उदय

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदयः, पुं, (उद्यन्ति ग्रहा यस्मात् । उत् + इ + अच् ।) पूर्ब्बपर्ब्बतः । उदयाचलः । (भावे + अच् ।) समुन्नतिः । इति मेदिनी ॥ दीप्तिः । मङ्गलम् । इति शब्दरत्नावली ॥ ग्रहाणामुद्गमः । तत्र सूर्य्यस्योदयविवरणं यथा, विष्णुपुराणे २ अंशे ८ अध्यायः ॥ * ॥ “उदयास्तमने चैव सव्वकालन्तु संमुखे । दिशास्वशेषासु तथा मैत्रेय विदिशासु च ॥ १३ ॥ यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः । तिरोभावञ्च यत्रैति तत्रैवास्तमनं रवेः ॥ १४ ॥ नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः । उदयास्तमनाख्यञ्च दर्शनादर्शनं रवेः ॥ १५ ॥ शक्रादीनां पुरे तिष्ठन् स्पशत्थेष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान् द्वेपुरे तथा ॥ १६ ॥ उदितो वर्द्धमानाभिरामध्याह्नात्तपन् रविः । ततः परं ह्रसन्तीभिर्गोभिरस्तं निगच्छति ॥ १७ ॥ उदयास्तमनाभ्याञ्च स्मृते पूर्ब्बापरे दिशौ । तस्मान्मेरोरुत्तरस्यां दिशि सदा दिवापि अन्येषां दिनेऽपि नित्यं रात्रिरेव । अयं भावः । मेरुं प्रद- क्षिणीकुर्व्वन्तं सूर्य्यं ये यत्र पश्यन्ति सैव तेषां प्राची । तेषाञ्च वामभाग एव मेरुः । अतः सर्व्वेषां सर्व्वदा मेरुरुत्तरत एव । दक्षिणभागे च लोका- लोकाचलः । तस्मादुत्तरस्यां दिशि सदा रात्रिः । दक्षिणस्याञ्च दिशि सदा दिनमिति । यद्वा । भारतादिवर्षस्थानां सम्मुखे सूर्य्यमुद्यन्तं पश्यता- मुत्तरस्यां दिशि वामभागे मेरोरेकतः सदा दिनम् । अन्यतश्च सदा रात्रिः । दक्षिणभागे तु सदा दिनमेवेत्यर्थादुक्तं भवति” ॥ इति तट्टीकायां श्रीधरस्वामी ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदय पुं।

उदयपर्वतः

समानार्थक:उदय,पूर्वपर्वत

2।3।2।2।3

लोकालोकश्चक्रवालस्त्रिकूटस्त्रिककुत्समौ। अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदय¦ पु॰ उद् + इ--अच्। ज्योतिषोक्ते राशेरुदयरूपे

१ लग्ने। आधारे अच्।
“यैर्यत्र दृश्यते भास्वान् स तेषामुदयःस्मृतः” इत्युक्तलक्षणे रवेर्द्वष्टियोग्यस्थाने

२ उदयाचले पूर्व्वपर्व्वते।
“उदयाचलव्यर्वाहतेन्दवपुः” माघः
“उदय-गिरिवनालीबालमन्दारपुष्पम्” उद्भटः। भावे अच्।

३ प्रथमदर्शनयोग्यभवने,

४ वृद्धौ,

६ उद्भवे

७ उत्गमे
“आ-त्मोदयः परग्लानिः” माघः
“प्रभातसमयमिव पूर्वदिग्मागरागानुमेयमित्रोदयम्” काद॰।
“गवोदयं नाथमिवौष-धीनाम्”
“निवातस्तिमितां वेलां चन्द्रोदय इबोदधेः”
“उदयमस्तमयञ्च रघूद्वहति” रघुः।
“अपमेषोदयंवर्षमदृष्टकुमुमं फलम्”।
“यौ तु स्वप्नावबोधौ तौ[Page1138-b+ 38] भूतानां प्रलयोदयौ”। कुमा॰
“उदये मदवाच्यमुज्-झता”।
“आगमैः सदृशारम्म आरम्भसदृशोदयः”।
“प्रसृतावुदयापवर्गयोः” रघुः।
“वीलाङ्कुरः प्रागुद-यादिवाम्भः” कुमा॰

८ उत्कर्षे।
“विजितजगत्त्रयोदयम्” माघः। ग्रहाणामुदयश्च स्वाधिष्ठितराशीनामुदयात्
“निजनिजोदयलग्नसमुद्गमे समुदयोऽपि मुबेद्भनभःस-दाम्” सि॰ शि॰। राशीनां देशभेदेनोदयकालवि-शेषः सि॰ शि॰। तत्रादौ निरक्षदेशलङ्कादौसन्मानसाधनं यथा
“एकस्य राशेर्वृहती ज्यका याद्वयोस्त्रिभस्यापि कृतीकृतानाम्। स्वस्वापमज्याकृ-तिवर्जितानां मूलानि तासां त्रिगुणा

३४

३८ हृतानि। स्वस्वद्युमौर्व्या विमजेत् फलानां चापान्यघोऽधः परिशो-धितानि। क्रमोत्क्रमस्थानि निरक्षदेशे मेषादिकानामु-दयासवः स्युः” शि॰।
“एकस्य राशेर्बृहती ज्येत्य-ष्टमी ज्या। द्वयोरिति षोडशी ज्या। त्रिमस्येतित्रिज्या। आसां र्वर्गितानां स्वकीयस्वकीयक्रान्तिज्यावर्गै-र्वर्जितानां मूलानि त्रिज्यागुणितानि स्वस्वद्युज्यया विभ-जेत्। फलानां चापान्यधोऽधः परिशोधितानीति, तृतीयात्द्वितीयं द्वितीयात् प्रथमं शोध्यम्। प्रथमं तथाविधमेव। एवं लङ्कोदयासवः स्युः। अत्रोपपत्तिः। अत्रोद्वच्छतःक्रान्तिदृत्तस्य तिर्यक्स्थितत्वात् त्त्र्यस्राणि क्षेत्राण्युत्पद्यन्ते। तद्यथा। मेषान्तस्य ज्या क्रान्तिवृत्ते कर्णः। तत्क्रान्तिज्या-लङ्काक्षितिजे मुजः। तद्वर्गान्तरपदं मेषान्तेऽहोरात्रवृत्ते-क्रोटिः। एवं राशिद्वयस्य ज्या कर्णः। तत्क्रान्तिज्याभुजः। तद्वर्गान्तरपदं वृषभान्तेऽहोरात्रवृत्ते कोटिः। एवं तिराशिज्या कर्णः परमाक्रान्तिज्या भुजः। परमाल्प-द्युज्या कोटिः। एताः कोटयश्चापकरणार्थं त्रिज्यवृत्ते परि-णामिता त्रिज्यागुणाः स्वस्वद्युज्यया मक्तास्तासां चापानि। प्रथम मेषोदयस्य कालः। द्वितीयं राशिद्वयस्य। तृतीयं राशित्रयस्य। अतो विश्लेषितानीत्युपपन्नम्। इदानी प्रकान्तरेणाह” प्रमि॰।
“कीटादिराश्य-न्वजकोटिजीवास्त्रिज्या

३४

३८ गुणाः स्वस्वदिन-ज्ययाप्ताः। चापीकृताः प्राग्वदधो विशुद्धाः कीटादि-कानामुदयासवो वा” शि॰।
“कोटादिराश्यन्तजकोटिजीवास्ताएकद्वित्रिराशिज्या मवन्ति

१७

१९ ।

२९

७७ ।

३४

३८ । ए-तास्त्रिज्यया गुण्याः स्वस्वदिनज्यया भक्ता इति। वैव वृष-भान्ते व्युज्या सैव कीटान्तेऽपि

३२

१८ । यैव भेषान्ते-द्युज्या सैव सिंहान्तेऽपि

३३

६६ । कन्यान्ते द्युज्या त्रि-[Page1139-a+ 38] ज्यैव

३४

३८ । आभिस्ता भाज्याः। फलानां चापान्य-धोऽधः शुद्धानि कीटादीनामुदयासवः स्युर्निरक्षे वा। तएव मिथुनवृषभमेषाणामित्यर्थः। अत्रोपपत्तिः। क्रान्ति-वृत्ते बषभान्ते सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं कीटान्तेनिबध्यते तस्य सूत्रस्यार्द्धमेकाराशेर्ज्या भवति। एवं सूत्र-स्यैकप्तग्रं मेषान्ते बद्ध्वा द्वितीयं यिंहान्ते तस्य सूत्रस्यार्धंराशिद्वयस्य ज्या भवति। एवं मेषतुलादौ वद्वसूत्रस्यार्धंत्रिज्या। एता एव वृषभान्तमेषान्तमीनान्ताहोरात्रवृत्तानांज्या भवन्ति यतस्तत्संपातेषु क्रान्तिवृत्ते सूत्राणि बद्वानि। अतस्तासां त्रिज्यावृत्तपरिणतानां चापान्तराणि कीटा-दिकानामुदया मवन्तीति गोले प्रदर्शयेत्। इदानींपुनः प्रकारान्तरेणाह प्रमि॰।
“मेषादिजीवास्त्रिगृहद्यु-मौर्व्या

३१

४१ क्षुण्णा हृताः स्वस्वदिनज्यया वा। चापी-कृताः प्राग्वदधो विशुद्धा मेषादिकानामुदयासवो वा” शि॰। स्पष्टार्थमिदम्, अस्योपपत्तिर्गोले कयितैव सुगमा च अथनिष्पन्नांस्तानसूनाह” प्रमि॰।
“तेऽभ्राद्रिभूपा

