उदाहरणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदाहरणम्, क्ली, (उत् + आङ् + हृ + ल्युट् ।) दृष्टान्तः । तत्पर्य्यायः । उपोद्घातः २ उदाहारः ३ इति शब्दरत्नावली ॥ (यथा, माघे । २ । ३३ । “प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः” । कथाप्रसङ्गः । कथनम् । यथा, कुमारे । ६ । ६५ ॥ “अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु” ॥) पञ्चन्यायावयवान्तर्गतमिदम् ॥ (नाट्यशास्त्रे सोत्क- र्षवचनोपन्यासरूपो गर्भाङ्कभेदः । यदुक्तं साहि- त्यदर्पणे ६ ष्ठ परिच्छेदे । “उदाहरणमुत्कर्षयुक्तं वचनमुच्यते” । यथा, वेणीसंहारे अश्वत्थामाङ्के ॥ “यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुमदात्पाण्डवीनां चमूनां, यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यस्तत्कर्म्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः, क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्” ॥ षट्त्रिंशन्नाटकलक्षणान्तर्गतलक्षणभेदः । यथा, साहित्यदर्षणे ६ ष्ठ परिच्छेदे । “यत्र तुल्यार्थयुक्तेव वाक्येनाभिप्रदर्शनात् । साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् ॥)

"https://sa.wiktionary.org/w/index.php?title=उदाहरणम्&oldid=118268" इत्यस्माद् प्रतिप्राप्तम्