उपदेश

विकिशब्दकोशः तः
Jump to navigation Jump to search

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशः, पुं, (उप + दिश् + घञ् ।) मन्त्रकथनम् । तत्पर्य्यायः । दीक्षा २ । यथा । “चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते” ॥ इति रामार्च्चनचन्द्रिका ॥ कलावत्यादिदीक्षाया- मसामर्थ्ये संक्षेपो यथा । “तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्च्य साक्षतम् । तदम्बुनाभिषिच्याष्टवारं मूलेन केकरम् ॥ निधायाष्टौ जपेत् कण उपदेशे त्वयं विधिः” ॥ इति विश्वसारतन्त्रम् ॥ हितकथनम् । (यथा, हितोपदेशे विग्रहे उक्तम् । “उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये” ॥) शिक्षणम् ॥ (यथा, मनुः ८ । २७२ । “धर्म्मोपदेशं दर्पण विप्राणामस्य कुर्व्वतः” । “एवमित्युपदेशः । यथा । तथा न जागृयात् रात्रौ दिवास्वप्नञ्च वर्जयेदनेन कारणेनेत्युपदे शः ॥ अथोपदिश्यते मधुरेण श्लेष्माभिवर्द्धत इति” । इति सुश्रुते उत्तरतन्त्रे ६५ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेश¦ पु॰ उप + दिश--घञ्।

१ अनुशासने,

२ हितकथने,प्रवर्त्तकवाक्ये च।
“चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रेशिवालये। मन्त्रमात्रप्रकथनमुपदेशः सौच्यते” म॰त॰ रामार्च्चनचन्द्रिकोक्ते

