभावे हरेन्नृपः” इति।
“पुत्राः पौत्राश्च दायं गृह्णन्ति। तदभावे पत्न्यादयइत्युक्तमिदानीन्तदुभयापवादमाह।
“वानप्रस्ययतिब्रह्मचा-रिणां रिक्भागिनः। क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः” याज्ञ॰।
“वानप्रस्थस्य यतेर्ब्रह्मचारिणश्च क्रमेण प्रतिलोमक्रमेणाचार्य्यः सच्छिष्यो धर्मभ्रात्रेकतीथीं च रिक्थस्य धनस्यभागिमः। ब्रह्मचारी नैष्ठिकः उपकुर्वाणंस्य धनं मा-त्रादयएव गृह्णन्ति। नैष्ठिकस्य धनन्तदपवादत्वेनाचार्योगृह्णाति इत्युच्यते। यतेस्तु धनं सच्छिष्पो गृह्णाति। सच्छिष्यः पुनरध्यात्मशास्त्रश्रवणधारणतदर्थानुष्ठानक्षमःदुर्वृत्तस्याचार्यादेरपि भागानर्हत्वात्। वानप्रस्थधनन्धर्म्भभ्रा-त्रेकतीर्थी गृह्णाति धर्मभ्राताएकतीर्थ्येकाश्रमी धर्मभ्रातासौए-कतीर्थी च धर्मभ्रात्रेकतीर्थी। एतेषामाचार्यादीनामभावेपुत्रादिषु सत्खप्येकतीर्थ्येव गृह्णाति” मिता॰।
“सोदरस्यासंष्टत्वेवैमात्रेयस्य च संसृष्टत्वे तुल्याधिकारः। अत्रेदं बोध्यं
“अपु-पौत्रसन्ताने” इति वदता विष्णुना प्रपौत्रस्याप्यधिकारःसूचितः तस्यापि तत्सन्तानत्वात् सपिण्डत्वाच्च अन्यथाअधिकारिशृञ्जलायाम् उपरितनामामेव कीर्त्तनात् तस्यान-धिकारत्वापत्तेः। अतएव अणादानप्रकरणे तत्सुतः पौत्र-[Page1103-b+ 38] सुतः प्रपौत्र अगृहीतवित्तःप्रपितामहकृतमृणं न दद्यादितिवदता मिताक्षराकृता प्रपौत्रस्याधिकारः सूचितः। तदध-स्तनसन्तानस्य च प्रपितामहपौत्रपर्य्यन्ताभावेऽधिकारः तेषा-मसपिण्डत्वेऽपि गोत्रजसमानोदकत्वाविशेषात् सपिण्डाधि-कारे अधन्तनानामेव प्रथमग्रहणवत् गोत्रजाधिकारेऽपि-अधस्तनानामेव ऊर्द्ध्वतनापेक्षया प्रथमं ग्रहणौचित्यादितिएतन्मते च असगोत्रसपिण्डमध्ये, दौहित्रस्यैव ग्रहणात्पितामहदौहित्रादेर्नाधिकारः। बन्धुशब्दस्य असगोत्रसपिण्डपरत्वेऽपि बन्धुशब्दस्य पारिभाषिकपरत्वेन तेनकीर्त्तनादिति बहवः। वीरमित्रोदये तु विषमशिष्टभियामातुलादीनामधिकारोव्यवस्थापितः तन्मते तेषां बन्धुपदेनग्रहणात् इति भेदः। तथा दायलब्धधने पत्न्याय-थेष्टं दानभोगादावधिकारः इति मिता॰ वीर॰ मते तुस्वामिन उपकाराभावे नटादौ दानेऽनधिकार इतिभेदः।
“आधिवेदनिकाद्यञ्चेति” याज्ञवल्क्यवच-नेन स्त्रिया ऋक्थविभागक्रयादिलब्धधनमात्रस्यस्त्रीधनत्वं व्यवस्थाप्य तद्विभागः मिता॰ दर्शितोयथा
“अतीतायामप्रजसि बान्धवास्तदबप्नुयुः” या॰। तत्पूर्व्वोक्तं स्त्रीधनमप्रजस्यनपत्यायां दुहितृदौ-हित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां यान्धवा भर्त्रा-दयोवक्ष्यमाणा गृह्णीयुः। सामान्येन बांन्धवाधनग्रहणे-ऽधिकारिणो दर्शिताः। इदाना विवाहभदेनाधिकारिभेद-माह।
“अप्रजःस्त्रीधनं भर्त्तुर्ब्राह्मादिषु चतुर्ष्वपि। दुहितॄणां प्रसुता चेच्छेषेषु पितृगामि तत्” या॰। अप्रजः-स्त्रियाः पूर्वोक्तायाब्राह्मदैवार्षप्राजापत्येष चतुर्षु विवाहेषुभार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तन्धनं प्रथमं भर्तुर्भ-वति। तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति। शेर्षष्वा-सुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तदप्रजःस्त्रीधनं पितृ-गामि। माता च पिता च पितरौ तौ गच्छतीति पि-तृगामि एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्र-हणं पूर्वमेवोक्तम्। तदभावे तत्प्रत्यासन्नानां धनग्रह-णम्। सर्वेष्वेव विवाहेषु प्रसूताऽपत्यवती चेत् दुहितॄणांतद्धनं भवति। अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते। साक्षाद्दुहितॄणाम्
