सामग्री पर जाएँ

उन्माद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्मादः, पुं, (उत् + मद् + घञ् । (महादेवः । यथा महाभारते । महादेवसहस्रनामकथने १३ १७ । ६९ ॥ “उन्मादो मदनः कामो ह्यश्वत्थोऽर्थ- करी यशः” ।) वातिकरोगविशेषः । तत्पर्य्यायः । चित्तविभ्रमः २ । इत्यमरः ॥ मतिभ्रंशः ३ उन्मनाः ४ । इति राजनिर्घण्टः ॥ (चित्तविप्लवः ५२ । २३४ । इति हेमचन्द्रः ॥) मानसरोगविशेषः । तस्यौषधं यथा, -- “वचा त्रिकटुकञ्चैव करञ्जं देवदारु च । मञ्चिष्ठा त्रिफला श्वेता शिरीषो रजनीद्वयम् ॥ प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् । नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनम् तथा ॥ अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् । भूतेभ्यश्च भयं हन्ति राजद्वारे च शासनम्” ॥ इति गारुडे १९९ अध्यायः ॥ * ॥ अथ उन्मादा- धिकारः ॥ तत्र उन्मादस्य निरुक्तिमाह । “मदयन्त्युद्धता दोषा यस्मादुन्मार्गमास्थिताः । मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः” ॥ अयमर्यः । यस्माद्धेतोरुद्धताः प्रवृद्धा दोषाः उन्मार्गमास्थिताः मदयन्ति चित्तं विक्षिपन्त्य- स्मिन् । अतोऽयमुन्माद इति कीर्त्तितः । सः उन्मादः मानसो व्याधिः मनोवैकृत्यकरणात् ॥ * ॥ तस्यैवावस्थाभेदेन नामान्तरमाह । स चाप्रवृद्ध- स्तरुणो मदसंज्ञां बिभर्त्ति च । स उन्मादस्तरुणो नवीनः ॥ * ॥ उन्मादस्य विप्रकृष्टनिदानमाह । “विरुद्धदुष्टाशुचिभोजनानि प्रधर्षणं देवगुरुद्विजानाम् । उन्मादहेतुर्भयहर्षपूर्ब्बो मनोऽभिघातो विषमाश्च चेष्टाः ॥” दुष्टं धत्तरवीजादिसहितम् । अशुचि रजस्वलादि- मुन्मत्तचित्तत्वमुदर्द्दितत्वमर्द्दिताकृतिकरणञ्चव्याधेः स्वप्ने च दर्शनमभीक्ष्णं भ्रान्तचलितानवस्थिता- नवस्थितानाञ्च रूपाणामप्रशस्तानाञ्च तिलपी- डकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्मथनं निमज्जनं कलुषाणामम्भसामावर्त्तेषु चक्षुषोश्चा- पसर्पणमिति दोषनिमित्तानामुन्मादानां पूर्ब्ब- रूपाणि” ॥

उन्मादः, त्रि, (उत् + मद् + घञ् ।) उन्मादरोग- युक्तः । क्षिप्तः । उन्मत्तः । इत्यमरटीकायां नील- कण्ठः ॥ पागल इति भाषा ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्माद पुं।

चित्तविभ्रमः

समानार्थक:उन्माद,चित्तविभ्रम

1।7।26।2।2

कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ। शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

