उदात्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदात्तम्, त्रि, (उत् + आ + दा + क्त ।) दयात्यागादि- सम्पन्नम् । इति मेदिनी ॥ हृद्यम् । दातृ । महत् । इति हेमचन्द्रः ॥ (यथा, रामायणे २ य काण्डे ।) “उदात्तदन्तानाम् कुञ्जराणाम्” । नायकभेदः । यथा साहित्यदर्पणे ३ परिच्छेदे ॥ “अविकत्थनः क्षमावान् अतिगम्भोरो महासत्त्वः । स्थेयान् निगूढमानो धीरोदात्तोदृढव्रतः कथितः” ॥)

उदात्तः, पुं, (उच्चैरादीयते स्म । उत् + आ + दा + क्त ।) स्वरभेदः । स तु वेदगाने उच्चैःस्वरः । इत्य- मरः ॥ दानम् । वाद्यविशेषः । इति शब्दरत्ना- वली ॥ काव्यालङ्कारभेदः । इति मेदिनी ॥ (यदुक्तं साहित्य- दर्पणे । १० म परिच्छेदे । १११ । “लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदात्त पुं।

उदात्तस्वरः

समानार्थक:उदात्त

1।6।4।2।3

शिक्षेत्यादि श्रुतेरङ्गमोङ्कार प्रणवौ समौ। इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदात्त¦ पु॰ उद् + आ + दा--क्त। वर्णोत्पत्तिस्थानेषु उच्चैरुच्चारिते

१ स्वरे

२ तद्युक्ते त्रि॰।
“उच्चैरुदात्तः” पा॰।
“ताल्वादिषु सभागेषु स्थानेषुर्द्धभागे निष्पन्नोजुऽदात्तः” सि॰ कौ॰।
“उदात्तश्चानुदात्तश्च स्वरितश्च स्वरा अचीति” शिक्षाकृदुक्तेः अचामेव त्रैस्वर्य्यम्। अनेकाच्कपदे
“अनुदात्तं[Page1152-a+ 38] पदमेकवर्ज्जम्” पा॰ एकस्यैवोदात्तता अन्यस्य चानुदात्त-तोक्ता। तत्रादौ सामान्यत उदात्तविधायकं सूत्रं दर्श्यते। (
“अञ्चेश्छन्दस्यसर्व्वनामस्थानम्” पा॰। अञ्चेः पराविभक्तिरुदात्ता। प्रतीचोबाहून्।
“ऊडिदम्पदाद्यप्पुम्रैदुभ्यः” पा॰ ऊट् इदम् पदादि अप् पुम् रैदिव् इत्येभ्योऽसर्व्वनामस्थानविभक्तिरुदात्ता। प्रष्ठौहः। एभिर्नृभिः। पद्दन्नोमास् हृन्निश इति षट् पदादयः। पद्भ्याम्। दद्भिः। नसा मासि। हृदा निशा। पुंसः। राया। दिवः।
“अष्टनो दीर्घात्” पा॰। दीर्घान्ताद-ष्टनः परः शसादिरुदात्तः। अष्टभिः।
“शतुरनुमोन-द्यजादी” पा॰ अनुम् यः शतृप्रत्ययस्तदन्तादनोदात्तात् परानदी अजादिश्च शसादिर्विभक्तिरुदात्ता। जानतीजानतः। दधती दधत इत्यादौ तु अभ्यस्तानामादिरित्याद्यु-दात्तत्वविधानेन अन्तोदात्तत्वाभावात् न तथा। सनुमस्तुतुदन्तोत्यादौ न।
“उदात्तयणोहल्पूर्ब्बात्” पा॰ उदा-त्तस्थाने योयण् हल्पूर्ब्बस्तस्मात् परा नदी शसा-दिर्विभक्तिश्च उदात्ता। नेत्री, नेत्रा, कृण्वता सवित्रा।
“नोङ्धात्वोः” पा॰ अनयोर्यणः परे शसादय उदात्ता नस्युः। ब्रह्मबन्ध्वासुभ्वा।
“ह्रस्वनुडभ्यां मतुप्” पा॰ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुप् उदात्तः। अब्धिमान्उदधिमान्। नुट् अक्षण्वन्तः।
“रैशब्दाच्च” बा॰ रैवान्।
“नामन्यतरस्यास्” पा॰। मतुपि योह्रस्वस्तदन्तादन्तोदा-त्तात् परोनाम् उदात्तोवा। सुमतीनाम्”
“ङ्याच्छन्दसि” पा॰ ङ्याः परोनाम् उदात्तो वा। अभिभञ्जतीनाम्।
“षट्त्रिचतुर्भ्यो हलादिः” पा॰ एभ्योहलादिर्वि-भक्तिरुदात्ता। षड्भिः त्रिभिः।
“न गोश्वन्सावर्ण्णराडङ्क्रुङ्भ्यः” पा॰ एभ्यः परं प्रागुक्तं सावेकाचस्तृतीया वि-भक्तिरिति न कार्य्यम्।
“दिवोझल्” पा॰ दिवः पराझलादिर्वोदात्ता।
“नृ चान्यतरस्याम्” पा॰। नुःपरा झलादिर्वोदात्ता। नृभिः।
“उपोत्तमं रिति” पा॰रित्प्रत्ययान्तमुपोत्तममुदात्तम्। आहवनीयः।
“मतोःपूर्व्वमात् संज्ञायां स्त्रियाम्” मतोः पूर्वमाकारः उदात्तःसंज्ञायां स्त्रियाम्। उदुम्बरावती शरावती अमरावती
“एकादेशौदात्तेनीदात्तः” पा॰। उदात्तेन सहैकादेशउदात्तःस्यात्। क्व वोऽश्वाः।
“स्वरितोवानुदात्ते पदादौ” पा॰ अनुदात्ते पदादौ परे उदात्तेन सहैकादेशःस्परितो वा पक्षे उदात्तः।
“वीदंज्योतिर्हृदये”।
“उच्चै-जरां वा वषट्कारः” पा॰ यज्ञकर्म्मणि वषट्शब्द[Page1152-b+ 38] उच्चैस्तराम् अत्यन्तोदात्तः एकश्रुतिर्वा
“सुब्रह्मणायां स्वरि-तस्योदात्तः” पा॰। सुब्रह्मण्याख्ये निगदे एकश्रुतिर्न स्यात्स्वरितस्य उदात्तः स्यात्।
“झल्युपोत्तमम्” पा॰ षट्त्रिचतुर्भ्यो वा झलादिर्विभक्तिस्तदन्तेपदे उपोत्तममुदा-त्तम्। पञ्चभिः दशभिः।
“विभाषा भाषायाम्” पा॰। उक्तविषये लोके वोदात्तः।
“अन्तश्च तवै युगपत्” पा॰ तवैप्रत्ययान्तस्याद्यन्तौ युगपदुदात्तौ। दातवै।
“अस्थिदधिसक्-थ्यक्ष्णामनङङुदात्तः” पा॰। दध्यादेशोऽनङुदात्तः
“चतुर-नडुहोरामुदात्तः” पा॰ इत्यादीनि उदात्तविधायकामि। तत्र बह्वच्के पदे कस्योदात्ततेति निर्ण्णयाय आद्यन्तोदा-त्तादिभेदेन” पा॰ त्रैविध्ययुक्तं तथा च केचिदाद्यु-दात्ताः केचिदन्तोदात्ताः केचित् मध्योदात्ताः। तत्राद्युदात्तताबिधायकसूत्राणि आद्युदात्तशब्दे

७०

६ पृ॰ उक्तानि अन्तोदात्तविधायकानि अन्तोदात्तशब्दे

२०

६ पृ॰ दिङ्मात्रमुदाहृतानीत्यतः प्रसङ्गात्तान्यत्रप्रदर्श्यन्ते
“उञ्छादीनाञ्च” पा॰ अन्त उदात्तः स्यात्उञ्चादयश्च। उञ्छम्लेच्छ जञ्ज जल्प जप बुधयुग (गरोदूष्ये) (वेदवेष्टनबन्धाः करणे) (स्तुयुद्रुव-श्छन्दसि) (वर्त्तनिःस्त्रोत्रे) (दरःश्वभ्रे) (सान्त्वता-पौ भावगर्हायाम्) (उत्तमसत्तमौ सर्व्वत्र) भक्ष गन्ध-भोग मन्थ। अत्रैव निपातनात् युगबुधयोर्घञन्तत्वे-ऽपि न गुणः”।
“चतुरः शसि” पा॰। चतुरोऽन्त-उदात्तः शसि परे। चतुरः। चतेरुरन्निति नित्त्वादा-द्युदात्तत्वेऽपि शसि अन्तोदात्ततैव।
“अन्तोऽवत्याः” पा॰ अवतीशब्दस्यान्त उदात्तः। वेत्रवती।
“ईवत्याः” पा॰ ईवत्यन्त स्यापि अन्त उदात्तः। अहीवती मुनीवती।
“चितः” पा॰ चित्प्रत्ययान्तस्यान्त उदात्तः स्यात्”।
“चितः सप्रकृतेर्वह्वकजर्थम्” वार्त्ति॰। चिति प्रत्यये सतिप्रकृतिप्रत्ययसमुदायस्यान्त उदात्तः।
“नमन्तामन्यके सभे
“यके सरस्वति” तकत् कुरुते
“तद्धितस्य” पा॰ चितस्त-द्धितस्यान्त उदात्तः पूर्वेण सिद्धे ञित्स्वरबाधनाय। चफञ्कौञ्जायनाः।
“कितः” पा॰ कितस्तद्धितस्यान्त उदात्तः। ढक् आग्नेयः।
“तिसृभ्योजसः” पा॰ अन्त उदात्तः। तिस्यः।
“अन्तोदात्तादुत्तरपदादन्यतरस्याम्” पा॰ नित्याधिकारस-मासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयाविभक्तिरन्तोदात्ता वा। परमवाचा।
“थलिच सेटीडन्तेवा” पा॰ सेटि थलि परे इडुदात्तः इडन्तोवाआ-दिर्वा। लुलुविथ चत्वारोऽपि पर्य्यायेणोदात्ताः। [Page1153-a+ 38]( फिट्सूर्त्रषु

१ मापदे केचित् शब्दा अन्तोदात्ताः दर्शितायथा।
“फिषोऽन्तौदान्तः”

१ । प्रातिपदिकं फिट् तस्यान्त-उदात्तः स्यात्। उच्चैः।
“पाटलापालङ्काम्बासागरार्थानाम्”

२ । एदर्थानामन्तौदात्तः। पाटला फलेरुहासुरूपा पाकलेति पर्य्यायाः। लघावन्त इति प्राप्तः। पालङ्कोव्याधिधातआरेवतआरग्बध इति पर्य्यायाः। अम्बार्थः माता। उनर्वनन्तानामाद्युदात्ते प्राप्ते। सागरः। समुद्रः।
“गेहार्थानामस्त्रियाम्”

