उदर

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदरम्, क्ली, (उत् ऋणातीति । “उदिदृणातेरजलौ पूर्ब्बपदान्त्यलोपश्च” । उत् + दॄ + अच् । अन्त्य- लोपश्च ।) नाभिस्तनयोर्मध्यभागः । पेट इति भाषा । तत्पर्य्यायः । पिचिण्डः २ कुक्षी ३ जठरः ४ तुन्दम् ५ । इत्यमरः ॥ युद्धम् । इति मेदिनी ॥ (“उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम्” । इति मनुः । ८ । १२५ ॥)

उदरः, पुं, (उदरं अश्रयत्वेनास्त्यस्य । अर्श आदित्वा दच् ।) उदरस्थरोगविशेषः । उदरी इति भाषा । यथा । अथोदराधिकारः । तत्रोदरस्य निमित्त- माह । “रोगाः सर्व्वेऽपि मन्देऽग्नौ सुतरामुदराणि च । अजीर्णान्मलिनैश्चान्यर्जायन्ते मलसञ्चयात्” ॥ अग्नौ मन्दे सर्व्वे रोगा जायन्ते किन्तु सुतरा- मतिशयेन उदराणि जायन्ते । अपरानपि हेतू- नाह । अजीर्णान्मलिनैश्चान्यैः अत्यन्तदोषजनकैः मलसञ्चयात् मलानां दोषाणां पुरीषस्य चाति- वृद्धेः । अत्रोदरशब्देनोदरस्थो रोग उच्यते । यत आह । “तात्स्थ्यतद्धर्म्मताभ्याञ्च तत्समीपतयापि च । तत्साहचर्य्यात् शब्दानां वृत्तिरुक्ता चतुर्व्विधा” ॥ * ॥ संप्राप्तिमाह । “रुद्धाः स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः । प्राणाग्न्यपानान् संदुष्य जनयन्त्युदरं नृणाम् ॥ * ॥ सामान्यरूपमाह । “आध्मानं गमने ऽशक्तिर्द्दौर्ब्बल्यं दुर्ब्बलाग्निता । शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः । दाहस्तन्द्रा च सर्व्वेषु जठरेषु भवन्ति हि ॥ * ॥ सन्निकृष्टनिदानपूर्ब्बिकां संख्यामाह । “पृथक्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः । सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु ॥ * ॥ वातोदरस्य लक्षणमाह । “तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु । प्रसिद्धा । परिकर्त्तो गुदे परिकर्त्तनवत् पीडा इति नारायणचूर्णम् ॥ * ॥ “स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग- सिंहीत्रिवृच्चित्रकसूर्य्यकल्कैः । घृतं विपक्वं कुडवप्रमाणं तोयेन तस्याक्षसमेन कर्षम् ॥ पीतोष्णमम्भोऽनुपिबेद्विरेके पेयं रसं वा प्रपिबेद्विधिज्ञः । नाराचमेनं जठरामयाना- मुक्तं प्रयुक्तं प्रवदन्ति सन्तः” ॥ इति नाराचघृतम् ॥ * ॥ “वज्राण्ड्याः कर्षमात्रायाः कल्कं दध्यादिवेष्टितम् । निगिलेद्वारिणा नित्यमुदरव्याधिशान्तये” ॥ वज्राण्डी शूरणपत्रो माणभेदः । वज्राण्डी इति लोके ॥ * ॥ “पुनर्नवादारुनिशासविश्वा- पटोलपथ्याः पिचुमर्द्ददारु । सनागरच्छिन्नरुहेति सर्व्वैः कृतः कषायो विधिना विधिज्ञैः ॥ गोमूत्रयुक् गुग्गुलुना च युक्तः पीतः प्रभाते नियतं नराणाम् । सर्व्वाङ्गशोथोदरपार्श्वशूल- श्वासान्वितं पाण्डुगदं निहन्ति” ॥ पुनर्नवादिक्वाथः । इत्युदराधिकारः । इति भाव- प्रकाशः ॥ (“उदरं स्तिमितं गुरु” इति वैद्यक- माधवकरधृतरुग्विनिश्चयग्रन्थः । अस्य शब्दस्य रोगविशेषवाच्यत्वेऽन्याविशेषवाच्यविवृत्तिरुदररो- गशब्दे ज्ञातव्या ॥)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदर नपुं।

