उद्वाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वाहः, पुं, (उत् + वह + घञ् ।) विवाहः । इत्यमरः । तस्य लक्षणं भार्य्यात्वसम्पादकग्रहणम् । तस्य स्वी- काररूपज्ञानविशेषस्य समवायविषयतयोर्भेदात् वरकन्ययोर्विवाहकर्तृत्वकर्म्मत्वे । स तु अष्ट- विधः । वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्र दीयते स ब्राह्मः १ । यत्र यज्ञस्थायर्त्विजे कन्या- दानं स दैवः २ । यत्र वरात् गोद्वयं गृहीत्वा तेनैव सह कन्यादानं स आर्षः ३ । यत्र अनया सह धर्म्मं चरतां इति नियमं कृत्वा कन्यादानं स कायः ४ । यत्र धनं गृहीत्वा कन्यादानं स आसुरः ५ । यत्र कन्यावरयोरन्योन्यानुरागात् त्वं मे भार्य्या त्वं मे पतिरिति निश्चयः स गान्धर्व्वः ६ । यत्र बलात्कारेण कन्याहरणं स राक्षसः ७ । यत्र सुप्तायां मत्तायां प्रमत्तायां वा कन्यायां निर्जने गमनं स पैशाचः ८ । तस्य निर्णयः । सगोत्रामनवरवयस्कां समानप्रवरां पित्रपेक्ष- योर्द्ध्वतनषण्णां पुरुषाणां पुत्रकन्यासन्ततिपरम्प- रया प्रत्येकसप्तमीपर्य्यन्तां अधस्तने तदपेक्षया सप्तमीपर्य्यन्तां पितृबन्ध्वपेक्षयोर्द्ध्वतनषण्णां प्रत्येका- पेक्षया सप्तमोपर्य्यन्तां अधस्तने तदपेक्षया सप्तमी पर्य्यन्तां मातामहसमानोदकां मातामहापेक्ष- योर्द्ध्वतनचतुर्णां पुरुषाणां पुत्त्रकन्यासन्तति- परम्परया प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तने तदपेक्षया पञ्चमीपर्य्यन्तां मातृबग्ध्वपेक्षयोर्द्ध्वतन- चतुर्णां प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तने त- दपेक्षया पञ्चमीपर्य्यन्ताञ्च कन्यां परित्यज्य उद्वाहः कर्त्तव्यः ॥ पितृबन्धुमातृबन्धुविरहेऽपि तयोर्योग्य- तामवलम्ब्य सप्तमीपर्य्यन्तायाः पञ्चमीपर्य्यन्तायाश्च कन्यायाः परिहारः । वर्ज्जनीयानां कन्यानां मध्येऽपि या त्रिगोत्रान्तरिता सा विवाह्या अत्र सप्तमगणनप्रतियोगिपितृपितृबन्धुपञ्चमगणनप्र- तियोगिमातामहमातृबन्धुगोत्रमादायैव त्रिगोत्र- गणनम् । शूद्रस्य सगोत्राविवाहे दोषाभावः । मातृसपत्नीभ्रातृकन्यां तद्दौहित्रीं अध्यापयितृ- कन्यां शिष्यकन्यां ब्रह्मदगुरुकन्याञ्च परित्यज्य विवाहः कर्त्तव्यः ॥ अथ कन्यादानाधिकारिणः । आदौ पिता । तदभावे पितामहः । तदभावेभ्राता । तदभावे पितृज्ञातिः । तदभावे मातामहः । तद- भावे मातुलः । तदभावे माता । तदभावे माता- महज्ञातिः । एतेषामप्यभावे कन्या स्वयं वरं कुर्य्यात् ॥ अथ विवाहपूर्ब्बकर्त्तव्यकर्म्म । अवश्यं- भावि शुभाशुभग्रहादिदोषशान्त्यर्थं होमो हि- रण्यगोवस्त्रदानम् । ततो नान्दीश्राद्धम् । लग्न- समये वरे उपस्थिते स्वस्तिवाचनादिकं विधाय वरणम् । स्त्य्राचारादि । ततः कन्यादानं यथाशक्ति धनदानञ्च । ततः स्वगृह्योक्तविधिनाग्निं संस्थाप्य कुशण्डिकां समाप्य पाणिग्रहणं सप्तपदीगमनञ्च कर्त्तव्यम् ॥ * ॥ ज्येष्ठेऽकृतविवाहे विवाहकर्त्ता कनिष्ठः परिवेदनदोषविशिष्टो भवति । ज्येष्ठः परिविन्नः । सा कन्या परिवेदनीया । कन्यादाता परिदायी । तत्पुरोहितः परिकर्त्ता । ते सर्व्वे पतिताः । किन्तु देशान्तरस्थक्लीवैकाण्डवैमात्रेय- वेश्यासक्तशूद्रतुल्यातिरोगिजडमूकान्धवधिरकु- ब्जवामनकुण्ठातिवृद्धनैष्ठिकब्रह्मचारिवानप्रस्थभि- क्षुकृषिसक्तनृपसक्तधनवृद्धिप्रसक्तकामकारिदत्त- कोन्मत्तचौरेषु ज्येष्ठेष्वनूढेष्वपि कनिष्ठविवाहे न दोषः । एवं विकृतरूपानूढा ज्येष्ठा कनिष्ठायाः सोदराया ऊढायाः परिवेदनाय न भवति । इत्यु- द्वाहतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वाह पुं।

