उपजाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजाति¦ स्त्री
“अनन्तरोदितलक्ष्मभाजौ पादौ यदीयावुप-जातयस्ताः। इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जा-तिष्विदमेव नाम” वृ॰ र॰ उक्ते वर्ण्णवृत्ते विभिन्नजातिद्वयपादद्वययोगात् चतुर्द्दशप्रकारभिन्ने छन्दोभेदे। यथाउपेन्द्रवज्रन्द्रवज्रयोः पादद्वयादियोगे

१४ भेदाः। तत्रचतुश्चरणप्रस्तारे

१६ भेदा भवन्ति तत्र शुद्धा एकैका तत्रन्नामभाक् शिष्टा चतुर्दश उपजातिसंज्ञाः। दिङ्मात्रंदर्श्यते। उ उ उ उ। इ उ उ उ। उ इ उ उ। इ इ उ उ। उ उ इ उ। इ उ इ उ। उ इ इ उ। इ इ इ उ। उ उ उ इ। इ उ उ इ। उ इ उ इ। इ इ उ इ। उ उ इ इ। इ उ इ इ। उ इ इ इइ इ इ इ। अत्राद्यन्तयोः इन्द्रवज्रोपेन्द्रवज्रयोः शुद्ध-तया तद्भिन्नानां चतुर्द्दशानां भिन्नजात्योश्चरणद्वयलक्ष-णयोगात् उपजातित्वम्। यथा
“अथ प्रजानामधिपःप्रभाते जायाप्रतिग्राहितगन्धमाल्यामित्यादि” रघुः। एवं वंशस्थेन्द्रवंशयोरपि। यथा
“इत्थं रथाश्वेभनिषादिनां[Page1206-b+ 38] प्रगे, गणो नृपाणामथ तोरणाद्बहिः” माघः तुल्यसंख्यक-वर्ण्णपादयोरे वोपजातित्वमिति न नियमः किन्तु भिन्नसंख्य-कवर्ण्णपादयोरपि।
“रामं लक्ष्मणपूर्व्वजं रघुवरं सीतापतिंसुन्दरं काकुत्स्थं करणामयं गुणनिधिं विप्रप्रियं धार्मि-कम्। राजेन्द्रं सत्यसन्ध्यं दशरथतनयं श्यामलं शान्त-मूर्त्तिम्। वन्दे लोकाभिरामं रघुकुलतिलकं राघवंरावणारिम्” इति पद्ये शार्द्दूलविक्रीडितेन

१९ उन-विंशत्यक्षरपादकेन सह

२१ एकविंशत्यक्षरपादक स्रग्ध-रायाः पादद्वयेन मिश्रणात् उपजातित्वम्। एवं
“म-हिषेऽसुराणामधिपे देवानाञ्च पुरन्दरे” इति देवीमा॰अनुष्टुब्वृहत्योः सङ्करादुपजातित्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजाति¦ f. (-तिः) A metre or stanza of four lines, with eleven syllables in each.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजातिः [upajātiḥ], f. A mixed metre (see App.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपजाति/ उप-जाति f. a mixed metre ( esp. a combination of इन्द्र-वज्राand उपेन्द्र-वज्रा, or of वंश-स्थand इन्द्र-वंश).

"https://sa.wiktionary.org/w/index.php?title=उपजाति&oldid=492892" इत्यस्माद् प्रतिप्राप्तम्