३ । गेहम्। नब्विषय-स्येति प्राप्ते। अस्त्रियां किम् शाला आद्युदात्तोऽयम्इहैव पर्य्युदासाज्ज्ञापकात्।
“गुदस्य च”

४ । अन्त-उदात्तःस्यान्नतु स्त्रियाम्। गुदम्। अस्त्रियां किम्
“आन्त्रेभ्यस्ते गुदाभ्यः”। खाङ्गशिटामदन्तानामित्यन्तरङ्ग-माद्युदात्तत्वम् ततष्टाप्।
“ध्यपूर्व्वस्य स्त्रीविषयस्य”

५ । धकारयकारपूर्वोयोऽन्त्योऽच् स उदात्तः। अन्तर्धा। स्त्रीविषयवर्ण्णेति प्राप्ते। छाया। माया। जाया। यान्तस्यान्त्यात् पूर्व्वमित्याद्युदात्तत्वे प्राप्ते। स्त्रीति किम्बाह्यम् यञन्तत्वादाद्युदात्तम्। विषयग्रहणं किम्इभ्या। क्षत्रिया। यतोऽनाव इत्याद्युदात्तैभ्यशब्दः। क्षत्रियशब्दस्तु यान्तस्यान्त्यात्पूर्व्वमिति मध्योदात्तः।
“खान्तस्याश्मादेः”

६ । नखम्। उखा। सुखम्। दुःखम्। नखस्य खाङ्कशिटामित्याद्युदात्ते प्राप्ते। उखा नामभाण्डविशेषस्तस्य कृत्रिमत्वात् खय्युवर्ण्णं कृत्रिमाख्या चेदि-त्युवर्णस्योदात्तत्वे प्राप्ते। अश्मादेः किम् शिखा। मुखम्। मुखस्य स्वाङ्गशिटामिति नब्विषयस्येति वा आ-द्युदात्तत्वम्। शिखायास्तु शीङः खो निद्ध्व्रस्वश्चेतिउणादिषु नित्त्वोक्तेः अन्तरङ्गत्वाट्टापः प्रागेव खाङ्गशिटा-मिति वा बोध्यम्।
“बहिष्ठसंवत्सरतिशत्थान्तानाम्”

७ । एषामन्तं उदात्तः स्यात्। अतिशयेन बहुलो बंहिष्ठः। नित्त्वादाद्युदात्ते प्राप्ते।
“बंहिष्ठैरश्वैः सुवृता रथेन”।
“यद्बंहिष्ठन्नाति विधे” इत्यादौ व्यत्ययादाद्युदात्तः। संवत्सरः। अव्ययपूर्व्वपदप्रकृतिस्वरोऽत्र वाध्यते इत्याहुः। सप्ततिः। अशीतिः। लघावन्त इति प्राप्ते। चत्वारिंशत्। इहापि प्राग्वत्। अभ्युत्था।
“नावभृथस्य”

८ । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यते इत्याहुः। थाथादि-सूत्रेण गतार्थमेतत्।
“दक्षिणस्य साधौ”

९ । अन्तउदात्तः स्यात्। साधुवाचित्वाभावे तु व्यवस्थायां सर्वनाम-तया खाङ्गशिटामित्याद्युदात्तः। अर्थान्तरे तु लघावन्तइति गुरुरुदात्तः। दक्षिणः सरलोदारपरच्छन्दानु-[Page1153-b+ 38] बर्त्तिष्विति कोशः।
“स्वाङ्गाख्यायामादिर्वा”

१० । इहदक्षिणस्याद्यन्तावुदात्तौ। दक्षिणो बाहुः आख्याग्रहणंकिम्। प्रत्यङ्मुखमासीनस्य वामपाणिर्दक्षिणो भवति।
“छन्दसि च”

११ । अस्वाङ्गार्थमिदम्। दक्षिणः। इहपर्य्यायेणाद्यन्तावुदात्तौ।
“कृष्णस्यामृगाख्या चेत्”

१२ । अन्तौदात्तः। वर्ण्णानान्तणेत्याद्युदात्ते प्राप्ते अन्तोदा-त्तो विधीयते। कृष्णानां व्रीहीणाम्।
“कृष्णो नो नाववृषभः”। मृगाख्यायान्तु
“कृष्णो रात्र्यौ”।
“वा नामधे-यस्य”

१३ ।
“कृष्णस्येत्येव।
“अयं वा कृष्णोऽश्विना”। कृष्ण-ऋषिः।
“शुक्लगौरयोरादिः”

१४ । नित्यमुदात्तः स्यादित्येके। वेत्यनुवर्त्ततैति तु युक्तम्।
“सरो गौरा यथापि वेत्यत्रा-न्तादात्तदर्शनात्”।
“अङ्गुष्ठोदकवकवशानां छन्दस्यन्तः”

१५ । अङ्गुष्ठस्य स्वाङ्गानामकुर्व्वादीनामिति द्वितीयस्योदात्तत्वेप्राप्तेऽन्तोदात्तार्थ आरम्भः। वशाग्रहणं नियमाथंछन्दस्येवेति। तेन लोके आद्युदात्ततेत्याहुः।
“पृष्ठस्यच”

१६ । छन्दस्यन्तौदात्तः स्यात् भाषायाम् वा। पृष्ठम्।
“अर्ज्जुनस्य तृणाख्या चेत्”

१७ । उनर्वन्नन्तानामित्या-द्युदात्तस्यापवादः।
“अर्य्यस्य स्वाम्याख्या चेत्”

१८ । यान्तस्यान्त्यात् पूर्व्वमिति यतोऽनाव इति वाद्युदात्तेप्राप्ते वचनम्।
“आशाया अदिगाख्या चेत्”

१९ । दिगा-ख्याव्यावृत्त्यर्थमिदम्। अतएव ज्ञापकाद्दिक्पर्य्यायस्याद्युदात्तता।
“इन्द्र आशाभ्यस्परि”।
“नक्षत्राणामाब्विषया-णाम्”

२० । अन्तौदात्तः स्यात्। अश्लेषाऽनुराधादीनांलघावन्त इति प्राप्ते। ज्येष्ठाश्रविष्ठाधनिष्ठानामिष्ठन्न-न्तत्वेनाद्युदात्ते प्राप्ते वचनम्
“न कुपूर्वः कृत्तिकाख्याचेत्”

२१ । अन्तौदात्ता न। कृत्तिका नक्षत्रम्। केचित्तुकुपूर्वो य आप् तद्विषयाणामिति व्याख्याय आर्य्यिकाबहुलिका इत्यत्राप्यन्तोदात्तो नेत्याहुः।
“घृतादी-नाञ्च”

२२ ।
“घृतं मिमिक्षे” आकृतिगणः।
“ज्येष्ठ-कनिष्ठयोर्वयसि” उदात्तः स्यात्।
“ज्येष्ठ आहचमसा”।
“कनिष्ठ आह चतुरः”। वयसि किम्ज्येष्ठः श्रेष्ठः, कनिष्ठोऽल्पिष्ठः। इह नित्त्वादाद्युदात्तएव।
“विल्वतिष्ययोः स्वरितो वा”

२४ । अनयो-रन्तः स्वरितो वा स्यात्। पक्षे उदात्तः। सि॰ कौ॰। फिट्सूत्रे

३ पादे येषां द्वितीयाद्यचामुदात्तताऽभिहितातत् प्रदर्श्यते
“अथ द्वितीयं प्रागीषात्”

१ । ईषान्तस्य हला-देरित्यतः प्राक् द्वितीयाधिकारः।
“त्र्यषां प्राङ्मकरात”। मकरवरुडेत्यतः प्राक् त्र्यचामित्यधिकारः।
“स्वाङ्गानाम-[Page1154-a+ 38] कुर्वादीनाम्”

३ । कवर्ग्गरेफवकारादीनि वर्ज्जयित्वात्र्यचां स्वाङ्गानां द्वितीयमुदात्तम्। ललाटम्। कुर्वादी-नान्तु कपोलः। रसना। वदनम्।
“मादीनाञ्च”

४ । मलयः। मकरः।
“शादीनां शाकानाम्”

५ । शीतन्याशतपुष्पा।
“पान्तानां गुर्वादीनाम्”

६ । पादपःआतपः। लघ्वादीनान्तु अनूपम्।
“युता-न्यण्यन्तानाम्”

७ । युत अयुतम्। अनि धमनिः। अणि विपणिः।
“मकरवरुडपारेवतवितस्ते{??}र्जिद्राक्षा-कलोमाकाष्ठायुतष्ठाकाशीनामादिर्वा”

८ । एषामादि-र्द्वितीयो वोदात्तः। मकरः। वरूड इत्यादि।
“छन्दसिच”

९ । अमकराद्यर्थ आरम्भः। लक्ष्यानुसारादा-दिर्द्वितीयं वोदात्तं ज्ञेयम्।
“कर्द्दमादोनाञ्च”

१० । आदिर्द्वितीयं वोदात्तम्।
“सुगन्धितेजनस्य ते वा”

११ । आदिर्द्वितीयन्तेशब्दश्चेति त्रयः पर्य्यायेणोदात्ताः। सुग-न्धितेजनाः।
“नपः फलान्तानाम्”

१२ । आदिर्द्वि-तीयञ्चोदात्तम्। राजादनफलम्।
“यान्तस्यान्त्यात्पूर्व्वम्”

१३ । कुलायः।
“थान्तस्य च नालघुनी”

१४ । नाशब्दो लघु च उदात्ते स्तः। सनाथा सभा। सरथासेना
“शिशुमारीदुम्बरबलीवर्दोष्ट्रारपुरूरवसाञ्च”

१५ । अन्त्यात् पूर्ब्बमुदात्तं द्वितीयं वा।
“साङ्काश्यकाम्पि-ल्यनासिक्यदार्वाघाटानाम्”

१६ । द्वितीयमुदात्तं वा।
“ईषान्तस्य हलादेरादिर्वा”

१७ । हलीषा। लाङ्गलीषा।

४ पादे
“शकटिशकट्योरक्षरमक्षरं पर्य्यायेण”

१ । उदात्तम्। शकटिः। शकटी।
“गोष्ठजस्य ब्राह्मणनामधेयस्य”

२ । अक्षरमक्षरं पर्य्यायेणोदात्तम्। गोष्ठजः ब्राह्मणः अन्यत्रगोष्ठजः पशुः। कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः।
“पारावतस्योपोत्तमवर्जम्”

२ । शेषं क्रमेणोदात्तम्। पारावतः।
“धूम्रजानुमुञ्जकेशकालबालस्थालीपाकाना-मधूजलस्थानाम्”

४ । एषाञ्चतुर्णान्धूप्रभृतीश्चतुरोवर्जयित्वा शिष्टानि क्रमेणोदात्तानि। धूम्रजानुःमुञ्जकेशः कालबालः स्थालीपाकः।
“कपिकेशह-रिकेशयोश्छन्दसि”

