उपदंश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपदंशः, पुं, (उपदश्यते इति । उप + दंश + कर्म्मणि घञ् ।) मद्यपानरोचकभक्ष्यद्रव्यम् । तत्पर्य्यायः । अवदंशः २ चक्षणम् ३ मद्यपासनम् ४ । इति हेमचन्द्रः ॥ (यथा दशकुमारे विश्रुतचरिते -- “द्वित्रान् उपदंशान् उपपाद्य” । “ततस्तस्य शाल्योदनस्य दर्वीद्वयं दत्त्वा सपि- र्मात्रां सूपम् उपदंशं च उपजहार” । इति च ।) मेढ्ररोगविशेषः । वाओ इति भाषा । अथोपदं- श्लेष्मणा कठिनः स्निग्धः कण्डूमान् शीतलोगुरुः ॥ ३ ॥ शोणितेनासितस्फोटसम्भवोऽस्रस्रुतिर्ज्वरः ॥ ४ ॥ सर्व्वजे सर्व्वलिङ्गत्वं श्वयथुर्मुष्कयोरपि” ॥ ५ ॥ असाध्यलक्षणं यथा । “तीव्रा रुगाशुपचनं दरणं क्रिमिसम्भवः । याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः” ॥ इति वाभटे उत्तरस्थाने ३३ अध्याये । अस्य चिकित्सा च यथा ॥ “मेढ्रमध्ये शिरां विध्येदुपदंशे नवोत्थिते । शीतां कुर्य्यात् क्रियां शुद्धिं विरेकेण विशेषतः ॥ तिलकल्कघृतक्षौद्रैर्लेपः पक्वे तु पाटिते । जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान् ॥ शल्लकीवदरीविल्वपलाशतिनिशोद्भवाः । त्वचः क्षीरिद्रुमाणाञ्च त्रिफलाञ्च जले पचेत् ॥ सक्वाथः क्षालनं तेन पक्वतैलञ्च रोपणम् । तुत्थगैरिकलोध्रैलामनोह्वालरसाञ्जनैः ॥ हरेणुपुष्पकाशीससौराष्ट्रीलवणोत्तमैः । लेपः क्षौद्रयुतैः सूक्ष्मैरुपदंशव्रणापहः ॥ कपाले त्रिफला दग्धा सघृता रोपणं परम् । सामान्यं साधनमिदं प्रतिदोषन्तु शोफवत् ॥ न च याति यथा पाकं प्रयतेत तथा भृशम् । पक्वैः स्नायुशिरामांसैः प्रायो नश्यति हि ध्वजः” ॥ इति वाभटे उत्तरस्थाने ३४ अध्यायः ॥ तत्रातिमैथुनादतिब्रह्मचर्य्याद्वा तथा ब्रह्मचा- रिणीं चिरोत्सृष्टां रजस्वलां दीर्घरोमां कर्कशरो- मां सङ्कीर्णरोमां निगूढरोमामल्पद्वारां महाद्वा- रामप्रियामकामामचौक्ष्यसलिलप्रक्षालितयोनि- मक्षालितयोनिं योनिरोगोपसृष्टां स्वभावतो वा दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेवमानस्य तथा करज-दशन-विष-शूकनिपातनादर्द्दनाद्धस्ता- भिघाताच्चतुष्पदीगमनादचौक्ष्यसलिलप्रक्षालनाद- वपीडनाच्छुक्रमूत्रवेगविधारणान्मैथुनान्ते वाऽप्र- क्षालनादिभिर्मेढ्रमागम्य प्रकुपिता दोषाः क्षते- ऽक्षते वा श्वयथुमुपजनयन्ति तमुपदंशमित्या- चक्षते ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपदंश¦ पु॰ उप + दन्श--कर्मणि घञ्।
१ मद्यपानरोचके (चाटनी)भक्ष्यद्रव्ये,
२ भक्ष्यद्रव्योपकरणमात्रे, च।
“तथानुष्ठितेच तया द्वित्रानुपदंशानुपपाद्य” दशकुमा॰। भावे घञ्। सं-दशने (कामडान)