१६

७० गुणगोऽद्रिचन्द्राः

१७

९३ सप्ताग्निनन्देन्दुमिता

१९

३७ अथैते। क्रमोत्क्रमस्थाश्चरखण्डकैः स्वैः क्रमोत्क्रमस्थैश्चविहीनयुक्ताः। मेषादिषस्मामुदयाः स्वदेशे तुलादितोऽमीच विलोमसंस्थाः। उदेति राशिः समयेन येन तत्सप्तमो-ऽस्तं समुपैति तेन” शि॰।
“अत्र घनु करणे जीवानां स्थू-लत्वाद्द्वितीयतृतोयावुदयौ नान्यैः सम्यक्पठितौ। अत्रप्रथमप्रकारेण प्रथम उदयो गृह्यते। द्वितीयादिप्रकारेणद्वितीयतृतीयौ। शेषं स्पष्टार्थम्। अत्रोपपत्तिः। निरक्ष-स्वदेशार्कोदययोरन्तरं चरम्। निरक्षे स्वदेशे च मेषादिःसममुदेति। मेषान्त आदौ स्वक्षितिजे, तत उन्मण्डलेलगति। अतश्चरखण्डोनो मेषोदयः स्वदेशोदयो भवति। एवं वृषमिथुनयोरपि। कर्क्यादौ तु चरस्वण्डानामुपची-तयमानत्वाद्धनं तानि परिणमन्ति। तुलादौ तून्मण्डल-स्याधःस्थितत्वाच्चरस्वण्डानि घनं भवन्ति। मकरादौतु चरखण्डनामपचीयमानत्वादृण परिणमन्ति। इत्यादिगोले सम्यग्विलोक्यते” प्रमि॰।
“चरखण्डाश्च तत्रैवोक्तायथा
“स्वदेशजैस्तच्चरखण्डकैर्वा लघुज्यकावद्रविदोस्त्रिभा-गात्। मेषादिराशित्रितयस्य यानि चराण्यधोऽधः परि-शोधितानि। तानि स्वदेशे चरखण्डकानि दिङ्नागसत्र्यंश-गुणै

१० ।

८ ।

३ ।

२० र्विनिघ्नी। पलप्रभा तोयपलात्मकानिस्थूलानि वा स्युश्चरखण्डकानि। स्थूलं चरं चाम्बुपला-त्मकं तैस्तत्प्राणचापं यदि वापि सूक्ष्मम्” शि॰।
“अथ वा[Page1139-b+ 38] तच्चरं वक्ष्यमाणैस्त्रिभिः खण्डकैः स्वदेशजैर्लघुज्याप्रकारेणां-शसितदशाप्तमित्यादिना साध्यम्। कस्मादित्याह। रविदो-स्त्रिपागात्। अर्कस्य सायनांशस्य यो भुजस्तस्य यस्त्र्यंश-स्तस्मादंशमितदशाप्तमित्यादिना। अथ खण्डकानि। मेषादिराशित्रयस्येत्यादि सुगमम्। अथ स्थूलखण्डकैर्य-च्चरं तत् स्थूलं पानीयपलात्मकं भवति। तत् षड्गुणंप्राणात्मकम्। तस्माद्यदि घनुः क्रियते तदा सूक्ष्मं चरा-र्धं स्यात्। अत्रोपपत्तिः। एकमङ्गुलं पलभां प्रकल्प्यएकद्वित्रिराशीनां पृथक् चराण्यानीय तानि षड्भिर्वि-मज्य पानीयपलात्मकानि कृत्वा यावदधोऽधो विशोध्यन्तेतावद्दिङ्वागसत्र्यंशगुणा उत्पद्यन्ते। अतोऽनुपातः। तद्येकाङ्गुलया पलमयैतानि चरखण्डानि तदेष्टया कि-मिति। एवं चरखण्डानि स्युः। परं तानि ज्यात्मकानियतः पूर्वं स्वल्पत्वात् धनुर्नोत्पन्नम्। अत एव तत्प्राण-चापं यदि वापि स्वक्ष्ममित्युक्तम्। खण्डकैश्चरकरणेलघुज्यासाधनवद्वासना। तत्र लघुज्याखण्डकानि नवचरखण्डकानि त्रीणि परमे राशित्रये भुजे यथा त्रीणिलभ्यन्ते। तदर्थं रविदोस्त्रिमागादित्युक्तम्” प्रमि॰। गोलाध्याये च उदयान्तरकर्म्मोपत्तियुक्तं देशान्तरसहितं स्पष्टतया तत्साधनमुक्तं यथा
“अहर्गणोसध्यमसावनेन कृतश्चलत्वात् स्फुटसावनस्य। तदुत्य-खेटा उदयान्तराख्यकर्मोद्भवेतोनयुताः फलेन। लङ्कोदयेस्युर्न कृतास्तथाद्यैर्यतोऽन्तरन्तच्चलमल्पकञ्च” शि॰ योयमहर्गणआनीतः स मध्यमसावनेनैव कुवः? स्फुटसावनस्य चलत्वात्तथाविधेनानुपातेन स्फुटो मायातीत्यर्थः युगादेरारभ्यवर्तमानरविवर्षादेः प्राक् यावान् मध्यमसावनस्तावानेवस्फुटसावनः स्यात् किन्तु रविवर्षादेरूर्द्धं यावान् मध्यमसावनस्तावान्न स्फुटा अतस्तदुत्यखेटा उदयान्तराख्यकर्मोद्भवेन फलेनानयुताः सन्तो लङ्कोदये स्वुर्नान्यथा लङ्का-यां भास्करोदये मध्या इति यदन्यैरुक्तं तदसत्। अथोदयान्तरकर्माह” प्रमि॰
“मध्यार्कभुक्ताअसवीनिरक्षे ये ये च मध्यार्ककलासमानाः। तदन्तरं यत्स्फुटमध्ययोस्तत् द्युपिण्डयोः स्याद्विवरं गतिघम्। हृतं द्युरात्रासुभिराप्तलिप्ता हीनाग्रहाश्चेदसवोऽल्पकाःस्युः। तदत्यथाढ्यास्तु निजोदयैश्चेद्भक्तासु पूर्वं विहितं तदा-नीम्। कृतं तथा स्याच्चरकर्ममिश्रं कर्म ग्रहाणामुदयास्त-रा{??}म्” शि॰।
“सायनांशेन रविणा मेषादेरारभ्य ये भुक्ता-राशयस्तत्सबन्धिनो ये निरक्षोदयासवो गगनंभूधरषट्क-[Page1140-a+ 38] चन्द्राः

१६

७० । इत्यादयस्तेषामैक्यं कृत्वा भुज्यमानराशेर्ये भुक्तभागास्तांस्तदुदयासुभिः सङ्गुण्य त्रिंशता

३० विभज्य लब्धासवोऽपि तत्र क्षेप्याः एवं मध्यार्कभुक्तासवःस्युः। भदिनान्तादूर्ध्वं तावत्यस्वात्मके काले लङ्कायां मध्य-मस्यार्कस्योदयः। तत्काले हि ग्रहाः साध्याः अथ चाहर्ग-णेन ये सिद्धास्ते मध्यमार्ककलामितेऽस्वात्मके काले भदि-नान्तादूर्ध्वं जाताः, अतोऽसूनां कलानां च यदन्तरंतेनार्कोदयोऽन्तरितः। अतस्तदुदयान्तराख्यं कर्मोच्यते तैर-न्तरासुभिर्ग्रहगातिं सङ्गुण्यार्कसावनाहोरात्रासुभि

२१

६५

९ र्विभज्य लब्धकला ग्रहे ऋणं कार्याः यदिकलाभ्योऽसवोऽल्पकाः स्युः, अन्यथा धनं, यदि तु स्वदेशोदयैर्मध्यमार्कभुक्तानसूनानीयैदंकर्म कृतं तदौदयिकानांग्रहाणां चरकर्मापि कृतं स्यात् यदि तु स्फुटार्कभुक्तानसून्स्वोदयासुभिरानीयेदं कर्म कृतं तदोदयान्तरभुजान्तरचरकर्माणि त्रीण्यपि कृतानि स्युः तर्हि कथमिदमुदयान्त-राख्यं कर्माद्यैर्न कृतं तदाह यतोऽन्तरं तच्चलमल्पकञ्चपर्षचरणान्तेषु चतुर्ष्वपि अन्तराभावः तन्मध्येष्वन्तरस्य वृद्धि-क्षयौ। इदानीं देशान्तरस्वरूपमाह” प्रमि॰
“येऽनेन लङ्कोद-यकालिकास्ते देशान्तरेण स्वपुरोदये स्युः। देशान्तरं प्रा-गपरं तथान्यद्याम्योत्तरं तच्चरसंज्ञमुक्तम्” शि॰।
“येउदयान्तरकर्म्मणा लङ्कायामौदयिका ग्रहा जातास्तेदेशान्तरकर्म्मणा स्वपुरौदयिकाः स्युः। तच्च देशान्तरंद्धिविधम् एकं पूर्वापर, मन्यद्याम्योत्तरं तच्चरसंज्ञ-मुक्तं तत्र तावत्पूर्वापरमाह” प्रमि॰।
“यल्लङ्कोज्ज-यिनीपुरोपरिकुरुक्षेत्रादिदेशान् स्पृशत् सूत्रं मेरुगतंबुधैर्निगदिता सा मध्यरेखा भुवः। आदौ प्रागु-दयोऽपरत्र विषये पश्चाद्धि रेखोदयात् स्यात्तस्मात् क्रियतेतदन्तरभवं खेटेष्वृणं स्वं फलम्” शि॰।
“लङ्काया मेरु-पर्यन्तं मीयभाना या रेखा उज्जयिनीकुरुक्षेत्रादिदेशान्स्पृशन्ती याति सा मध्यरेखेत्युच्यते। रेखायां यदार्कोदयस्तत्कालात् पूर्व्वमेव पूर्वदेशे भवति रेखोदयकालादनन्तरंपश्चिमदेशेऽर्कोदयः। तदन्तरकालस्तदन्तरयोजनैः स्पष्टभूवे-ष्टनाद्यनुप्रातेन ज्ञायते यदि स्फुटपरिधियोजनैः षष्टि

