उत्पत्ति

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पत्तिः, स्त्री, (उत् + पत् + क्तिन् ।) उत्पतनम् । तत्पर्य्यायः । जनुः २ जननं ३ जन्म ४ जनिः ५ उद्भवः ६ । इत्यमरः ॥ संसारः ७ भवः ८ जातिः ९ । इति जटाधरः ॥ प्रभवः १० भावः ११ सम्भवः १२ जनूः १३ । इति शब्दरत्नावली ॥ (यथा मनुः । २ । ६८ । “उत्पत्तिव्यञ्जकः पुण्यः कर्म्मयोगं निबोधत” ।) (साङ्ख्यादिमते आविर्भावः । यथा, मृत्पिण्डे विद्य- मानस्य घटस्याविर्भाव एव उत्पत्तिर्यथा तथैव कारणात्मना विद्यमानानां तत्त्वानां आविर्भाव एवोत्पत्तिर्विवक्षिता ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पत्ति स्त्री।

जननम्

समानार्थक:जनुस्,जनन,जन्मन्,जनि,उत्पत्ति,उद्भव,जाति,भव,भाव

1।4।30।1।5

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्य : प्राणी

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पत्ति¦ स्त्री उद् + पत + क्तिन्।

१ ऊर्द्ध्वपतने ऊर्द्ध्वगतौ। उत्प-द्यते प्रथमतो ज्ञायतेऽनेन उद् + पद--करणे क्तिन्। प्राथ-मिकप्रतीतिविषयप्रवृत्तिसाधनेष्टसाधनताबोधके कर्मस्वरूप-ज्ञापके

२ विधिवोक्ये यथा
“स्वर्गकामोऽश्वमेधेन यजे-तेत्यादि” वाक्यम् प्रथमं यागादौ इष्टसाधनत्वं बोध-यत् तत्रं प्रवर्त्तयतीति तस्य तथात्वम् विधिशब्दे वि-वृतिः।
“योगसिद्धिर्वा अर्थस्योत्पत्त्ययोगित्वात्” जैमि॰ सू॰। उद् + पद॰ क्तिन्। आद्यक्षणसम्बन्धरूपे

३ उ-द्भवे। उत्पत्तौ वादिविपत्तयः सन्ति तथाहि असतः सदुत्-पद्यते इति बौद्धाः। प्रागुत्पत्तेरसत्कारणव्यापारा-दुत्पद्यते इति नैयायिकादयः। प्रागुत्पत्तेः सदपिकारणव्यापारादभिव्यज्यते इति सांख्या वेदान्तिनश्च प्रतिपे-दिरे तयोरवान्तरभेदः सतो विवर्त्त इति वेदान्तिनः परि-णामः इति सांख्याः। तदेतत् सांख्य॰ कौ॰। प्रदर्शितंयथा केचिदाहुरसतः
“सज्जायत इति, एकस्य सतोविवर्त्तः कार्य्यजातं न वस्तु सदित्यपरे। अन्ये तु सतो-ऽसज्जायतैति। सतः सज्जायते इति वृद्धाः। तत्र पूर्व्व-स्मिन् कक्षत्रये व्रधानं न सिध्यति। सुखदुःखमोहभेदव-त्स्वरूपपरिणामशब्दाद्यात्मकत्वं हि ऊगत्कारणस्य प्रधा-नत्वं सत्त्वरजस्तमःस्वभावत्वम्। यदि पुनरसतः सज्जायेतअसन्निरूपाख्यं कारणं कथं सुखादिरूपशब्दाद्यात्मकं स्यात्सदसतोस्तादात्म्यातुषपत्तेः। अर्थकस्य सतो विवर्त्तःशब्दादिप्रपञ्चस्तथापि सतः सज्जायत इति न स्यात्। नचाद्वयस्य प्रपञ्चात्मकत्वमपि त्वप्रपञ्चस्य प्रपञ्चात्मक-तया प्रतीतिर्भ्रम एव। येषामपि कणभक्षाक्षचरणा-दीनां सतएव कारणादसतो जन्म तेषामपि सदसतोरेकत्वा-नुपपत्तेर्न कार्य्यात्मकं कारणमिति न प्रधानसिद्धिः। अतःप्रधानसिद्ध्यर्थं प्रथमं तावत्सत्कार्य्यं प्रतिजानीते” कौ॰।
“असदकरणादुपादानग्रहणात्सर्व्वसम्भवाभावात्। शक्तस्यशक्यकरणात्कारणभावाच्च सत्कार्य्यम्” का॰
“सत्कार्य्यं कारण-व्यापारात् प्रागपीति शेषः। तथा च न सिद्धसाधनं नैया-यिकनयैरुद्भावनीयम्। यद्यपि वीजमृत्पिण्डादिप्रध्वंसा-नन्तरमङ्कुरघटाद्युत्पत्तिसपलभ्यते तथापि न प्रध्वंसस्यकारणत्वमपि तु भावस्यैव वीजाद्यवयवस्य। अभावात्तुभावोत्पत्तौ तस्य सर्वत्र सुलभत्वात्सर्वत्र सर्वकार्य्योत्पाद[Page1109-a+ 38] प्रसङ्ग इत्यादि न्यायवार्त्तिकतात्पर्य्यटीकायामभिहितम-स्माभिः। घ्रपञ्चप्रत्ययश्चासति बाधके न शक्योमिथ्येतिवक्तुमिति कणभक्षाक्षचरणमतमवशिष्यते। तत्रेदं प्रति-ज्ञातं सत्कार्य्यमिति। अत्र हेतुमाह असदकरणात्। असच्चेत्कारणव्यापारात् पूर्वं कार्य्यं नास्य सत्त्वं केनापिकर्तुं शक्यं न हि नीखं शिल्पिसहस्रेणापि शक्यं पीतंकर्तुम्। सदसत्त्वे घटस्य धर्माविति चेत् तथाप्यसतिधर्मिणि न तस्य धर्म इति सत्त्वं तदवस्थमेव तथा चनासत्त्वम् असम्बद्धेनातदात्मना वाऽसत्त्वेन कथमसन् घटः। तस्मात्कारणव्यापारादूर्द्ध्वमिव ततः प्रागपि सदेव कार्य्य-मिति। कारणाच्चास्य सतोऽभिव्यक्तिरेवावशिष्यते। सत-श्चाभिव्यक्तिरुपपन्ना। यथा पीडनेन तिलेषु तैलस्य, अव-घातेन धान्येषु तण्डुलानां, दोहनेन सौरभेयीषु पयसः। असतः करणे तु न निदर्शनं किञ्चिदस्ति। न खल्वभिव्य-ज्यमानं चोत्पद्यमानं वा क्कचिदसद्दृष्टम्। इतश्च कार-णव्यापारात् प्राक् सदेव कार्य्यमित्याह उपादानग्रह-णात् उपादानानि कारणानि तेषां ग्रहणं कार्य्येणसम्बन्धः उपादानैः कार्य्यस्य सम्बन्धादिति यावत्। एतदुक्तं भवति कार्य्येण सम्बद्धं कारणं कार्य्यस्य जनकंसम्बन्धश्च कार्य्यस्यासतो न सम्भवति तस्मात् सदिति। स्यादेतत् असम्बद्धमेव कारणैः कस्मात् कार्य्यं न जन्यते?तथा चासदेवोत्पत्स्यतेऽत आह सर्वसम्भवाभावात्। अस-म्बद्धस्य जन्यत्वे असम्बद्धत्वाविशेषेण सर्वं कार्य्यजातंसर्पस्माद्भवेत् नचैतदस्ति तस्मान्नासम्बद्धमसम्बद्धेन जन्यतेअपि तु सम्बद्धं सम्बद्धेन जन्यते इति। यथाहुःसाङ्ख्य-वृद्धाः
“असत्त्वे नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः। असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिरिति”। स्यादे-तत् असम्बद्धमपि तदेव तत् करोति यत्र यत्कारणं शक्तंशक्तिश्च कार्यदर्शनादवगम्यते अतो नाव्यवस्थेति अत आहशक्तस्य शक्यकरणात्। सा शक्तिः शक्तकारणाश्रया सर्वत्रवा स्याच्छक्ये वा। सर्वत्र चेत्तदवस्थैवाव्यवस्था शक्ये चेत्-क{??}सति शक्ये तदिति वक्तव्यम्। शक्तिभेद एव स ता-दृशो यतः किञ्चिदेव कार्यं जनयेन्न सर्वमिति चेत् हन्तभोः शक्तिविशेषः कार्य्यसम्बद्धो वा स्यादसम्बद्धो वा,सम्बद्धत्वे नासता उम्बन्ध इति सत् कार्य्यम्। असम्बद्धत्वेसैवाव्यवस्थेति सुष्ठूक्तं शक्तस्य शक्यकर णादिति। इतश्च सत्कार्य्यमित्याह कारणभावाच्च कार्य्यस्य कार-णात्मकत्वात् न हि कारणाद्भिन्नं कार्य्यं कारणञ्च स-[Page1109-b+ 38] दिति कथं तदभिन्नं कार्य्यमसद्भवेत्” सा॰ कौ॰। उत्पत्तेश्च यथा विर्भावरूपता तथाविर्भाव शब्दे