विवाहः

समानार्थक:विवाह,उपयम,परिणय,उद्वाह,उपयाम,पाणिपीडन

2।7।56।2।2

परिवित्तिस्तु तज्ज्यायान्विवाहोपयमौ समौ। तथा परिणयोद्वाहोपयामाः पाणिपीडनम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वाह¦ यु॰ पु॰ उद् + वह घञ्। विवाहे स च ज्ञानविशेषइति रघु॰ येन ज्ञानेन ममेयं भार्या, ममायं पतिरितिव्यवहारो भवति तादृशं ज्ञानम्। तच्च सम्बन्धभेदेनोभयनिष्ठम्। चरमसंस्कार इति नव्यनैयायिकाः। चरमत्वञ्चसंस्कारप्रागभावासहचरितत्वम्। द्वितीयविवाहस्य संस्का-रत्वाभावात् तत्प्रागभावसत्त्वेऽपि आद्यविवाहे चरमत्वा-क्षतिः। तत्र च स्त्रियाः संस्काररूपतया विवाहत्वव्यवहारः। यस्य पुरुषस्य विवाहात् प्रागेव चूडादिषु जातेषु मरणम्तत्र पुरुषे चूडादौ संस्कारप्रागभावासहचरितत्वात् अति-व्याप्ते र्नैतत् नाय्यम्। किन्तु शास्त्रविहितसंस्कारान्तिमत्व-मेव चरमत्वमिति युक्तम्। शास्त्रेषु च संस्कारेषु विवाहस्यैबा-न्तिमतया विधानादितरेषामुपान्तिमत्वादिनेति नातिप्र-सङ्गः। यूपाहवनीयादौ यथा संस्कारादेव तत्तच्छब्दप्रवृत्तिःएवं शास्त्रविधिना कृतसंस्कारयोरेव दम्पत्योस्तच्छ-ब्दप्रवृत्तिः। संस्कारश्चालौकिकत्वात् तत्तत्कर्मकला-पसाध्य इति न आदानभात्रेण तत्सिद्धिः। अतएव
“अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्यहेदिति” या॰ स्मृतौ
“उद्वहेतद्विजोभार्याम्” इत्यादौ च विधिश्रवणम्, आदानमात्रस्यप्रमाणान्तरप्राप्ततया तदंशे विधित्वासम्भवात् अप्राप्तप्राप-कस्यैव विधित्वात् अतएव
“पाणिग्रहणिकामन्त्रा नियतंदारलक्षणम्। तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे” इति मनुना मन्त्रविशेषाणामेव भार्य्यात्वरूपसंस्कारप्रयो-जकत्वमभिहितम्। आदानमात्रस्य विवाहत्वे तस्य च लौ-किकत्वात् गृहीतेतरद्रव्यवत् तद्दानविक्रयापत्तिःस्यात्
“न निष्क्रयविसर्गाभ्यां भर्त्तुर्भार्य्या वियुज्यते” इति कात्या-यनेन दानविव्रयाभ्यां भार्य्यत्वविगमाभावं वदता चबिवाहस्य लौकिकत्वं निरासितम्। किञ्च विवाहसंस्कारस्यवैधत्वे यथाविधानमेव तत्र प्रवार्त्ततव्यम्। विधानाति-क्रमे च कर्त्तुः प्रत्यवायोऽनिष्टं च फलं भवतीति गम्यते। तद्विघानप्रकारश्च आश्व॰ गृ॰

