उद्दाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दामः, त्रि, (दाम्नः उद्गतः ।) बन्धनरहितः । स्वतन्त्रः । इति मेदिनी ॥ (यथा, रघुः । १ । ७८ ॥ “नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे” ॥ “अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्” । इति रामायणे ॥) महान् । यथा । “उद्दामदन्तुर- विधुन्तुददन्तघातैः” । इति प्रव्रज्या ॥ (“उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि” । इति मेघदूते । २७ ॥ गम्भीरः । यथा भागवते १ मस्कन्धे । “उद्दामभावपिशुनामलवद्ग्रहासु” ॥)

उद्दामः, पुं, (उद्दीप्तं दाम पाशो यस्य । समासे अच् ।) वरुणः । इति मेदिनी ॥ (दण्डकभेदच्छन्दोविशेषः । यथा, वृत्तरत्नाकरे । “यदि नयुगलं ततः सप्तरेफा- स्तदां दण्डवृद्धिप्रयातो भवेद्दण्डकः । प्रतिचरणविवृद्धरेफाः स्युरर्णार्णव- व्यालजीमूतलीलकरोद्दामशङ्खादयः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दाम¦ त्रि॰ उद्गतं दाम्नः अच्समा॰।

१ बन्धनरहिते,
“गन्ध-मुद्धतमुद्दामो वने मत्त इव द्विपः” भा॰ व॰

१४

६ अ॰। अप्रतिनियमे

२ स्वतन्त्रे

३ अत्युग्रे च।
“उद्दामानि प्रथयतिशिलावेश्मभिर्यौवनानि” मेघ॰
“नदत्याकाश गङ्गाया[Page1174-b+ 38] स्रोतस्युद्दामदिग्गजे” रघुः उत्कृष्टं श्रेष्ठं दाम पाशाख्य-मस्त्रं यस्य।

४ वरुणे पु॰

४ गम्भीरे त्रि॰
“उद्दामभाव-पिशुनामलवद्गुहास्वित्यादि” भाग॰

१ स्क॰।

६ दण्डकभेदेच्छन्दोभेदे पु॰
“यदि न युगलं ततः सप्तरेफास्तदा दण्डवृद्धिप्रयातो भवेद्दण्डकः। प्रतिचरणविवृद्धरेफाःस्युरर्ण्णार्ण्णवव्यालजीमूतलीलाकरोददामशङ्खादयः” इति वृत्तर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दाम¦ mfn. (-मः-मा-मं)
1. Set free, unbound.
2. Unconstrained, self- willed.
3. Large, great.
4. Proud, haughty. m. (-मः) A name of VARUNA. E. उत् priv. दम् to tame, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दाम [uddāma], a.

Unbound, unrestrained, unchecked, free, bold; भवन्ति नोद्दामगिरां कवीनाम् Śi.4.1.

(a.) Strong, powerful, violent; कर्मणोद्दामदण्डानामेव स्याद्वशवर्तिनी (लक्ष्मीः) Pt.3.148; Māl.3,7; ˚देहपरिदाहमहाज्वराणि 6.13. (b) Furious, intoxicated; स्त्रोतस्युद्दामदिग्गजे R.1.78; Śi.11.19; U.3.6.

Dreadful, formidable; ˚शरीरसंनिवेशः Māl.3.

Self-willed.

Luxuriant, large, great, excessive; उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि Me.25; उद्दामोत्कलिकाम् Ratn.2.4,4.22; गन्धोद्दामा धरा exhaling great smell; Mk.5.22.

Proud, haughty; पौलस्त्यविजयोद्दाम Mv.3.45 elated.

Unlimited, extra-ordinary. -मः

N. of Yama.

N. of Varuṇa. -मम् ind. Violently, fiercely, strongly; अद्योद्दामं ज्वलिष्यतः U.3.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्दाम/ उद्-दाम mfn. (fr. दामन्with 1. उद्) , unrestrained , unbound , set free

उद्दाम/ उद्-दाम mfn. self-willed

उद्दाम/ उद्-दाम mfn. unlimited , extraordinary

उद्दाम/ उद्-दाम mfn. violent , impetuous , fiery

उद्दाम/ उद्-दाम mfn. wanton

उद्दाम/ उद्-दाम mfn. proud , haughty

उद्दाम/ उद्-दाम mfn. large , great MBh. Megh. Ra1jat. etc.

उद्दाम/ उद्-दाम m. a particular metre

उद्दाम/ उद्-दाम m. " one whose noose is raised " , N. of यमL.

उद्दाम/ उद्-दाम m. of वरुणL.

"https://sa.wiktionary.org/w/index.php?title=उद्दाम&oldid=492642" इत्यस्माद् प्रतिप्राप्तम्