जठरम्

समानार्थक:पिचण्ड,कुक्षि,जठर,उदर,तुन्द,गर्भ

2।6।77।1।4

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ। चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्.।

अवयव : अन्तर्जठरम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदर¦ न॰ उद् + ऋ--अप्।

१ जठरे नाभिस्तनयोर्मध्यभागे।
“दश स्थानानि दण्डस्येत्युपक्रम्य
“उपस्थमुदरं जिह्वा हस्तौपादौ च पञ्चमौ। चक्षुर्नासा च कर्ण्णौ च धनं देहस्तथैवच” मनुः।
“मस्तकोदरपृष्ठनाभिललाटनासाचिवुक-वस्तिग्रीवाइत्येता एकैकाः” शरीरविभागे सुश्रुतः।
“उदरञ्च गुदौ कोष्ठ्यौ विस्तारोऽयमुदाहृतः” या॰ स्मृ॰।
“उदरेऽन्नपक्तिः” शत॰ ब्रा॰

८ ,

६ ,

२१ ,

३ ।
“उदरंपारिमाति मुष्टिना”
“सदसत्संशयगोचरोदरी” नैष॰आधारे अप्।

२ युद्धे।

३ मध्यभागमात्रे च
“ताम्रो-दरेषु तरुपल्लवेषु” रघुः
“लतादिविहितोदरे” अम॰
“कुसुममिव पिनद्धंपाण्डुपत्रोदरेण” शकु॰ उद् + दृ--अप्पृषो॰ दलोपश्च, उदरस्थत्वाद्वास्योदरशब्दवाच्यता
“तात्स्थ्यात्तद्धर्म्मताभ्याञ्च तत्समीपतयाऽपि च। तत्-साहचर्य्यात् शब्दानां वृत्तिरुक्ताचतुर्विधा” भा॰ प्र॰ उक्तेः।

४ उदररोगे। उदररोगनिदानादि सुश्रुते उक्तं यथा
“अथात उदराणां निदानं व्याण्वास्यामः। धन्वन्तरिर्ध-र्मभृतां वरिष्ठो राजर्षिरिन्द्रप्रतिमो बभूव। ब्रह्मर्षिपुत्रंविनयोपपन्नंशिष्यं शुभं सुश्रुतमन्वशात्सः। पृथक् समस्तै-रपि चेह दोषैः प्लीहोदरं बद्धगुदं तथैव। आगन्तुकंसप्तममष्टमञ्च दकोदरं चेति वदन्ति तानि। सुदुर्बलाग्नेर-हिताशनस्य संशुष्कपूत्यन्ननिषेवणाद्वा। स्नेहादिमि-थ्याचरणाच्च जन्तोर्वृद्धिं गताः कोष्ठमभिप्रपन्नाः। गुल्-माकृतिव्यञ्जितलक्षणानि कुर्वन्ति घोराण्युदराणि दोषाः। कोष्ठादुपस्नेहवदन्नसारो निःसृत्य दुष्टोऽनिलवेगनुन्नः। त्वचः समुन्नम्य शनैः समन्ताद्विबर्द्धमाणो जठरं करोति। तत्पूर्व्वरूपं बलवर्णकाङ्क्षाबलीविनाशी जठरे हि राज्यः। जीर्णापरिज्ञानविदाहवत्यो वस्तौ रुजः पादर्गतश्च शोफः। सङ्गृह्य पार्श्वोदरपृष्ठनाभीर्यद्वर्द्धते कृष्णसिरावनद्धम्। [Page1150-a+ 38] सशूलमानाहवदुग्रशब्दं सतोदभेदं पवनात्मकं तत्