६० घटिका लभ्यन्ते तदा रेखास्वपुरयोरन्तरयोजनैः किमितीतित्रैराशिकेन देशान्तरघटिकालभ्यन्तेमध्यगत्याऽथ चानीताताड्यस्त भिरनुपातः यदि घटीषष्ट्या ग्रहस्य गतिकलालम्यन्ते तदा देशान्तरघटीभिः किमिति अथ योजनैरेवाऽ-नुपातः। यदि स्फुटपरिधियोजनैर्गतिः प्राप्यते तदा देशा-[Page1140-b+ 38] न्तरयोजनैः किमिति फलं कलाः प्रागृणं, यतस्तत्रा दावुदयःपश्चाद्धनं यतस्तत्र रेखोदयादनन्तरमर्कोदय इत्युपपन्नम्। इदानींभूगोलेस्फुटपरिधिप्रदेशं स्फुटतानुपातं चाह” प्रमि॰
“स्वदेशमेर्वन्तरयोजनैर्यल्लम्बांशजैर्मेरुगिरेः समन्तात्। वृत्तंस्फुटो भूपरिधिर्यतः स्यात्त्रिज्याहतो लम्बगुणः कृतोऽस्मात्” शि॰
“स्वपुरस्य मेरुगर्भस्य चान्तरे यावन्ति योजनानि ता-वन्ति लम्बांशजानि यतो निरक्षदेशस्वपुरान्तरयोजनान्यक्षां-शजानि, भागेभ्यो योजनानि च व्यस्तमित्युपपद्यत इत्यर्थःतैर्लम्बांशजैर्योजनैर्मेरुगिरेः समन्ताद्यद्वृत्तमुत्पद्यते स स्फुटंमूपरिधिः यो मध्यपरिधिः पठितः स निरक्षदेशो-परि। अयन्तु स्वपुरोपरि, अतः किञ्चिन्न्यूनो भवति अथतदानयनं मध्यपरिधेरभीष्टन्त्रिज्यातुल्यं व्यासार्धं प्रकल्प्यतस्मिन् व्यासार्धे स्वपुरे यावती लम्बज्या तावत् स्फुटपरिधे-र्व्यासार्धं भवितुमर्हति अतस्तेन त्रैराशिकं यदि त्रिज्या-व्यासार्धे मध्यमः प्ररिधिर्लभ्यते तदा लम्बज्यामिते कःइति फलं स्फुटपरिधिरित्युपपन्नम्” प्रमिताक्षरा। ( इष्टकाले लग्नाद्यानयनम् अष्टमशब्दे

५१

९ पृष्ठ लङ्को-दयप्रमाणदर्शनपूर्वकमुक्तप्रायम् विशेषस्तु सि॰ शि॰।
“तात्कालिकार्केण युतस्य राशेरभुक्तभागैर्गुणितोदयात् स्वात्। मोग्यासवः खाग्निहृतादवाप्ता भुक्तासवो भुक्तलवैः स्युरे-वम्। इष्टासुसङ्घादपनीय भोग्यांस्तदग्रतो राश्युदयांश्चशेषम्। अशुद्धहृत् खाग्निगुणं लवाद्यमशुद्ध्वपूर्वैर्भवनैर-जाद्यैः। युक्तं तनुः स्यादनयनांशहीनमिष्टासवोऽल्पा यदिभोग्यकेभ्यः। त्रिंशद्गुणाः स्वोदयभाजितास्ते लब्धांश-युक्तो रविरेव लग्नम्” शि॰।
“यस्मिन् काले लग्नं ज्ञेयंतस्मिन् काले तात्कालिकोऽर्कः सायनांशः कार्यः। तेनार्केणयुतस्य राशेर्ये भोग्यांशास्तैस्तदुदयासवो गुण्यास्त्रिंशताभाज्याः। ये लब्धास्ते भोग्यासवः स्युः। अथेष्टासुभ्यो भोग्यासून् विशोध्य तदग्रतो यावन्त उदयाः शुध्यन्ति ता-वन्तः शोध्याः। ततः शेषात् खरामगुणादशुद्धोदयेनभक्ताद्यल्लब्धमंशाद्यं तदशुद्धोदयात् पूर्वं यावन्तो मेषाद्य-उदयास्तावद्भी राशिभिर्युतमयनांशैश्च रहितं तल्लग्नं स्यात्। अथ यदीष्टासवो भोग्येभ्योऽल्पः तदेष्टासवस्त्रिंशद्गुणास्तदु-दयासुभिर्भाज्याः। फलेनांशाद्येन युतो रविर्लग्नं स्यात्” प्रमि॰ लग्नांशादिना कालानयनं तत्रैव दर्शितं यथा
“अर्कस्य भोग्यस्तनुभुक्तयुक्तो मध्योदयाढ्यः समयो विल-ग्नात्। यदैकभे लग्नरवी तदा तद्भागान्तरंस्वोदयखाग्नि-भागः। लग्नेऽल्पके तु द्युनिशात् स शोध्यस्तात्क्रालि-[Page1141-a+ 38] कार्कादसकृच्च कालः। चेत् सावनाः प्रष्टुरभीष्टनाड्यस्त-दैव तात्कालिकतिग्मरश्मेः॥ आर्क्ष्यो यदेष्टाघटिका वि-लग्नं कालश्च तत्रैदयिकात् सकृच्च” शि॰।
“अर्कस्य प्राग्वद्भो-ग्थकालः साध्यः। लग्नस्य सायनांशस्य भुक्तकालः साध्यःतयोरैक्यमर्कादग्रतो लग्नपर्य्यन्तं ये मध्ये राशयस्तेषा-मुदयाश्च क्षेप्यास्तत्रैव। एवं लग्नात् कालो भवति। अत्र यदैकराशौ लग्नार्कौ भवतस्तदा तयोरन्तरांशैः स्वो-दयं सङ्गुण्य त्रिंशता भजेत् फलमिष्टकालः स्यात्। परंथद्यर्काल्लग्नमधिकम्। यद्यल्पं तदा स कालोऽहोरात्राच्छो-ध्यः। शेषमिष्टकालः स्यात्। अत्रेष्टकालसाघनेऽर्कस्यभोग्यमौदयिकादेव क्रियते। यतः कालज्ञानात् तात्का-लिकत्वमर्कस्य कार्य्यम्। अतः स्थूलः काल आयाति। अनेन कालेन तात्कालिकमर्कं कृत्वा मुहुः कालः साध-यितुं युज्यते। परं यदि प्रष्टुः सावनघटिका इष्टाः। एतदुक्तं भवति। उदयानन्तरमेतावतीष्वर्कसावनघटिकासुकीदृग् लग्नं भवतीत्येतदभीष्टं तदैव तात्कालिकार्काल्लग्नंसाध्यते तदैव च लग्नादसकृत् कालः। यदा पुनरिष्टघटिकाआर्क्ष्यस्तदौदयिकादेवार्काल्लग्नं लग्नात् कालः सकृच्च। अत्तोपपत्तिः सुगमा। तात्कालिकीकरणकारणता गोले क-थिता व्याख्याता च। इदानीं विलोमेन लग्नसाधनमाह” ग्रमि॰।
“भुक्तासु शुद्धेर्विपरीतलग्नं भुक्तांशगेहाप्तलवोनि-तोऽर्कः” शि॰
“यदोदयात् पूर्वघटीषु लग्नमिष्टं तदाशेषासुभ्यो विशोध्य तत्कालिकर्मर्कं कृत्वा तस्य भुक्तासवःसाध्यास्तानिष्टासुभ्यो यावन्त उदया विशुध्यन्ति तावतोविलोमेन विशोधयेत्। शेषात् खरामगुणितादविशुद्धोदयभक्ताद् ये लब्धा अंशास्तैस्तथार्कभुक्तांशैश्च तथाविशुद्धोदयतुल्यैराशिभिश्चोनीकृतो रविर्लग्नं भवतिप्रमि॰। होराद्रेक्काणोदयसाधनमपि तत्रैव यथा
“क्षेत्राणां स्थूलत्वात् स्थूलाउदया भवन्ति राशीनाम्। सूक्ष्मार्थी होराणां कुर्य्याद्द्रेक्काणकानां वा” शि॰
“यथाराश्युदयाः साधितास्तथा होरोदया अपि साध्याः। तद्यथा पञ्चदशादिपञ्चदशभागोत्तरभागाणां ज्या होरा-ज्याः षड् भवन्ति। ताभिर्मिथुनान्तद्युज्या

३१

४१ पृथक्पृथग्गुण्या स्वस्वद्युज्यया भाज्या। फलानां धनूंष्यधो-ऽधः शुद्धानि। षष्ठात् पञ्चमं पञ्चमाच्चतुर्थ--मित्यादि। शेषाणि होरोदयासवो भवन्ति। एवं दशादिदशोत्तरभा-गैर्द्रेक्काणोदया भवन्ति। ते च नव। तथा होरांशा-नाह षट् चराणि। यान्यधोऽधः शुद्धानि तानि तेषां[Page1141-b+ 38] चरखण्डानि तैः क्रमोत्क्रमस्थैः क्मोत्क्रमस्था ऊनयुताःसन्तः स्वदेशे होरोदया भवन्ति। मेषादीनां द्वादश,ते च व्यस्तास्तुलादीनाम्। एवं चतुर्विंशतिः

२४ । एवमेवद्रेक्काणोदयाः षट्त्रिंशत्। तथा चार्कस्य सायनांशस्यमागाः पञ्चदश

१५ हृता गता होराः स्युः। शेषांशास्तेभुक्तास्ते पञ्चदशभ्यः शुद्धा भोग्यांशाः स्युः। भोग्यां-शघ्नः स्वदेशहोरोदयः वञ्चदशहृताः फलं भोग्यासवः स्युस्ता-निष्टासुभ्यो विशोध्य तदग्रतो होरोदयांश्च शोधयेत्॥ शेषंपञ्चदशगुणमशुद्धहोरोदयेन भजेत् फलं लवाः। अशु-द्धपूर्व्वाणां होरोदयानां संख्यया गुणितैः पञ्चदशभि-र्युताः सन्तो लग्नस्यांशा मवन्ति। एवं लग्नात् कालसाध-नेऽपि। एवमेव दृक्कणोदयैरपि लग्नसाधनम्। तत्रपञ्चदशस्थाने दश

