उद्भिद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भित्, [द्] त्रि, (उद्भिनत्ति भूमिमिति । उत् + भिद् + क्विप् ।) उद्भिज्जम् । इत्यमरः ॥ तच्च प- ञ्चधा । वृक्षः १ गुल्मः २ लता ३ वल्ली ४ तृणम् ५ ॥ (यथा, महामारते आदिपर्ब्बणि । “संस्वेदजा अण्डजा उद्भिदश्च” । उद्भिद्यते पशुफलमनेन इति निरुक्तेः यागभेदः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद् वि।

उद्भिद्

समानार्थक:उद्भिद्,उद्भिज्ज,उद्भिज

3।1।51।2।1

स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः। उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

उद्भिद् वि।

तरुगुल्माद्याः

समानार्थक:उद्भिद्

3।1।51।2।2

स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः। उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अचलसजीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद्¦ पु॰ भूमिमुद्भिनत्ति उद् + भिद्--क्विप्।

१ वृक्षतृण-गुल्मवल्लोलतारूपे पञ्चविधे स्थावरभेदे उद्भिज्जशब्देउदा॰। उद्भिनत्ति पशून्।

२ यागभेदे
“उद्भिदा यजेत” श्रुतिःउद्भिदादिशब्दानां यथा कर्म्मनामधेयता व्युत्पत्तिसहितंजै॰ सू॰ भाष्ययोस्तथा दर्शितं यथा
“उक्तं समाम्नायैदमर्थ्यं तस्मात् सर्व्वं तदर्थं स्यात्

१ ,

४ ,

१ ,सू॰। ‘ उद्भिदा यजेत’ ‘ बलविदा यजेत’ ‘ अभिजिता यजेत’‘ विश्वजिता यजेत’ इति समामनन्ति, तत्र सन्देहः, किम्उद्भिदादयो गुणविधयः, आहोस्वित् कर्मनामधेयानिइति। कुतः संशयः? उभयथाऽपि प्रतिभाति वाक्यात्,उद्भिदा इत्येष शब्दो यजेतैत्यनेन संबध्यते, स किंवैयधिकरण्येन संबन्धमुपैति, उद्भिदा द्रव्येण यागमभि-निर्वर्त्तयेदिति, उत सामानाधिकरण्येन, उद्भिदा यागेनयजेत इति द्बेधाऽपि एतस्मिन् प्रतिभाति वाक्ये, सम्भवति सशयः। ( किं तावत् प्राप्तम्? उक्तमस्माभिः समाम्नायस्यैद-मर्थ्यं, कश्चिदस्य भागोविधिः, योऽविदितमर्थं वेदयति,यथा‘ सोमेन यजेत’ इति कश्चिदर्थवादः, यः प्ररो-चयन् विधिं स्तौति, यथा‘ वायुर्वै क्षेपिष्ठा देवता’ इति, कश्चित्मन्त्रः, योविहितमर्थं प्रयोगकाले प्रकाशयति,यथा‘ र्बर्हिर्देवसदनन्दामि’ इत्येवमादि, तस्मादुद्भिदादयो-ऽमीबां प्रयोजनानामन्यतमस्य प्रयोजनाय भवेयुः, तत्रतावन्नार्थवादः, वाक्यशेषो हि स भवति विधातव्यस्य,न च मन्त्रः, एवंजातीयकस्य प्रकाशयितव्यस्य अभा-वात्, पारिशेष्यात् गुणविधिः, उद्भिद्गुणता यागस्य विधी-यते प्रसिद्धेरनुग्रहात्, गुणविधेरर्थवत्त्वात्, प्रवृत्तिवि-शेषकरत्वाच्च। न च, एषां यागार्थता लोकेऽवगम्यते!न च, वेदेन परिभाष्यते! अतोगुणविधयः। ‘ यदिगुणविधिः, न तर्हि कर्म विधीयते, अविहिते व कर्मणि[Page1181-a+ 38] तत्र गुणविधानमनर्थकम्’। न इति ब्रूमः, प्रकृतौ ज्यो-तिष्टोमे गुणविधानमर्थवद्भविष्यति, यदि नामधेयं स्यात्,यावदेव यजेत इति, तावदेव उद्भिदा यजेत इति, नप्रवृत्तौ कश्चित् गुणविशेषः स्यात्। गुणविधौ चगुणसंयोगात् अभ्यधिकमर्थं विदधत उद्भिदादयः शब्दाअर्थवन्तो भविष्यन्ति तस्मात् गुणविधय इत्येवं प्राप्तम्” भा॰
“अपि वा नामधेयं स्यात् यदुत्पत्तावपूर्ब्बमविधायकत्वात्”