१ । यच्छोषतृष्णाज्वरदाहयुक्तं पैत्तं सिरा यत्र भवन्ति पीताः। पीताक्षिविण्मूत्रनखाननस्य पित्तोदरम्

२ तत्त्वचिराभिवृ-द्धि। यच्छीतलं शुक्लसिरावनद्धं गुरुस्थिरं शुक्लनखाननस्य। स्निग्धं महच्छोफयुतं ससादं कफोदरम्

३ तच्च चिराभि-वृद्धि। स्त्रियोऽन्नपानं नखरोममूत्रविडार्त्तवैर्युक्तमसाधुवृत्ताः। य{??} प्रयच्छन्त्यरयो गरांश्च दुष्टाम्बुदूषीविषसवनाद्वा। तेनाशु रक्तं कुपिताश्च दोषाः कुर्वन्ति घोरं जठरं त्रिलि-ङ्गम्

५ । तच्छीतवाताभ्रसमुद्भवेषु विशेषतः कुप्यति दह्यते च। स चातुरो मूर्च्छति सम्प्रसक्तं पाण्डुः कृशः शुष्यतितृष्णया च। प्रकीर्त्तितं दूष्युदरन्तु घोरं प्लीहोदरम्कीर्त्तयतो निबोध। विदाह्यभिष्यन्दिरतस्य जन्तोः प्रदुष्ट-मत्यर्थमसृक् कफश्च। प्लीहाभिवृद्धिं सततं करोति प्लीहो-दरम्

५ तत्प्रवदन्ति तञ्ज्ञाः। वामे च पार्श्वे परिवृद्धिमेतिविशेषतः सीदति चातुरोऽत्र। मन्दज्वराग्निः कफपित्तलि-ङ्गैरुपदुतः क्षीणबलोऽतिपाण्डुः। सव्येतरस्मिन् यकृति प्रदुष्टेज्ञेयं यकृद्दाल्युदरं तदेव। तस्यान्त्रमन्नैरुपलेपिभिर्वा बा-लाश्मभिर्वा सहितैः पृथग्वा। सञ्चीयते तत्र मलः सदोषःक्रमेण नाड्यामिव सङ्करोहि। निरुध्यते चास्य गुदे पुरीषंनिरेति कृच्छ्रादपि चाल्पमल्पम्। हृन्नाभिमध्ये परिवृद्धि-मेति यच्चोदरं विट्समगन्धिकञ्च। प्रच्छर्दयत् बद्वगुदं

६ विभाव्यं ततः परिस्राव्युदरं निबोध। शल्यं यदन्नोपप-हितं तदन्त्रं भिनत्ति यस्यागतमन्यथा वा। तस्मात् स्नुता-न्त्रात्सलिलप्रकाशः स्रावः स्रवेद्वै गुदतस्तु मूयः। नाभेरध-श्चोदरमेति वृद्धिं निस्तुद्ध्यतेऽतीव विदह्यते च। एतत्परि-स्राब्युदरं

७ प्रदिष्टं दकोदरं कीर्त्तयतो निबोध। यःस्नेहपीतोऽप्यनुवासितो वा वान्तो विरिक्तोऽप्यथ बा निरूढः। पिबेज्जलं शीतलमाशु तस्य स्रोतांसि दुष्यन्ति हि तद्व-हानि। स्नेहोपलिप्तेष्वथ वापि तेषु दकोदरम्पूर्व-वदभ्युपैति। सिग्धं महत्सम्परिवृत्तनामि भृशोन्नतं पूर्ण्ण-मिवाम्बुना च। यथा दृतिः क्षुभ्यति कम्पते च शब्दायतेचापि दकोदरं