“दिदङ्क्षौ उपदंशेच्छावतीति” माघटीकायां मल्लि॰। कर्मणि घञ्।
४ समष्ठिलवृक्षे
५ शिग्रु वृक्षेच पु॰ राजनि॰।
६ उपस्थरोगभेदे (वाओ) (गरमि)तन्निदानिनादि सुश्रुते उक्तं यथा।
“तत्रातिमैथुनादतिब्रह्मचर्य्याद्वा तथा ब्रह्मचारिणीं चिरो-त्सृष्टां रजस्वलां दीर्घरोमां कर्कशरोमां सङ्कीर्णरोमां नि-गूढरोमामल्पद्वारां महाद्वारामप्रियामकामामचौक्ष्यसलि-लप्रक्षालितयोनिमक्षालितयोनिं योनिरोगोपसृष्टां स्व-भावतो वा दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेव-मानस्य तथा करजदशनविषशूकनिपातनादर्द्दनाद्धस्ताभि-घाताच्चतुष्पदोगमनादचौक्ष्यसलिलप्रक्षालनादवपीडनाच्छु-क्रमूत्रवेगविधारणान्मैथुनान्ते वाऽप्रक्षालनादिभिर्स्मेढ्रमा-[Page1208-b+ 38] गम्य प्रकुपिता दोषाः क्षतेऽक्षते वा श्वयथुमुपजनयन्तितमुपदंशमित्याचक्षते। स पञ्चविधस्त्रिभिर्द्दोषैः पृथक् सम-स्तैरसृजा चैकः। तत्र वातिके पारुष्यं त्वक्परिपुटनंस्तब्धमेढ्रता पुरुषशोफता विविधाश्च वातवेदनाः। पैत्तिकेज्वरःश्वयथुः पक्वोडुम्बरसङ्काशस्तीव्रदाहः क्षिप्रपाकःपित्तवेदनाश्च। श्लैष्मिके श्वयथुः कण्डूमान् कठिनःस्निग्धः श्लेष्मवेदनाश्च। रक्तजे कृष्णस्फोटप्रादुर्भावोऽत्यर्थ-मसृक्प्रवृत्तिः पित्तलिङ्गान्यत्यर्थं ज्वरदाहौ शोषश्च याप्यश्चैवकदाचित्। सर्व्वजे सर्व्वलिङ्गदर्शनमवदरणं शेफसः कृमि-प्रादुर्भावो मरणं चेति”। एतद्व्याख्याच्छलेन भावप्र॰ उक्तं यथा(
“तत्रोपदंशस्य विप्रकृष्ट निदानमाह”। हस्ताभिघातान्नस्वदन्तघातादाधारणाद्रत्युपसेवनाद्वा। योनिप्रदोषाच्च भवन्तिशिश्ने पञ्चोपदंशा विविधापचारैः”। हस्ताभिघा-तात् हस्तेन मैथुनात्। नखदन्तघातात् नखदन्तयोर्घातस्थानत्वेनानुक्तेऽपि मेहने नखदन्तघातो बलवदनुरागोदयात्। उक्तञ्च कामशास्त्रे।
“शास्त्रस्य विषयस्तावद्यावन्मन्दतरो रसः। रतिचक्रे प्रवृत्ते तु न शास्त्रंनापि च क्रमः”। कलहे दुष्टस्त्रीकृतो वा मेहने नख-दन्तघातः। उत्कलादौ स्त्रियो मुखयोनयो भवन्ति। ताभिर्व्वा मेहने, नखदन्तघातः। योनिप्रदोषात् दीर्घकर्क्क-शयोनिलोमयोगात्। योनिच्छिद्रस्यातिसूक्ष्मत्वाद्वा वाता-दिकृताद्वा योनिदोषात्। विविघापचारैः। दुष्टजलप्रक्षालनब्रह्मचारिणीगमनादिभिः पञ्चोपदंशाः। वातिकः पैत्तिकःश्लैष्मिकः सान्निपातिकः आगन्तुजश्चेति। तत्र वातिकस्यपैत्तिकस्य चोपदंशस्य लक्षणमाह।
“सतोदभेदस्फुरणैस्तुकृष्णैः स्फोटैर्व्यवस्येन्मरुतोपदंशम्। पीतैर्व्वहुक्लेदयुतैः सदा-हैः पित्तेन रक्तैः पिशितावभासैः”। व्यवस्येत् जानीयात्पीतैः रक्तैर्वेति विकल्पः। श्लैष्मिकं सान्निपातिकञ्चाह।