८३

० उक्तम्। ( व्याख्यात ञ्चैदस्माभिस्तट्टीकायां यथा असतः--सत्त्वेनवक्तुमशक्यात् निरुपाख्यात् अभावात् सत्--भावरूपं वस्तु,जायते जाततया व्यवह्रियते तथा हि अङ्कुरादिकं वी-जनाशानन्तरमेव, दध्यादि दुग्धनाशानन्तरमेव, उत्पद्यमानंदृश्यते अतोऽनुमीयते कार्य्यभावा अभावकारणकाः कार्य्य-त्वात् वीजनाशोत्तरजाताङ्कुरादिवत्। यत्रापि च तन्त्वा-दिषु पटकारणेषुस्वरूपेण नाशो न दृश्यते तत्राप्यनुमानेनैवतज्ज्ञानं जननीयम्। युक्तं चैतत् उत्पन्ने पटे यदितन्तवो न नष्टास्तदा तन्तवैमे इति व्यवहारविषयताम प-द्येरन् न च तथा, अतस्तत्र तन्तुव्यवहाराभावात् पटरू-पेण व्यवहाराच्च तन्तवोनष्टा इत्यनुमातव्यम्। न च कार-णनाशे दग्धतन्तुषु पटदाहवत् पटनाशापत्तिरित्याशङ्क्यम्,तन्तूनां पटकारणत्वस्याद्यापि असिद्धत्वात्, ये हि भाव-कारणका इति वदेयुस्तान् प्रत्येवैतद्दूषणमवतरेत् नाभा-वकारणतावादिनं प्रतीति सुस्थितमभावकारणवादिबौद्धा-दिमतम्। सतः त्रैकालिकबाधरहितात् कूटस्थवदपरि-णामिनः विवर्त्तः स्वाज्ञानकल्पितः स्वज्ञाननिवर्त्त्यः परि-णामविलक्षणः अत्यथाभावापत्तिः उपचारात् तथा उत्-पद्यमानं कार्य्यजातमपि विवर्त्तः न वस्तु सदिति वस्तुतःपारमार्थिकेन सत्त्वेनं नान्वितं किन्तु व्यवहारयोग्यस-त्तयान्वितम्। तथा हि शुक्तिकादौ रजतादिज्ञानं सर्वा-नुभवसिद्धं तच्च प्रत्यक्षमेव रजतं साक्षात्करोमीत्याद्यनुभ-वात् प्रत्वक्षे च विषयेन्द्रियसन्निकर्ष{??} कारणत्वात् देशा-न्तरस्थितरजतस्य च चक्षुरसन्निकृष्टतया न प्रत्यक्षविषयता। न च पूर्वज्ञातस्य रजतस्य ज्ञानेन उपनीतस्य शुक्तिकायांभ्रम इति वाच्यम् ज्ञानोपनीतस्य ज्ञानस्वीकारे साक्षा-त्कारानुभवापलापापत्तेः। अतएव न पूर्वानुभूतरजतस्मर-णमात्रमनुभवविरोधात्। अतोऽगत्या तत्र शुक्तिकायामस-द्रजतमुत्पद्यते इत्येव कल्पनीयम्। तदुत्पत्तौ च शुक्तिका-दिविषयकमज्ञानं कारणं रजतविषयसंस्कारश्च तत्सह-{??}रितया कल्पनीयः। तदेव अध्यस्तत्वम् यदुत्पन्नस्वतस्यासतो रजतस्य शुक्तिकातादात्म्येन तत्प्रत्यक्षविषयता। तत्रोत्पन्नेऽपि रजते शुक्तिकाया गनागपि व्यावहारिक-सत्त्वस्य व्याघातो न भवतीति यथा, एवं कूटस्थे अपरि-णामिनि आत्मनि स्वाज्ञायेनावृते वियदादिकमध्यस्तमु-[Page1110-a+ 38] त्पद्यते तत्र च तदज्ञानं हेतुः तत्संस्कारश्च सहकारीतितथा च विवादाध्यासिता घटादयः सति अध्यस्तास्तज्-ज्ञाननाश्यत्वे सति सत्तादात्म्येन प्रतीयमानत्वात् शुक्तिता-दात्म्येन प्रतीयमानशुक्तिज्ञाननाश्यरजतबदित्यनुमानात्अध्यस्तत्वं घटादानां सिद्धम्। अध्यस्तत्वं च साक्षात्कारि-प्रत्यक्षविषयत्वं प्रागुक्तं तच्च तस्यासतोऽप्यनुत्पत्तौ प्रत्यक्ष-विषयता न स्यादिति अध्यस्तत्वरक्षायै तस्मिन्नुत्पत्तिरप्यङ्गी-कार्य्या। ज्ञाननाश्यत्वं च तेषां मिथ्यात्वात् शुक्तिज्ञानना-श्यासद्रजतवदित्यनुमातव्यमित्यास्तां विस्तरेण इति वेदान्ति-मतम्। सतो भावात् विद्यमानादेवेत्यर्थः। असत् उत्पत्तेः,कारणव्यापाराद्वा पूर्व्वमविद्यमानं, कारणव्यापारादुत्तरन्तुजायते सद्भवतीति काणादनैयायिकादयः। सतः सत्त्वा-श्रयात् भावादेव सत्, कारणव्यापारात् प्रागपि, कारणा-वस्थारूपसूक्ष्मरूपेण विद्यमानं जायते कारणव्यापारात्तु-अभिव्यज्यतेव्यवहारयोग्यतामापाद्यते इति यावदिति वृद्धाःसाङ्ख्यादयः। एवमुत्पत्तिविषये चतुर्षु पक्षेषु स्थितेषुआद्यपक्षत्रये अनुमित्सितकार्य्यात्मककारणरूपप्रधानासिद्धिंक्रमशः प्रदर्शयितुं क्रमप्राप्तं बौद्धपक्षमाह यदि पुनरि-त्यादि। निरुपाख्यामनिर्वचनीयमिदन्तया वक्तुमशक्यमि-ति यावत् सति हि लक्षणे वस्तु तल्लक्षणवत्त्वेन वक्तुंशक्यम् अभावस्य च लक्षणाभावात् कथङ्कारं वक्तव्यता। यद्यपि भावभिन्नत्वं, सत्त्वेन प्रतीत्यनर्हत्वम्, असत्त्वेनप्रतीत्यर्हत्वं वा तल्लक्षणं कैश्चिदुच्यते तानि च सर्वाण्यपिअभावज्ञानसापेक्षतया दुर्ज्ञेयत्वादन्योन्याश्रयदोषग्रस्तत्वा-च्चालक्षणान्येव। सुखदुःखमोहात्मककार्यदर्शनात् कार-णस्यापि तथाभूतात्मकत्वमनुमित्सितं तच्च भावस्यैव कार-णतापक्षे सेत्स्यति नाभावस्य भावाभावयोस्तादात्म्यानुप-पत्तेरिति भावः। विवर्त्तवादे च कार्य्यजातस्याध्यासेनतादात्म्यभानेऽपि वस्तुतोऽसत्त्वेन सदसतोस्तादात्म्यानुपपत्त्या पूर्ववन्नानुमित्सितप्रधानसिद्धिरित्याह अथैकस्ये-त्यादि। सतोऽसज्जायते इति पक्षेऽपि सदसतोस्तदा-त्म्यानुपपत्त्यैव न प्रधानसिद्धिरित्याह सदसतोरेकत्वे-इत्यादि। एवमाद्यपक्षत्रिके प्रधानासिद्धिमुद्भाव्य सत्का-र्यपक्षे तत् साधयितुं सत्कार्यपक्षसभर्थनाय कारिकामवता-रयति सत्कार्यं प्रतिजानीते इत्यादि। कार्थं सत् कार-णव्यापारात् प्रागपि विद्यमानमित्यर्थः तेन कारणव्या-पारोत्तरं सत्त्वस्य नैयायिकादिवादिषु सिद्धत्वेन न सिद्ध-लाधनमिति दर्शयितुं विशिनष्टि कारणव्यापारादित्यादि। [Page1110-b+ 38] चतसृषु वादिविप्रतिपत्तिषु दर्शितासु असत्कार्यपक्षनिरा-करणेऽपि इतरयोः पक्षयोरनिराकरणात् तत्प्रक्षयोःप्रधानासिद्धिरित्याशङ्क्य मूले तन्निराकरणाभावेऽपि अयुक्त-त्वादेव तयोः पक्षयोर्न ग्राह्यतेति कथयितुमादौ बौद्धपक्षंदूषयितुमुत्थापयति यद्यपीत्यादि। दूषयति तथापी-त्यादि। अयमाशयः सम्बद्धं सम्बन्धिनमेव जनयतीतिनियमेन कार्यकारणयोः सम्बन्धोऽपेक्षितः वीजनाशाङ्कु-रयोश्च केनापि सम्बन्धेन न सम्बन्धिता घटते येन तयोःकार्यकारणभावः स्यात्। असम्बद्धस्य कार्यजनकत्वे सर्व-स्मात् सर्वकार्योत्पत्तिरित्यव्यवस्था स्यात्। न च वीजेष्वे-वाङ्कुरप्रागभावः न तन्तुष्वित्यत्र स्वभाव एव शरणं तथाच अङ्गुरप्रागभाव एव नियामकोभविष्यतीति वाव्यम्प्रागभावस्य सूक्ष्मावस्थातिरिक्तत्वे अङ्कुरतत्प्रागभावयोश्चविभिन्नकालिकतया केनापि सम्बन्धेन सम्बन्धित्वाभावेननियामकत्वाभावात् असम्बद्धस्य नियामकत्वे पूर्वदोषता-दवस्थ्यात्। न च प्रतियोगितासम्बन्धेन तयोः सम्बन्धि-तेति वाच्यम् अभावसम्बन्धिताया एव प्रतियोगितापदार्थ-तया तस्या अप्यस्मत्पक्षेऽसिद्धत्वात् न च वीजस्य नाशात्कथं तस्य अङ्कुरकारणत्वमिति, तस्य नाशेऽपि तदवयवस्या-नाशात् तस्यैव कारणत्वं वाच्यमिति सर्वं सुस्थम्। विब-र्त्तवादे च यद्यपि तदनन्यत्वमारम्भणशब्दादिभ्य इति शा॰