१५ । कपिकेशः हरिकेशः। ( समासस्य बहुपदघटिततया कस्योदात्ततेति निर्णयायकेचित् पूर्व्वपदप्रकृतिस्वराः केचित् उत्तरपदप्रकृतिस्वराःकेचित् पूर्व्वपदे आद्युदात्ताः केचिच्च तत्रान्तोदात्ताःकेचित् उत्तरपदे आद्युदात्ताः केचिच्च तत्रान्तोदात्ताःइति विभागं मनसि निधाय पाणिनिना

६ अध्याये समास-स्वरप्रकरणमारब्धं यथा
“समासस्य” पा॰ अन्त उदात्तः। [Page1154-b+ 38] यज्ञश्रियम्। इति सामान्यतोविधाय विशेषमाह। ( तत्रादौपूर्व्वपदप्रकृतिस्वरः।
“बहुव्रीहौ प्रकृत्यापूर्वपदम्” पा॰। उदात्तस्वरितयोगिपूर्व्वपदं प्रकृत्या स्यात्ब॰ व्री॰। अन्तोदात्ततापवादः।
“सत्यश्चित्रस्रवस्तमः”। सर्वानुदात्ते पूर्वपदे तु अन्तोदात्तएव। समपादः।
“तत्-पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाऽव्ययद्वितीयाकृत्याः”। पा॰। सप्तैते पूर्व्वपदभूतास्तत्पुरुषे प्रकृतिस्वराः। तु-ल्यश्वेतः समश्वेतः। किरिणा काणः किरिकाणः। मद-यत्सखः। मदयति मादके इन्द्रे सखा। शस्त्रीश्यामः घनश्यामः।
“अव्यये नञ्कुनिपातानामिति वाच्यम्” वार्त्ति॰। अयज्ञः। नञित्याद्युक्तेः प्रोष्यपापीयानि-त्यादौ न। द्वितीया क्षणसुखम्। कृत्या भोज्योष्णम्।
“वर्णोवर्णेष्वेनेते” पा॰ वर्ण्णवाचिन्युत्तरपदे एतवर्ज्जितेवर्ण्णवाचि पूर्व्वपदं प्रकृत्या तत्पुरुषे। कृष्णसारङ्गः। वर्ण्णःकिं परमकृष्णः इत्यादौ, वर्णेषु किं कृष्णतिला इत्यादौ चन, एवं कृष्णैत इत्यत्रापि।
“गाधलवणयोः प्रमाणे” पा॰एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदंप्रकृत्या। अरित्रगाधम् तत्प्रमाणमित्यर्थः। गोलवणम्यावद्गवे दीयते तावदित्यर्थः।
“दायांद्यं दायादे” पा॰धनदायादः।
“प्रतिबन्धि चिरकृच्छ्रयोः” पा॰। प्रतिब-न्धिवाचि पूर्व्वपदं प्रकृत्या एतयोः परयोः। गमनचिरम्। कथनकृच्छ्रम्। गमनादिकारणविकलतया चिरकालभाविकृच्छ्रयोगितथा चात्र प्रतिबन्धः। अन्यत्र मूत्रकृच्छ्रमित्या-दौ न।
“पदेऽपदेशे” पा॰ व्याजवाचिनि उत्तरपदेप्रागुक्तम्। मूत्रपदेन प्रस्थितः। अनपदेशे तु विष्णुपदम्अत्र न
“निवाते वातत्राणे” पा॰ पार्श्ववाचिनिवाते परेवातत्राणवाचिनि तत्पुरुषे प्रागुक्तम्। कुटीनिवातम्। वातत्रालाभावे तु राजनिवाते वसतीत्यत्रं न
“शार-देऽनार्त्तवे” पा॰ आर्त्तवभिन्नवाचिनि शारदे परेप्रागुक्तम्। रज्जुशारदमुदकम्। रज्वाः सद्य उद्धृत-मित्यर्थः। आर्त्तवार्थत्वे तु उत्तमशारदमित्यादौ न। अ-ध्वर्युकषाययोर्जातौ” पा॰ एतयोः परयोर्जातिवाचकस्यप्राशुक्तम्। कठाध्वर्युः दौवारिककषायम्। अजातेस्तुपरमाध्वर्युरित्यादौ न
“सदृशप्रतिरूपयोः सादृश्ये” पा॰ पितृसदृशः पितृप्रतिरूपः। असादृश्ये तु प-रमसदृश इत्यादौ न। सादृश्यमत्र पूज्यता न तुसादृश्यमात्रम् सि॰ कौ॰।
“द्विगौ प्रमाणे” पा॰ द्विगौप्रमाणवाचिनि परे पूर्वपदं प्रकृतिस्वरम्। प्राच्यसप्तसमः। [Page1155-a+ 38] सप्त समाः प्रमाणमस्य सप्तसमः ततः कर्म॰
“गन्तव्यपण्यंबाणिजे” पा॰ बाणिजशब्दे परे एतदर्थकौ प्राग्वत् तत्पु-रुषे। मद्रबाणिजः गोबाणिजः। अगन्तव्यादौ तु परम-बाणिज इत्यादौ न।
“मात्रोपज्ञोपक्रमच्छाये नपुंसके” पा॰
“मात्रादिषु परतः नपुंसकवाचिनि तत्पुरुषे प्रकृत्या। भिक्षामात्रम्। पाणिन्युपज्ञम्। नन्दोपक्रमम्। इक्षुच्छा-यम्। नपुंसके किभ् वृक्षच्छाया इत्यादौ न।
“सुखप्रिय-योर्हिते” पा॰। गमनसुखं गमनप्रियम्।
“प्रीतौ च” पा॰प्रीतौ गम्यायां प्रागुक्तम्। ब्राह्मणमुखं पयःपानम्। छात्र-प्रियोऽनध्यायः।
“स्वंस्वामिनि” पा॰। गोस्वामी। अन्यत्रपरमस्वामीत्यादौ न।
“पत्यावैश्वर्ये” पा॰। गृहपतिः।
“नभूवाक्चिद्दिधिषु” पा॰
“प्रागुक्तं न। भूपतिः वाक्पतिः चि-त्पतिः दिधिषुपतिः।
“वा भुवनम्” पा॰। प्रागुक्तं वा। भुवनपतिः।
“आशङ्काबाधनेदीयस्सु सम्भावने” पा॰। गमनाशङ्कमस्ति गमनाबाधम् गमननेदीयः। गमनमा-शङ्क्यते आवाध्यते निकटतरमिति सम्भाव्यते इत्यर्थः। असम्भावने तु परमनेदीय इत्यादौ न।
“पूर्वे भूत-पूर्वे” पा॰ भूतपूर्वार्थे पूर्वशब्दे परे पूर्वपदं प्रकृत्या। आढ्य पूर्वः।
“सविधसनीडसमर्य्यादसवेशसदेशेषु सामीप्ये” पा॰। मद्रसविधम्। एवं सनीडादिषु। असामीप्ये तुसह मर्य्यादया समर्य्यादं क्षेत्रम् चैत्रसमर्यादमित्यादौ न।
“विस्पष्टादीनि गुणवचनेषु” पा॰। विस्पष्टकटुकम्। विस्पष्ट विचित्र व्यक्त सम्पन्न पण्डित कुशल चपलनिपुण” एते विस्पष्टादयः। अगुणवचने तु विस्पष्ट-ब्राह्मण इत्यादौ न।
“श्रज्यावमकन्पापवत्सु भावः कर्म-धारये” पा॰। श्रुज्य, अधम, कन् इत्यादेशवति पापिवाचिनिच परे भाववाचि पूर्वपदं प्रकृत्या। गमनश्रेष्ठं गमनज्यायःगमनावमम् गमनकनिष्ठम्। गमनपापिष्ठम्।
“कुमारश्च” पा॰। कर्मधारये पूर्वपदं प्रकृत्या। कुमारश्रमणः।
“आदिःप्रत्येनसि” पा॰ कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्म्म॰। कुमारप्रत्येनाः।
“पूगेष्वन्यतरस्याम्” पा॰ कुमारचातकाःकुमारजीमूताः।
“इगन्तकालकपालभगालशरीरेषु द्विगौ” पा॰। इगन्ते पञ्चारत्निः। काले पञ्चमास्यः दशमास्यः। पञ्चकपालः पञ्चभगालः। (भगालः पात्रभेदः)। पञ्चशरीरः।
“वह्वन्यतरस्याम्” पा॰। प्रकृत्या वा। बह्वरत्निः बहुमास्यः।
“दिष्टिवितस्त्वोश्च” पा॰। प्रकृत्या वा। पञ्चदिष्टिः पञ्च-वितस्तिः।
“सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्” पा॰। अकालवाचि सप्तम्यन्तम् एषु परेषु प्रकृत्या। साङ्काश्य-[Page1155-b+ 38] सिद्धः आतपशुष्कः भ्राष्ट्रपक्वः चक्रबन्धः। काले तुपूर्वाह्णसिद्ध इत्यादौ न। परिप्रत्युपापा वर्ज्यमानाहो-रात्रावयवेषु” पा॰। एते प्रकृत्या वर्ज्यमानाहोरात्रावयव-वाचिनि परे। परित्रिगर्त्तं वृष्टोदेवः। प्रतिपूर्वाह्णम्। प्रत्यपररात्रम्। उपपूर्वरात्रम्। अपत्रिगर्त्तम्।
“उपसर्गाआद्युदात्ताः अभिवर्ज्जम्” इति बहुब्रीहितत्पुरुषयोःसिद्धत्वादव्ययीभावार्थमिदम्” सि॰ कौ॰।
“राजन्यबहुवचनद्व-न्द्वेऽन्धकवृष्णिषु” पा॰। बहुवचनान्तानां राजन्यानाम-न्धकवृष्णिषु वर्त्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या। शिनिवा-सुदेवाः।
“संख्या” पा॰। द्वन्द्वे संख्यावाचि पूर्वपदं प्रकृत्या
“द्वादश त्रयोदश।
“आचार्य्योपसर्जनश्चान्तेवासी” पा॰। द्वन्द्वे प्रागुक्तम्। पाणिनीयवौडीयाः
“कार्त्तकौजपादयश्च” पा॰। द्वन्द्वे एषां पूर्वपदं प्रकृत्या। ते चकार्त्तकौजपौ सावर्णिकमाण्डूकेयौ अवन्त्यश्मकाः पैलश्या-पर्णेयाः कपिश्यापर्णेयाः शौतिकाक्षपाञ्चालेयाः कटूकवा-धूलेयाः शाकलशुनकाः शाकलशणकाः शणकबाभ्रवाःआर्च्चाभिमौद्गलाः कुन्तिसुराष्ट्राः चिन्तिसुराष्ट्राः तण्डव-तण्डाः अविमत्तकामविद्धाः बाभ्रवशालङ्कायनाः बाभ्रवदा-नच्युताः कठकालापाः कठकौथुमाः कौथुमलौगाक्षाःस्त्रीकुमारम् मौदपैप्यलादाः। वत्सजरन्तः सौश्रुतपार्थवाःजरामृत्यू याज्यानुवाक्ये।
“महान् व्रीह्यपराह्णगृष्टीष्वासजावालभारभारतहैलिहिलरौरवप्रवृद्धेषु” पा॰। एषु परेषुमहच्छब्दः प्रकृत्या। महाव्रीहिः
“सन्महदिति प्रति-पदोक्तसमास एवायं स्वरः न षष्ठीसमासे” सि॰ कौ॰।
“क्षुल्लकश्च वैश्वदेवे” पा॰। क्षुल्लकवैश्वदेवम् महावैश्वदेवम्। क्षुधं लाति क्षुल्लः ततः कन्।
“उष्ट्रः सादिवाम्योः” पा॰उष्ट्रसादिः उष्ट्रवामिः।
“गौःसादसादिसारथिषु” पा॰। गोसादः गोसादिः गोसारथिः।
“कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापरेबडबातैतिलकद्र्वः पण्यकन्दलोदा-सीभाराणाञ्च” पा॰। एषां सप्तानां समासानां दासीभारादेश्चपूर्वपदं प्रकृत्या।