१० गुणने भजने च कल्प्याः। एवंहोरोदयैर्दृक्काणोदयैर्वा साधितं लग्नादिकमुदयान्तराख्यंकर्म्म च सूक्ष्मं भवति अन्यथा स्थूलम्” प्रमि॰। ( ग्रहाणामुदयान्तरकर्म तत्रोक्तम्
“भानोः फलं गुणि-तमर्कयुतस्य राशेर्व्यर्क्षोदयेन खखनागमही

१८

०० विभ-क्तम्। गत्या ग्रहस्य गुणितं द्युनिशासु भक्तं स्वर्णं ग्रहे-ऽर्कवदिदं तु भुजान्तराख्यम्” शि॰।
“अर्कस्य यद्भुजफलंथस्मिन् राशौ रविर्वर्त्तते तस्य राशेः सम्बन्धी योनिरक्षोदयस्तेन तद्गुणितराशिकलाभि

१८

०० र्भक्तंपुनर्ग्रहगत्या गुणितमहोरात्रासुभि

२१

६५

९ र्भक्तं यत्फलं तद्ग्रहेऽर्कवत् धनर्णं कार्य्यम्। यद्यर्कस्य भुजफ-लम् धनं, तदा सूर्य्यस्यान्येषां च धनम्। यदि ऋणंतदा ऋणमित्यर्थः। अत्रोपपत्तिः। ये मध्यमार्कौ-दयिकास्ते स्फुटार्कौदयिकाः क्रियन्ते। तत्रार्कफलस्यासु-करणायानुपातः। यदि राशिकला

१८

०० निरक्षोद-यासुभिरुद्गच्छन्ति तदा फलकलाः कतिभिरिति। लब्धं भास्वत्फलोत्था असवो भवन्ति। अथान्योऽनु-पातः। यदि द्युनिशासुभिर्गतिकला लभ्यन्ते तदैभिःकिमिति। ताः कला ऋणं धनं च यतो मध्यमार्कोद-यात् प्राक् स्फुटार्कोदयः स्यादृणे तत्फले स्वं यतोनन्त-रमित्युपपन्नम्। इदानीमुदयान्तरमाह” प्रमि॰।
“युक्तायनांशस्य तु मध्यमस्य भुक्तासवोऽर्कस्य निरक्षदेशे। मेषादि-भुक्तोदयसंयुता ये यश्चायनांशान्वितमध्यभानोः। लिप्ता-गणस्तद्विवरेण निध्नी गतिर्ग्रहस्य द्युनिशासुभक्ता। स्वर्ण-ग्रहे चेदसवोऽधिकोना इदं ग्रहाणामुदयान्तराख्यम्” शि॰
“मध्यमार्कस्य सायनांशस्य ये राशेर्भुक्तभागास्तैस्तदुदयं[Page1142-a+ 38] निरक्षदेशीयं संगुण्य त्रिंशता विभजेत् फलं तस्यराशेर्भुक्तासवः। अथ मेषाद्या येऽर्केण भुक्ता राशयस्तेषांच निरक्षोदयासवस्तत्र योज्यास्ते मेषादिभुक्तोदयासवःस्युः। अथ मध्यमार्कस्य सायनांशस्य कलाः कायांः। तासां कलानां तेषामसूनां च यदन्तरं तेन ग्रहगति-र्गुण्या द्युनिशासुभिर्भाज्या लब्धाः कला ग्रहे धनंकार्याः यदि कलाभ्योऽसवोऽधिकाः स्युः, यदि न्यू-नास्तदा ऋणम्। अत्रोपपत्तिः। इह यः पूर्व्वमह-र्गणः कृतः समध्यमसावनमानेन स्फुटसावमस्य चलत्वात्। रविमध्यगतिकलातुल्यासुभिः सहिता नाक्षत्राः षष्टिघ-टिकाः

६० ,

५९ ,

८ । इदं मध्यममर्कसावनम्। ता गति-कला यैरसुभिरुद्गच्छन्ति तद्युताः वष्टिघटिकाः स्फुटसाव-भम्। तच्चलम्। प्रत्यहं गत्यन्यत्वात् प्रतिमासं राश्यु-दयान्यत्वाच्च। तादृशोऽहर्गणः कर्त्तुं नायातीति मध्यमःकृतः। तेन सम्यनर्कोदये ग्रहा न भवन्ति कदाचिदर्कोदयात्प्राक् कदाचिदनन्तरम्। अत एव प्रागुक्तम्।
“दशशिरःपुरि मध्यमभास्करे क्षितिजसर्न्निधिगे सति मध्यमः” शि॰इति। अथ स्फुटमध्याहर्गणयोरन्तरानयनम्। मेषादेरा-रभ्य येऽर्कभुक्ता राशयस्ते वैरसुभिरुद्गच्छन्ति त एकीकृता। तावत्यस्वात्मके काले भदिनान्तादूर्द्ध्वमहर्गणेन भवितव्यम्। अथ च मेषादिभुक्तकलातुल्येऽन्तरे कृतः। अतोऽसूनांकलानां च यदन्तरं तावद्भिरसुभिरहर्गणोऽन्तरितः। यद्य-होरात्रासुभिर्गतिर्लभ्यत तदैभिरन्तरासुभिः किमिति। फलंग्रहेषु स्वं यद्यसवोऽधिकाः। अन्यथा ऋणमित्येतदुक्तंयुक्तमेव”। इदानीं येऽस्योदयान्तरस्य वासनां न बुध्यन्तितेषां प्रतीत्यर्थमन्यदप्याह” प्रमि॰।
“चेत् स्वोदयैः स्फुटर-वेरसवः कृतास्ते विश्लेषिताश्च यदि मध्यरवेः कलाभिः। बाह्वन्तराख्यमुदयान्तरकं चराख्यं कर्मत्रयं विहितमौद-यिके तदा स्यात्” शि॰।
“यदि स्फुटरवेः स्वोदयेन भुक्तासवःकृता मेषादिस्वोदयैश्च युतास्तेषामसूनां मध्यमार्ककलानांच यदन्तरं तेन भुक्तिर्गुणिता द्युनिशासुभिर्भक्तायद्यसवोऽधिकास्तदा फलं ग्रहे स्वम्। अन्यथा ऋणम्। एवं कृते सति भुजान्तरमुदयान्तरं चराख्यं च कर्मत्र-यमपि कृतं स्यादौदयिके ग्रहे। इदानीं प्रकारान्तरेणौद-यिककर्माह” प्रमि॰।
“मध्याद्रवेरयनभागयुताद्द्विनिघ्ना-द्दोज्या खघुर्गतिगुणा खनगाश्चि

२७

० भक्ता। स्वर्णं ग्रहेयुगयुजोः पदयोर्विलिप्तास्वेवं स्फुटं खलु भवेदुदयान्तरंवा” शि॰।
“मध्यमार्कस्थ सायनांशस्य द्विगुणितस्य या[Page1142-b+ 38] लघुस्वण्डकैर्दोर्ज्या तया गुणिता ग्रहगतिः खनगयमै

२७

० र्हृता फलं विकलादि ग्रहे धनम्। एवं युग्मपद-स्थितेऽर्के। अयुग्मपदस्थिते त्वृणम्। अत्रोपपत्तिः। क्रा-न्तिवृत्तस्य चत्वार्यपि पदानि पृथक् पृथक् पञ्चदशभिःपञ्चदशभिर्घटिकाभिरुद्गच्छन्ति। परं नैकैको राशिः पञ्च-भिरत उदयान्तरकर्म पदमध्यं यावदुपचीयते ततोऽप-चोयते। अत एव पदान्तरेषु तस्याभावः। पदमध्येषु पर-मता। यदत्र निरक्षोदयैः कर्म दर्शितं तद्बालावबोधा-र्थम्। तत् स्थूलम् उदयानां स्थूलत्वात्। अत एवार्य्यसट्टादिभिः सूक्ष्मत्वार्थं दृक्काणोदयाः पठिताः”। इदमु-दयान्तरं कर्म यथा सग्भवति तथोच्यते। मध्यमार्कस्यसायानांशस्य दोर्ज्यां द्युज्यां च कृत्वा तया द्युज्यया सादोर्ज्या भाज्या मिथुनान्तद्युज्यया गुणनीया। तस्याधनुषो येऽसवस्तैर्मध्यमार्कस्य सायनांशस्य भुजकला ऊनाःसत्यः स्फुटा अन्तरासवो भवन्ति। तैरुदयोऽन्तरित इत्यर्थःएवं पदमध्ये षडिवंशतिः पलानि किञ्चिदधिकानि भ-वन्वि। तानि ज्याप्रकारेण साधयितुमर्को द्विगुणितः। द्विगुणितस्यार्कस्य यावद्भुजः क्रियते तावत् पदमध्ये राशि-त्रयं भवति। तद्दोर्ज्यया लघ्व्या षडिवंशत्या चानुपातः। यदि खार्कमितया दोर्ज्यया षडिवंशतिर्लभ्यते तदाभीष्टयाकिमिति। अत्र षड्किशत्या खार्का अपवर्त्तिता गुणक-स्थाने रूपम्

१ । हरस्थाने सार्धाश्चत्वारः। फलं पानीय-पलानि। पुनरन्योऽनुपातः। यदि पानीयपलषष्ट्या गति-कलातुल्या विकला लभ्यन्ते तदैभिः किमिति। पूर्वं लघ्वीदोर्ज्या गुणः सार्धाश्चत्वरो हरः। इदानीं षष्टिर्हरः अतोग्रहगतेर्दोर्ज्या गुणः। हरयोर्घातो हरः खनगाश्विनः

