उत्सर्जन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सर्जनम्, क्ली, (उत् + सृज् + ल्युट् ।) उत्सर्गः । तत्पर्य्यायः । त्यागः १ विहापितं ३ दानं ४ विस- र्ज्जनं ५ विश्राणनं ६ वितरणं ७ स्पर्शनं ८ प्रति- पादनं ९ प्रादेशनं १० निर्व्वपणं ११ अपवर्जनं १२ अंहतिः १३ । इत्यमरः ॥ (साग्निककर्त्तव्यक्रिया- विशेषः । (यथा, मनुः । ४ । ९६ । “पुष्य तु छन्दसां कुर्य्यात् वहिरुत्सर्ज्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्ब्बाह्णे प्रथमेऽहनि” ॥)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सर्जन नपुं।
दानम्
समानार्थक:त्याग,विहापित,दान,उत्सर्जन,विसर्जन,विश्राणन,वितरण,स्पर्शन,प्रतिपादन,प्रादेशन,निर्वपण,अपवर्जन,अंहति,साति,निर्यातन
2।7।29।1।4
त्यागो विहापितं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्.।
सम्बन्धि1 : यज्ञः
: मृताहे_दानम्, पितॄनुद्धिश्यक्रियमाणः_दानम्, फलेच्छायुक्तदानम्, सदादानम्, देवहविर्दानम्
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सर्जन¦ न॰ उद् + सृज--ल्युट्।
१ दाने,
२ त्यागे, च। वेदोत्-सर्गरूपे षण्मासकर्त्तव्ये वैदिकानां
३ क्रियाभेदे स चआश्व॰ गृ॰ उक्तो यथा
“मध्यमाष्टकायामेताभ्योदेवताभ्योऽन्नेन हुत्वाऽपोऽभ्यवयन्ति”
२० सू॰।
“मध्य-माष्टकाग्रहणं षण्मासान्तोपलक्षणार्थम्”। तेन तस्याःसमीपे माघ्यां पौर्णमास्यामित्यर्थः शाखान्तरे चैवंदृश्यते।
“एताभ्यो देवताभ्यो हुत्वा सावित्र्यादिभ्यआज्यम्, इत्युक्तम्। अग्निमीड इत्यादिभ्योऽन्नेन हुत्वास्थालीपाकग्रहणमकृत्वाऽन्नेनेति यत्नेन ब्रुवत् गृहसिद्धमन्नं गाह्यमिति दर्शयति, ततः स्विष्टकृत्, ततो वेदारम्भ-[Page1130-a+ 38] णम्। ततो होमशेषं समाप्यापोऽबगाहन्त इत्यर्थःनारा॰
“एता एव तद्देवतास्तर्पयन्ति”
२१ सू॰।
“स्नात्वा सावित्राद्या नव अग्निमीड इत्याद्याश्चविंशतिं तर्पयन्तीत्यर्थः। ऋग्देवता आदिश्य तर्पयेयुः। द्वितीयान्तं कृत्वा तर्पयामीत्येकान्नत्रिंशद्वाक्यानि कृत्वातावत्कृत्वस्तर्पयेयुः” ना॰ वृ॰।
“आचार्यान् ऋषीन् पितॄं-श्च”
२२ सू॰। यच्च ब्रह्मयज्ञाङ्गं तर्पणमुक्तं तदेत-दङ्गत्वेनेदानीमपि कार्यमित्यर्थः। चशब्दो देवतातर्पणसनुच्चयार्थः। तेन प्रजापत्याद्या अपि तर्प्याः। देवतास्त-र्पयन्तीत्यत्र देवताग्रहणमत्रापि समुच्चयार्थम् क्रमश्चतन्त्राक्त एव” ना॰ वृ॰।
“एतदुत्सर्जनम्”
२३ सू॰।
“अस्येयं संज्ञा। ततः षण्मासान् षडङ्गान्यधीयीत। षण्मासानधीयीतेत्यारभ्य एवमन्ता धर्मा ग्रहणाध्ययनएतेत्याहुरेके। अन्ये त्वविशेषेणेत्याहुः” ना॰ वृ॰। उत्सर्गशब्दे दर्शितेन कालेनास्य विकल्प॰ शाखिभेदेनव्यवस्थाप्यः
“पौषे तु छन्दसां कुर्य्याद्बहिरुत्सर्जनंबुधः” भनुः।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सर्जन¦ n. (-नं)
1. Gift, donation.
2. Abandoning, leaving, &c. E. उत् be- fore सृज् to leave, and ल्युट् affix: see the preceding.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सर्जनम् [utsarjanam], 1 Leaving, abandoning, letting loose, quitting &c.
A gift, donation.
Suspension of a Vedic study.
A ceremony connected with this suspension (to be performed half yearly); पुष्ये तु च्छन्दसां कुर्याद् बहिसुत्सर्जनं द्विजः Ms.4.96; वेदोत्सर्जनाख्यं कर्म करिष्ये Śrāvaṇī Mantra.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सर्जन/ उत्-सर्जन See. col. 3.
उत्सर्जन/ उत्-सर्जन mfn. expelling (the feces , said of one of the muscles of the anus) Bhpr.
उत्सर्जन/ उत्-सर्जन n. letting loose , abandoning , leaving Ka1tyS3r.
उत्सर्जन/ उत्-सर्जन n. suspending (a Vedic lecture) La1t2y. A1s3vGr2. Kaus3.
उत्सर्जन/ उत्-सर्जन n. (with छन्दसाम्)a ceremony connected with it Mn. iv , 96
उत्सर्जन/ उत्-सर्जन n. gift , donation , oblation L.
Vedic Rituals Hindi
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सर्जन न.
(उद् + सृज् + ल्युट्) बन्द मुट्ठी में लिये गये बर्हिष् को छोड़ने का कृत्य, आप.श्रौ.सू. 1.4.6; आग को बुझ जाने देना, 5.27.3; अतिक्रमण या उपेक्षा करना अर्थात् किसी कृत्य या निश्चित क्रियाओं (को न करना), 8.21.5; ब्रह्मा नामक ऋत्विज् का,शां.श्रौ.सू.‘ 4.7.18; ला.श्रौ.सू. 4.8.8; वैदिक पद का निलम्बन (त्याग) = (उत्सर्ग), आश्व.गृ.सू. 3.5.13 = समापन।