६ त॰। कुरुगार्हपतम्।
“वृजेरिति वा-च्यम्” वार्त्ति॰ वृजिगार्हपतम्। कर्म॰ रिक्तगुरुः। कर्म॰ अ-सूतजरती। क॰ अश्लीलदृढरूपा। पारेवडवेव इवार्थे क॰विभक्त्यलोपश्च नि॰। क॰ वैतिलकद्रुः। क॰ पण्यकम्बलाः।

६ त॰। दासीभारः देवहूतिः देवभीतिः देवलातिः वसुनीतिःओषधिचन्द्रमाः आकृतिगणः।
“यस्य ततपुरुषस्य पूर्वपद-प्रकृतिस्वर इष्यते न विशिष्य विधानं स सर्वोऽपि दासी-भारादिषु दृश्यः” सि॰ कौ॰
“चतुर्थी तदर्थे” पा॰। चतु-[Page1156-a+ 38] र्थ्यन्तार्थाय यत् तद्वाचिनि परे पूर्वपदं प्रकृत्या।

४ त॰। यूपदारु।
“अर्थे” पा॰। अर्थे परे चतुर्थ्यन्तं प्रकृत्या। देवा-र्थम्।
“क्ते च” पा॰। क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या।

४ त॰गोहितम्।
“कर्मधारयेऽनिष्ठा” पा॰। क्तान्ते परे पूर्व-मनिष्ठान्तं प्रकृत्या। श्रेणिकृताः पूगकृताः श्रेण्या कृत-मित्यादौ न। निष्ठान्तस्यापि न, कृताकृतम्।
“अहीनेद्वितीया” पा॰। अहीनवाचिनि समासे क्तान्ते परेद्वितीयान्तं प्रकृत्या। कष्टं श्रितः कष्टश्रितः। ग्रामगतः
“अ-नुपसर्ग इति वक्तव्यम्” वार्त्ति॰। नेह सुखप्राप्तःकष्टाश्रितः।
“तृतीया कर्मणि” पा॰। कर्मवाचकक्तान्ते परे तृतीयान्तंप्रकृत्या। रुद्रहतः महाराजहतः। कर्मणि किं रथेना-यातः रथायात इत्यादौ न।
“गतिरनन्तरः” पा॰। कर्मार्थक्तान्ते परेऽव्यवहितोगतिः प्रकृत्या। पुरोहि-तम्। व्यवधाने तु न अभ्युद्धृतः।
“तादौ च नितिकृत्यतौ” पा॰। तकारादौ निति तुशब्दभिन्ने कृति परेगतिरनन्तरः प्रकृत्या।
“प्रभूतौ सङ्गतिः गौः” कृत्स्वरा-पवादः। तौ तु न, आगन्तुः।
“तवै चान्तश्च युगपत्” पा॰तवै प्रत्ययान्तस्यान्त उदात्तः गतिश्चानन्तरः प्रकृत्या तच्चयुगपत्। अन्वेतवै।
“अनिगन्तोऽञ्चतौ वप्रत्यये पा॰। अनिगन्तगतिर्वप्रत्ययान्ताञ्चतौ पर प्रकृत्या।
“येपराञ्च-स्तान्”
“न्यधी” पा॰। तस्मिन् परे न्यधी गती प्रकृत्या। न्यङ् अध्यङ्।
“ईषदन्यतरस्याम्” पा॰। ईषत्कडारः। ईषद्भेद इत्यादौ तु कृत्स्वरएव।
“हिरण्यपरिमाणं धने” पा॰। वा प्रकृत्या। द्विसुवर्णधनं कर्मधारयः।
“प्रथमोऽ-चिरोपसम्पत्तौ” पा॰। प्रथमः प्रकृत्या नूतनत्वे। प्रथमवैया-करणः। सम्प्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः। मु-ख्यार्थत्वे तु न।
“कतरकतमौ कर्म्मधारये” पा॰। वाप्रकृत्या। कतरकठः।
“आर्य्योब्राह्मणकुमारयोः” पा॰। कर्म॰ प्रकृत्या। आर्य्यब्राह्मणः आर्यकुमारः।
“राजा च” पा॰। राजव्राह्मणः राजकुमारः।
“षष्ठी प्रत्येनसि” पा॰षष्ठ्यन्तोराजा प्रत्येनसि परे वा प्रकृत्या। राजप्रत्ये-नाः। कर्म॰ न।
“क्ते नित्यार्थे” पा॰। क्तान्ते परेनित्यार्थे समासे पूर्व्वं प्रकृत्या। नित्यहसितः
“ग्रामःशिल्पिनि” पा॰। वा प्रकृत्या। ग्रामनापितः। अशिल्पिनिन, ग्रामरथ्या।
“राजा च प्रशंसायाम्” पा॰। शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या। राजनापितः राजकुलालः। अशिल्पिनि तु राजहस्तीत्यादौ न। ( एवम् अन्तोदात्ततापवादं पूर्व्वपदप्रकृतिस्वरमभि-[Page1156-b+ 38] धाय आद्युदात्तस्वरमपि तदपवादतयाऽभिदधे। (
“आदिरुदात्तः” पा॰। अधिकारीऽयम्।
“सप्तमीहारिणौधर्म्येऽहरणे” पा॰ सप्तम्यन्तं हारिवाचि च आद्युदात्तस्यात् धर्म्ये परे अहरणे। देयं यः स्वीकरोति स हारी-त्युच्यते धर्म्म्यमित्याचारनियतं देयम्। मुकुटेकार्षा-पणम्। हलेद्विपदिका। संज्ञायामिति सप्तमीसमासःकारणाम्नि चेत्यलुक्। याज्ञिकाश्वः वैयाकरणहस्ती। क्वचिदयमाचारः मुकुटादिषु कार्षापणादि भृतित्वेनदेयम् याज्ञिकादीनां त्वश्वादिरिति तत्र याज्ञिकादीनांधर्म्यरूपदेयस्य स्वीकारित्वात् याज्ञिकादिपदस्योदात्तत्वम्। बीजनिषेकादुत्तरकालं देहपुष्ट्यर्थं यद्दीयतेतद्धरणं तस्मिन् परे न। वाडवहरणम्। वङवाया अयंवाडवः तस्मिन् हरणमित्यर्थः। परोऽपि कृत्स्वरोहारिस्वरेण बाध्यते इत्यहरणनिषेधेन ज्ञापितम्।
“युक्तेच” पा॰। युक्तवाचिनि समासे पूर्ब्बमाद्युदात्तम्। गोव-ल्लवः। कर्त्तव्ये तत्परश्चेह युक्तः।
“विभाषाध्यक्षे” पा॰। अध्यक्षे परे प्रागुक्तं वा। गवाध्यक्षः।
“पा-पञ्च शिल्पिनि” पा॰। पापनापितः। पापाणके इतिप्रतिपदोक्तस्यैव ग्रहणात् षष्ठीसमासे न।
“गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे” पा॰। क्षेपे गम्ये एषु पूर्व्व-पदमाद्युदात्तं स्यात्। तत्र गोत्रे भार्य्यासौश्रुतः। सुश्रुतापत्यस्य भार्य्यप्रधानतयेह क्षेपः। अन्तेवासिनि। कुमारीदाक्षाः ओदनपाणिनीयाः। कुमार्य्यादिलाभकामनयैव दाक्ष्यादिप्रोक्तशास्त्राध्यायिनां क्षेपः। भिक्षा-माणवः भिक्षां लस्येऽहमिति माणवः इति क्षेपः। भयब्राह्मणः भयेन ब्राह्मणः सम्पद्यते इति क्षेपः।
“अङ्गानि मैरेये” पा॰ मधुमैरेयः मधुनो मद्याङ्गत्वात्तत्परे तथात्वम्।
“भक्ताख्यास्तदर्थेषु” पा॰। भिक्षा-दयोऽन्नविशेषाः कंसादिरूपपात्रस्य तदर्थत्वात् तत्परे भि-क्षादीनां प्रागुक्तम्। भिक्षाकंमः भाजीकंसः।
“गोविडालसिंहसैन्धवेषूपमाने” पा॰। उपमानवाचिषुएषु पूर्व्वपदमाद्युदात्तम्। धान्यगवः धान्यं गौरिवेतिवाक्ये गवाकृत्या सन्निविशेतं धान्यं धान्यगवः। गोवि-डालः। तृणसिंहः सक्तुसैन्धवः।
“अके जीविकार्थे” पा॰। अकान्ते परे जीविकार्थवाचिनि समासे पूर्व्वपदमाद्युदात्तम्। दन्तलेखकः। दन्तलेखनेन जीविवावान्।
“प्राचां क्रीडायाम्” पा॰। प्राच्यानां क्रीडावाचिनिसमासे अकान्ते परे प्रागुक्तम्। उद्दालपुष्पभञ्चिका। [Page1157-a+ 38]
“अणि नियुक्ते” पा॰। अणन्ते परे नियुक्तवाचिनिसमासे प्रागुक्तम्। छत्रधारः।
“शिल्पिनि चाकृञः” पा॰। शिल्पिवाचिनि अकृञः पराणन्ते परे प्रागुक्तम्। तन्तुवायः। अशिल्पिनि तु न, कुशलावः। कृञोऽपिन कुम्भकारः।
“संज्ञायाञ्च” पा॰। अणन्ते प्रागुक्तम्। तन्तुवायो नाम लूताकृमिः। अकृञ इत्येव रथकारोनामब्राह्मण इत्यत्र न।
“गोतन्तियवं पाले” पा॰। गोपालःतन्तिपालः यवपालः। अनियुक्तार्थोऽयमारम्भः नियुक्तेतु पूर्व्वेण सिद्धः।
“णिनि” पा॰। णिन्यन्ते परे प्रागुक्तम्। पुष्पहारी।
“उपमानं शब्दार्थप्रकृतावेव” पा॰। उपमानवाचि पूर्व्वपदं णिन्यन्ते परे आद्युदात्तम्। उष्ट्रक्रोशी ध्वाङक्षरावी। अशब्दार्थे तु वृकवञ्चीत्यादौन। प्रकृतिग्रहणेन उपसर्गेण शब्दार्थत्वे गर्द्दभोच्चारी-त्यादौ न।
“युक्तारोह्यादयश्च” पा॰। एते आद्युदात्ताः। युक्तारोही आगतरोही आगतयोधी आगतपञ्चीआगतनन्दी आगतप्रहारी। आगतमत्स्यः क्षीरहोताभगिनीभर्त्ता ग्रामगोधुक् अश्वत्रिरात्रः गर्गत्रिरात्रःव्युष्टित्रिरात्रः गणपादः एकशितिपाद् पात्रेसम्भिता-दयश्च युक्तारोह्यादिः।
“दीर्घकाशतुषभ्राष्ट्रवटं जे” पा॰। जे परे एतानि आद्युदात्तानि। दीर्घजः काशज इ-त्यादि।
“अन्त्यात् पूर्व्वं वह्वचः” पा॰। बह्वचः पूर्ब्बस्या-न्त्यात् पूर्व्वपदं जे परे आद्युदात्तम्। उपसरजः। आमलकीजः।
“ग्रामेऽनिवसन्तः” पा॰। ग्रामे परे अनि-वसद्वाचि पूर्व्वपदमाद्युदात्तम्। मल्लग्रामः, (मल्लसमूहः)देवग्रामः (देवस्वामिकः ग्रामः)। निवसतस्तु दाक्षिग्रामइत्यादौ न।
“घोषादिषु च” पा॰ घोष इत्येव-मादिषु चोत्तरपदेषु पूर्ब्बपदमाद्युदात्तं स्यात्। घोषकट बल्लभ ह्रद वदरी पिङ्खल पिशङ्ग माला रक्षाशाला कूट शाल्मली अश्वत्य तृण शिल्पी मुनि प्रेक्षाघोषादि। दाक्षिघोषः।
“छात्र्यादयः शालायाम्” पा॰। छात्रिशाला व्याडिशाला। ते च छात्रि पेलि भाण्डिव्याडि आखण्डि आटि गोमि।
“प्रस्थेऽवृद्धमकर्क्या-नीनाम्” पा॰। प्रस्थपरे अवृद्धं (यस्याद्यचः वृद्धिर्न)तादृशपूर्वषदमाद्युदात्तं न तु कर्क्यादीनाम्। इन्द्रप्रस्थः। वृद्धस्य तु दाक्षिप्रस्थ इत्यादौ न। कर्क्यादयश्च कर्क्कीमघ्नी मकरी कर्क्कन्धु शमी करीर कन्दुक कवल वदरी।
“मालादीनाञ्च” पा॰। वृद्धार्थमिदम्। मालाप्रस्थम्। मा-लादयश्च। माला शाला शोणा द्राक्षा स्राक्षा क्षामा[Page1157-b+ 38] काञ्ची एक काम।
“अमहन्नवं नगरेऽनुदोचाम्” पा॰। ब्रद्यनगरम्। महन्नवयोस्तु महानगरं नवनगरमित्यादौन। उदीचान्तु कार्त्तिनगरमित्यादौ न।
“अर्म्मे चावर्णंद्यच् त्र्यच्” पा॰। अर्म्मे परे द्व्यच्कं त्र्यच्कं वाऽव-र्णान्तं पूर्वपदमाद्युदात्तं स्वात्। गुप्तार्म्मम्। कुक्कुटा-र्म्मम्। अनवर्णस्य वृहदर्ममित्यादौ न। अधिकाच्केऽपिकपिञ्जलार्ममित्यादौ न। अमहवन्नमित्येव तेन महार्मम्नवार्ममित्यादौ न।
“न भूताधिकसञ्जीवमद्राश्मकज्ज-लम्” पा॰। अर्म्मे एतानि नाद्युदात्तानि। भूतार्मम्। ( एवं समासे पूर्वपदस्य आद्युदात्तनामाभिधाय तस्यैव अन्तोदात्तताऽपि तत्र उक्ता यथा
“अन्तः” पा॰ अधि-कारोऽयं प्रागुत्तरपदादिग्रहणात्।
“सर्वं गुणकात्र्स्न्ये” पा॰। सर्व्वशब्दरूपं पूर्वपदमन्तोदात्तं स्यात् गुणसाकल्येगम्ये। मर्वश्वेतः सर्वमहान्। श्वेतत्वमहत्त्वगुणाभ्यांकृत्स्नव्यापकताद्योतनादस्य तथात्वम्। सर्वसौवर्ण इत्यादौतु गुणेन व्याप्त्यभावान्न। अप्ताकल्ये तु सर्वेषां श्वेत-तरः सर्वश्वेत इत्यादौ तरलोपे न।
“संज्ञायां गिरिनिका-ययोः” पा॰। एतयोः पूर्ब्बमन्तोदात्तम्। अञ्जनागिरिःमौण्डिनिकायः। असंज्ञायान्तु परमगिरिः ब्राह्मणनिकायइप्यादौ न।
“कुमार्य्या वयसि” पा॰। कुमारीपरे पूर्व-पदमन्तोदात्तम् वयसि। वृद्धकुमारी जरत्कुमारी। कुमारीशब्दः पुंसा सह सङ्गमाभाववतीपरः वृद्धादिसामा-नाथिकरण्यात् वयोवाचित्वमत्र। अवयसि तु परमकुमारीत्यादौ न।