३ दीक्षाभेदे। तद्विस्तारस्तुतन्त्रसारे कलावत्यादिदीक्षाप्रकरणे दृश्यः। तदशक्तौ तु
“तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्य साक्षतम्। तदम्बु नाभि-षिच्याष्टवारं मूलेन के करम्। निधायाष्टौ जपेत् कर्ण्णेउपदेशे त्वयं विधिः”। विश्वसारतन्त्रोक्तः प्रकारोऽनु-ष्ठेयः। अब्जम् शङ्खं के मस्तके।
“यथासंख्य मुपदेशः समा-नाम्” पा॰।
“बधनिर्धूतशापस्य कबन्धस्योपदेशतः” रघुः।
“स्थिरोपदेशामुपदेशकाले”
“तपस्विनामप्युपदेशतां गतम्” कुमा॰।
“आर्षं धर्म्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्केणानुसंधत्ते स धर्म्मं वेद नेतरः”।
“धर्म्मोपदेशंदर्पेण विप्राणामस्य कुर्व्वतः” मनुः। प्रायश्चित्तोपदेशप्रकारस्तु मिता॰ दर्शितो यथा।
“विख्यातदोषः कुर्व्वीतपर्षदोऽनुमतं व्रतम्” या॰ स्मृ॰।
“योदोषो यावत्कर्त्तृ-सम्याद्यस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्ष-दुपदिष्टं व्रतं कुर्य्यात्। यद्यपि स्वयं सकलशास्त्रार्थ-विचारचतुरस्तथापि पर्षत्समीपमुपगम्य तया सह विचार्यतदनुमतमेव कुर्य्यात्। तदुपगमने चाङ्गिरसा विशेषउक्तः।
“कृते निःसंशये पापे न भुञ्जीतानुपस्थितः। भुञ्जानो वर्द्धयेत् पापं यावन्नाख्याति पर्षदि। सचेलंवाग्यतः स्नात्वा क्लिन्नवासाः समाहितः। पर्षदोऽनुमतस्तच्चसर्व्वं विख्यापयेन्नरः। व्रतमाधाय भूयोऽपि तथा स्नात्वाव्रतञ्चरेदिति”। विख्यापनञ्च पर्षद्दक्षिणादानानन्तरंकार्य्यम्। यथाह पराशरः।
“पापम्प्रख्यापयेत्पापी दत्त्वाधेनुन्तथा वृषमिति”। एतच्चोपपातकविषयम्। महा-पातकादिष्वधिकङ्कल्प्यम्। यत्तूक्तम्।
“तस्माद्द्विजः प्राप्तपापः सकृदाप्लुत्य वारिणि। विख्याप्य पापं वक्तृभ्यः कि-ञ्चिद्दत्त्वा व्रतञ्चरेदिति”। तत्प्रकीर्णकविषयम्। पर्ष-त्स्वरूपञ्च मनुना दर्शितम्।
“त्रैविद्योहैतुकस्तर्की निरुक्तोधर्म्मपाठकः। त्रयश्चाश्रमिणः पूर्ब्बे पर्षदेषा दशावरा”। हैतुकोमीमांसार्थतत्त्वज्ञः। तर्की न्यायशास्त्रकुशलः। तथान्यदपि पर्षद्द्वयन्तेनैव दर्शितम्।
“ऋग्वेदविद्य-जुर्वेदी सामवेदविदेव च। त्र्यवरा पर्षद्विज्ञेया धर्म्म-संशयनिर्ण्णये” इति। तथा।
“एकोऽपि वेदविद्धर्मं यं व्यव-स्येत्समाहितः। स ज्ञेयः परमोधर्म्मो नाज्ञानामुदितोऽयुतैरिति”। आसाञ्च पर्षदां सम्भवापेक्षया व्यवस्था। [Page1210-b+ 38] महापातकाद्यभेक्षया वा। यत्तु स्मृत्यन्तरेऽभिहितम्।
“पातकेषु शतम्पर्षत्सहस्रं महदादिषु। उपपापेषु पञ्चा-शत्स्वल्पे स्वल्पा तथा भवेदिति”। तदपि महापातकादिदी-षानुसारेण पर्षदो गुरुलघुभावप्रतिपादनपरं न पुनःसंख्यानियमार्थं मन्वादिमहास्मृतिविरोधप्रसङ्गात्। तथादेवलेन चात्र विशेषो दर्शितः।
“स्वयन्तु ब्राह्मणाब्रूयुरल्पदोषेषु निष्कृतिम्। राजा च ब्राह्वणाश्चैव मह-त्सु सुपरिक्षितमिति”। तया च पर्षदा अवश्यं व्रतमुपदेष्टव्यम्।
“आर्त्तानां मार्गमाणानाम्प्रायश्चित्तानि ये द्विजाः। जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः” इत्यङ्गिरः-स्मरणात्। तथा तया पर्षदा ज्ञात्वैव व्रतमुपदेष्ट-व्यम्।
“अज्ञात्वा धर्म्मशास्त्राणि प्रायश्चित्तन्ददाति यः। प्रायश्चित्ती भवेत् पूतः किल्विषम्पर्षदं व्रजेदिति” वशिष्ठस्मरणात्। क्षत्रियादीनान्तु कृतैनसां धर्मोपदेशे विशेषोऽङ्गिरसा दर्शितः।
“न्यायतो ब्राह्मणः क्षिप्रं क्षत्रियादेः कृतै-नसः। अन्तरा ब्राह्मणं कृत्वा व्रतं सर्व्वं समादिशेत्। तथा शूद्रं समासाद्य सदा विप्रपुरस्सरम्। प्रायश्चित्त-म्प्रदातव्यञ्जपहोमविवर्जितमिति”। तत्र च यागाद्यनुष्ठान-शीलानाञ्जपादिकं वाच्यमितरेषान्तु तपः।
“कर्म्मनिष्ठास्त-पोतिष्ठाः कदादित् पापमागताः। जपहोमादिकन्तेभ्योविशेषेण प्रदीयते। ये नामधारका विप्रा मूर्खा धनविव-र्ज्जिताः। कृच्छ्रचान्द्रायणादीनि तेभ्योदद्याद्विशेषतः” तत्र च सत्येशपूजनप्रदक्षिणे कर्त्तव्ये इति विधानपरिजा-तादयः तन्मूलं तत्र दृश्यम्। मत्कृततुलादानादिपद्धतौच प्रायश्चित्तप्रकरणे तत्प्रकारोदृश्यः। प्रा॰ त॰
“तोष-यित्वा द्विजोत्तमान्” देवलवचने तोषयित्वेति श्रवणात्तस्यानतिकरत्वेन तद्ग्रहणे न दोषः प्रायश्चित्तद्रव्यग्रहणेच दोष इति” व्यवस्थापितम्। प्रा॰ वि॰ तत्प्रपञ्चितं यथा
“नन्वेतद्द्रव्यग्रहणस्य पापजनकत्वे प्रमाणं नास्ति। न चपापक्षयार्थत्वात् पापजनकत्वं, प्रमाणाभावात् तुलापुरुषप्रतिग्रहस्यापि गर्हितत्वापत्तेः। तत्र च
“अथातः संप्रव-क्ष्यामि महापातकनाशनम्” इत्यनेन पापक्षयश्रवणात्। अथ प्रायश्चित्तश्रवणात् पापजनकत्वं यथा याज्ञवल्क्यः।
“पात्रे धनं वा पर्य्याप्तं दत्त्वा शुद्धिमवाप्नुयात्” आदातुश्चविशुद्ध्यर्थमिष्टिर्वैश्वानरी स्मृता”। एतस्य महापातकविष-यत्वादन्यस्य गर्हितत्वं न स्यात्। अत एव
“नाददीत नृपःसाधुर्म्महापातकिनोधनमिति” राज्ञोधनग्रहणनिषेधोमहापातक एव मनुनोक्तः। पतितद्रव्यग्रहणस्यैव[Page1211-a+ 38] पापजनकचम्
“पतितानां गृहं गत्वा भुक्त्वा च प्रतिगृह्यचेति” वृहस्पतिवचनादिति चेन्न पातकेतरप्रायश्चित्तद्रव्यस्य ग्राह्यत्वापत्तेः उच्यते।
“आदातुर्विशुद्ध्यर्थमिति” महापातके श्रवणेऽपि लाघवात् सामान्यश्रुतिरेव कल्पनीयापापक्षयमात्रसाधनत्वेन यदुत्सृष्टं तत् प्रायश्चित्तद्रव्यं नग्राह्यमिति, होलाकाधिकरणन्यायात्। अत एव न तुला-पुरुषादावतिव्याप्तिस्तस्य पापक्षयमात्रफलत्वाभावात्स्वर्गादिफलस्यापि तस्य श्रुतत्वात् अत उक्तयाज्ञवल्क्यवचना-न्महापातकिप्रायश्चित्तद्रव्यग्रहे सकृत्कृते वैश्वानरीष्टिः। अत्यन्तावृत्त्या द्रव्यत्यागश्च जले क्षेपणीयः ब्रह्मचारिणे वादेयः। यद्यपि प्रायश्चित्तेतरपतितद्रव्यग्रहणे वृहस्पतिनाचान्द्रायणमासोपवासौ विहितौ तथापि तावभ्यासविषयौज्ञेयौ लघुपापप्रायश्चित्तद्रव्यग्रहणे तु
“यद्गर्हितेनार्जय-न्ति कर्भणा ब्राह्मणा धनम्। तस्योत्सर्गेण शुद्ध्यन्ति जप्येनतपसैव चेति” मनूक्तगायत्रीसहस्रजपमासैकगोष्ठवासपयःपानव्रतमाचरणीयम्। लघुतरपापप्रायश्चित्तग्रहणे तु
“प्रति-गृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्। जपंस्तरत्-समन्दीयं मुच्यते मानवस्त्र्यहादिति” मनूक्तं दिनत्रयंतरत्समन्दीयजपशतं कुर्य्यादिति”। तरत्समन्दीयञ्च पाव-मानसूक्तान्तर्गतं सूक्तं तच्च मत्कृततुलादानादिपद्धतौ