२ ,

१ ,

१४ सूत्रेण कार्यकारणयोरभिन्नत्वमेव स्वीकृतं तथापिघटपटादिज्ञानानामध्यस्तविषयकतया विषयाणां मिथ्यात्वंतैरङ्गीक्रियते तथा हि विवादाध्यासितानि घटादिज्ञा-नानि अध्यस्तविषयकाणि सत्याविषयकज्ञानत्वात् शुक्ति-कायां रजतज्ञानवदित्यनुमानेन घटादिज्ञानानामध्यस्त-बिषयकत्वं सिद्धे अध्यस्तस्य च ज्ञाननाश्यतया मिथ्या-त्वमित्यसत्त्वमेव तथा च सदसदोस्तादात्म्यानुपपत्तिदो-षेण नैतत्पक्षाश्रयणम्। किञ्च मिथ्यात्वं ज्ञाननिवर्त्त्यत्वंतच्च नेदं रजतमिति बाधबुद्ध्या यथा रजतस्य मिथ्यात्वंप्रसिद्धमेवं घटादेर्मिथ्यात्वसाधकस्य बाधस्यादर्शनान्न तस्यमिथ्यात्वमेवञ्च हेत्वसिद्धेः कथं घटादिज्ञानादावध्यस्तवि-षयकत्वसिन्निः। एतदर्थमेव असति बाधक इत्युक्तम्। तथा च शुक्तिरजतबाधकवदत्र बाधकाभावान्न तस्य मि-थ्यात्वम्। न चाद्वैतश्लतिरेव बाधिका, तस्याः अन्यार्थ-परतया द्वैताभावनिषेधपरत्वाभावात् अतएव
“नाद्वैतश्रु-रिविरीधो जातिपरत्वात्” इत्यनेन साङ्ख्यसूत्रेण श्रुतेःसमानजातीवबहुजीवपरत्वं समर्थितम्। एवं पक्षद्वय-[Page1111-a+ 38] मयुक्तिकतया निरस्य दृढयुक्तिकस्य काणादादिपक्षस्य नि-रसनीयतयाऽवशेषतां दर्शयति कणभक्षेत्यादि कणमन्नकणंभक्षयतीति कणभक्षः कणादः। अक्षं चक्षुश्चरणे यस्येतिअक्षचरणो गौतमस्तदनुसारिमतमित्यर्थःननु भावस्य सत्त्वमसत्त्वं च कादाचित्को धर्मो न तु स्वा-भाविकः तथा च उत्पत्तेः प्राक् असत्त्वं परतस्तु सत्त्वम्यथा घटे पाकात् पूर्वं श्यामता, पाकोत्तरं रक्तता, तद्वत्कालविशेषे धर्मविशेषो भविष्यतीति असत्कार्यपक्षेऽपिन काचित् क्षतिरिति शङ्कते सदसत्त्वे इति। परिहरतितथाप्यसतीति। अयमाशयः असत्त्वस्य भावधर्मत्वेउत्पत्तेः प्रागपि तस्य धर्मिणः सत्त्वं स्वीकर्त्तव्यं तथाहि धर्मसत्त्वं धर्मिसत्त्वं विनानुपपद्यमानं धर्मिसत्त्वमपितदाक्षिपति तथा चापादकेन असत्त्वरूपधर्मसत्त्वेन आपा-द्यस्य धर्म्मिसत्त्वस्य सिद्धिः इति। सत्त्वं कार्यसत्त्वं तदवस्थंउत्पत्तेः प्रागपि स्थितमिति न तदानीं धर्म्यसत्त्वासि-द्धिरित्याह तथा च नासत्त्वमिति असत्त्वधर्मिणस्तदानी-मपि सिद्धत्वान्न घर्म्यसत्त्वमित्यर्थः। तदेवोपपादयतिअसम्बद्धेनेत्यादि। असम्बद्धेन धर्म्मिणा सहेति शेषःअसत्त्वेनेत्यत्रास्यान्वयः। अतदात्मना अतत्स्वरूपेण वाअसत्त्वेन कथमसन् स्यात् असत्त्वाश्रयः स्यादित्यर्थःधर्म्मिणा सह सम्बद्धेनैव धर्मेण तदाश्रयत्वनियमात्असम्बद्धस्य च तादात्म्येनैव तथात्वनियमाच्च प्रकृते अस-त्त्वस्य घटेन सह सम्बन्धाभावात् तत्तादात्म्याभावाच्च नतदाश्रयत्वमिति भावः। सत्कार्यपक्षमुपसंहरति तस्मा-दिति। तैलस्य, तण्डुलानां, पयसश्चाभिव्यक्तिरित्यत्रा-नुकृष्याऽन्वयः। असत्त्वे कार्यस्य उत्पत्तेः प्रागसत्त्वे स-त्त्वसङ्गिभिः सत्त्वाश्रयैः कारणैः सह सम्बन्धोनास्ति। असम्बद्धस्य चोत्पत्तौ प्रागुक्ता अव्यवस्थितिः सर्वस्मात्सर्वोत्पत्तिरित्येवं रूपा अव्यवस्था। प्रथमं तत्पदं द्वि-तीयान्तं कार्यपरम्, द्वितीयं तु कारणपरं प्रथमान्तम्। कार्य्यानुकूला कारणनिष्ठैव शक्तिः कार्यजनननियामिके-त्यवसेयम् तथा च कार्यस्यासत्त्वे कथं तदनुकूलत्वं तस्याःस्यादिति समर्थयितुं शक्तेरितरनिष्ठत्वं विकल्प्य दूषयतिसा शक्तिरिति”। ( यथा च असतोन सदुत्पत्तिः सतश्चाभिव्यक्ति स्तथाछा॰ उ॰ भाष्ययोः समर्थितं यथा
“सदेव सौम्येदमग्रआसीदेकमेवाऽद्वितीयम्। तद्धैक आहुरसदेवेदमग्रआसीदेकमेवाद्वितीयं तस्मादसतःसज्जायते। कुतस्तु खलु[Page1111-b+ 38] सौम्येवं स्यादिति? होवाच कथमसतः सज्जाये-तेति?। सत्त्वेव सौम्येदमग्र आसीत् एकमेवा-द्वितीयम्। तदैक्षत बहु स्यां प्रजायेयेति” छा॰ उ॰
“सदेवसदित्यस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्व्वगतम्। एकंनिरञ्जनं निरवयवं विज्ञानं यदवगम्यते सर्व्ववेदान्तेभ्यः। एवशब्दोऽवधारणार्थः। किन्तदवध्रियते? इत्याह। इदंजनन्नामरूपक्रियावद्विकृतमुपलभ्यते यत्तत्सदेवासीदित्यासी-च्छब्देन सम्बध्यते। कदा सदेवेदमासीदित्युच्यते अग्नेजगतः प्रागुत्पत्तेः। किं नेदानीमिदं सद् येनाग्रआसीदिति विशेष्यते, न, कथं तर्हि विशेषणम्? इदानीमपीदंसदेव, किन्तु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं चेती-दञ्च भवति। प्रागुत्पत्तेस्त्वग्रे केवलसच्छब्दबुद्धिमात्र-गम्यमेवेति सदेवेदमग्र आसीदित्यवधार्य्यते।{??}प्रागुत्पत्तेर्नामवद्रूपवद्वेदमिति ग्रहीतुं शक्यं वस्तु सु-षुप्तकाल इव। यथा सुषुप्तादुत्थितः सत्त्वमात्रमवग-च्छति सुषुप्ते सन्मात्रेमेव केवलं वस्त्विति तथा प्रागुत्-पत्तेरित्यभिप्रायः। यथेदमुच्यते लोके पूर्व्वाह्णे धटा-दिसिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्यग्रामान्तरं गत्वा प्रत्यागतोऽपराह्णे तत्रैव घटशरावाद्य-नेकभेदभिन्नं कार्य्यमुपलभ्य मृदेवेदं घटशरावादि केवलंपूर्व्वाह्णे आसीदिति, तथेहोच्यते सदेवेदमग्र आसीदिति। एकमेवेति। स्वकार्य्यपतितमन्यन्नास्तीत्येकमेवेत्युच्यते। अद्वितीयमिति। मृद्व्यतिरेकेण मृदो यथाऽन्यद्घटाद्या-कारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथासद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तंप्रतिषिध्यते। अद्वितीयमिति नास्य द्वितीयं वस्त्वन्तरंविद्यत इत्यद्वितीयम्। ननु वैशेषिकपक्षेऽपि सत्सामा-नाधिकरण्यं सर्व्वस्योपपद्यते। द्रव्यगुणादिषु सच्छब्द-बुद्ध्यनुवृत्तेः। सद्द्रव्यं सन् गुणः सत् कर्म्मे त्यादिदर्श-नात्, सत्यमेर्व स्यादिदानीम्, प्रागुत्पत्तेस्तु नैवेदं कार्य्यंसदेवासीदित्यभ्यु पगम्यते वैशेषिकैः प्रागुत्पत्तेः कार्य्य-स्यासत्त्वाभ्युपगमात्। न चैकमेव सदद्वितीयं प्रागुत्-पत्तेरिच्छन्ति। तस्माद्वैशेषिकपरिकल्पितात् सतोऽन्य-त्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः। तत् तत्र हैत-स्मिन् प्रागुत्पत्तेर्वस्तुनिरूपणे एके वैनाशिका आहुर्वस्तुनिरूपयन्तोऽसदभावातात्रं प्रागुत्पत्तेरिदं जगदेकमेवा-ग्रेऽद्वितीयमासीदिति। सदभावमात्रं हि प्रागुत्पत्ते-स्तत्त्वं कल्पयन्ति बौद्धाः। न तु सत्प्रतिद्वन्द्विवस्त्वन्तर-[Page1112-a+ 38] मिच्छन्ति। यथा सच्चासदिति गृह्यमाणं यथाभूतं तद्वि-रीतं तत्त्वं भवतीति नैयायिकाः। ननु सदभावमात्रंप्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः कथं प्रागुत्पत्ते-रिदमासीदसदेकमेवाद्वितीथञ्चेति कालसम्बन्धः सङ्ख्या-सम्बन्धोऽद्वितीयत्वं चोच्यते तैः। वाढम्। न युक्तं तेषांभावाभावमात्रमभ्युपगच्छताम्। असत्त्वमात्राभ्युपगमोऽ-प्ययुक्त एवाभ्युपगन्तुरनभ्युपगमानुपपत्तेः। इदानीम-भ्युपगन्ताभ्युपगम्यते न प्रागुत्पत्तेरिति न प्रागुत्पत्तेःसदभावस्य प्रामाणाभावात्। प्रागुत्पत्तेरसदेवेति कल्प-नानुपपत्तिः। ननु कथं वस्त्वाकृते शब्दार्थत्वेऽसदेवमेवा-द्वितीयमिति पदार्थवाक्यार्थोपपत्तिस्तदनुपपत्तौ चेदंवाक्यमप्रमाणं प्रसज्येतेति चेत् नैष दोषः सद्ग्र-हणनिवृत्तिपरत्वाद्वाक्यस्य। सदित्ययं तावच्छब्दः सदा-कृतिवाचकः। एकमेवाद्वितीयमित्येतौ च समानाधिक-रणौ। तथेदमासीदिति च। तत्र नञ् सद्वाक्ये प्रयुक्तःसद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवा-द्वितोयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निव-र्त्तयति। अश्वारूढ इवाश्वालम्बनोऽश्वं तदभिमुखविष-यान्निवर्त्तयति तद्वत्। न तु पुनः सदभावमेवाभिधत्तेऽतःपुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरमिदमसदेवेत्यादि वाक्यंप्रयुज्यते। दर्शयित्वा हि विपरीतग्रहणं ततो निवर्त्त-यितुं शक्यत इत्यर्थवत्ताऽसदादिवाक्यस्य श्रौतत्वं प्रामा-ण्यञ्च सिद्धमित्यदोषः। तस्मादसतः सर्व्वाभावरूपात्स-द्विद्यमानमजायत समुत्पन्नम्। अडभावश्छान्दसः। तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेध-ति। कुतस्तु? प्रमाणात् खलु हे सौम्य! एवं स्यादसतःसज्जायते इत्येवं कुतो भवेत् न कुतश्चित्प्रमाणादेवं सम्भवती-त्यर्थः। यदपि वीजोपमर्द्देऽङ्कुरो जायमाबो दृष्टोऽभा-वादेवेति तदप्यभ्युपगमविरुद्धं तेषाम्। कथं? ये तावद्वीजा-वयवा वीजसंस्थानविशिष्टास्तेऽङ्कुरेऽप्यनुवर्त्तन्त एव नतेषामुपमर्द्दोऽङ्कुरजन्मनि। यत्पुनर्वीजाकारसंस्थानं तद्वी-जावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते यद-ङ्कुरजन्मन्युपमृद्येताथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतंतथाच सत्यभ्यु पगमविरोधः। अथ संवृत्त्याभ्युपगतं वीज-संस्थानरूपमुपमृद्यत इति चेत्। केयं संवृत्तिर्नाम किम-सावभाव उत भाव इति। यद्यभावो दृष्टान्ताभावः। अथभावस्तथापि नाभावादङ्कुरोत्पत्तिः वीजावयवेभ्योह्यङ्कुरोत्पक्षेः। अवयवा अप्युपमृद्यन्त इति चेत्। [Page1112-b+ 38] न तदवयवेषु तुल्यत्वात्। यथा वैनाशिकानां वीज-संस्थानरूपोऽवयवी नास्ति। तथावयवा अपीति तेषा-मप्युपमर्द्दानुपपत्तिः। वीजावयवानाममि सूक्ष्मावयवा-स्तदवयवानामप्यन्ये सूक्ष्मास्तदवयवा इत्येवं प्रसङ्गस्याऽ-नुवृत्तेः सर्व्वत्रोपमर्द्दानुपपत्तिः। सद्बुद्ध्यनुवृत्तेः सत्त्वा-निवृत्ति श्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति। न त्वसद्वादिनां दुष्टान्तोऽस्त्यसतः सदुत्पत्तौः। मृत्-पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनां, तद्भावे च भावात्तद-भावे चाभावात्। यद्यभावादेव घट उत् पद्येत घटार्थिनामृत्पिण्डो नोपादीयेत। अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौप्रसज्येत न त्वेतदस्त्यतो नासतः सदुत् पत्तिः। यदप्या-हुर्मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्वुद्धिर्घटबुद्धेः कारण-मुच्यते न तु परमार्थत एव मृद्घटो वास्तीति तदपिमृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमितिनासतः सदुत्पत्तिः। मृद्बुद्धिघटबुद्ध्योर्निमित्तनैमित्तकतया-नन्तर्य्यमात्रं न तु कार्य्यकारणत्वमिति चेतु नबुद्धीनां नैरन्तर्य्ये गम्यमाने वैनाशिकानां बहिर्द्वष्टान्तस्या-भावात्। अतः कुतस्तु खलु सौम्यैवं स्यादिति होवाचकथं केन प्रकारेणासतः सज्जायेतेति? असतः सदुत्पत्तौन कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः। एवमसद्वा-दिपक्षमुन्मथ्योपसंहरति सत्त्वैव सौम्येदमग्र आसीदितिस्वपक्षसिद्धिः। ननु सद्वादिनोऽपि सतः सदुत्पद्यत इतिनैव दृष्टान्तोऽस्ति।