उन्माद वि।

उन्मादशीलः

समानार्थक:उन्माद,उन्मदिष्णु

3।1।23।1।1

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः। मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्माद¦ पु॰ उद् + मद--अधारे घञ्। रोगभेदे स च सुश्रुते दर्शितोयथा
“अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः॥ मदय-न्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः। मानसोऽयमतोव्याधिरुन्माद इति कीर्त्तितः॥ एकैकशः समस्तैश्च दोषैर-त्यर्थमूर्च्छितैः। मानसेन च दुःखेन स पञ्चविध उच्यते॥ विषाद्भवति षष्ठश्च यथास्वन्तत्र भेषजम्। स चाप्रवृद्धस्तरुणोमदसंज्ञां बिभर्त्ति च॥ मोहोद्वेगौ स्वनः श्रोत्रे मात्राणाम-पकर्षणम्। अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम्॥ वायुनोन्मथनञ्चापि भ्रमश्च क्रमतस्तथा। यस्य स्यादचिरे-णैवमुन्मादं सोऽधिगच्छति॥ रूक्षच्छविः परुषवाक् धमनीततोवा श्वासातुरः कृशतनुः स्फुरिताङ्गसन्धिः। आस्फोट-यन् पठति गायति नृत्यशीलो विक्रोशति भ्रमति चाप्य-निलप्रकोपात्॥ तृट्स्वेददाहबहुलो बहुभुग्विनिद्रश्छायाहिमानिलजलान्तविहारसेवी। तीक्ष्णो हि माम्बुनिचयेऽपि स वह्निशङ्को पित्ताद्दिवा नभसि षश्यतितारकाश्च॥ छर्द्यग्निसादसदनारुचिकासयुक्तो योषिद्वि-विक्तरतिरल्पमतिप्रचारः। निद्रापरोऽल्पकथनोऽल्पभुगुष्ण-सेवी रात्रौ भृशं भवति चापि कफप्रकोपात्॥ सर्व्वात्मकेत्रिभिरपि व्यतिमिश्रितानि रूपाणि वातकफपित्तकृतानिविद्यात्। सम्पूर्णलक्षणमसाध्यमुदाहरन्ति सर्व्वात्मकंक्वचिदपि प्रवदन्ति साध्यम्॥ चौरैर्नरेन्द्रपुरुषैररिभिस्तथान्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा। गाढं क्षते मनसिच प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः॥ चित्रं स जल्पति मनोऽनुगतं विसंज्ञो गायत्यथो हसतिरोदिति चापि मूढः। रक्तेक्षणो हतबलेन्द्रियभाःसुदीनः श्यावाननो विषकृतेन भवेत् परासुः॥ स्निग्धंस्विन्नन्त् मनुजमुन्मादार्त्तं विबोधयेत्”। एतद्व्याख्याच्छलेनतत्रत्यविभागादि चोक्तं भावप्रकाशे
“तत्र उन्मादस्य निरुक्ति-माह।
“मदयन्त्युद्धता इत्यादि” सुश्रुतवाक्यम् यस्माद्धेतो-रुद्धताः प्रवृद्धा दोषा उन्मार्गमास्थिताः मदयन्ति चित्तंविक्षिपन्त्यस्मिन्। अतोऽयमुन्माद इति कीर्त्तितः। स उन्मादःमानसोव्याधिः मनोवैकृत्यकरणात्। तस्यैवावस्थाभेदेनलक्षणान्तरमाह।
“स चाप्रवृद्धस्तरुणैत्यादि” सुश्रु॰
“उन्मादस्य विप्रकृष्टनिदानमाह।
“विरुद्धदुष्टाशुचिभोजना-नि प्रधर्षणं देवगुरुद्विजानाम्। उन्मादहेतुर्भयहर्षपूर्वोमनोऽमिघातो विषमाश्च चेष्टाः”। दुष्टं धत्तूरवीजादिस-हितम्। अशुचि रजखलादिस्पृष्टम्। प्रधर्षणमभिभवः। [Page1193-a+ 38] विषमाश्च चेष्टाः बलवद्विग्रहादयः। सन्निकृष्टं निदानमाह।
“एकैकशः इत्यादि” सुश्रु॰ तस्य सम्म्राप्तिमाह।