“उदकेऽकेवले” पा॰ अकेवलं मिश्रं तद्वा-चिनि समासे उदके परे पूर्वपदमन्तोदात्तम्। गुडोदकम्। गुडमिश्रितमुदकमित्यर्यः स्वरे कृतेऽत्र एकादेशे स्वरितो-वानुकात्ते पदादाविति पक्षे स्वरितः। अमिश्रे तु शीतो-दकम् इत्यादौ न।
“द्विगौ क्रतौ” पा॰ द्विगावुत्तरपदेकतुवाचिनि समासे प्रागुक्तम्। गार्ग्यत्रिरात्रः। अद्विगौ तुअतिरात्र इत्यादौ न
“सभायां नपुंसके” पा॰ क्लीवान्तसभापरे प्रागुक्तम्। गोपालसभम्। अक्लीवे राज-सभेत्यादौ न। तत्पुरुषस्यैव ग्रहणं तेन रमणीयसभंब्राह्मणकुलमित्यादौ न।
“पुरे प्राचाम्” पा॰। देवदत्तपुरम्। नान्दीपुरम्। अप्राचि तु शिवपुरमित्यादौ न।
“अरिष्टगौडपूर्वेच” पा॰। अरिष्टपुरम्। गौडपुरम्। पूर्व्व-ग्रहणात् अरिष्टाश्रितपुरं गौडभृत्यपुरमित्यत्रापि स्यात्।
“न हास्तिनफलकमार्द्देयाः” पा॰। पुरे परे एतानि नान्तोदात्तानि। हास्तिनपुरम्। फलकपुरम्। सार्द्देयपुरम्। [Page1158-a+ 38]
“कुसूलकूपकुम्भशालं बिले” पा॰ कुसूलबिलम्। कूप-बिलमित्यादि
“दिक्छब्दा ग्रामजनपदाख्यानचानराटेषु” पा॰। एषु परेषु दिग्वाचकशब्दाः अन्तोदात्ताः। पूर्व्वेषुकामशमी। अपरकृष्णमृत्तिका। पूर्वपञ्चालाःपूर्व्वचानराटम्। इह पूर्वकालवाचित्वेऽपि पूर्वादेः दिशिदृष्टत्वाद्दिक्छब्दत्वम्
“आचार्य्योपसर्जनश्चान्तेवासिनि” पा॰आचार्य्योपसर्जने अन्तेवासिनि परे दिक्छब्दाः अन्तो-दात्ताः। पूर्वपाणिनीयाः आचार्य्येत्युक्तेः पूर्ब्बान्तेवासी-त्यादौ न।
“उत्तरपदवृद्धौ सर्वञ्च” पा॰। उत्तरपदस्ये-त्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्व्वशब्दःदिक्शब्दश्चान्तोदात्तः। सर्वपाञ्चालः पूर्वपाञ्चालः।
“बहु-ब्रीहौ विश्वं संज्ञायाम्” पा॰। ब॰ ब्री॰ विश्वशब्दः पूर्व्वप-दमन्तोदात्तं संज्ञायाम्। पूर्वपदप्रकृतिस्वरेण प्राप्तस्या-द्युदात्तस्यापवादः। विश्वकर्मा विश्वदेवः। कर्म॰ विश्वेदेवाइत्यादौ न। अव्ययीभावात् बहुब्रीहावित्यधिकारः।
“उदराश्वेषुषु” पा॰। एषु परेषु पूर्वपदमन्तोदात्तंस्यात् बहुव्रीहौ। वृषोदरः हर्य्यम्बः महेषुः।
“क्षेपे” पा॰। निन्दने गम्ये प्रागुक्तम्। घटोदरः कटुकाश्वःचलाचलेषुः। अनुदर इत्यत्र नञ्सुभ्यामिति पूर्वप्रति-प्रतिषेधेन भवति” सि॰ कौ॰।
“नदी बन्धुनि” पा॰। गार्गी-बन्धुः।
“निष्ठोपसर्गपूर्वान्यतरस्याम्” पा॰। निष्ठान्तमुपसर्गपूर्व्वपदमन्तोदात्तं वा। प्रधौतपादः। ( एवं समासे आदिपदस्याद्यन्तोदात्ततां विधाय उत्तरपद-स्याद्युदात्ततामाह यथा।
“उत्तरपदादिः” पा॰। उत्तपदाधिकारः आपादान्तम्। आद्यधिकारस्तु प्रकृत्याभगालमित्यवधिकः।
“कर्ण्णोवर्ण्णलक्षणात्” पा॰। वर्णबा-चिनः लक्षणवाचिनश्च परः कर्ण्णशब्दः आद्युदात्तोबहुब्रीहौ। शुक्लकर्णः शङ्कुकर्णः। अन्यस्मात्तु शोभनकर्णइत्यादौ न।
“संज्ञौपम्ययोश्च” पा॰। उत्तरपदस्थं कर्णआद्युदात्तः। मणिकर्णः गोकर्णः।
“कण्ठपृष्ठग्रीवाज-ङ्घञ्च” पा॰। संज्ञौपम्ययोर्बहुब्रीहौ। संज्ञायाम् शितिकण्ठः काण्डपृष्ठः सुग्रीवः नाडीजङ्घः। औपम्ये खर-कण्ठः गोपृष्ठः अश्वग्रीवः गोजङ्घः।
“शृङ्गमवस्थायाञ्च” पा॰। अबस्थायाम् उद्गतशृङ्गः द्व्यङ्गुलशृङ्गः अत्रशृङ्गोद्गमनादिना वयो ज्ञाप्यते। संज्ञायाम् ऋष्यशृङ्गः। औपम्ये मेषशृङ्गः।
“नञोजरमरमित्रमृताः” पा॰। नञः पराएते आद्युदात्ता बहु॰। अजरम्। अमरम्। अमित्रम् अमृतम्।
“सोर्मनसी अलोमोषसी” पा॰। [Page1158-b+ 38] सोः परे लोमोषसी त्यक्त्वा मन्नन्तमसन्तं चाद्युदात्तबहु॰। सुकर्माणः सुयुजः। सुमनाः सुब्रह्मा सुवर्च्चाः सुपे-षसः। लोमोषसोस्तु सुलोमा सूषा इत्यादौ न।
“क्रत्वादयश्च” पा॰। सोः परे एते आद्युदात्ताः। सुक्रतुःसुप्रतोकः। क्रतु दृशीक प्रतीक प्रतूर्त्तिहव्यभग।
“आद्युदात्तं द्व्यच छन्दसि” पा॰। यदाद्युदात्तं द्व्यच् तत् सोरुत्तरं बहुव्रीहौ तथैव स्यात् वेदे लोके तु न। स्वश्वाःसुरथाः। आद्युदात्तं किम् सुबाहुः। द्व्यच् किंसुगुः सहिरण्य इत्यादौ न।
“वीरवीर्य्यौ च” पा॰। वेदेसुवीरः सुवीर्य्यः लोके तु न। अत्र वीर्य्यग्रहणादन्यत्रवीर्य्यशब्दस्य यदन्तत्वेऽपि यतोनावैत्याद्युदात्तं नेतिज्ञापितम।
“कूलतीरतूलमूलशालाक्षसममव्ययीभावे” पा॰। बहुब्रीह्यधिकारोनिवृत्तः। अव्ययीभाव कूलादीन्याद्यु-दात्तानि स्युः। उपकूलम् उपतीरम् उपशालम्। उपाक्षं सुषमम् निःषमम्। तिष्ठद्ग्वादि॰ स॰।
“कंस-मन्थशूर्पपाय्य काण्डं द्विगौ” पा॰। द्धिगौ एतानि आद्युदा-त्तानि। द्विकंसः द्विमन्थः द्विशूर्पः द्विपाय्यम् द्विकाण्डम्।
“तत्पुरुषे शालायां नपुंसके” पा॰। क्लीवशालान्ते तत्पुरुषेउत्तरपदमाद्युदात्तम्। ब्राह्मणशालम्।
“कन्था च” पा॰। क्लीवलिङ्ग कन्थान्तस्तत्पुरुषः प्राग्वत्। सौशमिक-कन्थम्।
“आदिश्चिहणादीनाम्” पा॰। कन्थान्ते तत्-पुरुषे क्लीवलिङ्गे चिहणादीनामादिरुदात्तः। न तु कन्था-शब्दरूपस्योत्तरपदस्य पूर्व्वापवादः। चिहणकन्थम्। चिह-णादिश्च चिहण मडर मद्रुमर वैतुल पटत्क वैडालि-कर्णक वैडालिकर्णि कुक्कुट चिक्कण चित्कण।
“चेलखेटकटुक-काण्डं गर्हायाम्” पा॰। निन्दायां चेलादीन्युत्तर-पदान्याद्युदात्तानि। पुत्रचेलम्। नगरखेटं दधिकटुकम्। प्रजाकाण्डम्। चेलादिसादृश्येन पुत्रादीनां निन्दा व्याघ्रा॰स॰।
“चीरमुपमानम्” पा॰। उत्तरपदस्थमुपमानं चीरम्आद्युद्यत्तम्। वस्त्रं चीरमिव वस्त्रचीरम्। अनौपम्येतु परमचीरम् इत्यादौ न।
“पललसूपशाकं मिश्रे” पा॰मिश्रार्थे समासे उत्तरपदस्थानामेषां प्राग्वत्। घृतपललंघृतसूपः घृतशाकः। भक्ष्येण मिश्रीकरणमितिसमासः। अमिश्रे तु परमपललमित्यादौ न।
“कूलसूद-स्थलकर्षाः संज्ञायाम्” पा॰। उत्तरपदस्थानामेषामादि-रुदात्तः संज्ञायाम्। दाक्षिकूलम्। शाण्डिसूदम्। दाण्डायनस्थली। दाक्षिकर्षः ग्रामभेदस्य एताःसज्ञाः। असंज्ञायां तु परमकूलमित्यादौ न।
“अकर्म्मधारये रा-[Page1159-a+ 38] ज्यम्” पा॰। ब्राह्मणराज्यम् कर्म्मधारये तु परमराज्यमि-त्यादौ न।
“वर्ग्यादयः” पा॰। अकर्म्मघारय इत्येव। अर्जु-नवर्ग्यः वासुदेवपक्ष्यः कर्म्मधा॰ परमवर्ग्य इत्यादौ न। वर्ग्यादिश्च दिगाद्यन्तर्गणः तच्छब्दे दृश्यः।
“पुत्रःपुम्भ्यः” पा॰। पुंशब्देभ्यः परः पुत्र आद्युदात्तस्तत्पुरुषे। दासकिपुत्रः माहिषपुत्रः। स्त्रीभ्यस्तु दाक्षीपुत्र इत्यादौन।
“नाचार्य्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः” पा॰। एभ्यःपुत्रोनाद्युदात्तः। आचार्य्यपुत्रः उपाध्यायपुत्रः। राजपुत्रः ईश्वरपुत्रः नन्दपुत्रः। ऋत्विक्पुत्रः याजक-पुत्रः। संयुक्ताः संम्बन्धिनः। श्यालपुत्रः। ज्ञातिपुत्रःभ्रातुष्पुत्रः।
“चूर्णादीन्यप्राणिषष्ठ्याः” पा॰। एतानिप्राणिमिन्नषष्ठ्यन्तात् पराण्याद्युदात्तानि तत्पुरुषे। मुद्गचूर्ण्णम्। प्राणिनस्तु मत्स्यचूर्ण्णमित्यादौ न। चूर्ण्णा-दयश्च। चूर्ण्ण करिव करिष शाकिन शाकट द्राक्षातूल कुन्दम दलप चमसी चक्वन चौल।
“षट् च का-ण्डादीनि” पा॰। काण्ड चीर पलल सूप शाक कूलइत्येतानि षट् अप्राणिषष्ठ्यान्तात् आद्युदात्तानि। दूर्वाकाण्डं दर्भचीरम् तिलपललम् मुद्गसूपः मूलकशाकम्नदीकूलम्।
“कुण्डं वनम्” पा॰। वनवाचिनि तत्पुरुषेकुण्डमाद्युदात्तम्। दर्भकुण्डम् कुण्डशब्दोऽत्र सादृश्ये। ( अथ उत्तरपदे प्रकृतिस्वरविधानसूत्राणि।
“प्रकृत्याभगालम्” पा॰। भगालवाच्युत्तरपदं ततपुरुषे प्रकृत्या। कुम्भीभगालम्। कुम्भीनदालम् कुम्भीदापालम्। मध्यो-दात्ताएते। प्रकृत्येत्यधिकारः अन्त इति यावत्।
“शिते-र्नित्याबह्वच् बहुब्रीहावभसत्” पा॰। शितेः परंनित्याबह्वच्कं प्रकृत्या बहुव्रीहौ। शितिपादः। शित्यंसः। पादः वृषा॰ आद्युदात्तः अंसशब्दः नित्-स्वरवान्। शितेराद्युदात्तत्वात् बहुव्रीहौ पूर्व्वपदप्रकृति-स्वरापवादेन उत्तरस्य प्रकृतिस्वरविधानात्तस्य बाधः।
“ग-तिकारकोपपदात् कृत्” पा॰। एभ्यः कृदन्तं प्रकृतिस्वरंस्यात्तत्पुरुषे। गतेः, प्रकारकः प्रहरणम्। कारकात्इध्मप्रव्रश्चनः। उपपदात् उच्चैःकारम्। ईषत्करः। शेषषष्ठोस॰ तु देवस्य कारकः देवकारक इआत्यादौ न।
“उभे वनस्पत्यादिषु युगपत्” पा॰। एषु पूर्व्वोत्तरपदे युगपत् प्रकृत्या। वनस्पतिः वृहस्पतिः। ते चबनस्पति वृहस्पति शचीपति तनूनपात् नराशंस शुनः-शेफ शण्डामार्कौ तृष्णावरूत्री लम्बाविश्ववयसौ मर्मृत्यू।
“देवताद्वन्द्वे” पा॰। उभे युगपत् प्रकृत्यास्तः। इन्द्रावरुणौ। [Page1159-b+ 38]
“नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु” पा॰। पृथिव्यादिवर्ज्जितेऽनुदात्तादावुत्तरपदे प्रागुक्तन्न।
“इन्द्राग्निभ्यां कं वृषणः” पृथिव्यादौ तु द्यावापृथिव्यौइत्यादौ स्यादेव। तत्र नि॰ आद्युदात्तः द्यावा, पृथिवी-त्वन्तोदात्तः। एवं रुद्रसौमौ इन्द्रापूषणौ इत्यादौ। ( अथोत्तरपदे अन्तोदात्तताविधायकसूत्राणि यथा
“अन्तः” पा॰। अधिकारोऽयम्।
“थाथघञ्क्ताजवित्रकाणाम्” पा॰ थ, अथ, घञ्, क्त, अच्, अप् इत्र, क, एत-दन्तानाम् उत्तरपदस्थानां गतिकारकोपपदात् परेषामन्तउदात्तः। तत्र थ अपभृथः। अथ आवसथः। घञ् प्रभेदः। क्त पुरुष्टुतः। अच् प्रक्षयः। अप्प्रलवः प्रस्तवः। इत्र प्रलवित्रम्। क गोवृषः मूल॰ क। गतिकारकोपदमिन्ने तु सुस्तुवैत्यादौ न सोःपूजार्थत्वेन गतित्वाभावात्।
“सूपमानात् क्तः” पा॰। सोरुपमानाच्च परं क्तान्तमन्तोदात्तम्। सुकृतम्शशप्लुतः।
“संज्ञायामनाचितादीनाम्” पा॰। गति-कारकोपपदात् क्तान्तमन्तोदात्तं न तु आचितादौ।
“उप-हूतः शाकल्यः” आचितादौ न। आचितादयश्च