८ तत्। आध्मानं गमनेऽशक्तिर्दौर्बल्यंदुर्बलाग्निना। शोफः सदनमङ्गानां सङ्गो वातपुरीषयोः। दाहस्तृष्णा च सर्वेषु जठरेषु भवन्ति हि। अन्ते सलि-लभावन्तु भजन्ते जठराणि तु। सर्वाण्येव परीपाकात्तदा-तानि विवर्ज्जयेत्”। विस्तरस्तु भा॰ प्र॰ दृश्यः। गर्भपा-तनजारोगा यकृत्प्लीहजलोदराः इत्युक्तेः पुंस्त्वमपि।

५ अल्पे त्रि॰
“उदरमन्तरं कुरुते” श्रुतिः[Page1150-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदर¦ n. (-रं)
1. The belly.
2. War.
3. Any morbid abdominal affection, as liver, spleen, &c. f. (-री) Enlargement of the abdomen from dropsy or flatulency. E. उद् up, ऋ to go, अप् affix; what goes up or swells with food, slaughter, &c. or उद् prefixed to दृ to burst, and अच् or अल् Una4di aff.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदरम् [udaram], [उद्-ऋ-अप्]

The belly; दुष्पूरोदरपूरणाय Bh. 2.119; cf. कृशोदरी, उदरभरणम्, उदरंभरि &c.

The interior or inside of anything, cavity; तडाग˚ Pt.2.15; R.5.7; U.2.16,4.29; त्वां कारयामि कमलोदरबन्धनस्थम् Ś.6.2; Śānti.1.5; Ś.1.19; Amaru.88; जलदोदरेभ्यः Mk.5; Rs.3.12; घनानां वारिगर्भोदराणाम् Ś.7.7.

Enlargement of the abdomen from dropsy or flatulence; तस्य होदरं जज्ञे Ait. Br.

Any morbid abdominal affection, such as liver, spleen &c. (said to be of 8 kinds वात˚, पित्त˚, कफ˚, त्रिलिङ्ग˚ or दूषी˚, प्लीहा˚, बद्धगुद˚, आगन्तुक˚ and जल˚).

Slaughter [cf. L. uterus; Zend. udara].

Battle.-Comp. -अग्निः The digestive faculty. -आध्मानः flatulence of the belly. -आमयः disease of the belly, dysentery, diarrhœa. -आमयिन् a. suffering from dysentery. -आवर्तः the navel. -आवेष्टः the tape-worm.-ग्रन्थिः, -गुल्मः disease of the spleen.

त्राणम् a cuirass, armour covering the front of the body.

a bellyband. -पिशाच a. [उदरे तत्पूर्तौ पिशाच इव] gluttonous, voracious (having a devilish appetite). (-चः) a glutton. -पूरम् ind. till the belly is full; P.III.4.31. उदरपूरं भुङ्क्ते Sk. eats his fill. -पोषणम्, -भरणम् feeding the belly, support of life (cf. उदरंभरि). -शय a. अधिकरणे शेतेः P.III.2.15; sleeping on the face or the belly. (-यः) fœtus. -सर्वस्वः a glutton, an epicure (one to whom the belly is all-in-all

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदर n. ( दॄUn2. v , 19 ; ऋBRD. and T. ), the belly , abdomen , stomach , bowels RV. AV. S3Br. Sus3r. MBh. Katha1s. etc.

उदर n. the womb MBh. VP. Car.

उदर n. a cavity , hollow

उदर n. the interior or inside of anything( उदरे, inside , in the interior) Pan5cat. S3ak. Ragh. Mr2icch. etc.

उदर n. enlargement of the abdomen (from dropsy or flatulence) , any morbid abdominal affection (as of the liver , spleen etc. ; eight kinds are enumerated) Sus3r.

उदर n. the thick part of anything( e.g. of the thumb) Sus3r. Comm. on Ya1jn5.

उदर n. slaughter Naish.

"https://sa.wiktionary.org/w/index.php?title=उदर&oldid=492536" इत्यस्माद् प्रतिप्राप्तम्