“घटाद्घटान्तरोत्पत्त्यदर्शनात्। सत्यमेवं न सतः सदन्तरमुत्पद्यते किं तर्हि सदेव संस्था-नान्तरेणावतिष्ठते। यथा सर्पः कुण्डली भवति। यथाच मृच्चूर्ण्णं पिण्डघटकपालादिप्रभेदैः। यद्येवं सदेव सर्व्व-प्रकारावस्थं कथं प्रागुत्पत्तेरिदमासीदित्युच्यते। ननु नश्रुतं त्वया सदेवेत्यवधारणमिदंशब्दवाच्यस्य कार्य्यस्य। प्राप्तंतर्हि प्रागुत्पत्तेरसदेवासीन्नेदं शब्दवाच्यमिदानीमिदं जात-मिति, न सत एवेदंशब्दबुद्धिविषयतयावस्थानात् यथा मृदेवपिण्डघटादिशब्दबुद्धिविषयेत्वेनावतिष्ठते तद्वत्। ननु यथामृद्वस्त्वेवं पिण्डघटाद्यपि तद्वत्सद्वुद्धेरन्यबुद्धिविषयत्वात्का-र्य्यस्य सतोऽन्यवस्त्वन्तरं स्यात्कार्य्यजातं यथाऽश्वाद् गौः,न पिण्डघटादीनामितरेतरव्यभिचारेऽपि मृत्त्वाध्यभिचा-रात्। यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटंतथापि पिण्डघटौ मृत्त्वं न व्यभिचरतस्तस्मान्मृन्मात्रंपिण्डघटौ, व्यभिचरत्यश्वं गौरश्वो वा गाम्, तस्मान्मृदादिसंस्थानमात्रं घटादयः। एवं सत्संस्थानमात्रमिढं सर्ब्द[Page1113-a+ 38] मिति युक्तं प्रागुत्पत्तेः सदेयेति वाचारम्भणमात्र-त्वाद्विकारसंस्थानमात्रस्य। ननु निरवयवं सत्
“निष्कलंनिष्क्रियं शान्तं निरवद्यं निरञ्जनम्”
“दिव्यो ह्यमूर्त्तःपुरुषः स बाह्याभ्यन्तरो ह्यज” इत्यादिश्रुतिभ्यो, निरवय-वस्य सतः कथं विकारसंस्थानमुपपद्यते। नैष दोषो रज्वा-द्यवयवेभ्यः सर्पादिसंस्थानवद्बुद्धिपरिकल्पितेभ्यः सदवय-वेत्यो विकारसंस्थानोपपत्तः।
“वाचारम्भणं विकारो नाम-धेयं मृत्तिकेत्येव सत्यम्”
“एवं सदेव सत्यमिति” श्रुतेः। एकमेवाद्वितीयं परमार्थत इदंबुद्धिकालेऽपि तत्सत् ऐक्षतेक्षांदर्शनं कृतवान्। अतश्च न प्रधानं साङ्ख्यपरिकल्पितंजगत्कारणम् प्रधानस्याचेतनत्वाभ्युपगमात्। इदन्तुसच्चेतनमीक्षितृत्वात्तत्कथमैक्षतेत्याह बहु प्रभूतं स्यां भवेयंप्रजायेय प्रकर्षेणोत्प्रद्येय। यथा मृद् घटाद्या-कारेण यथा वा रज्ज्वादि सर्पाद्याकारेण बुद्धि-कल्पितेन। असदेव तर्हि सर्व्वं यद्गृह्यते रज्जुरिवसर्पाद्याकारेण, न, सत एव द्वैतभेदेनान्यथागृह्यमाण-त्वान्नासत्त्वं कस्यचित् कचिदिति ब्रूमः। यथा सतोऽन्य-द्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चो-र्द्धमसत्त्वं ब्रुवते तार्किका न तथाऽस्माभिः कदाचित्-क्वचिदपि सतोऽन्यदभिधामनभिधेयं वा वस्तु परिकल्प्यतेसदेव तु सर्व्वमभिधानमभिधीयते च यदन्यबुद्ध्या यथारज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते यथा, वा पिण्ड-घटादिर्मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके। रज्जुविबेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्त्तेत यथा चमृद्विवेकदर्शिनां घटादिशब्दबुद्धी तद्वत्सद्विवेकदर्शिनामन्य-विकारशब्दबुद्धी निवर्त्तेते।
“यतो वाचो निवर्त्तन्तेऽप्राप्य म-नसा सहेति”
“अनिरुक्तेऽनिलयन
“इत्यादिश्रुतिभ्यः” भा॰वृ॰ उ॰ भाष्ये अभावादिकारश्चवादनिराकरणेन उत्-पत्तेः प्रागपि सत्कार्य्यं कारणव्यापारादभिव्यज्यते इतिस्थिरीकृतम् यथा।
“नैवेह किञ्चनाग्र आसीत् मृत्यु-नैवेदमावृतमासीत् वृ॰ उ॰।
“नैवेह किञ्चनाग्र आसीत्। इह संसारमण्डले किञ्चन किञ्चिदपि नामरूपप्रविभक्त वि-शेषं नैवासीत् न बभूव। प्रागुत्पत्तेर्मन आदेः किं शून्य-मेव स्यात्, नैवेह किञ्चनेति श्रुतेः न, कार्य्यं कारणं वासी-दुत्पत्तेश्च। उत्पद्यते हि घटः। अतः प्रागुत्पत्तेर्घटस्यनास्तित्वम् नतु कारणस्य नास्तित्व” मृत्पिण्डादि-दर्शनात्। यन्नोपलभ्यते तस्यैव नास्तिता। अस्तुकार्य्यस्य,नतु कारणस्य, उपलभ्यमानत्वात् न प्रागुत्पत्तेः सर्व्वा-[Page1113-b+ 38] नुपलम्भात्, अनुपलब्धिश्चेदभावो हेतुः सर्व्वस्य जगतःप्रागुत्पत्तेर्न कारणं कार्य्यञ्चोपलभ्यते। तस्मात्सर्वस्यैवा-भावोऽस्तु, न मृत्युनैवेदमावृतमासीदिति श्रुतेः। यदि हि किञ्चिदपि नासात् येनाव्रियते यच्चाव्रियतेतदा नावक्ष्यन्मृत्युनैवेदमावृतमिति। न हि भवति गग-नकुसुमच्छन्नी बन्ध्यापुत्र इति। ब्रवीति च मृत्युनैवेदमा-वृतमासीदिति। तस्माद्येनावृतं कारणेन यच्चावृतं कार्य्यंप्रागुत्पत्तेस्तदुभयमासीच्छ्रुतेः प्रामाण्यात् अनुमेय-त्वाच्च। अनुमीयते च प्रागुत्पत्तेः कार्य्यकारणयोर-स्तित्वम् कार्य्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्ति-दर्शनात् असति चादर्शनात्। जगतोऽपि प्रागुत्पत्तेःकारणास्तित्वमनुमीयते घटादिकारणास्तित्ववत्। घटा-दिकारणस्याप्यसत्त्वमेवानुपमृद्य मृत्पिण्डादिकं घटाद्य-नुत्पत्तेरिति चेन्न मृदादेः, कारणत्वात्। मृत्सुवर्णादिहि तत्र कारणं घटरुचकादेः न पिण्डाद्याकारविशेषःतदभावे तदभावात्। असत्यपि पिण्डाकारविशेषे मृत्सुव-र्ण्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते। तस्वान्न पिण्डाकारविशेषो घटरुचकादिकारणम्। अ-सति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इतिमृत्सुवर्ण्णादिद्रव्यमेव कारणं नतु पिण्डाकारविशेषः। सर्व्वं हि कारणं कार्यमुत्पादयत् पूर्वोत्पन्नस्यात्मकार्यस्यतिरोधानं कुर्व्वत् कार्यान्तरमुत्पादयति। एकस्मिन्कारणे युगपदनेककार्य्यविरोधात्। न च पूर्व्वकार्य्योपमर्देकारणस्य स्वात्मोपमर्दो भवति। तस्मात् पिण्डाद्युपमर्देकार्य्योत्पत्तिदर्शनमहेतुः। प्रागुत्पत्तेः कारणसत्त्वे पि-ण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तरिति चेत् पिण्डादि-पूर्ब्बकार्य्योपमर्दे मृदादिकारणं नोपमृद्यते। घटादिका-र्य्यान्तरेऽप्यनुवर्तत इत्येतदयुक्तम्। पिण्डधटादिव्यतिरेकेणमृदादिकारणस्यानुपलस्भादिति चेत् न मृदादिकारणानांघटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात्। सादृ-श्यादन्वयदर्शनं कारणानुवृत्तेरिति चेन्न पिण्डादि-गतानां मृदाद्यवयवानामेव घठादौ प्रत्यक्षत्वेऽनुमानाभा-सात्मादृश्यादिकल्पनानुपपत्तेः। न च प्रत्यक्षानुमान-योर्विरुद्धा व्यभिचारिता प्रत्यक्षपूर्व्वकत्वादमुमानस्यसर्व्वत्रैवानाश्वासप्रसङ्गात्। यदि च क्षणिकं सर्वं, तदे-वेदमिति गम्यमानं तद्बुद्धेरपि अन्यतद्बद्ध्यपेक्षत्वेतस्या अप्यन्यबुद्ध्यपेक्षत्वमित्यनास्थायां तत्सदृशमिदमित्यस्याअपि बुद्धेर्मृषात्वात् सर्वत्रानाश्वासतैव। तदिदम्बुद्ध्योरपि[Page1114-a+ 38] कर्त्रभावे सम्बन्धानुपपत्तिः। मादृश्यात्सम्बन्ध इति चेन्न। तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः। असति चेतरे-तरविषये सादृश्यग्रहणानुपपत्तिः। असत्येव सादृश्येतद्बुद्धिरिति चेन्न। तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्वि-षयत्वप्रसङ्गात्। असद्विषयत्वमेव सर्व्वबुद्धीनामस्त्वेति चेन्नबुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात्। तदप्यस्त्विति चेन्न। सर्व्वबुद्धीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः। तस्मादसदेतत्सादृश्यात्तु तद्बुद्धिरित्यतः सिद्धः प्राक्कार्योत्पत्तेः कार-णसद्भावः। कार्यस्य चामिव्यक्तिलिङ्गत्वात्। कार्य्यस्य चसद्भावः प्रागुत्पत्तेः सिद्धः कथम्? अभिव्यक्तिलिङ्गत्वात्। अभिव्यक्तिर्लिङ्गमस्येत्यभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्व-प्राप्तिः। यद्धि लोके प्रावृतं तम आदिना घटादि वस्तुतत् आलोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वंप्राप्नुवत् प्राक्सद्भावं न व्यभिरचति। तथेदमपि जगत् प्रागु-त्पत्तेरित्यवगच्छामः। न हि अविद्यमानो घट उदितेऽप्यादित्य उपलभ्यते। ननु तेऽविद्यमानत्वाभावादुपलभ्य-तैवेति चेत्। न हि तव घटादिकार्य्यं कदाचिदप्यविद्य-मानमित्युदितेऽप्यादित्य उपलभ्येतैव। मृत्पिण्डेऽसन्निहितेतम आद्यावरणे चासति विद्यमानत्वादिति चेत् न द्विवि-धत्वादावरणस्य। घटादिकार्यस्य द्विविधं ह्यावरणं मृदा-देरभिव्यक्तस्य तमःकुड्यादि प्राङ्मृदोऽभिव्यक्तेर्मृदाद्यव-यवानां पिण्डादिकार्यान्तररूपेण संस्थानम्। तस्मात्प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्य्यस्यावृतत्वादनुप-लब्धिः। नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्त्वभिव्यक्तितिरो-भावयोर्द्विविधत्वापेक्षः। पिण्डकपालादेरावरणवैलक्ष-ण्यादयुक्तमिति चेत् तमःकुड्यादि हि घटाद्यावरणंघटादिभिन्नदेशं दृष्टं न तथा घटादिभिन्नदेशे दृष्टेपिण्डकपाले तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैवघटस्यावृतत्वादनुपलब्धिरित्ययुक्तमावरणधर्मवैलक्षण्यादितिचेत् न क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात्। घटादिकार्ये कपालचूर्ण्णाद्यवयवानामन्तर्भावादनावरणत्व-मिति चेत् न विभक्तानां कार्यान्तरत्वादावरणत्वोपप-त्तेः। आवरणाभाव एव यत्नः कर्तव्य इति चेत् पिण्डकपा-लावस्थयोर्विद्यमानमेव घटादिकार्यमावृतत्वान्नोपलभ्यतइति घटादिकार्यार्थिना तदावरणविनाश एव यत्नःकर्त्तव्यो न घटाद्युत्पत्तौ। न