३९ पृ॰ दर्शिताः।
“प्रवृद्धादीनाञ्च” असंज्ञार्थमारम्भः। प्रवृद्धं यानं प्रवृद्धोवृषलः। प्रयुतासूष्णवः। आकर्षेअवहितः (अवहितो भोगेषु)। खट्वारूढः कविशस्तःआकृतिगणोऽथम्। प्रवृद्धयानम्। अप्रवृद्धो वृषकृतो रथः।
“कारकाद्दत्तश्रुतयोरेवाशिषि” पा॰। कारकपदादुत्तरपदपदस्थयोर्दत्तश्रुतशब्दयोरेव संज्ञायामन्तोदात्तः आशी-र्वादे गम्ये। देवदत्तः विष्णुश्रुतः। अनयोरेवेति निय-मात् देवपालित इत्यादौ न।
“इत्थम्भूतेन कृतमिति च” पा॰। इत्थम्भूतेन कृतमित्यस्मिन्नर्थे यः समासः कृतःततःक्तान्तमुत्तरपदमन्तोदात्तम्। सुप्तप्रलपितम्। अत्रकृत-मिति सामान्यक्रियावाचि। तृतीया कर्मणीत्यस्यापवादः।
“अनोभावकर्मवचनः” पा॰। कारकात् परमनप्रत्ययान्तंभाववचनं कर्मवचनञ्चान्तोदान्तम्। भावे पयःपानम्। कर्मणि राजभोजनाः शालयः।
“मन्क्तिन्व्याख्या-नशयनासनस्थानयाजकादिक्रीताः” पा॰। कारकात्पराण्येतानि तत्पुरुषेऽन्तोदात्तानि। कृत्खरापवादः॥ मन् रथवर्त्म। क्तिन् पाणिनिकृतिः। करणे ल्युट्छन्दोव्याख्यानम्। तेन न पूर्ब्बेण गतार्थः। राजशयनम्राजासनम् अश्वस्थानम् एषु आधारे ल्युट्। ब्राह्मणयाजकः। याजकादिश्च याजकादिशब्दे वक्ष्यते[Page1160-a+ 38] गोक्रीताः। क रकभिन्नात्तु प्रभूतिः सङ्गतिः इत्यादौ तादौनितीति स्वरः।
“सप्तम्याः पुण्यम्” पा॰। अन्तो-दात्तम्। अध्ययनपुण्यम्। तृतीयातत्पुरुषे तु वेद-पुण्यमित्यादौ न।
“ऊनार्थकलहं तृतीयायाः” पा॰। तृतीयायाः परावेतौ अन्तीदात्तौ तत्पुरुषे। माषोनम्माषविकलम्। वाक्कलहः। तृतीयापूर्वपदप्रकृतिस्वरापवादः। अर्थेति स्वरूपग्रहणं तेन धान्यार्थ इत्यत्रापि अर्थशब्दस्यतथात्वम्। ऊनशब्देन तदर्थग्रहणमिति केचित्।
“मिश्र-ञ्चानुपसर्गमसन्धौ” पा॰। तृतीयायाः परम् अनुपसर्गंमिश्रं प्राग्वत्। तिलमिश्रम् सर्पिर्मिश्रम्। मिश्रग्रहणे-ऽन्यत्र सोपसर्गस्य ग्रहणमिति अनुपसर्ग विशेषणात् ज्ञापि-तम्। सन्धौ तु ब्राह्मणमिश्रो राजा इत्यादौ न, ब्राह्मणैःसह ऐकार्थ्यमापन्न इत्यर्थः।
“नञोगुणप्रतिषेधे सम्पाद्य-र्हहितालमर्थास्तद्धिताः” पा॰। सम्पाद्याद्यर्थतद्धितान्ता-गुणनिषेधार्थकनञः परेऽन्तोदात्ताः। न कर्णवेष्टनाभ्यां स-म्पादितं मुखं भवति अकार्णवेष्टनिकम्। न च्छेद-मर्हति अच्छेदिकः। न वत्स्वेभ्योहितः अबत्सीयः। न सन्तापाय प्रभवति असन्तापीयः।
“ययतोश्चातदर्थे” पा॰। तदर्थार्थभिन्नौ ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्थस्यगुणनिषेधार्थात् नञः परस्यान्त उदात्तः। पाशानां समूहःपाश्या न पाश्या अपाश्या। अदन्त्यम्। तदर्थार्थान्ते तुअपाद्यमित्यादौ न। यतः तानुबन्धस्य ग्रहणात् इतरानु-बन्धस्य यस्य अवामदेव्यमित्यादौ न। अत्र वामदेव ड्ड्य-ड्ड्याविति ड्यत् ड्य वा।
“अच्कावशक्तौ” पा॰। अजन्तंकान्तञ्च नञः परमन्तोदात्तमसामर्थ्येगम्ये। अपचः पक्तुंन शक्तः। अलिखः। सामर्थ्येतु अपचोदीक्षित इत्याद्रौन। दीक्षितस्य न पाकासामर्थ्यं किन्तु निषेधादपचत्वम्।
“आक्रोशे च” पा॰। नञः परावच्कान्तावन्तोदात्तौक्षेपे। अपचोजाल्मःपक्तुं न शक्नोतीत्येवमाक्षिप्यते। अ-क्षिपः।
“संज्ञायाम्” पा॰। नजः परमन्तोदात्तं संज्ञा-याम् क्षेपे। अदेवदत्तः
“कृत्योकेष्णुच्चार्वादयश्च” पा॰। नञः परे एतेऽन्तोदात्ताः स्युः। कृत्य अकर्त्तव्यः। उकअनागामुकः। इष्णुच् अनलङ्करिष्णुः। खिष्णुचोऽपि। अनाढ्यम्भविष्णुः। अचारुः। चार्वायदश्च चारु साधुयौधकि अनङ्गमेजय वदान्य अकस्मात् (वर्त्तमानवर्द्धमान-त्वरमाणध्रियमानह्रियमाणरोचमानशोभमानाःसंज्ञायाम्)(विकारसदृशे व्यस्तसमस्ते) गृहपति गृहपतिक (राजाह्नो-श्छन्दसि) अराजा अनहः। भाषायां तु अव्ययस्वरः।
“विभाषा[Page1160-b+ 38] तृन्नन्नतीक्ष्ण शुचिषु” पा॰। तृन् अकर्त्ता। अनन्नम्। अती-क्ष्णम् अशुचिः। पक्षे अव्ययस्वरः।
“बहुव्रीहाविदमेत-त्तद्भ्यः प्रथमपूरणयोः क्रियागणने” पा॰। एभ्य एतयोरन्तउदात्तः बहुव्रीहौ। इदं प्रथमं यस्य इदं प्रथमः। एवम् एतद्द्वितीयं तत्पञ्चमम। द्रव्यगणने तु अयंप्रथमः प्रधानं येषां ते इदंप्रथमा इत्यादौ न। बहुव्रीहावित्यधिकारः।
“संख्यायाः स्तनः” पा॰। द्विस्तनाचतुःस्तना।
“विभाषा छन्दसि” पा॰।
“द्विस्तनां करोतिवामदेव्यः”। पक्षे न
“संज्ञायां मित्राजिनयोः” पा॰। देवमित्रः कृष्णाजिनम्। असंज्ञायां प्रियमित्रः इत्यादौन।
“ऋषिप्रतिषेधोमित्रे” वार्त्ति॰। विश्वामित्र ऋषिःअत्र न।
“व्यवायिनोऽन्तरम्” पा॰। व्यवधायकात् परमन्तरमन्तोदात्तम्। वस्त्रान्तरः।
“मुखं स्वाङ्गम्” पा॰। गौरमुखः। अस्वाङ्गे तु दीर्घमुखा शाला इत्यादौ न।
“नाव्ययदिक्छब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः” पा॰। एभ्यः परं मुखंनान्तोदात्तम् तेन पूर्वपदप्रकृतिस्वरः। उच्चैर्मुखः। प्राङ्मुस्वः गोमुखः। गोमष्टिवत्सपूर्वपदस्यो-पमानलक्षणोऽपि विकल्पोबाध्यते पुरस्तादपवादन्यायात्।
“निष्ठोपमानादन्यतरस्याम्” पा॰। निष्ठान्तादुपमावाचिनश्च परंस्वाङ्गं मुखं वान्तोदात्तम्। प्रक्षालितमुखः पक्षे निष्ठोपसर्गेतिपूर्वपदान्तीदात्तत्वम्। पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपिभवति। सिंहमुखः। पक्षे पूर्वपदप्रकृतिस्वरः।
“जातिका-लसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः” पा॰। सारङ्गजग्धः मासभूतः सुखभूतः। सुख दुःख तृप्त कृच्छ्र अस्त्रआस्त्र अलीक प्रतीप करुण सोद इत्येतानि सुखादीनि। आच्छादनात्तु वस्त्रच्छन्न इत्यादौ न। कुण्डकृतः कुण्डमितःकुण्डप्रतिपन्न इत्यादौ च न। वा जाते” पा॰। एभ्योजातिशब्दोऽन्तोदात्तः। दन्तजातः मासजातः। पक्षेपूर्व्वपदप्रकृतिस्वरः
“नञ् सुभ्याम्” पा॰। आभ्यांपरमन्तोदात्तं वहुव्रीहौ। अव्रीहिः सुमाषः।
“कपि-पूर्वम्” पा॰। नञ् सुभ्यां परमुत्तरपदस्य पूर्व्वमुदात्तंकपि परे। अब्रह्मबन्धुकः। सुकुमारीकः।
“ह्रस्वान्तेअन्त्यात्पूर्वम्” पा॰। ह्रस्वान्ते उत्तरपदे समासे अन्त्यात्पूर्व्वपदमुदात्तं नञ्सुभ्यां बहुव्रीहौ। अव्रीहिकः सुमा-षकः।
“बहोर्नञ्वदुत्तरपदभूम्नि” पा॰। उत्तरपदार्थे बहु-त्ववाचिनोबहोः परस्य पदस्य नञः परस्येव स्वरःस्यात्। बहुब्रीहिकः बहुमित्रः। अबहुत्वे तु बहुषु मानोऽस्य बहुमान इत्यादौ न।
“न गुणादयोऽवयवाः” पा॰। अवयर्व-[Page1161-a+ 38] वाचिवो बहोः परे गुणादयोनान्तोदात्ताः ब॰ व्री॰। बहु-गुणा रज्जुः। बह्वक्षरं पदम्। गुणादयश्च गुण अक्षर अ-ध्याय सूक्त छन्दः मान। गुणादिराकृतिगणः। अनवयवेतु अध्ययनश्रुतसदाचारादिगुणपरत्वे बहुगुणोद्विज इत्यादौन।
“उपसर्गात् स्वाङ्गं घ्रुवमपर्शु” पा॰। प्रपृष्ठः। अ-ध्र वे तु उद्बाहुरित्यादौ विपर्शुरित्यादौ च न।
“वनंसमासे” पा॰। समासमात्रे उपसर्गात् परं वनमन्तोदात्तंस्यात्। प्रवणम्।
“अन्तः” पा॰। अन्तर् शब्दात् परंवनमन्तोदात्तम् समासमात्रे। अन्तर्वणोदेशः।
“अन्तश्च” पा॰। उपसर्गादन्तशब्दोऽन्तोदात्तः। पर्य्यन्तः समन्तः।
“न नि-विभ्याम्” पा॰। न्यन्तः व्यन्त इत्यादौ न। पूर्ब्बपदप्रकृतिस्वरेयणि च कृते उदात्तस्वरितयोर्यण इति स्वरितः।
“परे-रभितोभावि मण्डलम्” पा॰। परेः परम् अभितौभ-यतो भावि कूलादि, मण्डलं चान्तोदात्तम्। परिकूलम्परिमण्डलम्।
“प्रादस्वाङ्गं संज्ञायाम्” पा॰। प्रगृ-हम्। स्वाङ्गे तु प्रपदमित्यादौ न
“निरुदकादीनि च” पा॰। निरुदक निरुपल निर्म्मक्षिक निर्म्मशक निष्कालक निष्-कालिक निष्येष दुस्तरीप निस्तरीक निरजिन उदजिनउपाआजिन (परेर्हस्तपादकेशकर्षाः) निरुदकादिराकृति-गणः। एतानि अन्तोदात्तानि। निरुदकम्।
“अभेर्मुखम्” पा॰। अबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थमारम्भः। अभि-मुखा शाला।
“अपाच्च” पा॰। अपमुखम् अत्रापि पूर्व्वव-दारम्भः। अपमुखा शाला
“स्फिगपूतवीणाञ्जोऽध्वकुक्षि-सीरनासनाम च” पा॰। अपादिमान्यन्तोदात्तानि। अप-स्फिगम् अपपूतम्। अपाञ्जः। अपाध्वा समासान्तविधेर-नित्यत्वात् नेह समा॰। अपकुक्षि। अपसीरम् अपहलम्। अपनाम। स्फिगादिग्रहणमबहुब्रीह्यर्थम् अध्रुवार्थमस्वा-ङार्थञ्च।
“अधेरुपरिस्थम्” पा॰। अध्यरूढोदन्तोऽधिदन्तःदन्तस्योपरिजातोदन्त इत्यर्थः। अनुपरिस्थे अधिकरण-मित्यादौ न।
“अनोरप्रधानकनीयसी” पा॰। अनोःपरमप्रधानवाचि कनीयश्चान्तोदात्तम्। अनुगतोज्येष्ठम्अनुज्योष्टैत्यादि। अत्र पूर्ब्बपदार्थप्राधान्यात् ज्येष्ठशब्द-स्याप्रधानत्वम्। अनुगतः कनीयान् प्रा॰ स॰। अनु-कनीयान्। अत्र उत्तरपदार्थप्राघान्यम्। प्राधान्यार्थमेवकनीयसः पृथग्ग्रहणम्।
“पुरुषश्चान्वादिष्टः” पा॰। अनोःपरः अन्वादिष्टवाची पुरुषः अन्तोदात्तः। अन्वादिष्टःपुरुषः प्रा॰ स॰। अनुपुरुषः।
“अतेरकृत्पदे” पा॰। अतेः परमकृदन्तं पदं पदशब्दश्चान्तोदात्तः। अत्यङ्कुशो-[Page1161-b+ 38] नागः। अतिपदा गायत्री। कृत्पदे तु अतिचारइत्यादौ न।
“अतेर्धातुलोप इति वाच्यम्” वार्त्ति॰।
“प्रादिभ्योधातुजस्य वा चोत्तरपदलोप इति अत्यादयःक्रान्त्याद्यर्थे द्वितीयययेति यत्र धातुलोपस्तत्रेवायंस्वरः। तेन शोभनोगार्ग्यः प्रा॰ स॰। अतिगार्ग्यः अत्रन। अतिक्रान्तः कारुकम्। आतिकारुक इत्यत्रापिस्यात् कारुकशब्दस्य कृदन्तत्वेऽपि धातुलोपएव कृदन्त नियमनात् अतिकार इत्यादौ तु थातुलोपभावान्नेति भेदः।
“नेरनिधाने” पा॰। निधानमप्रकाशः तद्भिन्ने प्रकाशार्थेनेरुत्तरपदमन्तोदात्तम्। निमूलम् न्यक्षम्। निधाने तुनिहितो दण्डः निदण्ड इत्यादौ अप्रकाशितः गुप्तो-दण्ड इत्यर्थके न।
“प्रतेरंश्वादयस्तत्पुरुषे” पा॰। प्रति-गतोऽंशुः प्रत्यंशुः प्रतिजनः प्रतिराजा समासान्तविधे-नित्यत्वान्न टच्। बह्वब्रीहौ तु न। अंश्वादयश्च