“तैरल्पसत्वस्यमलाः प्रदुष्टा बुद्धेर्निवासं हृदयं प्रदूष्य। स्रोतांस्वधिष्ठायमनोवहानि प्रमोहयन्त्याशु नरस्य चेतः”। अल्पसत्वस्यअल्पसत्वगुणस्य। मलाः वातादयः। बुद्धेर्निवासं हृ-दयं प्रदूष्येति। एतेनाश्रयस्य दुष्ट्या तदाश्रिताया बुद्धेरपि दुष्टिरक्ता। मनोवहानि स्रोतांसि हृदयश्रितानिदश एतानि विशेषतो बोद्धव्यानि। यतश्चरकेण सक-लशरीरस्रोतांस्येव मनोधिष्ठानत्वेनोक्तानि। प्रमोहयन्तिविकृतं कुर्वन्ति। उन्मादस्य सामान्यं रूपमाह।
“धीवि-म्नमः सत्वपरिप्लवश्च पर्याकुला दृष्टिरधीरता च। अ-बद्धवाक्चं हृदयञ्च शून्यं सामान्यमुन्मादगदस्य लिङ्गम्”। धीविभ्रमः शुक्तिकायां रजतज्ञानम्। सत्वपरिप्लवः सत्वंमनस्तस्य चाञ्चल्यम्। अबद्धवाक्त्वम् असम्बद्धभाषित्वम्। शूव्यं स्मृतिशून्यम्। वातिकोन्मादस्य निदानपूर्विकां सम्प्राप्तिमाह।
“रूक्षाल्पशीतान्नविरेकधातुक्षयोपवासैरनि-लोऽतिवृद्धः। चिन्तातिदुष्टं हृदयं प्रदूष्य बुद्धिं स्मृतिंवाप्युपहन्ति शीघ्रम्”। प्रदूष्य प्रकर्षेण दूषयित्वा। तस्यैव रूपमाह।
“अस्थानहास्यस्मृतिनृत्यगीतवाग-ङ्गविक्षेपणरोदनानि। पारुष्यकार्श्यारुणवर्णताश्च जीर्णेबलञ्चानिलजस्य रूपम्”। अस्थाने अनवसरे हास्या-दीनि रोदनान्तानि। जीर्णे आहारे। बलं व्याधेः। पैत्तिकस्य निदानपूर्विकां सम्प्राप्तिमाह।
“अजीर्णक-ट्वम्लविदाह्यशीतैर्भोर्ज्यैश्चितं पित्तमुदीर्णवेगम्। उन्मा-दमत्युग्रमलात्मकस्य हृदिस्थितं पूर्ववदाशु कुर्यात्”। हृदि स्थितं पित्तं चितं सञ्चितम् पुनः अजीर्ण क-ट्वम्लविदाह्यशीतैर्भोर्ज्यैरुदीर्णवेगं सत् उन्मादं कुर्यात्पूर्ववत् हृदयं प्रदूष्य इत्यर्थः। तस्य रूपमाह
“। अ-मर्षसंरम्भविनग्नमावाः सन्तर्जनाभिद्रवणौष्ण्यवोषः। प्रच्छायशीतान्नजलाभिलाषः पीतावभा पित्तकृतस्यलिङ्गम्”। अमर्षोऽसहिष्णुता। संरम्भः आरभटी आड-म्बर इति यावत्। सन्तर्जनं परत्रासनम्। अभिद्रवणंपलायनम्। औष्ण्यं गात्रे। वोषो दाहविशेषः। प्र-च्छायेत्यादि छायायां, शीतयोरन्नजलयोरभिलाषः। श्लैष्मिकस्य निदानपूर्विकां संप्राप्तिमाह।
“सम्पूरणैर्मन्दविचेष्टितस्य सोष्मा कफो मर्मणि संप्रवृद्धः। बुद्धिं स्मृतिंबाप्युपहन्ति चित्तं प्रमोहयन् सञ्जनबेद्विकारम्”। संपूरणैर्भोजनादिभिः। मन्दविचेष्टितस्य व्यायामरहितस्य। [Page1193-b+ 38] सोष्मा कफ इति कफोऽप्युन्मादं करिष्यन् पित्तं सहायमपेक्षते व्याधिस्वभावात्। मर्मणि अत्र मर्मशब्देन हृदय-मुच्यते। विकारमुन्मादरूपम्। तस्य रूपमाह।
“वाक्चे-ष्टितं मन्दमरोचकश्च नारीविविक्तप्रियता च निद्रा। छर्दिश्च लाला च बलञ्च भुक्ते नखादिशौक्ल्यञ्च कफात्मकेस्यात्”। वाक्चेष्टितं मन्दं वचनमल्पम्। नारीविविक्तप्रियता नारीप्रियता विजनप्रियता च। भुक्ते सति बलंव्याधेः। सान्निपातिकस्य निदानपूर्वकं लक्षणमाह।
