उत्थानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थानम्, क्ली, (उत् + स्था + ल्युट् ।) सैन्यम् । युद्धम् । पौरुषम् । पुस्तकम् । उद्यमः । (यथा रामायणे ५ । “मम धर्म्मार्थमुत्थानं न कामक्रोधसंज्ञितम्” ।) उद्गमः । (अभ्युदयः । यथा रघुवंशे । ६ । ३१ । “निदर्शयामास विशेषदृश्य- मिन्दुं नवोत्थानमिवेन्दुमत्यै” ॥) हर्षः । वास्त्वन्तः । अङ्गनम् । चैत्यः । (धनार्ज्जन- निमित्ता चेष्टा । यथा मनुः ९ । २१५ ॥ “भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह । न पुत्त्रभागं विषमं पिता दद्यात् कथञ्चन” ॥) मलोत्सर्गः । इति हेमचन्द्रः ॥ तन्त्रम् । तत्तु स्व- मण्डलम् । सैन्यंचिन्ता च । सन्निविष्टः । उपविष्टः । इत्यमरभरतौ ॥ गात्रोत्तोलनम् । उठन इति भाषा । (यथा शाकुन्तले २ य अङ्के । “मेदच्छेद- कृशोदरं लघु भवत्युत्थानयोग्यं वपुः” ।) यथा च, “निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् । अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत्” ॥ इति तिथ्यादितत्त्वम् ॥ (पुनर्जीवनम् । मरणान- न्तरं पुनर्जीवनलाभः । यथा महाभारते । “स चापि वरयामास पितुरुत्थानमात्मनः” ॥)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--on the part of a king could overcome even fate; दैव and काल supplement one's efforts. M. २२१. 3-१२.

"https://sa.wiktionary.org/w/index.php?title=उत्थानम्&oldid=426512" इत्यस्माद् प्रतिप्राप्तम्