र्चतदस्ति तस्मादयुक्तंविद्यमानस्यैवावृतत्वादनुपलर्ब्धिरिति चेत् न अनिय-मात्। न हि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्ति-[Page1114-b+ 38] र्नियता तम आद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रर्यत्नदर्शनात्। सोऽपि तमोनाशायैवेति चेत् दीपाद्युत्-पत्तावपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय। तस्मिन्नष्टेघटः स्वयमेवोपलभ्यते न हि घटे किञ्चिदाधीयतइति चैत् न प्रकाशवतो घटस्योपलभ्यमानत्वात्। यथा प्रकाशविशिष्टो घट उपलभ्यते प्रदीपकरणे, नतथा प्राक् प्रदीप्रकरणात्। तस्मात् न तमस्तिरस्कारा-यैव प्रदीपकरणम् किन्तर्हि प्रकाशवत्त्वाय। प्रकाश-शत्त्वेनैवोपलभ्यमानत्वात्। क्वचिदावरणविनाशेऽपि यत्नःस्यात् यथा कुड्यादिविनाशे। तस्मान्न नियमोऽस्ति अ-भिव्यक्त्यर्थिनावरणविनाश एव यत्नः कार्य इति। निय-मार्थवत्त्वाच्च। कारणे वर्तमानं कार्यं कार्यान्तराणामाव-रणमित्यवोचाम। तत्र यदि पूर्व्वाभिव्यक्तस्य कार्य्यस्यपिण्डस्य व्यवहितस्य वा कपालस्यविनाश एव यत्नः क्रि-येत तदा विदलचूर्ण्णाद्यपि कार्य्यम् जायेत। तेनाप्या-वृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरापेक्षैव। तस्माद्घटाद्यमिव्यक्त्यर्थिनो नियत एव कारकव्यापारोऽर्थ-वान्। तस्मात् प्रागुत्पत्तेरपि सदेव कार्यम्। अतीता-नागतप्रत्ययभेदाच्च। अतीतो घटोऽनागतो घट इत्येत-योश्च प्रत्यययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम्। अनागतार्थिप्रवृत्तेश्च। नह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा। योगिनां चातोतानानतज्ञानस्य सत्यत्वात् असंश्चेद्भविष्यद्घटऐश्वरम्भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात्। नच प्रत्यक्षमुपचर्य्यते। घटसद्भावे ह्यनुमानमवोचाभविप्रतिषेधाच्च। यदि घटो भविष्यतीति कुलालादिषुव्याप्रियमाणेषु घटार्थं, प्रमाणेन निश्चितम्। येन चकालेन घटस्य सम्बन्धो भविष्यतीत्युच्यते तस्मिन्नेव कालेघटोऽसन्निति। प्रतिषिद्धमभिधीयते भविष्यद्घटोऽसन्नितिन भविष्यतीत्यर्थः अयं घटो न वर्त्तत इति यद्वत्। अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्यते घटार्थं प्रवृत्तेषु कुला-लादिषु तत्र यथा व्यापाररूपेण वर्त्तमानास्तावत् कुला-लादयस्तथा घटो न वर्त्तत इत्यसच्छब्दखार्थश्चेन्न विरुध्यतेकस्मात् स्वेन हि भविष्यद्रूपेण घटो वर्त्तते। न हि पि-ण्डस्य वर्त्तमानता कपालस्य वा घटस्य भवति। न च तयो-र्भविष्यत्ता घटस्य। तस्मात् कुलालादिव्यापारवर्त्तमान-तायां प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते। यदि घटस्ययत्स्वम्भविष्यत्ताकार्य्यरूपं तत् प्रतिषिध्येत। तत्प्रतिषेधेविरोधः स्यात्। नतु तद्भवान् प्रतिषेधति। न च सर्वेषां[Page1115-a+ 38] क्रियावतामेकैव वर्त्तमानता भविष्यत्त्वं वा। अपि चचतुर्विधानामभावानां घटस्येतरेतराभावो घटादन्यो दृष्टोयथा घटाभावः पटादिरेव न घटस्वरूपमेव। न च घटा-भावः सन् पटोऽभावात्मकः किन्तर्हि भावरूप एव घटस्यप्राक्प्रध्वंसात्यन्ताभावानामपि घटेन व्यपदिश्यमानत्वात्घट्स्येतरेतराभाववत् तथैव भावात्मकता अभावानाम्। एवञ्च सति घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्-पत्तेर्नास्ति। अथ घटस्य प्रागभाव इति घटस्य यत् स्वरूपंतदेवोच्यते, घटस्येति व्यपदेशनुपपत्तिः। अथ कल्पयित्वाव्यपदिश्येत शिलापुत्त्रकस्य शरीरमिति यद्वत्। तथापिघटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशोन घटस्वरूपस्यैव। अथार्थान्तरं घटाद्घटस्याभाव इतिउक्तोत्तरमेतत्। किञ्चान्यत्प्रागुत्पत्तेः शशविषाणवदमाव-भूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः द्विनिष्ठत्वात्सम्बन्धस्य। अयुतसिद्धानामदोष इति चेत् न भावाभाव-योरयुतसिद्धत्वानुपपत्तेः। भावभूतयोर्हि युतसिद्धताऽ-युतसिद्धता वा स्यान्न तु भावाभावयोरभावयोर्वा। तस्यात्सदेव कार्य्यं प्रागुत्पत्तेरिति सिद्धम्” एतदभिप्रेत्य गीता-यामुक्तम्
“नासतो विद्यते भावोनाभावो विद्यते सतः” इति( अथ भूतोत्पत्तिप्रकारः काणादभाष्यन्यायकन्दल्योर्दर्शितोयथा
“ततः प्रातः प्राणिनांभोगभूतये महेश्वरस्य सिसृक्षान-न्तरं सर्व्यात्मगतवृत्तिलब्धदृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवन-परमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो द्व्यणुकादि-प्रक्रमेण महान् वायुः समुत्पन्नोदोधूयमानस्तिष्ठति” भा॰
“यद्यपि तदात्मनां प्राणसंबन्धोनास्ति तथापि प्रा-णिन इत्युक्तं योग्यत्वात्। तेषां भोगभूतये सुखदुःखानुभ-वोत्पत्तये महेश्वरस्य सिसृक्षा सर्जनेच्छा जायते तदनन्तरंसर्वेष्वात्मसु गतान्यदृष्टानि वृत्तिं लभन्ते। यद्यपि युग-पदुत्पद्यमानासंख्येयकार्य्योत्पत्तौ व्याप्रियमाणा दिगा-दिवन्नित्यत्वादेकैवेश्वरेच्छा क्रियाशक्तिरूपा तथाप्येषा तत्तत्कालविशेषसहकारिप्राप्तौ कदाचित् संहारार्था भवति कदा-चित् सृष्ट्यर्था भवति यदा संहारार्था तदा तदनुरोधादंदृ-ष्टादीनां वृत्तिनिरोध औदासीन्यलक्षणो जायते यदा त्व-सौ सृष्ट्यर्था भवेत्तदा वृत्तिलाभः स्वकार्यजननं प्रति व्यापारीभवति। वृत्तिर्लब्धा यैस्तानि वृत्तिलब्धानि आहिताग्न्यादि-त्वात् निठायाः पूर्ब्बनिपातोदन्तजात इति यथा। सर्वा-त्मगतानि वृत्तिलब्धानि अदृष्टानि तान्यपेक्षन्ते ये तत् संयोगाआत्माणुसंयोगास्तेभ्यः पवनपरमाणुषु कर्म्माण्युत्पद्यन्ते[Page1115-b+ 38] पवनपरमाणवः समवायिकारणं लब्धवृत्त्यदृष्टवदात्माणु-संयोगोऽसमवायिकारणमदृष्टं निमित्तकारणमेवं कर्मोत्-पत्तौ तेषां पवनपरमाणूनां परस्परसंयोगा जायन्तेतत्संसंयोगेभ्यश्च द्व्यणुकान्युत्पद्यन्ते तदनु त्र्यणुकानीतिअनेन क्रमेण महान् वायुः समुत्पद्यमानो नभस्याकाशेदोधूयमानः क्वचिदप्रतिहतत्वायद्वेगातिशययुक्तस्तिष्ठति” क॰।
“तदनन्तरं तस्मिन्नाप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान्सलिलनिधिरुत् पन्नः पोप्लूयमानः” भा॰
“प्रतिरोधकाभा-वात् सर्वत्र प्लवमानस्तिष्ठति” क॰।
“ततस्तस्मिन्नेव पार्थियेभ्यःपरमाणुभ्यो द्व्यणुकादिक्रमेण समुत्पन्ना महापृथिवी-स्थिरस्वभावा तिष्ठति। ततस्तैजसेभ्यः परमाणुभ्यः समु-त्पन्नो महांस्तेजोराशिर्देदीप्यमानस्तिष्ठति” भा॰।
“तदनन्तरं सलिलनिधेरुत्पत्त्यनन्तरं तस्मिन्नेव जलनिधौपार्थिवेभ्यः परमाणुभ्यो महापृतिवी संहता स्थिरस्वभा-वाऽवतिष्ठते तदनन्तरं तस्मिन्नेव महोदघौ तैजसेभ्योऽ-णुम्यो द्व्यणुकादिक्रमेणोत्पन्नो महांस्तेजोराशिः केन-चिदनभिभूतत्वाद्देदीप्यमानस्तिष्ठति यद्यपि पयःपाव-कयोः स्वाभाविकोविरोधोऽस्ति तथाप्यदृष्टवशादाधाराधेयभावोनानुपपन्नः” क॰।
“एवं समुत् पन्नेषु चतुर्षु महाभूतेषुमहेश्वरस्याभिध्यानमात्रात्तैजसेभ्योऽणुभ्यः पार्थिवपरनाणु-सहितेभ्यो महदण्डमारभ्यते। तस्मिंश्चतुर्वदन-कमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहित-मुत्पाद्य प्रजासर्गे नियुङ्क्ते” भा॰।
“एवमनन्तरोक्तेनक्रमेणोत्पन्नेषु महाभूतेषु महेश्वरस्वाभिध्यानमात्रात्सं-कल्पमात्रात् तैजसेभ्यः परमाणुभ्यः पार्थिवपरमाणुस-हितेभ्योवृहदण्डं महड्डिम्बमारभ्यते डिम्बारम्भे पार्थिवाअवयवा उपष्टम्भकास्तेनेदं वह्निपुञ्जप्रायं मा भूत्। तस्मिन्नण्डे चत्वारि वदनकमलानि यस्य तं ब्रह्माणं सर्व-लोकपितामहं सर्वेषामेव लोकानामाद्यं पुरुष समस्तै-र्भुवनैः सहोत्पाद्य प्रजानां सर्गे जनने विनियुङ्क्ते
“त्वमिदं कुर्व्विति” क॰।
“स च महेश्वरेण विनियुक्तो ब्रह्मा-तिशयज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्रणिगां कर्मविपाकंविदित्वा कर्म्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मा-नसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो-वर्ण्णान् यानि चोच्चावचानि भूतानि तानि सृष्ट्वाशयानु-रूपैर्धर्म्मज्ञानवैराग्यैश्वर्य्यैः संयोजतीति” भा॰। ज्ञानञ्चवैराग्यञ्चैश्चर्य्यञ्च ज्ञानवैराग्यैश्चर्य्याणि अतिशयेन ज्ञाना-दीनि तैः सम्पन्न उपचितः ज्ञानातिशथात् प्राणिनां धर्मा-[Page1116-a+ 38] धर्मौ यथावत् प्रत्येति। वैराग्यादपक्षपातेन प्रवर्त्तते। ऐश्वर्य्यात् कर्म्मफलं भोजयति। प्राणिनां कर्मविपाकंविदित्वेति विविधेन प्रकारेण पाकोविपाकः कर्मणांविपाकः कर्मविपाकस्तं विदित्वा एतावदस्य कर्मफलंभविष्यतीति ज्ञात्वा कर्म्मानुरूपाणि ज्ञानभोगोयूषियेषां तान् प्रजापतीन् दक्षाद्यान् मानसान् मनःसंकल्प-प्रभवान् मनुदेवर्षिपितृगणान् मनून् देवानृषीन् पितृ-गणान् मुखबाहूरुपादतश्चतुरोवर्ण्णान् मुखात् ब्राह्मणान्,बाहुभ्यां क्षत्रियान्, उरुभ्यां वैश्यान्, पद्भ्यां शूद्रान्,अन्यानि चोच्चावचानि क्षुद्रक्षुद्रतराणि भूतानि सृष्ट्वाआशयानुरूपैराशेते फलोपभोगकालं यावत् आत्मन्यव-तिष्ठत इत्याशयः कर्म तदनुरूपैर्ज्ञानधर्मवैराग्यैश्वर्य्यैःसंयोजयतीति भात्रयाप्यन्यथा न योजयतीत्यर्थः”। यत्स्वलु केचिदेवमाचक्षिरे प्रेक्षावत्प्रवृत्तिरिष्टार्था वास्यादनिष्टपरिहारार्था वा नचेष्टानिष्टप्राप्तिपरिहारार्था, नचेष्टानिष्टप्राप्तिपरिहारावीश्वरे समस्तावाप्तकामे सम्भवतःतेनास्य जनन्निर्माणे प्रवृत्तिरनुपपन्ना तत्रोत्तरं प्राणिनांभोगभूतय इति परार्था सिसृक्षायां प्रवृत्तिर्न स्वार्थ-निबन्धनेत्यभिप्रायः। नन्वेवं तर्हि सुखमयीमेव सृष्टिंकुर्य्यात् न दुःखशवलां करुणंया प्रवृत्तत्वादित्यत्रैष-परिहारः प्राणिनां कर्मविपाकं विदित्वेति। परार्थं प्र-वृत्तत्वेऽपि न मुखमयीमेव करोति विचित्रकर्म्माशयसहायस्य कर्तृत्वादित्यर्थः नचैवं सति करुणाविरोधोदुःखोत्पादस्य वैराग्यजननद्वारेण परमपुरुषार्थहेतुत्वात् यदिधर्म्माधर्मावपेक्ष्य करोति नास्य खाधीनं कर्त्तृत्वमितिअनीश्वरतादोष इत्यस्यायं प्रतिसमाधिः। आशयानुरूपैःधर्मज्ञानवैराग्यैश्वर्य्यैः संयोजयति स हि सर्व्वप्राणिनांकर्मानुरूपं फलं प्रयच्छन् कथमनीश्वरः स्यादिति भावःन हि योग्यतानुरूपेण भृत्यानां फलविशेषप्रदः प्रभु-रप्रभुर्भवति। कल्पादावुत्पन्नानां प्राणिनां सर्व्वशब्दार्थेष्वव्युत्पन्नानां सङ्केतस्याशक्यकरणाच्छब्दव्यवहारानुपपत्तिरिति चोदनायां प्रत्यवस्थानवीजमिदं मानसानिति। योनिजशरीरं हि महता गर्भवासादिदुःखप्रबन्धेन वि-लुप्तसंस्कारं जन्मान्तरानुभूतस्य सर्वस्य न स्मरति। ऋषयःप्रजापतयो मनवस्तु मानसा अयोनिजशरीरविशिष्टादृष्टसंवन्धिनो दृढसंस्काराः कल्पान्तरानुभूतं सर्व्वमेवशब्दनार्थव्यवहारं सप्तप्रतिबुद्धवत् प्रतिसन्दधते प्रति-सन्दधामाह परस्परं बहुपो व्यवहरन्ति। तेषां व्यव-[Page1116-b+ 38] हाराच्च तत्कालवर्त्तिनां प्राणिनामुत्पत्तिः तद्व्यवहा-राच्चापरेषामित्युत्पद्यते व्यवहारपरम्परया शब्दार्थ व्युत्पत्तिरित्यर्थः” क॰। ( वेदान्तिमते भ्तोत्पत्तिप्रकारो वेदा॰ प॰ दर्शितो यथा।
“तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्य-हेतुप्राणिकर्म्मसहकृतापरिमितानिरूपितशक्तिविशेषविशिष्टमायासहितः सन्नामरूपात्मकं निखिलप्रपञ्चं प्रथमं बुद्धावाकलय्य इदं करिष्यामीति सङ्कल्पयति
“तदैक्षत बहु स्यांप्रजायेयेति” श्रुतेः। तत आत्मन आकाशादीनि पञ्चभू-तानि अपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्तेतत्राकाशस्य शब्दोगुणो, वायोस्तु शब्दस्पर्शौ तेजसस्तु शब्दस्पर्शरूपाणि, अपान्तु शब्दस्पर्शरूपरसाः, पृथिव्यास्तु शब्द-स्पर्शरूपरसगन्धाः। न तु शब्दस्याकाशमात्रगुणत्वं वा-य्वादावपि तदुपलम्भात्। नासौ भ्रमः बाधकाभावात्। इमानि भूतानि त्रिगुणमायाकार्याणि अतस्त्रिगुणात्म-कानि। एतैश्च सत्वगुणोपेतैः पञ्चभूतैः श्रोत्रत्वक्चक्षू-रसनघ्राणानि पञ्चेन्द्रियाणि मनोबुद्ध्यहङ्गारचित्तानिच जायन्ते। श्रोत्रादीनां पञ्चानांक्रमेणैव दिग्वाता-र्कवरुणाश्विना अधिष्ठातृदेवताः मनआदीनां चतुर्णां क्र-मेण चन्द्रचतुर्मुखशङ्कराच्युताः अधिष्ठातृदेवताः। एतै-रेव रजोगुणोपेतैः पञ्चभूतैर्यथाक्रमेण वाक्पाणिपादपायूप-स्थाख्यानि कर्म्मेन्द्रियाणि जायन्ते। तेषाञ्च क्रमेण व-ह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृदेवताः। रजोगुणो-पेतैः पञ्चभूतैरेव पञ्च वायवः प्राणापानव्यानोदानस-मानाख्याजायन्ते। तत्र प्रागननवान् वायुः प्राणोना-साग्रस्थानवर्त्ती। अवागननवानपानः पाय्वादिस्थान-वर्त्ती। विष्वगननवान् व्यानः अखिलशरीरवर्त्ती। ऊ-र्द्ध्वमननवानुदानः कण्ठस्थानवर्त्ती। अशितपीतान्ना-दिसमोकरणः सभानः नाभिस्थानवर्त्ती। तैरेव तमो-गुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि जायन्ते
“तासांत्रिवृतं त्रिवृतमेकैकां करवाणीति” त्रिवृत्करणश्रुतेः प-ञ्चीकरणोपलक्षणार्थत्वात्। पञ्चीकरणप्रकारश्चेत्थम्। आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनचतुर्द्धाविभज्य तेषां चतुर्णामशानां वाय्वादिषु चतुर्भूतेषु संयो-जनम्। एवं वायुं द्वेधा विभज्य तयोरेकं भागं पुनश्च-तुर्द्धा विभज्य तेषां चतुर्णां आकाशादिषु संयोजनम्। एवं तेजोऽप्पृथिव्यंशानामपि। तदेवमेकैकमूतस्यार्द्धंस्वांशात्मकम् अर्द्धान्तरञ्च चतुर्विधभूतमयमिति पृथिव्या दौ[Page1117-a+ 38] स्वांशाधिक्यात् पृथिव्यादिव्यवहारः। तदुक्तम्
“वैशे-व्यात्तद्वादस्तद्वादः” (शा॰ सू॰) इति। पूर्वोक्तैरपञ्चीकृतभूतै-र्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्य्यन्तस्थायिमनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चककर्म्मोन्द्रयपञ्चकप्राणा-दिपञ्चकसंयुक्तं जायते। तदुक्तम्।
“पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्। अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भो-गसाधनमिति”। तच्च द्बिविधं परमपरञ्च। परं हिरण्य-गर्भलिङ्गशरीरं महत्तत्त्वरूपम्, अपरमस्मदादिलिङ्गशरीर-ञ्चाहङ्कारतत्त्वमित्याख्यायते। एवं तमोगुणयुक्तेभ्यः प-ञ्चीकृतभूतेभ्योभूम्यन्तरिक्षस्वर्गमहर्ज्जनस्तपःसत्यात्मकस्योर्द्ध्व-लोकसप्तकस्य अतलपातालवितलसुतलतलातलरसातलम-हातलाख्यस्याधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डज-स्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणाञ्चोत्पत्तिः। तत्रजरायुजानि जरायुभ्योजातानि मनुष्यपश्वादिशरीराणि। अण्डजानि अण्डेभ्यो जातानि पक्षिपन्नगादिशरोराणि। स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरीराणि। उ-द्भिज्जानि भूमिमुद्भिद्य जातानि वृक्षादिशरीराणि। वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरित्वम्। तत्रपरमेश्वरस्य पञ्चतत्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्ग-शरीरोत्पत्तो हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात्-कर्त्तृत्वम्। इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भ-द्वारा
“हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानु-प्रविश्य नामरूपे व्याकरवाणीति” श्रुतेः हिरण्यगर्भोनाममूर्त्तित्रयादन्यः प्रथमोजीवः
“स वै शरीरी प्रथमः स वैपुरुषौच्यते। आदिकर्त्ता स भूतानां ब्रह्माग्रे समव-र्त्तत”।
“हिरण्यगर्भः समवर्त्तताग्रे” इत्यादि
“श्रुतेः”। ( सांख्यमते प्रकृतिरेका नित्या अचेतना साम्यावस्थापन्नस-त्वरजस्तमआत्मिका, पुरुषास्तु बहवश्चिन्मात्रा अपरिणामिनःकूटस्था नित्याः। पूर्ब्बकल्पे प्रकृतिपर्य्यन्तसाक्षात्कारिणाप्रकृतिलोनोपाधिकेन आदिविदुषा ईश्वरपदाभिधेयेनस्यस्वामिभावरूपसंयोगवती स्वलीनाननन्तबुद्धितत्त्वनिष्ठ-पूर्ब्बकल्पार्ज्जितादृष्टसचिवा प्रकृतिः सर्गाद्यकाले सत्वादि-गुणक्षोभमापग्रा महादाद्याकारेण परिणमते। यथा चपरिणमते तथा दर्शितम् सां॰ सू॰ प्र॰ भाष्ययोः यथा।
“सत्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् मह-तोऽहङ्गारोऽहङ्कारात् पञ्च तन्मात्राण्युभयभिन्द्रियं तन्मा-त्रेभ्यः स्थूलभूतानि पुरुष इति पञ्चविंशतिर्गणः” सू॰।
“सत्वादोनि द्रव्याणि न वैशेषिकदिवद्गुणाः संयोगवि-[Page1117-b+ 38] भागवत्त्वात् लघुत्वचलत्वगुरुत्वादिधर्मकत्वाच्च। ते-ष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात्पुरुषपशुबन्धकत्रिगुणात्मकमहदादिरज्जुनिर्मातृत्वाच्च प्र-युज्यते। तेषां सत्वादिद्रव्याणां या साम्यावस्थान्यूना-नतिरिक्तावस्था न्यूनाधिकाभावेनासंहतावस्थेति यावत्अकार्य्यावस्थेति निष्कर्षः। अकार्यावस्थोपलक्षितं गुण-सामान्यं प्रकृतिरित्यर्थः। यथाश्रुते वैषम्यावस्थायां प्र-कृतिनाशप्रसङ्गात्।
“सत्वं रजस्तम इति एषैव प्रकृतिः सदा। एषैव संसृतिर्जन्तोरस्याः पारे परं पदम्” इत्यादिस्मृतिभिर्गुणमात्रस्यैव प्रकृतित्ववचनाच्च। सत्वादीनामनुगमायसामान्येति। पुरुषव्यावर्त्तनाय गुणेति। महदादिव्या-वर्त्तनाय चोपलक्षितान्तमिति। महदादयोऽपि हि का-र्य्यसत्वादिरूपाः पुरुषीपकरणतया गुणाश्च भवन्तीति। तदत्र प्रकृतेः स्वरूपमेवोक्तम्। अस्या विशेषस्तु पश्चा-द्वक्ष्यते। प्रकृतेः कार्यो महान् महत्तत्त्वम्। महदादी-नां स्वरूपं विशेषश्च वक्ष्यते। महतश्च कार्योऽहङ्कारः। अहङ्कारस्य कार्यद्वयं तन्मात्राण्युभयमिन्द्रियं च। तत्रो-भयमिन्द्रियं बाह्याभ्यन्तरभेदेनैकादशविधम्। तन्मात्राणांकार्याणि पञ्च स्थूलभूतानि। स्थूलशब्दात् तन्मात्राणांसूक्ष्मभूतत्वमभ्युपेयम्। पुरुषस्तु कार्यकारणविलक्षणःइति इत्येवं पञ्चविंशतिर्गणः पदार्थव्यूह एतदतिरिक्तपदार्थो नास्तोत्यर्थः। अथ वा सत्वादीनां प्रत्येकव्यक्त्या-नन्त्यं गणशब्दो वक्ति। अयं च पञ्चविंशतिको गणोद्रव्य-रूप एव। धर्मधर्म्यभेदात् तु गुणकर्मसामान्यादीनामत्रै-वान्तर्भावः। एतदतिरिक्तपदार्थसत्त्वे हि ततोऽपि पुरुषस्यविवेक्तव्यतया तदसंग्रहे न्यूनतापद्येत”। प्रकृतेरचेतनत्वेऽपि पुरुषभोगापवर्गार्थं वत्सविवृद्ध्यर्थमचेतनक्षीरवत् प्रवृत्तिः। यथोक्तं सां॰ का॰ कौ॰।
“पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य। पङ्ग्वन्धवदुभ-योरपि संयोगस्तत्कृतः सर्गः” का॰
“प्रधानस्येति कर्म्मणियष्ठी प्रधानस्य सर्व्वकारक्षस्य यद्दर्शनं पुरुषेण तदर्थं, तद-नेन भोग्यता प्रधानस्य दर्शिता ततश्च भोग्यं प्रधानंभोक्तारमन्तरेण न सम्मवतीति युक्तास्य भोक्त्रपेक्षा। पुरुष-स्यापेक्षां दर्शयति पुरुवस्य कैवल्यार्थम्। तथा हि प्रधा-नेनासरिभन्नः पुरुपस्तद्गतं दुःखत्रयं स्यात्मन्यभिमन्यमानःकैवल्यं प्रार्थयते तच्च सत्वपुरुषान्यताख्यातिनिबन्धनम्। न च सत्वपुरुषान्वताख्यातिः प्रधानमन्तरेलेति कैवल्यार्थंपुरुषः प्रधानमपेक्षते। अनादित्वाच्च संयोगगपरम्परायाः[Page1118-a+ 38] भोगाय संयुक्तोऽपि कैवल्याय पुनः संयुज्यते इति युक्तम्। ननु भवत्वनयोः संयोगोमहदादिसर्गस्तु कुतस्त्य इत्यत आहतत्कृतः सर्गःसंयोगो हि न महदादिसर्गमन्तरेण भोगायपर्य्याप्त इति संयोगएव भोगापवर्गार्थंसर्गं करोतीत्यर्थः” कौ॰तथाऽचेतनायाः प्रवृत्तौ दृष्टान्तस्तत्रैवोक्तः
“वत्सविवृद्धि-निमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य। पुरुषविमोक्षनिमित्तंतथा प्रवृत्तिः प्रधानस्य” सां॰ का॰। ( पातञ्जले तु प्रतिकल्पमनेकेषां प्रकृतिलीनानां सर्गहेतुत्वकल्पने गौरवात् एकस्यैव ईश्वरस्य तदधिष्ठानत्वाङ्गीकारेणप्रकृतेस्तथा परिणाम इत्यङ्गीकृतं यथा च एकस्यैव सर्व्वोत्कर्षसार्व्वज्ञ्यं तथा ईश्वरशब्दे