२७

० इत्युपपन्नम्। ओजपदेऽसवः कलाभ्य ऊना एव भव-त्यतस्तत्र ऋणम्। युम्मपदे त्वधिका अतस्तत्र धनम्” प्रमि॰( ग्रहाणां दृश्यादृश्ययोः चन्द्रे विशेषस्य च निरूपणं तत्रैव
“निशीष्टलग्नादुदयास्तलग्ने न्यूनाधिके यस्य खगःसदृश्यः। दिनेऽपि चन्द्रो रविसन्निधानान्नास्तं गतश्चेत् सतिदर्शने भा” शि॰।
“दिनकरेऽस्तंगते यदिष्टकाले लग्नंतदिष्टलग्नम्। तस्माद्ग्रहश्चोदयाख्यलग्नं न्यूनमस्ताख्यंचाधिकं यदि भवति तदा ग्रहो दृश्यः इतोऽन्यथाचेददृश्यः। एवं लक्षणे सति चन्द्रो दिवसेऽपि दृश्यः। यदि ग्रहो दृश्यस्तदा ग्रहस्य छाया साध्या” प्रमि॰। ( ताराग्रहाणामुदयास्तममयोर्ज्ञापनं यथा सू॰ सि॰रङ्गना॰।
“अथोदयास्तमययोः परिज्ञानं प्रकीर्त्यते। दिवा-[Page1143-a+ 38] करकराक्रान्तमूर्त्तीनामल्पतेजसाम्” सू॰।
“अथ नक्षत्र-ग्रहयुत्यधिकारानन्तरम्। सूर्य्यकिरणाभिभूता मूर्त्ति-र्विम्बं येषां तेषां चन्द्रादिषड्ग्रहाणां नक्षत्राणांच। अतएवाल्पतेजसां न्यूनप्रभावतामुदयास्तमययोःअग्रिमकाले सूर्य्यादधिकासन्निहितसन्निहितत्वसम्भावनयाक्रमेणोदयास्तयोः सूर्यान्निःसृतस्य यस्मिन् काले यद-न्तरेण प्रथमदर्शनं सम्भावितं स उदयः। सूर्याद्दूर-स्थितस्य यस्मित् काले यदन्तरेण प्रथमादर्शनं सम्भा-वितं सोऽस्तः। अनेन नित्योदयास्तव्यवच्छेदस्तयोरि-त्यर्थः। परिज्ञानं सूक्ष्मज्ञानप्रकारः प्रकीर्त्यते अतिसूक्ष्मत्वेन मयोच्यत इत्यर्थः। तथा च ग्रह इत्युद्देशे-ऽस्तमनमुद्दिष्टमपि तस्य पूर्व्वमेव सूर्यासमत्व एव स-म्भवात् तद्विलक्षणतया ग्रहयुतिप्रसङ्गे नोक्तम्। नक्षत्र-ग्रहयुतिस्तु ग्रहयुतिवदिति तदनन्तरमुक्ता। अतः प्रति-बन्धकजिज्ञासापगमेऽवश्यवक्तव्यत्वादस्यावसरसङ्गतित्वात् त-त्सङ्गत्या नक्षत्रग्रहयुत्यधिकारानन्तरं प्रागुद्दिष्टमस्तमनंतत्प्रसङ्कादुदयश्च प्रतिपाद्यत इति भावः। तत्र प्रथमं पञ्च-ताराणां पश्चिमास्तपूर्वोदयावाह” र॰ ना॰।
“सूर्यादभ्यधिकाःपश्चादस्तं जीवकुजार्कजाः। ऊनाः प्रागुदयं यान्ति शुक्र-ज्ञौ वक्रिणौ तथा” सू॰
“वक्रगती शुक्रबुधौ तथा सूर्यादधि-कौ पश्चिमास्तं गच्छतः। सूर्यादल्पौ पूर्वोदयं प्राप्नुतः। शेषं स्पष्टम्। अथ चन्द्रबुघशुकाणां पूर्वास्तपश्चिमोदयावाह र॰ ना॰।
“ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभा-र्गंवाः। व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः” सू॰।
“शीघ्रयायिनः सूर्य्यगत्यधिकगतय इत्यर्थः। एतेन बुध-शुक्रावर्कगत्यल्पगती सूर्यादल्पौ पूर्वास्तमधिकौ च पश्चिमो-दयं न प्राप्तुत इत्युक्तम्। शेषं स्पष्टम्। अत्रोप-पत्तिः। रविगतितोऽल्पगतिर्ग्रहोऽर्कादूनश्चेत् प्राच्यां द-र्शनयोग्यो भवितुमर्हति। यतः सूर्यस्याधिकत्वेन बहु-गतित्वाच्चोत्तरोत्तरमधिकविप्रकर्षात् प्रवहवशेन न्यूनस्यपूर्वमुदयादधिकस्यानन्तरमुदयनियमात्। ग्रहस्य क्रान्ति-जसंलग्नताकालानन्तरं यावत् सूर्यस्य तादृशः काल-स्तावत्पर्यन्तं विप्रकर्षे दर्शनसम्भवात्। एवं यदाल्प-गतिः सूर्यादधिकस्तदा प्रवहवशेनार्कस्य पूर्वमुदयादनन्त-रमुदितग्रहस्य दर्शनासम्भवात् प्रवहवशेनादौ न्यूनार्क-स्यास्तसम्भवादनन्तरमधिकग्रहस्यास्तसम्भवात् सूर्यास्तान-न्तरं पश्चिमभागे ग्रहदर्शनसम्भवेऽप्यधिकगतिसूर्यस्यपृष्ठस्थितत्वेनोत्तरोत्तरमधिकसन्निकर्षात् पश्चिमायामदर्श-[Page1143-b+ 38] नं सम्भवत्येव। ते तु भौमगुरुशनयः। वक्रत्वे न्यू-नगतित्वाद्बुथशुक्रौ चेति। अथार्कगतितोऽधिकगति-ग्रहः। सूर्यादूनस्तदोक्तरीत्योत्तरोत्तरभधिकसन्निकर्षात्पूर्वस्मिन्नदर्शनं याति। यदा सूर्यादधिकस्तदोक्तरीत्यो-त्तरोत्तरमधिकविप्रकर्षात् पश्चिमायामुदयः। ते तु शीघ्रा-श्चन्द्रबुधशुक्रा इत्युपपन्नमुक्तम्। अथाभीष्टदिन आसन्नेसूर्योदयास्तकालिकौ सूर्यदृग्ग्रहौ तत्कालज्ञानार्थं का-र्यावित्याह” र॰ ना॰।
“सूर्थास्तकालिकाः पश्चात् प्राच्यामु-दयकालिकौ। दिवाकरग्रहौ कुर्याद्दृक्कर्माथ ग्रहस्यतु” सू॰।
“पश्चात् पश्चिमास्तोदयसाधनेऽभीष्टदिन आसन्ने सूर्य-ग्रहौ सूर्यास्तकालिकौ कुर्याद्गणकः। पूर्व्वास्तोदय-साधने सूर्योदयकालिकौ कुर्यात् दिनेऽभीष्टकाले कु-र्यात्। चकारो विकल्पार्थकः। अनन्तरं ग्रहस्य दृक्कर्म्मआयनाक्षदृक्कर्म्मद्वयं कुर्यात्। तुकार आक्षदृक्कर्मश्लोव-पूर्व्वार्द्धोक्तमिति विशेषार्थकः। अत्रोपपत्तिः। पश्चाद-स्तोदयसाघने पश्चिमायां तद्दर्शनमिति सूर्यास्तका-लिकौ सूर्यग्रहावशिष्टकालांशसाधनार्थं सूक्ष्मौ। पूर्वो-दयास्तमाधने पूर्वदिशि तद्दर्शनमिति सूर्योदयकालिकौसूर्यग्रहावशिष्टकालांशसाधनार्थं सूक्ष्मावन्यकाले तु कि-ञ्चित्स्थूलावपि कृतौ दृक्कर्मसंस्कृतग्रहस्य सूर्यवत् क्षितिज-संलग्नतायोग्यत्वादृक्कर्मसंस्कृतो ग्रहः कार्य इति। अथेष्टका-लांशानयनमाह” र॰ ना॰।
“ततोलग्नान्तरप्राणाः कालांशाःषष्टिभाजिताः। प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः” सू॰।
“ततस्ताभ्यां सूर्य्यदृग्ग्रहाभ्यां लग्नान्तरप्राणाः
“भोग्या-सूनूनकस्याथ” इत्युक्तप्रकारेणान्तरकालासवः षष्टिभक्ता इष्टाःकालांशा भवन्ति। प्रागुदयास्तसाधने प्रतीच्यां, पश्चिमो-दयास्तसाधने षड्भयुतयोः षड्राशियुक्तयोः सूर्य्यदृग्ग्रह-योर्लग्नान्तरासवः। अनन्तरासवस्तद्वत् षष्टिभक्ता इष्टका-लांशा भवन्तीत्यर्थः। अत्रोपपत्तिः। दृग्ग्रहसूर्य्याभ्याम-न्तरकालो ग्रहस्य सूर्य्योदयकाले दिनगतं पूर्वोदयास्तनि-मित्तमुपयुक्तम्। एवं पश्चिमोदयास्तनिमित्तं सूर्य्यदिग्ग्र-हाभ्यामस्तकालासुभिरन्तरकालः सूर्य्यास्तकाले ग्रहस्यदिनशेषकाल उपयुक्तः तत्रास्तकालानामनुक्तेरुदयासुभिःसाधनार्थं सषड्भौ सूर्य्यदृग्ग्रहौ कृतौ स कालोऽस्वात्मकः। यदि अहोरात्रासुभिश्चक्रकलातुल्यैश्चक्रांशा लभ्यन्ते तदे-ष्टासुभिः क इत्यनुपाते प्रमाणफलयोः फलापवर्त्तनेनहरस्थाने षष्टिः। अतोऽस्वात्मकान्तरकालः षष्टिभक्त इष्ट-कालांशा इत्युपपन्नमुक्तम्। अत्रेदमवधेयम्। सूर्योदयकालि-[Page1144-a+ 38] काभ्यामर्कदृग्ग्रहाभ्यामानीतेन दिनगतेन पूर्वं चाल्यो-दृग्ग्रहः। सूर्य्यास्तकालिकाभ्यां सषड्भाभ्यामर्कदृग्ग्रहा-भ्याभानीतेन दिनशेषेणाग्रे चाल्यः सषड्भो दृग्ग्रहः। क्रमेण ग्रहोदयास्तकाले प्राक्पश्चिमदृग्ग्रहौ भवतः। ताभ्यां सूर्य्यसषड्भसूर्य्याभ्यां च क्रमेण पूर्व्वरीत्यन्तर-कालो ग्रहस्य सूर्य्योदयास्तकाले क्रमेण दिनगतशेषौनाक्षत्रौ षष्टिभक्तौ कालांशाविष्टौ सूक्ष्मौ। अथेष्टकालि-काभ्यामानीतकालेन पूर्व्ववच्चालिताभ्यां प्राक्पश्चिमदृग्-ग्रहाभ्यां सूर्य्यसषडभसूर्याभ्यां चानीतकालो नाक्षत्रोऽपिसूक्ष्मासन्नः। सूर्य्योदयास्तसम्बन्धाभावात् तदुत्पन्नाः का-लांशा अपि तथा। अथ सूर्योदयास्तकालिकाभ्यामानी-तैकवारं कालात् कालांशाः स्थूला इष्टकालिकाभ्यामा-नीतैकवारकालात् कालांशा अतिस्थूलाः उभयत्र कालस्यसावनत्वात्। न हि सावनषष्टिघटीभिश्चक्रपरिपूर्त्तिर्येनसूक्ष्माः सिद्ध्यन्तीति। अथ यैः कालांशैरुदयोऽस्ती वाभवति तान् विवक्षुः प्रथमं गुरुशनिभौमानां कालांशानाह” र॰ ना॰।
“एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च। अस्तां-शा भूमिपुत्रस्य दशसप्ताधिकास्ततः” सू॰।
“तत इष्टकालां-शावगमानन्तरमस्तांशाः। अस्तो यैरंशैर्भवति तेऽंशा अ-स्तीपलक्षणादुदयांशा ज्ञेयाः। अमरेज्यस्य गुरोरेकादशकालांशाः। शनेः पञ्चदश सङ्ख्या कालांशानाम्। चः समु-च्चये। भौमस्य सप्ताधिका दश सप्तदश कालांशा इत्यर्थः। अथशुक्रस्याह” र॰ ना॰।
“पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्-महत्तया। प्रागस्तमुदयः पश्चादल्पत्वाद्दशभिर्भृगोः” सू॰
“शुक्रस्य महत्तया वक्रत्वेन नीचासन्नत्वात् स्थूलबिम्बतयापश्चिमायामस्तोऽष्टामिः कालांशैः प्राच्यामुदयश्च तैःनाधिकैः। प्राच्यां शुक्रस्याल्पत्वादणुबिम्बत्वाद्दशभिःकालांशैरस्तं गणकः कुर्य्यात् नाल्पैः। पश्चिमायामु-दयस्तस्याणुबिम्बस्य दशभिः कालांशैरेव ज्ञेयः। अथ बुध-स्याह” र॰ ना॰
“एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः। वक्री-शीघ्रगतिश्चार्कात्करोत्यस्तमयोदयौ” सू॰।
“वक्री शींघ्रगतिः। चः समुच्चये। बुधः सूर्य्याद्द्वादशभिश्चतुर्दशभिश्च कालांशै-रस्तोदयौ एवं शुक्ररीत्या करोति। पश्चादस्तंप्रागुदयं च द्वादशभिः कालांशैर्महाबिम्बतया बुधःकरोति। प्रागस्तं पश्चादुदयं च चतुर्दशभिः कालां-मैरणुबिम्बत्वाद्बुधः करोतीत्यर्थः। अथ प्रोक्ते-ष्टकालांशाभ्यामस्तस्योदयस्य वा गतैष्यत्वज्ञानमाह”{??} ना॰।
“एभ्योऽधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः। [Page1144-b+ 38] भवन्ति लोके खचरा भानुभाग्रस्तमूर्त्तयः” सू॰।
“एम्यएकादशामरेज्यस्येति श्लोकत्रयोक्तेभ्योऽधिकैरिष्टकालांशै-र्दृश्या दर्शनयोग्या अभीष्टकाले ग्रहा भवन्ति। तथाचास्तसाधने दृश्यत्वे अस्त एष्यः। उदयसाधने दृश्यत्वउदयो गत इति भावः। अल्पैरिष्टकालांशैर्ग्रहा लोकेभूलोके अदर्शना न विद्यते दर्शनं दृष्टिगोचरता येषांते अदृश्या अभीष्टकाले भवन्ति। नन्वदृश्याः कुतोभवन्तीत्यत आह। भानुभाग्रस्तमूर्त्तय इति सूर्यासन्न-त्वेन सूर्य्यकिरणदीप्त्या ग्रस्ता अभिभूता सूर्य्यकिरणप्रति-हतलोकनयनाविषयो मूर्त्तिर्बिम्बस्वरूपं येषां त इत्यर्थः। तथा चास्तसाधने अदृश्यत्वेऽस्तो गतः। उदयसाधनेऽदृ-श्यत्व उदय एष्य इति भावः। अत एव।
“उक्तेभ्य ऊना-भ्यधिका यदीष्टाः खेटोदयो गम्यगतस्तदा स्यात्। अतोऽन्यथा चास्तमयोऽवगम्यः” इति भास्कराचार्योक्तं स-ङ्गच्छते। अत्रोपपत्तिः उक्तकालांशतुल्येष्टकालांशे यत्कालेग्रहौ साधितौ तत्काले एव ग्रहस्योदयोऽस्तो वार्ककृतः। उक्तकालांशानां सूर्यसान्निध्यजनिताद्यन्तग्रहादर्शने हेतु-त्वप्रतिपादनात्। तथा चेष्टकालांशा उक्तेभ्योऽल्पास्तदाग्रहस्यास्तङ्गतत्वमेवेत्युदयसाधन इष्टकालांशा उक्तेभ्योऽल्पा-स्तदेष्टकालादग्रे ग्रहस्योदयः। यदीष्टकालांशा उक्तेभ्यो-ऽधिकास्तदेष्टकालाद्ग्रहस्योदयः पूर्वं जातः। एवमस्तसा-धन इष्टकालांशा अधिकास्तदेष्टकालादग्रे ग्रहास्तः। यदीष्टकालाशा न्यूनास्तदेष्टकालात् पूर्वं ग्रहास्तो जातइत्युपपन्नमुक्तम्। अथोदयास्तयोर्गतैष्यदिनाद्यानयनमाह” र॰ ना॰।
“तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः। दि-नादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः” सू॰।
“उक्तेष्ट-कालांशयोरन्तरस्य कलाः सूर्य्यग्रहयोर्गत्योः कलात्मकान्तरेणभक्ताः। दिनादिकमुदयास्तयोः फलमुदयास्तयोर्गतैष्यदिनाद्यंभवतीत्यर्थः। वक्रगतिग्रहस्य विशेषमाह। लब्धमिति। वक्रिणो वक्रग्रहस्य भुक्तियोगेन सूर्यग्रहयोः कलात्मक-गतियोगेन भक्ताः फलं गतैष्यदिनाद्यं ज्ञेयम्। अत्रो-पपत्तिः। यदा सूर्यग्रहयोर्गव्यन्तरकलाभिरेकं दिनं तदे-ष्टप्रोक्तकालांशयोरन्तकलाभिः किमित्यनुपातेनोदयास्तयो-रभीष्टकालाद्गतैष्यदिनाद्यवगमः। वकग्रहे गु सूर्यग्रहयोर्ग-तियोगेन प्रत्यहमन्तरवृद्धेर्गतियोगादनुपात उपपन्न इत्यु-पपन्नमुक्तम्। अथ ग्रहगतिकलयोः क्रान्तिवृत्तस्थत्वात्कालांशान्तरस्याहोरात्रवृत्तस्थत्वाच्चानुपातः प्रमाणेच्छयो-र्वैजात्येनायुक्त इति मनसि धृत्वा तयोरेकजातित्वसम्पा-[Page1145-a+ 38] दनार्थं ग्रहगत्योरिच्छाजातीयत्वं वदंस्तदन्तरेणानुपात-स्तु युक्त एवेत्याह” र॰ ना॰।
“तल्लग्नासुहते भुक्तीअष्टादशशतोद्धृते। स्यातां कालगती ताभ्यां दिनादिगतगम्ययोः” सू॰।
“भुक्ती रविग्रहयोर्गती कलात्मिकेतल्लग्नासुहते कालसाधनार्थं ग्रहस्य यो राश्युदयोगृहीतस्तेनाखात्मकोदयेन गुणिते अष्टादशशतेन भक्तेफले सूर्यग्रहयोः कालांशवत् कालगती स्याताम्। ताभ्यां गतिभ्यां गतगम्ययोरुदयास्तयोर्दिनादि पूर्वोक्त-प्रकारेण साध्यम्। न तु पूर्वोक्तप्रकारेण, यथास्थित-गतिभ्यां स्थूलत्वापत्तेः। अत्रोपपत्तिः। यदि एकराशि-कलाभीराश्युदयासवस्तदा गतिकलाभिः क इत्यनुपा-तेनाहोरात्रवृत्ते गत्यसवः कलासमा इत्युपपन्नमुक्तम्। अथ नक्षत्राणां सूर्यसान्निध्यवशादस्तोदयज्ञानार्थं कालां-शान् विवक्षुः प्रथममेषामाह” र॰ ना॰।
“स्वात्यगस्त्र्य-मृगव्याधचित्राज्येष्ठाः पुनर्वसुः। अभिजिद्ब्रह्महृदयंत्रयोदशभिरंशकैः” सू॰।
“मृगव्याधो लुब्धकः। त्रयोद-शभिः कालांशैर्दृश्यादृश्यानि नक्षत्राणि भवन्ति। शेषं स्प-ष्टम्। अथान्येषामाह” र॰ ना॰।
