उद्देश

विकिशब्दकोशः तः
नेविगेशन पर जाएँ खोज पर जाएँ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देशः, पुं, (उत् + दिश् + घञ् ।) अनुसन्धानम् । अन्वेषणम् ॥ (न्यायमते नाम्ना निर्द्देशः । अभि- धानं यथा, -- “पदार्थोद्देशः” । समासकथनम् । यथा, “समासकथनमुद्देशः । यथा, शल्यमिति” ॥ पर्ब्बतस्य गण्डकूपः । निर्द्देशः । विवरणम् । “इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्त्तितः” । इति महाभारते । स्थानम् । प्रदेशः । “सपर्ब्बतवनोद्देशा दक्षिणार्थे स्वयम्भुवा” । इति महाभारते ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देश¦ पु॰ उद् + दिश + घञ।

१ अनुसन्धाने,

२ अन्वेषणे,

३ अभिलाषे

४ उपदेशेच। आधारे घञ्।

५ उपदेशदेशे
“यथोद्देशंसंज्ञापरिभाषम्” व्या॰ परिभाषा। व्याख्यातैषा नागेशेन
“उद्देशमनतिक्रम्य यथोद्देशम्। उद्देश उपदेशदेशः। अघिकरणसाधनश्चायम्। यत्र देशे उपदिश्यते तद्देशएव वाक्यार्थबोधेन गृहीतसत्तया गृहीतपरिभाषार्थेन चसर्वत्र शास्त्रे व्यवहारः। देशश्चोच्चारणकाल एवात्रशास्त्रे व्यवह्रियते। तत्तद्वाक्यार्थबोधे जाते भविष्यतिकिञ्चिदनेन प्रयोजनमिति ज्ञानमात्रेणसन्तुष्यद्यथाश्रयग्रा-हिप्रतिपत्त्यपेक्षोऽयम्” इति
“इदित्” पा॰

१ ,

१ ,

११ सूत्रेकैयटः। केचित्तु परिभाषाविषये
“तस्मिन्” पा॰

१ ,

१ ,

६६ इत्यादिवाक्यार्थबोधे मप्तमोनिर्देशादि क्वेति पर्य्यालोचनायांसकलतद्विध्युपस्थितौ सकलतत्संस्काराय गुणभेदं परिकल्प्यैकवाक्यतयैब नियमः। कार्य्यकालपक्षे तु त्रिपाद्यामप्युप-स्थितिरिति विशेषः। एतदेवाभिप्रेत्य
“अधिकारो नामत्रिप्रकारः कश्चिदेकदेशस्थः सर्वशास्त्रमभिज्वलयति यथा प्र-[Page1176-a+ 38] दीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयतीति”
“षष्ठी स्थाने” [

१ ,

१ ,

४९ इति पा॰ सूत्रे भाष्य उक्तम्। अधिकारशब्देनपारार्थ्यात् परिभाषाप्युच्यते।
“कश्चित्परिभाषारूप” इतिकैयटः। दीपो यथा प्रभाद्वारा सर्वगृहप्रकाशक एवमेत-त्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम्। एतच्च पक्षद्वयसाधारणं भाष्यं, पक्षद्वयेऽपि प्रदेशैकवाक्यताया इतः प्रतीतेः। तत्रैतावान्विशेषः। यथोद्देशेपरिभाषादेशे सर्वविचिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरेक-वाक्यतापरिभाषणम्। तदुक्तं
“क्ङिति च”

१ ,

१ ,

५ पा॰इति सूत्रे कैयटेन।
“यथोद्देशे प्रधानान्यात्मसंस्कारायसंनिधीयमानानि गुणभेदं प्रयुञ्जत इति”। कार्य्यकाले तुतत्तद्विधिप्रदेशे परिभाषाबुद्ध्यैकतेति। अत्रैकदेशस्थ इत्य-नेन तत्र तत्र तत्तद्बुद्धावपि तत्तद्देशस्थत्वं वारयति यथाव्यवहर्तॄणां कार्यार्थमनेकदेशगमनेऽपि न तत्तद्वेशीयत्वव्यव-हारः किं त्वभिजनदेशीयत्वव्यवहार एव तद्वत्”।

६ संक्षेपे
“एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरोमया” गीता
“समासकथनमुद्देशः इति सुश्रुतोक्ते

७ तन्त्राधिकरणभेदे। उत्कृष्टोदेशः प्रा॰ स॰।

७ उत्कृष्टदेशे च
“नवने नन्दनो-द्देशे न चैत्ररथसंश्रये” रामा॰।
“अस्ति क्वचिद्वनोद्देशे” हितो॰ भूरिप्रयीगः ततस्तसिल्। उद्देशादित्याद्यर्थे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देश¦ m. (-शः)
1. Illustration, explanation, exemplification.
2. Search, enquiry.
3. Stipulation, bargain.
4. An object, a motive. mfn. (-शः-शा-शं) Relative to. E. उद् and देश showing.

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देशः [uddēśḥ], 1 Pointing to or at, directing; सूर्योद्देशेन तिला दातव्याः Pt.2 in the name of.

Mention, specification; सार्धप्रहरद्वयोद्देशे Pt.5; स्वरसंस्कारोद्देशः Nir.

Illustration, explanation, exemplification.

Ascertainment, determination, inquiry, investigation, search.

A brief statement or account; एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया Bg.1.4; Mb.8.69.54.

Assignment, allotment.

Stipulation, bargain.

Object, motive; कृतोद्देशः स बीभत्सुः Mb.3.158.3.

A spot, region, place; अहो प्रवातसुभगोयमुद्देशः Ś.3; M.3; वन˚ a part of the forest.

Upper region, high position.

(In phil.) The enunciation of a thing by its name (which is to be further discussed and explained), the other two processes being लक्षण and परीक्षा. -Comp. -पदम् The term (or terms) which form the subject; नात्रैषा वचनव्यक्तिः ये यजमाना इत्युद्देशपदम्, ऋत्विजः इति विधेयपदम् । ŚB. on MS.6.6.2.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्देश/ उद्-देश m. the act of pointing to or at , direction

उद्देश/ उद्-देश m. ascertainment

उद्देश/ उद्-देश m. brief statement

उद्देश/ उद्-देश m. exemplification , illustration , explanation

उद्देश/ उद्-देश m. mentioning a thing by name MBh. Bhag. Sus3r. Pan5cat. etc.

उद्देश/ उद्-देश m. assignment , prescription

उद्देश/ उद्-देश m. stipulation , bargain MBh. R.

उद्देश/ उद्-देश m. quarter , spot , region , place

उद्देश/ उद्-देश m. an object , a motive

उद्देश/ उद्-देश m. upper region , high situation MBh. Pan5cat. S3ak. etc.

उद्देश/ उद्-देश m. (in न्यायphil. ) enunciation of a topic (that is to be further discussed and elucidated) Nya1yak.

"https://sa.wiktionary.org/w/index.php?title=उद्देश&oldid=492654" इत्यस्माद् प्रतिप्राप्तम्