“यःसन्निपातप्रभवोऽतिधोरः सर्वैः समस्तैः स तु हेतुभिः स्यात्। सर्वाणि रूपाणि विभर्त्ति तादृग्विरुद्धभैषज्यविधिर्विवर्ज्यः” स सान्निपातिक उन्मादा। सन्निपातग्रहणेनैव सर्वात्मकत्वंलब्धम्। मुनः सर्वैरिति यत्कृतं तद्रजःस्तमःप्रापणा-र्थम्। तेन रजस्तमोमिलितैरित्यर्थः। तेन वातादयोरजस्तमोभिर्मनोदोषैर्सिलिताः समस्तैश्च निदानैः कु-पिता उन्मादं जनयन्ति। सर्वैर्हेतुभिः समस्तैर्मिलितैःस्यात्। यतोऽन्योव्याधिः सर्वैर्हैतुभिर्मिलितैरेव भवतीतिनियमो नास्ति। अयन्तु व्याधिस्वभावात् सर्वैर्हेतुभिर्मिलितैः स्यात्। तादृगुन्मादः विरुद्धभैषज्यविधिः विरु-द्धभैषज्यविधिरिति कोऽर्थः। त्रिदोषजे प्रत्येकं वातादि-प्रत्यनीका कार्य्या। सा च परस्पराविरोधिनी त्रिदोषंहन्ति किञ्चिदेव द्रव्यमामलकादि तच्चात्रायौगिकम्। अ-तएव विवर्ज्यः न चिकित्स्य इत्यर्थः”। मनोदुःखजस्य वि-प्रकृष्टं निदानमाह।
“चोरै र्नरेन्द्रपुरुषैरित्यादि” सुश्रु॰। अन्यैर्हिंस्रादिभिः। गाढमतिशयेन। क्षते अभिहतेप्रियया प्राप्तुमशक्यया रिरंसोः पुरुषस्य विकारः उन्माद-रूपः। तस्य रूपमाह।
“चित्रं प्रजल्पतीत्यादि” सुश्रु॰ चित्र-माश्चर्य्यम्। मनोऽनुगतं गोप्यमपि। विसंज्ञो विरुद्धज्ञानः। अतीव मूढः अतीवज्ञानशून्यः। अत्र विकल्पो बोद्धव्यः। विषजस्य रूपमाह।
“रक्तेक्षण इत्यादि” सुश्रु॰ परासुःमृतः। अरिष्टमाह।
“अवाङ्मुखस्तून्मुखो वा क्षीणमांसवलो नरः। जागरूकोह्यसन्देहमुन्मादेन विनश्यति”। अथ देवादिकृतस्योन्मादस्य सामान्यं लक्षणमाह।
“अम-र्त्यवाग्विक्रमवीर्यचेष्टो ज्ञानादिविज्ञानबलादियुक्तः। प्रकोपकालो नियतश्च यस्य देवादिजन्मा स मनोविकारः”। अमर्त्यवाग्विक्रमवीर्य्यचेष्टः न मर्त्यस्येव मनुष्यस्येव वागादयोयस्य सः। विक्रमः पराक्रमः। वीर्यं शौर्य्यम्। ज्ञानादिविज्ञानबलादियुक्तः। ज्ञानं बुद्धिः। आदिपदेन त-द्भेदा मेधाविचारणास्मृत्यादयो गृह्यन्ते। विद्धानं शि-[Page1194-a+ 38] ल्पादिविषयकं ज्ञानम्। चेष्टा पाटवम्। आदिपदेनाभि-मानादि गृह्यते। नियतः वक्ष्यमाणतिथ्यादिभिः। मनो-विकारः उन्मादः। तत्र देवाविष्टस्य लक्षणमाह।
“स-न्तुष्टःशुचिरतिदिव्यमाल्यगन्धो निस्तन्द्रोऽवितथसंस्कृ-तप्रभाषी। तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवतिनरः स देवजुष्टः”। अतिदिव्यमाल्यगन्धः अतिशयो दिव्य-माल्यस्येव गन्धो यस्य सः। निस्तन्द्रः निद्रारहितः। अ-वितथं सत्यम्। ब्रह्मण्यःब्राह्मणभक्तः। दैत्याविष्टस्याह।
“संस्वेदो द्विजगुरुदेवदोषभक्तो जिह्माक्षो विगतभयोविमार्गदृष्टिः। सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्माभवति स देवशत्रुजुष्टः”। विमार्गदृष्टिः कमार्गरतः। दुष्टा-त्मा दुष्टस्वभावः। गन्धर्वाविष्टस्याह।