“मातुर्दुहितरःशेषम्” इत्यत्रोक्तत्वात्। अतश्च मातृधनं मातरि वृतायां प्रथमं दुहितरोगृ-ह्णन्ति। तत्र चोढानूढासमवावेऽनूढा गृह्णाति। तदभावेपरिणीता तत्रापि प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठितागृह्णाति तदभावे प्रतिष्ठिता। यथाह गौतमः
“स्त्रीधनं[Page1104-a+ 38] दुहितॄणामप्रत्तानामप्रतिष्ठितानां चेति”। तत्र चशब्दा-त्प्रतिष्टितानाञ्च। अप्रतिष्ठिता अनपत्या निर्द्धना वा। एतच्च शुल्कव्यतिरेकेण। शुल्कन्तु सोदर्य्याणामेव
“भगि-नीशुल्कं सोदर्य्याणासूर्द्ध्वं मातुरिति” गौतमवचनात्। सर्वासां
“दुहितॄणां प्रसूता चेत्” इत्यस्माद्वचनात् तासांभिन्नमातृकाणां समवाये दौहित्रीणां किञ्चिदेव दात-व्यम्। यथाह मनुः
“यास्तासां स्युर्दुहितरस्तासामपियथार्हतः। मातामह्यांधनात् किञ्चित् प्रदेयं प्रीतिपूर्वक-मिति”। दुहितॄणामप्यभावे दौहित्राधनहारिणः। यथाह नारदः।
“मातुर्दहितरोऽभावे दुहितॄणां तद-न्वयः” इति तच्छब्देन सन्निहितदुहितृपरामर्शात्। दौहि-त्राणामभावे पुत्रा गृह्णन्ति।
“ताभ्य ऋते अन्वयः” इत्यु-क्तत्वात् मनुरपि दुहितॄणां पुत्राणाञ्च मातृधनसम्बन्धंदर्शयति।
“जनन्यां संस्थितायां तु समं सर्वेसहोदराः। भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः” इति मातृकं रि-कथं सर्वे सहोदराः समम्भजेरन् सनाभयोभगिन्यश्च समंभजेरन् इति सम्बन्धः न पुनः सहोदरा भगिन्यश्च संभूयभजेरन् इति इतरेतरयोगस्य द्वन्द्वैकशेषाभावाद-प्रतीतेर्विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेर्यथा देव-दत्तः कृषिं कुर्य्यादुयज्ञदत्तश्चेति। समग्रहणमुद्धारवि-भागनिवृत्त्यर्थम्। सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम्। अनपत्यहीनजातिस्त्रीधनन्तु भिन्नोदराप्युत्तमजातीयसप-त्नीदुहिता गृह्णाति तदभावे तदपत्यं तथा च मनुः
“स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथञ्चन। ब्राह्मणी-तद्धरेत् कन्या तदपत्यस्य वा भवेदिति”। ब्राह्मणीग्रहण-मुत्तमजात्युपलक्षणम्। अतश्चानपत्यवैश्याधनं क्षत्रिया-कत्या गृह्णाति। पुत्राणामभावे पौत्राः पितामहीधन-हारिणः।
“ऋक्थभाज ऋणं प्रतिकुर्य्युरिति” गौतमस्मर-णात्
“पुत्रपौत्रैरृणं देयमिति” पौत्राणामपि पिताम-ह्यृणापाकरणेऽधिकारात्। पौत्राणामप्यभावे पूर्वोक्ताभ-र्त्रादयो बान्धवा धनहारिणः”। अत्रापि पुंधनवत्स्त्रीधनेऽपि प्रपौत्राधिकारो वेदितव्यः अगृहीतवित्तस्यप्रपौत्रस्य ऋणापकरणनिषेधेन पुंधन इव स्त्रीधनेऽपितदधिकारस्य सूचितत्वात् इति स्मर्त्तव्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराधिकारिन्¦ mfn. (-री-रिणी-रि) An heir, a claimant, subsequent to the death, &c. of the original owner. E. उत्तराधिकार and इनि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तराधिकारिन्/ उत्तरा mfn. an heir or claimant subsequent to the death of the original owner , an heir who claims as second in succession L.

"https://sa.wiktionary.org/w/index.php?title=उत्तराधिकारिन्&oldid=230617" इत्यस्माद् प्रतिप्राप्तम्