३७ पृ॰दर्शिताः।
“उपाद्द्व्यजजिनमगौरादयः” पा॰। उपात् परं द्व्यच्कमजिनञ्चान्तोदात्तम् न तु गौरा-दयः। ते च गौर तैष तैल लेट लोट जिह्वा कृष्णाकन्या गुध कल्प पाद। उपदेवः उपेन्द्रः उपाजिनम्। गौरादौ उपगौर इत्यादौ न।
“सोरवक्षेपणे” पा॰। आक्षेपे गम्ये सोःपरमन्तोदात्तम्। सुप्रत्यवसितः सुर-त्रपूजार्थः वाक्यार्थस्तु निन्दा असूयथा तथाऽभिधा-नात्।
“विभाषोत्पुच्छे” पा॰। उत्पुच्छे शब्देवान्तोदान्तः। उत्क्रान्तः पुच्छात्, पुच्छसुदस्यति उत्-पुच्छयतेर्वा एरच्। उभयस्याप्यत्र ग्रहणम्। उत्पुच्छः।
“द्वित्रिभ्यां पद्दन्मूर्द्धसु बहुब्रीहौ” पा॰। आभ्यांपरेष्वेषु अन्तोदात्तो वा बहुब्रीहौ। द्विपाद् त्रिपाद्। त्रिमूर्द्धा। ममासान्तविधेरनित्यत्वज्ञापकमिदम्। तत्पुरुषे तुद्वयोर्मूर्द्धा द्विमूर्द्धेत्यादौ न।
“सक्थञ्चाक्रान्तात्” पा॰। कृतसमासान्तसक्थस्य अक्रान्तात् परस्य वान्तोदात्तः। गौरसक्थः श्लक्ष्णसक्थः। क्रान्तात्तु चक्रसक्थ इत्यादौन किन्तु षच्समासान्तस्य चित्त्वात् नित्यमन्तोदात्तता।
“प-रादिश्छन्दसि बहुलम्” पा॰। वेदे उत्तरपदस्थस्य शब्दस्यादिरुदात्तो बहुलम्।
“अञ्जिसक्थमालमेत” बहुलग्रहणात्
“परादिश्च परान्तश्च पूर्ब्बान्तश्चापि दृश्यते। पूर्ब्बादयश्चदृश्यन्ते व्यतयो बहुलं ततः” वार्त्ति॰। इति समासस्वराः। एवमुदात्ते विहिते क्वचित्तस्य निघातेनानुदात्तता स्यात्तच्च निघातशब्दे सापवादं वक्ष्यते।
“निहन्त्यरीनेकपदे यौदात्तः स्वरानिव” माघः।
“अवि-[Page1162-a+ 38] कत्थनः क्षमावानतिगम्भीरो महासत्वः। स्थेयान् निगूढ-मानो धीरोदात्तो दृढव्रतः कथितः” सा॰ द॰