“हस्तश्रवणफाल्गुन्यः श्रवि-ष्ठारोहिणीमघाः। चतुर्दशांशकैर्दृश्या विशाखाश्विनदैव-तम्” सू॰। फाल्गुन्यः पूर्वोत्तराफाल्गुनीद्वयम्। आश्विनदैव-तमश्विनीकुमारो दैवतं स्वामी यस्येत्यश्विनीनक्षत्रम्। दृश्याउपलक्षणाददृश्या अपि लिङ्गपरिणामश्च यथायोम्यंबोध्यः। शेषं स्पष्टम्। अथान्येषामाह” र॰ ना॰।
“कृत्ति-कामैत्रमूलानि सार्पं रौद्रर्क्षमेव च। दृश्यन्ते पञ्चदशभि-राषाढाद्वितयं तथा” सू॰।
“कृत्तिकानुराधासूलनक्षत्राणिपञ्चदशभिः कालांशैर्दृश्यन्ते। उपलक्षणान्न दृश्यन्तेऽपि। एवकारीन्यूनाधिकव्यवच्छेदार्थः। अश्लेषार्द्रा। चःसमुच्चये। आषाढाद्वितयं पूर्वोत्तराषाढाद्वयं तथा पञ्चदशकालां-शैर्दृश्यन्त इत्यर्थः। अथान्येषामवशिष्टानामाह” र॰ ना॰।
“भरणीतिष्यसौम्यानि सौक्ष्यात् त्रिःसप्तकांशकैः। शेषाणिसप्तदशभिर्दृश्यादृश्यानि भानि तु” सू॰।
“तिष्यः पुष्यः सोम-दैवतं मृगशिरो नक्षत्रमेतानि नक्षैत्राणि सौक्ष्म्यादणुबिम्ब-त्वात् त्रिःसप्तकांशकैरेकविंशतिकालांशैर्दृश्यादृश्यानि। उदितान्यस्तङ्गतानि च भवन्तोत्यर्थः। शेषाणि पूर्वाधि-कारोक्तनक्षत्रेषूक्तातिरिक्तानि शततारापूर्वोत्तराभाद्रप-दारेवतीसंज्ञानि ब्रह्मापांवत्सापसञ्ज्ञानि च सप्त-दशभिः कालांशैर्दृश्यादृश्यानि भवन्ति। तुकारो दृश्या-दृश्यानीत्यत्र समुच्चयार्थकः। अथ द्रिनाद्यानयनार्थमि-[Page1145-b+ 38] च्छाया एव प्रमाणजातोयत्वकरणमाह” र॰ ना॰।
“अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः। विभज्यलब्धाः क्षेत्रांशास्तैर्दृश्यादृश्यताथ वा” सू॰।
“दृश्यांशाःकालांशा अष्टादशशतगुणितास्तान् स्वोदयासुभिर्ग्रहराश्यु-दयासुभिर्भक्ता लब्धाः क्षेत्रांशाः क्रान्तिवृत्तस्यांशास्तै-रंशैर्दृश्यादृश्यता उदयास्तौ प्रकारन्तरेणोक्तरीत्या ज्ञेयौ। कालांशाभ्यां क्षेत्रांशावानीय तदन्तरकला यथास्थितगत्यो-रन्तरेण योगेन वा भक्ताः फलमुदायास्तयोर्गतैष्यदिनाद्यंपूर्वागतमेव स्यादित्यर्थः। अत्रोपपत्तिः। यदि राश्यु-दयासुभिरेकराशिकलास्तदा कालांशकलातुल्यासुभिः काइति क्रान्तिवृत्ते कलास्ताः षष्टिभक्ता अंशा इति पूर्व-मेवेच्छास्थाने कालाशा एव धृता लाघवात्।{??}त्यक्तमु-पपन्नम्। ग्रहाणाममुकदिश्यस्तोऽमुकदिश्युदय इत्यु-क्तम्। तथा नक्षत्राणां नोक्तम् गत्यभावाद्वियोगयोगा-सम्भवेन गतैष्यदिनाद्यानयनासम्भवश्चेत्यत आह” र॰ ना॰।
“प्रागेषामुदयः पश्चादस्तोदृक्कर्म पूर्ववत्। गतैष्यदिवसप्राप्ति-र्भानुभुक्त्या सदैव हि” सू॰।
“एषां नक्षत्राणां प्राच्यामुदयःप्रतीच्यामस्तो गत्यभावादल्पगतिग्रहवत्। एषां नक्षत्राणांदृक्कर्माक्षदृक्कर्म पूर्व्ववत् पूर्वप्रकारेण कार्यम्। परन्तुश्लोकपूर्व्वार्धोक्तमिति ध्येयम्। सदा नित्यम्। एवका-रात् कदाचिदप्यन्यथा नेत्यर्थः। हि निश्चयेन। र-विगत्या गतैष्यदिवसानां लब्धिः स्यात्। नक्षत्रगत्यस-म्भावात् योगे ग्रहगतिवत्। अथ कतिपयानां नक्षत्राणांसूर्यसान्निध्यवशादस्तो नास्तीत्याह।
“अभिजिद्ब्रह्महृ-दयं स्वातीवैष्णववासवाः। अहिर्बुध्नमुदक्स्थत्वान्न लु-प्यन्तेऽर्करश्मिभिः” सू॰। अभिजित्। ब्रह्महृदयम्। अने-नैकदेशस्य ब्रह्मणोऽपि ग्रहणम्। स्वातीश्रवणधनिष्ठाः। अहिर्बुध्नमुत्तराभाद्रपदा एतानि नक्षत्राण्युत्तरदिक्-स्थत्वादुत्तरविक्षेपाधिक्यादित्यर्थः। सूर्यकिरणैर्न लुप्यन्तेअस्तं न यान्तीत्यर्थः। अत्रीपपत्तिः
“यस्योदयार्का-दधिकोऽस्तभानुः प्रजायते सौम्यशरातिदैर्ष्यात्। तिग्मां-शुसान्निध्यवशेन नास्ति धिष्ण्यस्य तस्यास्तमयः कथञ्चित्”। इति भास्कराचार्योक्ता। परमिदमुक्तमष्टाक्षभायाम्। अन्यथापूर्व्वाभाद्रपदाया अपि तथात्वापत्तेरिति दिक्” र॰ ना॰।
“यथा भौमादीनां सूर्यसान्निध्योदयास्तासन्ने दीप्त्या सकल-बिम्बदर्शनं तथा चन्द्रस्य स्वोदयास्तकाले सकलबिम्बद-र्शनं शुक्लत्वेन न भवति। किन्तु बिम्बैकदेश एव शुक्लत्वेनदृश्यत इति भौमादिविसदृशत्वं चन्द्रस्य कुत इत्याशङ्का-[Page1146-a+ 38] याः पूर्व्वाधिकारे समुपस्थितेस्तदुत्तरभूतशृङ्गोन्नमनाधिका-रोऽवश्यमुपस्थित आरब्धो व्याख्यायते। तत्र शृङ्गोन्नतेरुदयकालात् पूर्वकालेऽस्तकालानन्तरकाले चासन्नकतिपय-दिवसेषु दर्शनात् पूर्वाधिकारे चन्द्रस्य कालांशानुक्त्यातदुदयास्तानुक्तेश्च प्रथममुपस्थितचन्द्रोदयास्तयोः साध-नमतिदिशति” र॰ ना॰।
“उदयास्तविधिः प्राग्वत्कर्त्तव्यः शीतगोरपि। भागैर्द्वादशभिः पश्चाद्दृश्यःप्राग्यात्यदृश्यताम्” सू॰।
“चन्द्रस्य अपिशब्दः पूर्वाधि-कारोक्तैर्ग्रहनक्षत्रैः समुच्चयार्थकः। उदयास्तविधिरु-दयास्तयोः साधनप्रकारः प्राग्वत् पूर्वाधिकारोक्त-रीत्या गणकेण कार्यः। ननु कालांशानां पूर्वमनुक्तेःकथं तत्सिद्धिरत आह। भागैरिति। द्वादशभि-रंशैश्चन्द्रः पश्चिमायां दृश्य उदितो भवति। प्राच्यामदृ-श्यतामस्तं प्राप्नोति। अत्र पश्चात् प्रागिति पुनरुक्तमपिपूर्वं बुधशुक्रयोः साहचर्येण चन्द्रोदयास्तदिगुक्ता तत्-साहचर्येण चन्द्रस्य पश्चिमास्तपूर्वोदयौ वर्तेते इति कस्य-चिन्मन्दबुद्धेर्भ्रमस्य वारणायेति ध्येयम्”। ( सूर्य्योदये विशेषः शु॰ त॰ गृ॰ सं॰।
“रेखामात्रं चदृश्येत रश्मिभिश्च समन्वितम्। उदयं तं विजानीया-द्धोमं कुर्य्यात् विचक्षणः”
“उदयादोदयाद्भानोर्भौमसावनवासरः” सू॰ सि॰।
“सावनः स्यादहोरात्रमुदयादो-दयाद्रवेः” काल॰ मा॰ ब्रह्म॰ सि॰। गुरुशुक्रोदये चसर्व्वमङ्गलकार्य्याणि कर्त्तव्यानि। अगस्त्योदयः अगस्त्य-शब्दे उक्तः।
“प्रससादोदयादम्भः कुम्भयोने र्महौजसः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदय¦ m. (-यः)
1. The rising of the sun and planets in general.
2. The eastern mountain, behind which the sun is supposed to rise.
3. Rising, ascending.
4. Light, splendor.
5. Prosperity, good fortune.
6. Creation, the rising of the world.
7. (In law) Income. E. उद् up, इण् to go, and अच् aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदय [udaya], a. (In gram.) Following, coming after or upon (as a letter, accent &c.); उदयशब्दः परशब्दसमानार्थः प्रातिशाख्येषु प्रसिद्धः.