१ ,

४ ,

२ , सू॰
“अपि वा इति पक्षो विपरिवर्त्त्यते। नामधेयंस्यात् इति प्रतिजानीमहे, एवमविहितमर्थं विधास्यतिज्योतिष्टोमात् यागान्तरं, श्रुतिश्चैवं यागमभिधास्यति,इतरथा श्रुतिरुद्भिदादीन् वक्ष्यन्तो उद्भिदादिमतोलक्षयेत्! उद्भिद्वता यागेन कुर्य्यादिति। यागेन कुर्य्यात्इति यजेतेत्यस्यार्थः करणं हि यागः। उद्भिदाद्यपितृतीयानिर्द्देशात् करणं, तत्र उद्भिदा यागेन इति कर्म-नामधेयत्वेन सामानाधिकरण्यसामञ्जस्यं, द्रव्यवचनत्वेमत्वर्थलक्षणया सामानाधिकरण्यं स्यात्। श्रुतिलक्षणाबिशये च श्रुतिर्ज्यायसी। तस्मात् कर्मनामधेयम्। ‘ ननुमसिद्धं द्रव्यवचनत्वनपह्रूयेत, अप्रसिद्धं कर्मवचनत्वं प्र-तिज्ञायेत’ उच्यते, तृतीयानिर्द्देशात् कर्मवचनता। कुतः?करणवाचिनी हि प्रातिपदिकात् तृतीया भवति, करणंच यागः, तेन यागवचनमिममनुमास्यामहे। (
“नैतद्युक्तं, यदि तृतीयार्निर्द्देशे सति उद्भिदादिभ्यःशब्देभ्यो यागे बुद्धिरुत्पद्येत, स्यादेतदेवं, न हि नो बुद्धिरुत्पद्यते, तस्मात् अयुक्तम्। तृतीयावचनम् अन्यथानोपपद्यते” इति चेत्। कामं नोपपादि, न जातुचित्अनवगम्यमानेऽपि यागवचनो भविष्यति, तस्मात् गुणवि-धयः। लक्षणेति चेत्, वरं लक्षणा कल्पिता, न यागाभि-षानं, लौकिकी हि लक्षणा, हठोऽप्रसिद्धकल्पनेति। अपिच यदि नामधेयं विधीयते, न यागः, अथ यागः, न ना-मधेयम्, उभयविधाने वाक्यभेदः” इति। उच्यते, ननामधेय विधायिष्यते, अनुवादा हि उद्भिदादयः। कुतः प्राप्तिः? इति चेत्। ततोऽभिधीयते, उच्छब्दसा-मर्थ्यात् भिच्छब्दसामर्थ्याच्च उद्भिच्छब्दः क्रियावचनः, उ-द्भेदनं प्रकाशनं पशूनामनेन क्रियते इत्युद्भित् यागः,एवमाभिमुख्येन जयात् अभिजित्, विश्वजयात विश्वजित्,एव सर्वत्र। अतः कर्मनामधेयम्। यत्त्वप्रवृत्तिविशेष-करोऽनर्थकः इति, नामधेयेऽपि गुणफलोपबन्धेनार्थवत्,तस्मात् कर्मनामधेयान्येवंजातीयकानि--इति सिद्धम्” भा॰[Page1181-b+ 38] गवामयने यज्ञे सप्रममासिकोत्तमाभिप्लविकस्थाने