“सकण्डूरैः शोफयुतैर्महद्भिः शुक्लैर्घनैः स्रावयुतैः कफेन। नानाविधस्रावरुजोपपन्नमसाध्यमाहुस्त्रिमलोपदंशम्”। असाध्यमाह।
“विशीर्णमांसं कृमिभिः प्रजग्धं मुष्कावशेषंपरिवर्ज्जयेत्तम्”। विशीर्णमांसं गलितमांसं प्रजग्धंखादितं मुष्कावशेषं विशीर्णसमस्तमेहनमांसत्वेनाव-शिष्टफलकोषमात्रम्। उत्पन्नमात्रस्य चिकित्साया अकरणंदोषमाह
“सञ्जातमात्रे न करोति मूढः क्रियां नरो योविषये प्रसक्तः। कालेन शोफकृमिदाहपाकैः प्रशीर्णशिश्नोम्रियते स तेन”। विषये प्रसक्तः अतिस्त्रीरतः। लिङ्गा-र्शसमाह
“अङ्कुरैरिव संजातैरुपर्य्युपरि संस्थितैः। क्रमेण[Page1209-a+ 38] जायते वर्त्तिस्ताम्रचूडशिखोपमा। कोषस्याभ्यन्तरेसन्धौ पर्वसन्धिगतापि च। सवेदनः पिच्छिला चदुश्चिकित्स्या त्रिदोषजा। लिङ्गवर्त्तिरिति ख्याता लिङ्गार्शइति चापरे”। लिङ्गं वर्त्तेः स्थानम्। कोषाभ्यन्तरे अण्ड-कोषाभ्यन्तरे। सन्धौ लिङ्गरन्ध्रसन्धौ पर्वसन्धिगता मणि-पर्वणोः सन्धिगता”। तच्चिकित्सादि सुश्रु॰ चिकि॰
१९ अ॰।
“उपदंशेषु साध्येषु स्निग्धस्विन्नस्य देहिन” इत्यादि उक्तम्
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपदंश¦ m. (-शः)
1. A relish, or something to promote drinking.
2. The venereal disease, chancre.
3. Biting, stinging.
4. A tree, the scraped root of which is used for horse-radish, (Morunga hyperanthera.) E. उप much, &c. दंश biting.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपदंशः [upadaṃśḥ], 1 Anything which excites thirst or appetite, a relish, condiment &c.; मूलकेनोपदंशं भुङ्क्ते Mbh. on P. IV.1.48; cf. P.III.4.47. द्वित्रानुपदंशानुपपाद्य Dk.133; अग्रमांसोपदंशं पिव नवशोणितासवम् Ve.3.
Biting, stinging.
The venereal disease, chancre.
(a) A tree the root of which is used for horse-radish (शिग्रु). (b) N. of another plant (समष्ठिल). -नम् Context; छागोपकरण- मस्योपदंशितं यदुपदंशने पशुशब्दच्छागाभिप्राय इति गम्यते । ŚB. on MS.6.8.35.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उपदंश/ उप-दंश m. anything eaten in addition (to excite thirst or appetite) , a relish , spice R. Katha1s. Sus3r. Das3.
उपदंश/ उप-दंश m. a kind of venereal disease Sus3r.
उपदंश/ उप-दंश m. the tree Moringa Hyperanthera (the scraped root of which is used for horse-radish) L.
उपदंश/ उप-दंश m. a kind of shrub L.