यः Rise (fig. also); चन्द्रोदय इवोदधेः R.12.36,2.73; going upwards, ascending (as of the sun, stars &c.).

(a) Rising up, coming forth; द्रविण˚ acquisition of wealth; Pt.2; so भाग्य˚ dawn of fortune; Amaru.25; स्वगुणोदयेन Pt.1.94. (b) Appearance, becoming visible, production; घनोदयः प्राक् Ś.7.3; मेघ˚ Ku.6.54; हसितमन्यनिमित्तकृतोदयम् Ś.2.12 raised from some other cause; Amaru.88; Ś.7.8; फलोदय R.1.5; rising or accomplishment of the fruit; Ms.3.169; K.3.18.

Creation (opp. प्रलय); यः सिन्धूनामुपोदये Rv.8.41.2. यौ तौ स्वप्नावबोधौ तौ भूतानां प्रलयो- दयौ Ku.2.8.

The eastern mountain (behind which the sun is supposed to rise); ददर्श पिङ्गाधिपतेरमात्यं वाता- त्मजं सूर्यमिवोदयस्थम् Rām.5.31.18. यौर्यत्र दृश्यते भास्वान्स तेषामुदयः स्मृतः; उदयगूढशशाङ्कमरीचिभिः V.3.6.

Advancement, prosperity, rise; (opp. व्यसन), तेजोद्वयस्य युगपद्- व्यसनोदयाभ्याम् Ś.4.2; उदये मदावाच्यमुञ्झता R.8.84; K.5; importance, celebrity; ˚उन्मुखे त्वयि R.11.73.

Elevation, exaltation, rise; growth; उदयमस्तमयं च रघू- द्वहात् R.9.9; तमुदयाय नवा नवयौवना 7; आत्मोदयः परग्लानिः Śi 2.3,11.6.

Result, consequence; असुखोदयं कर्म Ms.4.7; Amaru.47; following; नोदात्तस्वरितोदयम् P.VIII.4.67.

Accomplishment, fulfilment; उपस्थितो- दयम् R.3.1; प्रारम्भसदृशोदयः 1.15.

Profit, advantage.

Income, revenue; Ms.7.55; Y.2.43.

Interest, consideration paid for the use of money; Y.2.67,146.

Light, splendour.

Outlet, exit.

Beginning; अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् Mb.3.282.22.

Efficacy, influence; पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः Rām. 5.56.11.

Birthday celebration; हस्ते गृहीत्वा सहराम- मच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् Bhāg.1.11.2.

The first lunar mansion; the orient sine. -Comp. -अचलः, -अद्रिः, -गिरिः, -पर्वतः, -शैलः the eastern mountain behind which the sun, moon &c. are supposed to rise; उदयगिरिवनालीबालमन्दारपुष्पम् Udb.; श्रितोदयाद्रेरभिसा- यमुच्चकैः Śi.1.16; तत उदयगिरेरिवैक एव Māl.2.1. -इन्दुः The town इन्द्रप्रस्थ; पुरे कुरूणामुदयेन्दुनाम्नि Mb.7.23.29.-उन्मुख a. About to rise, expecting prosperity. -क्रमः Gradual rise; नाडीनाम् Māl.5.2. by gradually inflating or filling with wind the Nādīs, (as in the act of restraining the wind). -ज्या f. See उदय (17). -पुरम् N. of the capital of Mārwār. -प्रस्थः the plateau of the mountain behind which the sun is supposed to rise. -प्राणः (pl.) A particular measure of time.-राशिः The constellation in which the planet is seen when on the horizon.

उदयः [udayḥ] उदयनम् [udayanam], उदयनम् See under उदि.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदय/ उद्-अय etc. See. p. 186 , col. 1.

उदय/ उद्-अय m. going up , rising

उदय/ उद्-अय m. swelling up R.

उदय/ उद्-अय m. rising , rise (of the sun etc. ) , coming up (of a cloud) S3Br. Ka1tyS3r. Mn. S3ak. etc.

उदय/ उद्-अय m. the eastern mountain (behind which the sun is supposed to rise) MBh. Hariv. Katha1s. etc.

उदय/ उद्-अय m. going out R.

उदय/ उद्-अय m. coming forth , becoming visible , appearance , development

उदय/ उद्-अय m. production , creation RV. viii , 41 , 2 R. Ragh. Ya1jn5. S3ak. Kum. etc.

उदय/ उद्-अय m. conclusion , result , consequence MBh. Ragh. Mn.

उदय/ उद्-अय m. that which follows

उदय/ उद्-अय m. a following word , subsequent sound Pa1n2. 8-4 , 67 RPra1t. APra1t. etc.

उदय/ उद्-अय m. rising , reaching one's aim , elevation

उदय/ उद्-अय m. success , prosperity , good fortune Katha1s. Ragh. etc.

उदय/ उद्-अय m. profit , advantage , income

उदय/ उद्-अय m. revenue , interest R. Ya1jn5. Mn. etc.

उदय/ उद्-अय m. the first lunar mansion

उदय/ उद्-अय m. the orient sine( i.e. the sine of the point of the ecliptic on the eastern horizon) Su1ryas.

उदय/ उद्-अय m. N. of several men.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Mt. of शाकद्वीप, golden in colour. M. १२२. 8; १६३. ६९; वा. ४९. ७८.

Purana Encyclopedia[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Udaya : m.: Name of the eastern mountain from behind which the sun rises.


A. Mythological event: Indra, in conversation with Devasenā, saw the sun on the Udaya mountain and the moon entering the sun; at that point when the Raudra muhūrta commenced on the new moon day he saw the battle raging between gods and demons on the Udaya mountain (amāvāsyāṁ saṁpravṛttaṁ muhūrtaṁ raudram eva ca/ devāsuraṁ ca saṁgrāmaṁ so 'paśyad udaye girau) 3. 213. 26-27.


B. Similes:

(1) Śālva mounted on his elephant appeared like the sun on the Udaya mountain at the end of the night 9. 19. 4;

(2) Arjuna mounted his excellent chariot as does the sun the Udaya 7. 60. 16;

(3) Karṇa, shining with his white splendour (karṇam…śvetacchavivirājitam), appeared like the sun beautifying the Udaya mountain 8. 43. 38;

(4) The elephant, fierce and properly equipped, on which Bhīma had mounted, looked like a mansion on the topmost part of the Udaya where the sun had arisen (udayāgryabhavanaṁ yathābhyuditabhāskaram) 8. 8. 22;

(5) Kṛṣṇa, with the Kaustubha jewel shining on his chest, looked like the Udaya mounatain with the rising sun 12. 45. 15;

(6) Duryodhana and Śalya received the attacking warriors like the Asta and the Udaya mountains receiving the huge clouds 9. 15. 31;

(7) Just as an object on the Udaya mountain shines due to the proximity of the sun similarly a person of a lower order becomes bright due to association with the people of the higher order (yathodayagirau dravyaṁ saṁnikarṣeṇa dīpyate/tathā satsaṁnikarṣeṇa hīnavarṇo 'pi dīpyate//) 12. 282. 4 (Nī. on Bom. Ed. 12. 293. 4: dravyaṁ maṇikāñcanādi dīpyate sūryasannikarṣeṇa ata eva sandhyoḥ sūryaraśmayo dravyaprabhāvicchuraṇād raktā dṛśyante). [See Udyant ]


_______________________________
*2nd word in left half of page p299_mci (+offset) in original book.

previous page p298_mci .......... next page p300_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Udaya : m.: Name of the eastern mountain from behind which the sun rises.


A. Mythological event: Indra, in conversation with Devasenā, saw the sun on the Udaya mountain and the moon entering the sun; at that point when the Raudra muhūrta commenced on the new moon day he saw the battle raging between gods and demons on the Udaya mountain (amāvāsyāṁ saṁpravṛttaṁ muhūrtaṁ raudram eva ca/ devāsuraṁ ca saṁgrāmaṁ so 'paśyad udaye girau) 3. 213. 26-27.


B. Similes:

(1) Śālva mounted on his elephant appeared like the sun on the Udaya mountain at the end of the night 9. 19. 4;

(2) Arjuna mounted his excellent chariot as does the sun the Udaya 7. 60. 16;

(3) Karṇa, shining with his white splendour (karṇam…śvetacchavivirājitam), appeared like the sun beautifying the Udaya mountain 8. 43. 38;

(4) The elephant, fierce and properly equipped, on which Bhīma had mounted, looked like a mansion on the topmost part of the Udaya where the sun had arisen (udayāgryabhavanaṁ yathābhyuditabhāskaram) 8. 8. 22;

(5) Kṛṣṇa, with the Kaustubha jewel shining on his chest, looked like the Udaya mounatain with the rising sun 12. 45. 15;

(6) Duryodhana and Śalya received the attacking warriors like the Asta and the Udaya mountains receiving the huge clouds 9. 15. 31;

(7) Just as an object on the Udaya mountain shines due to the proximity of the sun similarly a person of a lower order becomes bright due to association with the people of the higher order (yathodayagirau dravyaṁ saṁnikarṣeṇa dīpyate/tathā satsaṁnikarṣeṇa hīnavarṇo 'pi dīpyate//) 12. 282. 4 (Nī. on Bom. Ed. 12. 293. 4: dravyaṁ maṇikāñcanādi dīpyate sūryasannikarṣeṇa ata eva sandhyoḥ sūryaraśmayo dravyaprabhāvicchuraṇād raktā dṛśyante). [See Udyant ]


_______________________________
*2nd word in left half of page p299_mci (+offset) in original book.

previous page p298_mci .......... next page p300_mci

"https://sa.wiktionary.org/w/index.php?title=उदय&oldid=492527" इत्यस्माद् पुनः प्राप्तिः