३ एकादशेदिने।
“सप्तमस्य मासस्योत्तमयोरभिप्लवयोः स्थानेत्रिवृद्व्यूहोदशरात्र उद्भिद्बलभिदौ” आश्व॰ श्रौ॰

१२ ,

१ ,

५ ,
“सप्तमस्य मासस्य ये त्रयोऽभिप्लवाः तेषां वौ उत्त-माभिप्लवौ तयोः स्थाने त्रिवृत्स्तोमको व्यूहोदशरात्रःउद्भिद्बलभिदौ च द्बे अहनी इत्येतानि द्वादशाहानि” नारा॰ वृ॰। गवामयनशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद्¦ mfn. (-द्भिद् or -द्भित्) Sprouting, germinating. E. उत् up, भिद to break or burst, affix क्विप्, or with क affix उद्भिद (दः-दा-दं) n. (-दं) Culinary salt. E. उत् forth, भिद् to break, and क affix; breaking from the soil.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद् [udbhid], 7 U. To break up. -pass. To break out, burst forth, become visible, be produced; अद्यापि पक्षावपि नोद्भिद्येते K.347; उद्भिद्यमानपक्षतिः 33,29,46; उद्भिन्नपयोधरया K.1 developed; Ve.4.1. -Caus. To bring out, develop, unfold; बीजानां गर्भितानां फलमतिगहनं गूढमुद्भेदयंश्च Mu.4.3.

उद्भिद् [udbhid], a. [उद्-भिद्-क्विप्]

Sprouting, germinating, shooting forth.

Penetrating.

Destroying.

Causing to come forth. m.

A sprout or shoot (of a plant); अङ्कुरो$भिनवोद्भिदि Ak.

A plant; उद्भिदस्तरु- गुल्माद्याः Ak.

A spring, fountain. -Comp. -ज a. (उद्भिज्ज) sprouting, germinating (as a plant). (-ज्जः) a plant; उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः Ms.1.46.-विद्या the science of Botany.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद्/ उद्- P. -भिनत्ति( Subj. -भिनदत्RV. ; Pot. 1. sg. -भिदेयम्AV. )to break or burst through , break out; to appear above , become visible , rise up RV. x , 45 , 10 AV. ix , 2 , 2 ; iv , 38 , 1 Ta1n2d2yaBr. S3Br. ; to pierce Veda1ntas. BhP. : Pass. -भिद्यते, to spring open , burst forth MBh. ; to shoot open or up , break out , appear Das3. BhP. etc.

उद्भिद्/ उद्-भिद् mfn. penetrating , bursting through

उद्भिद्/ उद्-भिद् mfn. coming or bursting forth , pouring , overflowing

उद्भिद्/ उद्-भिद् mfn. abounding with RV. AV. v , 20 , 11 VS.

उद्भिद्/ उद्-भिद् mfn. breaking forth (from the earth) , sprouting , germinating MBh.

उद्भिद्/ उद्-भिद् m. ( त्)a kind of sacrifice Ka1tyS3r. A1s3vS3r. etc.

उद्भिद्/ उद्-भिद् f. ( त्)a sprout or shoot of a plant , a plant

उद्भिद्/ उद्-भिद् f. a spring , fountain Sus3r.

उद्भिद्/ उद्-भिद् f. (with इन्द्रस्य)N. of a सामन्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्भिद् पु.
एक दिन में समाप्य सोम-याग का नाम, बलभिद् का प्रतिरूप, शां.श्रौ.सू. 14.11.1०; ला.श्रौ.सू. 6.3.5।

"https://sa.wiktionary.org/w/index.php?title=उद्भिद्&oldid=477460" इत्यस्माद् प्रतिप्राप्तम्