१०

५२ पृष्ठे सूत्रभाष्यविवरणेषुदर्शितम्।

४ अभिव्यक्तौ च अभिव्यक्तेर्यथा उत्पत्ति-रूपता तथा अभिव्यक्तिशब्दे

३०

० पृष्ठे दर्शितम्। एवं मूतभौतिकोत्पत्तिप्रकारः मतभेदेन निरूपितः। अथ विशेषभौतिकोत्पत्तौ कारणविशेषस्तावदभिधीयतेतत्र जन्यमात्रोत्पत्तौ ईश्वरः अदृष्टं कालश्च नि-मित्तकारणमिति नैयायिकादयः। वेदान्तिमते ब्रह्मणोऽ-विद्याद्वारा निमित्तोपादानरूपोभयकारणता। सांख्यमतेप्रकृतेरुपादानता। जन्यभावोत्पत्तौ द्रव्यमुपादानकारणंयथा घटे कपालम् पटे तन्तवः, कुण्डले, सुवर्ण्णम् समवा-यिकारणम्। तत्तदवयवसंयोगश्चासभवायिकारणम्। गुणो-त्पत्तौ द्रव्यं समवायिकारणम् अवयवगुणोवह्न्यादिसंयोगोवा असमवायिकारणं यथा घटरूपे कपालरूपं, पटरूपेतन्तुरूपम्, श्यामघटे रक्तोत्पत्तौ अग्निसंयोगः। एव-मात्मनि ज्ञानाद्युत्पत्तौ मनःसंयोगादि असमवायिकार-णम्। संयोगविभागोत्पत्तौक्रिया असमवायिकारणम्,इत्याद्यूह्यम्। ध्वंसरूपाभावोत्पत्तौ प्रतियोगो निमित्त-कारणम्। वाय्वादौ रूपाद्यभावस्यैवात्यन्ताभावतयानित्यत्वम् घटाभावस्य नाशे तु भूतले घटापसरणं तद-नयनं च तदुत्पत्तौ निमित्तकारणं तेनायमुत्पत्तिवि-नाशशाली चतुर्थः संसर्गाभावः इति त्यायैकदेशिनः। ( देहोत्पत्तिप्रकारः कायशब्दे, गर्मोत्पत्तिप्रकारश्च गर्भ-शब्दे वक्ष्यते।
“उत्पत्तिमात्रे कर्त्तृत्वं सर्वत्रैशास्ति का-रके। व्यापारभेदापेक्षायां करणत्वादिसम्भवः” मर्त्तृह॰।
“उत्पत्तिवद्वा वाहदोषः” सां॰ सू॰।
“न निरोधो नचो-त्पत्तिर्न बद्धो न च साधकः। न मुमुक्षर्न वा मुक्त इत्येषापरार्थता” अभियुक्तोक्तिः। जीवोत्पत्तिस्तु देहाद्देहान्तरसम्बन्ध एव तन्निमित्तप्रकारादि। वृ॰ उ॰ भा॰ दर्शितं[Page1118-b+ 38] यथा
“तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्राम-ण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छ-तोत्येवं हैवंविदं ब्रह्मायातीदमागच्छतीति”
“तत्रास्येर्दशरीरं परित्यज्य गच्छतो नास्य देहान्तरस्योपादानेसामर्थ्यमस्ति देहेन्द्रियवियोगात्। न चान्येऽस्य भृत्य-स्थानीया गृहमिव राज्ञे शरीरान्तरं कृत्वा प्रतीक्षमाणाविद्यन्ते। अथैवं सति कथमस्य शरीरान्तरोपादानमित्यु-च्यते। सर्बंह्यस्य जगत्स्वकर्म्मफलोपभोगायतनं कर्म्मफलो-पभोगाय चायं प्रवृत्तो देहाद्देहान्तरं प्रतिपित्षुः। तस्मा-त्सर्वमेव जगत्स्वकर्म्मप्रयुक्तं तत्कर्मफलोपभोगयोग्यं साधनं-कृत्वा प्रतीक्षत एव।
“कृतं लोकं पुरुषोऽभिजायत इति” श्रुतेः। यथा स्वप्नजागरितं प्रतिपित्सोः। तत् कथमिति?लोकप्रसिद्धो दृष्टान्त उच्यते। तत्र यथा राजानं राज्या-भिषिक्तमायान्तं स्वराष्ट्रे उग्रा जातिविशेषाः क्रूरकर्म्माणोवा प्रत्येनसः प्रति प्रत्येनसि पापकर्म्मणि नियुक्ताः प्रत्येन-स्तस्करादिदण्डनादौ नियुक्ताः सूताश्च ग्रामण्यश्च सूत-ग्रामण्यः सूता वर्णसङ्करजा जातिविशेषा ग्रामण्यो ग्राम-नेतारस्ते पूर्व्वमेव राज्ञ आगमन बुद्ध्वाऽन्नैर्भोज्यभक्ष्यादि-प्रकारैः पानैर्मदिरादिभिरावसथैश्च प्रासादादिभिः प्रति-कल्पन्ते निष्पन्नैरेव प्रतीक्षन्तेऽयं राजा आयात्ययमाग-च्छतीत्येवं वदन्तः। एवं ह एवंविद कर्म्मफलस्य वेदि-तारं संसारिणमित्यर्थः। कर्म्मफलं हि प्रस्तुतं तदेवं-शब्देन परामृश्यते। सर्व्वाणि भूतानि शरीरकर्तॄणि कर-णानुग्रहीतॄणि चादीत्यादिनि तत्कर्म्मप्रयुक्तानि कृतैरेवकर्म्मफलोपभोगसाधनैः प्रतीक्षन्ते। इदं ब्रह्म भोक्तृ कर्तृचास्माकमायाति। तथेदमागच्छत्येवमेवं कृत्वा प्रतीक्षन्तइत्यर्थः भाष्यम्। तत्र विस्तरस्तत्रैवोक्तो यथा।
“तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रम-माक्रम्यात्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्या-ऽविद्यां गमयित्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरति। तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्या-णतरं रूपं तनुतएवमेवायमात्मेदं शरीरं निहत्याऽविद्यांगमयित्वाऽन्यन्नवतरं कल्पाणतरं रूपं कुरुते पित्र्यं वागान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वामूतानाम्। स वा अयमात्मा ब्रह्म विज्ञानमयो मनो-मयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयोवायुमय आकाशमयस्तेजोमयोऽतेजमयेः कामयीऽकाममयःक्रोषमयोऽक्रोधोगवो धर्म्ममयोऽधर्ममयः सर्व्वमयस्त-[Page1119-a+ 38] द्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथाभवति साधुकारी साधुर्मवति पापकारी पापी भवति पुण्यःपुण्येन कर्मणा भवति पापः पापेन। अथो खल्वाहुःकाममय एवायं पुरुष इति स यथाकामो भवति तत्क्र-तुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तद-भिसम्पद्यते” वृ॰ उ॰। (
“एवं विद्यादिसम्भारसम्भृतो देहान्तरं प्रतिपद्यमानोमुक्त्वा पूर्वं देहं पक्षीव वृक्षान्तरं प्रतिपद्यते, अथ वा-तिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते किंवात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवत्याहो-स्विच्छरीरस्थस्य सङ्कुचितानि करणानि मृतस्य भिन्नघट-प्रदीपप्रकाशवत्सर्वतो व्याप्य पुनर्देहान्तरारम्भे सङ्कोचमृ-च्छन्ति किं वा मनोमात्रं वैशेषिकसमय इव देहान्तरार-म्भदेशं प्रतिगच्छति किं वा कल्पनान्तरमे। वेदान्तसमयइत्युच्यते।
“त एते सर्वएव समाः सर्वेऽनन्ता” इति श्रुतेः। सर्बात्मकानि तावत् करणानि सर्वात्मकप्राणसंश्रयाच्च तेषा-माध्यात्मिकाधिभौतिकपरिच्छेदः प्राणिकर्म्मज्ञानभावनानि-मित्तः। अतस्तद्वशात् स्वभावतः सर्वगतानामनन्तानामपिप्राणानां कर्म्मज्ञानवासनानुरूप्येणैव देहान्तरारम्भवशात्प्राणानां वृत्तिः सङ्कुचति विकसति च। तथाचोक्तम्।
“समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रि-भिर्लोकैः समीऽनेन सर्वेणेति”। तथाचेदं वचनमनुकूलम्
“स यो हैताननन्तानुपास्त” इव्यादि
“तं यथा यथोपासत” इति च। तत्र वासनापूर्व्वप्रज्ञाख्या विद्या कर्म्मतन्त्राजलूकावत्सन्ततैव स्वप्नकाल इव कर्म्मकृतं देहाद्देहान्तर-मारभते हृदयस्थैव पुनर्द्दोहान्तरं पूर्वाश्रयं विमुञ्चतीत्येत-स्मिन्नर्थे दृष्टान्त उपादीयते तत्तत्र देहान्तरसञ्चार इदंनिदर्शनम्। यथा येन प्रकारेण तृणजलायुका तृणज-लौका तृणस्यान्तमवसानं गत्वा प्राप्यान्यत्तृणं तृणान्तरमा-क्रममाक्रम्यत इत्याक्रमस्तमाक्रममाक्रम्याश्रित्यात्मानमात्मनःपूर्वावयवमुपसंहरत्यन्त्यावयवस्थाने। एवमेवायमात्मा यःप्रकृतो यः संसारी इदं शरीरं पूर्वोपात्तं निहत्य स्वप्नंप्रतिपित्सुरिव पातयित्वा विद्यां गमयित्वा चेतनं कृत्वास्वात्मोपसंहारेणान्यमाक्रमं तृणान्तरमिव तृणजलौका इवशरीरान्तरं गृहीत्वा प्रसारितया वासनयात्मानमुप-संहरति। तत्रात्मभावमारमते। यथा स्वप्ने देहान्तर-मारभते। स्वप्नदेहान्तरस्य इव शरीरारम्भवेशे आरभ्य-माणे देहे जङ्गमे स्थावरे वा। तत्र च कर्म्मवशात्करणानि[Page1119-b+ 38] लब्धवृत्तीनि संहन्यन्ते बाह्यञ्च कुशमृत्तिकास्थानीयं शरी-रमारभ्यते। तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहः। या अग्न्यादिदेवताः संश्रयन्ते एष देहान्तरारम्भविघिः”। ( तत्र देहान्तरारम्भे नित्योपात्तमेवोपादानमुपमृद्योप-मृद्य देहान्तरमारभते आहोस्विदपूर्व्वमेव पुनः पुनरादत्तइत्यत्रोच्यते दृष्टान्तः। तत्तत्रैतस्मिन्नर्थे यथा पेशस्कारीपेशः सुवर्णं तत्करोतीति पेशस्कारी सुवर्णकारः पेशसःसुवर्णस्य मात्रामुपादायापच्छिद्य गृहीत्वाऽन्यत् पूर्व्वस्मा-द्रचनाविशेषाद्रन्यन्नवतरमभिनवतरं कल्याणात् कल्याणतरंरूपं तनुते निर्म्मिणोति एवमेवायमात्मेयादि पूर्व्ववत्। नित्योपात्तान्येव पृथिव्यादीन्याकाशान्तानि पञ्चभूतानियानि