१ ,

४ , कण्डिकादौ दर्शितःअन्येऽपि प्रकारस्तत्तद्गृह्यकारैरुक्तः। स च ततोऽ-सेयः। उद्वाहे वर्ज्जयनीयकन्याः स्मृतिषु दर्शिता यथा।
“असपिण्डा च या मातुरसगोत्रा च या पितुः साप्रशस्ता द्विजातीनां दारकर्म्मणि मैथुने” मनुः। असपि-ण्डाश्च असपिण्डशब्दे

५४

१ पृ॰ मतभेदेनोक्ताः।
“अनन्यपर्व्विकां कान्तामसपिण्डां यवीयसीम्। अरोगिणींभ्रातृमतीमसामानार्षगोत्रजाम्” याज्ञ॰। अन्य-पूर्वाश्च।
“सप्त पौनर्भवाः कन्या वर्जनीयाः कुलाधमाः। [Page1186-b+ 38] वाचा दत्ता मनोदत्ता कृतकौतकमङ्गला। उदकस्पर्शिताया च या च पाणिगृहीतिका। आग्निंपरिगता या चपुगर्मूप्रभवा च या। इत्येताः काश्यपेनोक्तादहन्ति कुल-मग्निवत्” काश्य॰।
“तत्र सपिण्डासगोत्रासमान प्रव-रासु भार्य्यात्वमेव नोत्पद्यते रोगिण्यादिषु भार्य्यात्वेउत्पन्नेऽपि दृष्टदोष एव” मिता॰ एवमेव रघुनन्दनादयः। समानार्षाश्च आर्षशब्दे

८१

३ पृष्ठे दर्शिताः।
“सगोत्रांमातुरप्येके नेच्छेन्त्युद्वाहकर्म्मणि। जन्मनाम्नोरविज्ञा नेउद्वहेताविशङ्कितः” इति उ॰ त॰ व्यासः।
“मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च। समानप्रवरां चैव गत्वाचान्द्रायाणं चरेत्” मिता॰ स्मृ॰।
“आ सप्तमात् पञ्चमाच्चबन्धुभ्यः पितृमातृतः। अविवाह्या सगीत्रा च समानप्रव-रा तथा। पञ्चमे सप्तमे वापि येषां वैवाहिकी क्रिया। तेच सन्तानिनः सर्वे पतिताः शूद्रतां गताः” नारदः। बन्धवश्चउत्तराधिकारशब्दे