“हृष्टात्मा पुलिनबनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः। नृ-त्यन वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितोमनुष्यः”। हृष्टात्मा हृष्टजीवात्मा। पुलिनं तोयोत्यितंतटम् वनान्तरं वनमध्यम् तयोः सेवी। स्वाचारःअनिन्दिताचारः। प्रियाणि परि समन्ततीभावेन गीतगन्धमाल्यानि यस्य स तथा। चारु चाल्पशब्दमिति ह-सनक्रियायाविशेषणम्। यक्षाविष्टस्याह।
“ताम्राक्षःप्रियतनुरक्तवस्त्रधारी गम्भीरोऽद्भुतगतिरल्पवाक् सहिष्णुः। तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपी-डितो मनुष्यः”। पित्राविष्टस्याह।
“प्रेतानां स दिशतिसंस्तरेषु पिण्डान् शान्तात्मा जलमपि वाऽपसव्यवस्त्रः। मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भक्तो भवति पितृग्र-हाभिजुष्टः”। प्रेतानां मृतानां पितॄणाम्। दिशति ददा-ति। अपसव्यवस्त्रः दक्षिणस्कन्धधृतोत्तरीयः। नागाविष्टस्याह।
“यस्तूर्व्यां प्रसरति सर्पवत् कदाचित् सृक्कण्यौ मुहुरपि जिह्वयावलेढि। क्रोधालुर्घृतमधुदुग्धपायसेप्सुर्विज्ञेयःस खलु भुजङ्गमेन जुष्टः”। प्रसरति सर्पवत् उरसाचलति। सृक्वण्यौ ओष्ठप्रान्तौ। राक्षसाविष्टस्याह।
“गां-सासृग्विविधसुराविकारलिप्सुर्निर्लज्जोभृशमतिनिष्ठूरोऽति-शूरः। क्रोधालुर्विपुलबलो निशाविहारी शौचद्विट्भवति स राक्षसैर्गृहीतः”। अतिनिष्ठुरोऽतिनिर्दयःब्रह्मराक्षसाविष्टस्याह।
“देवविप्रगुरुद्वेषी वेदवेदाङ्ग-विच्छुचिः। आत्मपीडाकरोऽहिंस्रो ब्रह्मराक्षससेवितः। अहिंस्रः अहिंसाशीलः। पिशाचाविष्टस्याह।
“उद्बस्त्रःकृशपरुषो विरुद्धभाषी दुर्गन्धो भृशमशुचिस्तथातिलोलः। बह्वाशी विजनवनान्तरोपसेवी व्याचेष्टन् भ्रमति रुदन्[Page1194-b+ 38] पिशाचजुष्टः”। उद्वस्त्रः नग्नः। दिगम्बर इतिविदेहवचनात्। (मु॰ सुश्रु॰ उद्धस्त इति पाठः)कृशो निर्मांसः। परुषो रूक्षः। अतिलोलः सर्व-स्मिन् अन्नपाने लोलुपः। व्याचेष्टन् विरुद्धमाचेष्टन्। ग्रहा हिंसाक्रीडापूजार्थं गृह्णन्ति। अतएवोक्तम्।
“अशुचिं भिन्नमर्य्यादं क्षतं वा यदि वाऽक्षतम्। हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा। तत्र हिंसार्थंगृहीतस्य लक्षणमाह।
“स्थूलाक्षो द्रुतमटनः सफेणवामीनिद्रालुः पतति च कम्पते च योऽति। यश्चाद्रिद्विरदनगादिविच्युतः स्यात् सोऽसाध्यो भवति तथा त्रयोद-शेऽव्दे। यश्चाद्रीत्यादि यः पर्वतादिपतितः सन् ग्रहैर्गृ-ह्यत इत्यर्थः। आदिशब्देन भित्तिप्रासादादयो गृह्यन्तेत्रयोदशेऽव्दे सर्व एव देवादिगृहीतोऽसाध्यः। देवादीनामावेशसमयमाह।
“देवग्रहाः पौर्ण्यमास्यामसुराः सन्ध्ययोरप्रि। गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यपि। पितरः कृष्णपक्षे च पञ्चम्यामपि चोरगाः। रक्षःप्रिशा-चा रत्रौ च चतुर्दश्यां विशन्ति हि”। कृष्णपक्षे अमा-याम्। प्रायशःपदादन्यत्रापि। तिथ्यभिधानप्रयोजनंलक्षणार्थं तत्र तिथौ बलिदानार्थञ्च। ननु यदि देवा-दयो विशन्ति तदा विशन्तस्ते दृश्यन्ते कथं नेत्यत आह।
“दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा। स्व-मणिं भास्करार्च्चिश्च यथा देहञ्च देहधृक्। विशन्तिन च दृश्यन्ते ग्रहास्तद्ववच्छरीरिणम्”। दर्पणादीत्यादिशब्देनान्यदपि निर्मलद्रवद्रव्यं गृह्यते। छाया प्र-तिविम्बम्। स्वमणिं सूर्वमणिम्। देहधृक् जीवात्मा”। भा॰ प्र॰। एतानि च वाक्यानि सुश्रुतोत्तरतन्त्रस्थानि। तत्र हि
“गुह्यानागतविज्ञानमनवस्था सहिष्णुता। क्रियावाऽमानुषी यस्मिन् स ग्रहः परिकीर्त्त्यते” इति ग्रह-शब्दं परिभाष्य
“असंख्येया ग्रहगणा ग्रहाधिपतयश्च ये। व्यज्यन्ते विविधाकाराभिद्यन्ते ते तथाष्टधा देवास्तथाशत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरोभुजङ्गाः। रक्षांसिया चापि पिशाचजातिरेषोऽष्टधा देवगणग्रहाख्यः” इतिविभज्य
“संतुष्टः शुचिरित्यादिना तज्जुष्टानां लक्षणान्थाह। तानि भा॰ प्र॰ सङ्गसङ्गत्योदाहृत्य व्याख्यातानीति द्रष्टव्यम्। अन्ते च प्रकृतदेवादीनां न क्वचित् प्रवेशः किन्तु तत्परि-चारकाणामेव देवाद्याचरवतां प्रवेश इत्युक्तं यथा सुश्रु॰उत्त॰।
“तपांसितीव्राणिंदया च दानं व्रतानि धर्मो नियमश्चसत्यम्। गुणास्तथाष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च[Page1195-a+ 38] यथाप्रभावम्। न ते मनुष्यैः सह संविशन्ति न वा मनु-ष्यान् क्वचिदाविशन्ति। ये वा विशन्तीति वदन्ति मोहात्तेभूतविद्याविषयादपोह्याः। तेषां ग्रहाणां प्ररिचारका येकोटीसहस्रायुतपद्मवंख्याः। असृग्वसामांसभुजः सुभीमानिशाविहाराश्च समाविशन्ति। निशाचराणां तेषां हि येदेवगणसंसृताः। ते तु तत्सत्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः। देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये। देववच्च नम-स्यन्ते प्रत्यर्थ्यन्ते च देवववत्। स्वामिशीलक्रियाचाराःक्रमएव सुरादिषु। नैरृतेया दुहितरस्तासां स प्रसवःस्मृतः। सत्यचादपवृत्तेषु वृत्तिस्तेषां गणैः कृता। हिंसा-विहारा ये केचिद्दिव्य भावमुपाश्रिताः। भूतानीति कृतासंज्ञा तेषां संज्ञा प्रवक्तृभिः। ग्रहसंज्ञाभिभूतानि यस्मा-द्वेत्त्यनया भिषक्। विद्यया भूतविद्यात्वमतएव निरुच्यते”। अथोन्मादस्य सामान्यचिकित्सा(‘ वातिके स्नेहपानं प्राक् विरेकः पित्तसम्भवे। कफजेवमनं कार्य्यं परे वस्त्यादिकक्रमः। यच्चोपदेक्ष्यते कि-ञ्चिदपस्मारे चिकित्सितम्। उन्मादे तच्च कर्त्तव्यं सामा-न्याद्दोषदूष्ययोः। जलादिद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा। रक्षेदुन्मादिनं यत्नात् सद्यः प्राणहरा हि ते। ते जला-दयः”। विशेषचिकित्सा भा॰ प्र॰ आदौ दृश्या। सचायंरोगः। महापातककर्म्मविपाकजः।
“उन्मादस्त्वग्दोषोराजयक्ष्मेत्यादि” शु॰ त॰ नारदोक्तेः
“चित्तसंमोहउन्मादः कामशोकभयादिभिः”। सा॰ द॰ उक्ते