“द्वे वाव ब्रह्मणो रूपे” इति चतुर्थे व्याख्यातानिपेशःस्थानीयानि। तान्येवोवमृद्योपमृद्यान्यदन्यच्च देहान्तरंनवतरं कल्याणतरं रूपं संस्थानविशेषं देहान्तरमित्यर्थः। कुरुते पित्र्यं वा पितृभ्यो हितं पितृलोकोपभोगयो-ग्यमित्यर्थः। गान्धर्वं गन्धर्वाणामुपभोगयोग्यम्। तथादेवानां दैवम्, प्रजापतेः प्राजापत्यम्, ब्रह्मणः इदंब्राह्मं वा, यथाकर्म्म यथाश्रुतमन्येषां वा भूतानां स-म्बन्धि शरीरान्तरं कुरुत इत्यभिसम्बध्यते। यस्य बन्धन-सङ्ज्ञका उपाधिभूता यैः संयुक्तस्तन्मयोऽयमिति विभाव्यतेते पदार्थाः पुञ्जीकृत्येहैकत्र प्रतिनिर्दिश्यन्ते। स वा अयंय एवं संसारत्यात्मा ब्रह्मैव पर एव योऽशनायाद्यतीतोविज्ञानमयो विज्ञानं बुद्धिस्तेनोपलक्ष्यमाणस्तन्मयः। कतमआत्मेति। योऽयं विज्ञानमयः। प्राणेष्विति ह्युक्तंविज्ञानमयो विज्ञानप्रायो यस्मात्तद्धर्म्मत्वमस्य विभाव्यते
“ध्यायतीव लेलायतीवेति”। तथा मनोमयो मनःसन्निक-र्षान्मनोमयः। तथा प्राणमयः प्राणः पञ्चवृत्तिस्तन्मयोयेन चेतनश्चलतीव लक्ष्यते। तथा चक्षुर्म्मयोरूपदर्शन-काले। एवं श्रोत्रमयः शब्दश्रवणकाले। एवं तस्य तस्ये-न्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति। एवं बुद्धिप्राण-द्वारेण चक्षुरादिकरणमयः सन् शरीरारम्भकपृथिव्यादि-भूतभयो भवति। तत्र पार्थिवादिशरीरारम्भे पृथिवी-मयो भवति तथा वरुणादिलोकेष्वाप्यशरीरारम्भेआपोमयो भवति। तथा वायव्यशरीरारम्भे वायुमयोभवति। तथाकाशशरीरारम्भे आकाशमयो भवति। एवमेतानि तैजसानि देवशरीराणि। तेष्वारभ्यमाणेषुतत्तन्मयस्तेजोमयो भवति। अतो व्यतिरिक्तानि पश्वा-दिशरीराणि नरकप्रेतादिशरीराणि चातेजोमयानि। [Page1120-a+ 38] तान्यपेक्ष्याहातेजोमय इति एवं कार्य्यकरणसङ्घातमयःसन्नात्मा प्राप्तं वस्त्वन्तरं पश्यन्निदम्मयः, अदोमय इत्यप्रा-प्तव्यमिति। एवं विपरीतप्रत्ययस्तदभिलाषः काममयोभवति। तस्मिन् कामे दोषं पश्यतस्तद्विषयाभिलाषोपशमेचित्तं प्रसन्नमकलुषं शान्तं भवति तन्मयोऽकाममयः। एवंतस्मिन्विहते कामे केनचित्स कामः क्रोधत्वेन परिणमते तेनतन्मयो भवन् क्रोधमयः। स क्रोधः केनचिदुपायेन निव-र्त्तितो यदा भवति तदा प्रसन्नमनाकुलं चित्तं सदक्रोधउच्यते। एवं तेन तन्मयः एवं कामक्रोधाभ्यामका-मक्रोधाभ्याञ्च तन्मयो भूत्वा धर्म्ममयोऽधर्म्ममयश्च भवति। न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरुपपद्यते।
“यद्यद्धि कुरुते कर्म्म तत्तत्कामस्य चेष्टितमिति” स्मरणात्। धर्म्ममयोऽधर्म्ममयश्च भूत्वा सर्वमयो भवति। समस्तं धर्मा-धर्म्मयोश्च कार्यं यावत्किञ्चिद्व्याकृतं तत्सर्वं धर्माधर्मयोःफलम्। तत्प्रतिपद्यमानस्तन्मयो भवति किं बहुनातदेतत् सिद्धमस्य यदयमिदम्मयो गृह्यमाणविषयादिमय-स्तस्मादयमदोमयः अद इति परोक्षं कार्य्येण गृह्यमाणेननिर्द्दिश्यते। अनन्ता ह्यन्तःकरणे भावनाविशेषाः। नैवते विशेषतो निर्द्देष्टुं शक्यन्ते। तस्मिंस्तस्मिन् क्षणे कार्यतोऽवगम्यन्ते। इदमस्य हृदि वर्त्ततेऽदोऽस्येति। तेन गृ-ह्यमाणकार्य्येणेदम्मयतया निर्दिश्यते। परोक्षोऽन्तःस्थोव्यवहारोऽयमिदानीमदोमय इति। सङ्क्षेपतस्तु यथाकर्त्तुं यथा वाचरितुं शीलमस्य सोऽयं यथाकारी यथा-चारी स तथा भवति। करणं नाम नियता क्रिया बिधि-प्रतिषेधादिगम्या, आचरणं नाम अनियतमिति विशेषः। साधुकारी साधुर्भवति। यथाकारीत्यस्य विशेषणम्। पापकारी पापो भवति च। यथाचारीत्यस्य ताच्छील्य-प्रत्ययोपादानात् अत्यन्ततात्पर्य्यतैव तन्मयत्वं न तुतत्कर्म्ममात्रेणेत्याशङ्क्यह। पुण्यः पुण्येन कर्म्मणा भवतिपापः पापेनेति। पुण्यपापकर्म्ममात्रेणैव तन्मयता स्यान्नतु ताच्छील्यमपेक्षते। ताच्छील्ये तु तन्मयत्वातिशयैत्ययंविशेषः। तत्र कामक्रोधादिपूर्व्वकपुण्यापुण्यकारिता सर्व्व-मयत्वे हेतुः संसारस्य कारणं देहाद्देहान्तरसञ्चारस्य च। एतत्प्रयुक्तो ह्यन्यदन्यद्देहान्तरमुपादत्ते। तस्मात्पुण्या-पुण्ये संसारस्य कारणमेतत्। विषयौ हि बिधिप्रतिषेधा-वत्र शास्त्रस्य साफल्यमिति। अथोअप्यन्ये बन्धनमोक्षकु-शलाः खल्वाहुः सत्यं कामादिपूर्व्वके पुण्यापुण्ये शरी-रग्रहणकारणम्। तथापि कामप्रयुक्तो हि पुरुषः पुण्या-[Page1120-b+ 38] पुण्यकर्म्मणोपचिनोति। कामप्रहाणे तु कर्म्म विद्यमा-नमपि पुण्यापुण्योपचयकरं न भवति। उपचिते अपिपुण्यापुण्ये कर्म्मणी कामशून्ये फलारम्भके न भवतः। तस्मात्काभ एव संसारस्य मूलम्। तथाचोक्तमाथर्वणे
“कामान् यः कामयते मन्यमानः स्वकर्म्मभिर्जायते तत्रतत्रेति”। तस्मात्काममय एवायं पुरुषो यदन्यमयत्वंतदकारणं विद्यमानमपोत्यतोऽवधारयति काममय एवेति। स च काममयः सन् यादृशेन कामेन यथाकामो भवतितत्क्रतुर्भवति सकाम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मि-न्विषये भवति स विहन्यमानः स्फुटीभवन् क्रतुत्वमापद्यते। क्रतुर्नाभाध्यवसायो निश्चयो यदनन्तरा क्रिया प्रवर्त्ततेयत्क्रतुर्भवति यादृक्कामकार्य्येण क्रतुना यथास्वरूपः क्रतुरस्यसोऽयं यत्क्रतुर्भवतिं तत्कर्म्म कुरुते। यद्विषयः क्रतुस्तत्फ-लनिर्वृत्तये यद्योग्यं कर्म्म तत्कुरुते निर्वर्त्तयति। यत्कर्म्मकुरुते तदभिसम्पद्यते तदीयं फलमभिसम्पद्यते” भा॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पत्ति¦ f. (-त्तिः)
1. Birth, production.
2. Producing as an effect or re- sult, giving rise to or generating as a consequence.
3. Production in general. E. उत् up, पत् to go, and क्तिन् aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पत्तिः [utpattiḥ], f.

Birth; विपदुत्पत्तिमतामुपस्थिता R.8.83.

Production; कुसुमे कुसुमोत्पत्तिः श्रूयते न तु दृश्यते Ś. Til.17.

Source, origin; उत्पत्तिः साधुतायाः K.45.

Rising, going up, becoming visible, coming into existence.

Profit, productiveness, produce; स्वल्पोत्पत्तिदेशः Rāj T.5.68.

Producing as a result or effect.

Resurrection.

A sacrifice; उत्पत्तिरिति यजिं ब्रूमः । ŚB. on MS.7.1.3,7.

An original injunction, a scriptural text enjoining (a particular matter), also called उत्पत्तिश्रुति or उत्पत्तिविधि. उत्पत्तेश्चातत्प्रधानत्वात् । Ms.4.3.-Comp. -अर्थः The अपूर्व resulting from a sacrifice; उत्पत्त्यर्थाविभागाद्वा सत्त्ववदैकधर्म्यं स्यात् । MS.7.1.2. ˚अविभागः Non-separation of याग and its अपूर्व. -कालीन a. taking place at the time of birth. -क्रमः order of birth.-नामधेयत्वम् Being a name inherent in the verse; उत्पत्तिनामधेयत्वात् भक्त्या पृथक् सतीषु स्यात् । MS.8.3.22.

प्रयोगः production by the combined action of cause and effect.

purport, meaning. -वाक्यम् a sentence quoted from the Veda, an authoritative sentence.-व्यञ्जकः a type of birth (as investiture with the sacred thread); a mark of the twice-born; उत्पत्तिव्यञ्जकः पुण्यः Ms.2.68. -शिष्ट a. taught authoritatively (by a passage occurring in the Veda).

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पत्ति/ उत्-पत्ति f. arising , birth , production , origin Sus3r. MBh. Ya1jn5. etc.

उत्पत्ति/ उत्-पत्ति f. resurrection Mn.

उत्पत्ति/ उत्-पत्ति f. production in general , profit , productiveness , Ra1jat.

उत्पत्ति/ उत्-पत्ति f. producing as an effect or result , giving rise to , generating as a consequence

उत्पत्ति/ उत्-पत्ति f. occurrence , the being mentioned or quoted (as a Vedic passage) Jaim.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--creation described. Br. II. १९. १८८-190.

"https://sa.wiktionary.org/w/index.php?title=उत्पत्ति&oldid=492388" इत्यस्माद् प्रतिप्राप्तम्