१०

९९ पृ॰ दर्शिताः।
“सगोत्राञ्चेदमत्या-उपयच्छेन्मातृवदेनाम् बिभृयात् समानार्षेयां विवाह्यचान्द्रयणं चरेत्” सुमन्तुः
“समानगोत्रप्रवरां समुद्वाह्योप-गम्य च। तस्यामुत्पाद्य चाण्डालं ब्राह्मण्यादेव हीयते। आप॰।
“सर्व्वाः पितृपत्न्यो मातरस्तद्भ्राता मातुलास्तद-पत्यानि भगिन्यस्तदपत्यानि भागिनेयानि ता धर्म्म-तोऽविवाह्याः अन्यथा सङ्करकारिण्यस्तथाध्यापयितु-रिति” सम्न्तुः।
“अध्यापयितुरेतद्विवाहमन्त्रपाठयि तु-रेतत् सङ्करकारित्वमिति” रत्नाकरादयः। अध्याप-यितुर्गुरोः कन्या अविवाह्येति रघुनन्दनेनोक्तम्
“समान-प्रवरा वाऽपि शिष्यसन्ततिरेव च। व्रह्मदातुर्गुरोश्चैवसन्ततिः प्रतिषिध्यते” मत्स्यपु॰।
“मातुर्य्यन्नामगुह्यं स्यात् सुप्रसिद्धमथापि वा। तन्नाम्नी या भवेत्कन्या मातृनाम्नीं प्रचक्षते। प्रमादात् यदि गृह्णीयात् प्राय-श्चित्तं समाचरेत्। ततश्चान्द्रायणं कृत्वा तां कन्यां परि-वर्ज्जयेत्” मत्स्य पु॰। तथा श्यालिकापुत्र्या अपि पुत्रस्थानिकतया अविवाह्यत्वमुक्तं दत्तकमी॰ दृश्यम्। अत्र स-पिण्डविषयेऽपवादः
“सन्निकर्षेऽपि कर्त्तव्यं त्रिगोत्रात् परतोयदि”। मत्स्य पु॰।
“असम्बन्धा भवेद्मातुः पिण्डेनैवोदकेन वा। सा विवाह्या द्विजातीनां त्रिगोतान्तरिताच या”। मनुः। शूद्राणान्तु अतिदिष्टादिष्टगोत्रभागि-त्वेन सगोत्राविवाहो न निषिद्धः इति रघनन्दनादयः।
“द्विजानामसवर्ण्णासु कन्यासूपवमस्तथा” वृह॰ ना॰ उक्तेःकलौ असवर्ण्णाविवाहनिषेधात्तद्विशेषोनाभिहितः। द[Page1187-a+ 38] क्षिणस्यां मातुलकत्योद्वाहस्तु शिष्टैरपि क्रियते तस्यस्मृतिविरुद्धत्वेऽपि किञ्चित् श्रौतं लिङ्गमास्थाय तेषांतथा-चरणमिति बहवः। तस्य श्रौतलिङ्गस्यान्यार्थपरता पराशरभाष्यादौ दर्शिता। अतएव द्वारकारूपदक्षिणदेशवासिनांतथाचरणे भाग॰

१० स्कन्दे।
“यद्यप्यनुस्मरन् वैरं रुक्मीकृष्णावमानतः। व्यतरत् भागिनेयाय सुतां कुर्वन् स्वसुःप्रियम्”।
“दीहित्रायानिरुद्धाय पौत्रीं रुक्म्यददद्धरेः। रोचनां बद्ववैरोऽपि स्वसुः प्रियचिकीर्षया जानन्नधर्म्मंतद्यौनं स्नेहपाशवशानुगः”। अधर्मं जानन्नित्युक्तंतेन तस्याधर्मत्वम्।
“मातुलस्य सुतामूढ्वेति” प्रागुक्तवचनाच्च-तस्याधर्मत्वम् सुव्यक्तमेव। स च विवाहोऽष्टविधः
“ब्राह्मो-दैवस्तथैवार्षः प्राजापत्यस्तथासुरः। गान्धर्वोराक्षमश्चैवपैशाचश्चाष्टमोऽधमः” मनुः एतेषां लक्षणं तत्तच्छब्दे दृश्यम्।
“येन भार्य्या हृता पूर्बं कृतोद्वाहा परस्य वै” हरिवं॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वाह¦ m. (-हः) Marriage. E. उत् up, वह् to bear, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वाहः [udvāhḥ], 1 Bearing up, supporting.

Marriage, wedding; असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि Ms.3.43. उद्वाहस्नानवेलां कथयति भवतः सिद्धये सिद्धलोकः Nāg.2.13. (The Smṛitis mention 8 forms of marriage: ब्राह्मो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ॥ -Comp. -ऋक्षम् A Nakṣatra auspicious for a marriage. उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः Bhāg.1.53. 4. -तत्त्वम् N. of a work of Raghunandana on marriage ceremonies.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्वाह/ उद्-वाह m. the act of leading home (a bride) , marriage , wedding MBh. Katha1s. VarBr2S. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Four kinds of marriage mentioned: कालक्रीता, क्रयक्रीता, पितृदत्ता, स्वयम्युता। The first is वेश्या, the second is दासिका, the third is पत्नी, and the fourth गान्- धर्व। Br. IV. १५. 4.

"https://sa.wiktionary.org/w/index.php?title=उद्वाह&oldid=492728" इत्यस्माद् प्रतिप्राप्तम्