२ व्यभि-चारिभावभेदे।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्माद¦ mfn. (-दः-दा-दं) Mad, insane, extravagant. m. (-दः)
1. Madness, extravagance.
2. (In medicine,) Mania. E. उत् much, मद् to be mad, affix घञ्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्माद [unmāda], a.

Mad, insane.

Extravagant.

दः Madness, insanity; अहो उन्मादः U.3; Māl.9.

Intense passion, intoxication or extravagance of love; Māl.3,2.11; वीररभसोन्मादः Mv.2.22 rapturous joy.

Lunacy, mania (considered as a disease of the mind); मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः । मानसो$यमतो व्याधिरुन्माद इति कीर्तितः ॥ Suśr.

(In Rhet.) Madness considered as one of the 33 subordinate feelings; चित्त- संमोह उन्मादः कामशोकभयादिभिः S. D.3; or according to R. G. विप्रलम्भमहापत्तिपरमानन्दादिजन्मा$न्यस्मिन्नन्यावभास उन्मादः.

Bloom; उन्मादं वीक्ष्य पद्मानाम् S. D.2.

A kind of पिशाच; Bhāg.2.1.39.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उन्माद/ उन्-माद mfn. mad , insane , extravagant BhP.

उन्माद/ उन्-माद m. insanity , madness

उन्माद/ उन्-माद m. mania (as illness)

उन्माद/ उन्-माद m. intoxication MBh. Sus3r. Sa1h. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of नारायण and श्री. Father of सम्शय. Br. II. ११. 3.

"https://sa.wiktionary.org/w/index.php?title=उन्माद&oldid=492783" इत्यस्माद् प्रतिप्राप्तम्