२ उक्ते(पूर्बपदलोपेन) नायकभेदे। भावे क्त।

३ दाने

४ वाद्यभेदेशब्दर॰

५ अलङ्कारभेदे पु॰। स च अलङ्कारशब्दे

३९

६ पृष्ठेदर्शितः। कर्त्तरि क्त

६ महति

७ समर्थे

८ दातरि च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदात्त¦ mfn. (-त्तः-त्ता-त्तं)
1. Generous, gentle and bountiful.
2. Giving, a donor.
3. Great, illustrious.
4. Dear, beloved.
5. Accented. m. (-त्तः)
1. The acute accent, a high or sharp tone.
2. Gift, donation.
3. A musical instrument, a large drum.
4. An ornament, (in rhetoric) E. उद् high, up, and आत्त pronounced, sounded; or from दा to give or have, with आङ् prefixed, affix क्तः see अनुदात्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदात्त [udātta], a. [उद्-आदा-क्त]

High, elevated, lofty, exalted, noble; इतश्चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् Rām.2.99.11. उदात्तकुलजातीय उदात्ताभिजनः सदा Mb.13. 145.31. ˚अन्वयैः K.92; Ratn.4; sublime; Ve.1.

Noble, dignified; अत्युदात्तसुजनश्चन्द्रकेतुः U.6.

Generous, bountiful, donor.

Famous, illustrious, great; Śi.2.82; ललितोदात्तमहिमा Bv.1.79.

Dear, beloved.

Highly or acutely accented (as a Svara), see below.

त्तः The acute accent, a high or sharp tone; उच्चैरुदात्तः P.I.2.29; ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नो$नुदात्तः Sk.; see under अनुदात्त also; निहन्त्यरीनेकपदे य उंदात्तः स्वरानिव Śi.2.95.

Gift, donation.

A kind of musical instrument, a large drum.

A variety of the hero; see धीरोदात्त. -त्तम् (In Rhet.) A figure of speech which describes supermundane prosperity, or an action of one that is great represented collaterally to the subject in hand; लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत् ॥ S. D.752; cf. also K. P.1; उदात्तं वस्तुनः संपन्महता चोपलक्षणम्. -Comp. -राघवः N. of drama. -श्रुति a. pronounced with the acute accent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदात्त/ उद्-आत्त mfn. (for उद्-आ-दत्त)lifted upraised , lofty , elevated , high R. BhP.

उदात्त/ उद्-आत्त mfn. arisen , come forth Prab.

उदात्त/ उद्-आत्त mfn. highly or acutely accented Pa1n2. Nir. RPra1t. APra1t. etc.

उदात्त/ उद्-आत्त mfn. high , great , illustrious

उदात्त/ उद्-आत्त mfn. generous , gentle , bountiful

उदात्त/ उद्-आत्त mfn. giving , a donor Das3. Sa1h.

उदात्त/ उद्-आत्त mfn. haughty , pompous Ra1jat.

उदात्त/ उद्-आत्त mfn. dear , beloved L.

उदात्त/ उद्-आत्त mfn. ( तर, compar. more elevated , more acute)

उदात्त/ उद्-आत्त m. the acute accent , a high or sharp tone RPra1t. APra1t. Pa1n2. etc.

उदात्त/ उद्-आत्त m. a gift , donation L.

उदात्त/ उद्-आत्त m. a kind of musical instrument

उदात्त/ उद्-आत्त m. a large drum L.

उदात्त/ उद्-आत्त m. an ornament or figure of speech in rhetoric L.

उदात्त/ उद्-आत्त m. work , business L.

उदात्त/ उद्-आत्त n. pompous or showy speech Ka1vya7d. Sa1h. Prata1par.

"https://sa.wiktionary.org/w/index.php?title=उदात्त&oldid=492567" इत्यस्माद् प्रतिप्राप्तम्