उदासीनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदासीनः, पुं, (उदास्ते इति । उत् + आस् + शानच् + ईदास इति ईत्वम् ।) परतरः । इत्यमरः ॥ विजिगीषोः शत्रुमित्रभूमितो व्यवहितः व्यव- हितत्वादेव नोपकारी नाप्यपकारी केवलमूर्द्ध्व- मासीन इव । इति भरतः ॥ (यथा, मनुः ७ । १५५ । “मध्यमस्य प्रचारञ्च विजिगिषोश्च चेष्टितम् । उदासीनप्रचारञ्च शत्रोश्चैव प्रयत्नतः” ॥ मण्डलभेदः । यथा, तत्रैव ७ । १५८ । “अनन्तरमरिं विद्यादरिसेविनमेव च । अरेरनन्तरं मित्रमुदासीनं तयोः परम्” ॥ उपेक्षकः । यथा, -- “उदासीनवदासीनमसक्तं तेषु कर्म्मसु” । इति गीतायाम् ॥ ९ । ९ ॥)

"https://sa.wiktionary.org/w/index.php?title=उदासीनः&oldid=118260" इत्यस्माद् प्रतिप्राप्तम्