१८

० ।

१ पृष्ठे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेश¦ m. (-शः)
1. Advice, information, instruction.
2. Plea, pretext.
3. Specification.
4. Initiation, communication of the initiatory Man- tra or fomula.
5. (In grammar,) An elementary term. E. उप before दिश् to shew, affix घञ्।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेशः [upadēśḥ], 1 Instruction, teaching, advice, prescription; एष आदेशः, एष उपदेशः Tait. Up.1.11.4. सुशिक्षितो$पि सर्व उपदेशेन निपुणो भवति M.1 (see the act inter alia); स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः Ku.1.3; अचिरप्रवृत्तोपदेशं नाट्यम् M.1,2.1; Ś.2.3; Ms.8.272; Amaru.29; R.12.57; K.26; M.6; परोपदेशे पाण्डित्यम् H.1.99.

Pointing out or referring to; शब्दानामितरे- तरोपदेशः Nir.

Specification, mentioning, naming.

A plea, pretext.

Initiation, communication of an initiatory Mantra or formula; चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये । मन्त्रमात्रप्रकथनमुपदेशः स उच्यते ॥

(In gram.) A form in a rule, an indicatory form (any word or part of a word, such as an affix, augment &c. with itsanubandhas which show what particular grammatical rules are to be applied. उपदेश आद्योच्चारणम् Sk. -Comp. -अर्थवाक्यम्, -वचनम् a parable, moral fable. -साहस्री N. of a philosophical work by Śaṅkarāchārya.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेश/ उप-देश m. pointing out to , reference to Pa1n2. 1-4 , 70 Kap. Ba1dar. Jaim. etc.

उपदेश/ उप-देश m. specification , instruction , teaching , information , advice , prescription TUp. MBh. Mn. Sus3r. S3ak. Hit. etc.

उपदेश/ उप-देश m. plea , pretext(= अप-देश) Mn. ix , 268 Ragh. Katha1s.

उपदेश/ उप-देश m. initiation , communication of the initiatory मन्त्रor formula Ka1tyS3r.

उपदेश/ उप-देश m. (in Gr. )original enunciation( i.e. the original form [often having an अनुबन्ध] in which a root , base , affix , augment , or any word or part of a word is enunciated in grammatical treatises) Pa1n2. Ka1s3. Siddh. etc.

उपदेश/ उप-देश m. N. of a class of writings( Buddh. )

उपदेश/ उप-देश m. a name , title MW.

उपदेश/ उप-देश etc. See. उप-दिश्.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten लक्षणस् of the ब्राह्मणस्. वा. ५९. १३९.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपदेश पु.
(उप + दिश् + घञ्) विशिष्ट आदेश या विधि, नियम, शां.श्रौ.सू. 1.3.8; मा.श्रौ.सू. 4.1.5।

"https://sa.wiktionary.org/w/index.php?title=उपदेश&oldid=492934" इत्यस्माद् पुनः प्राप्तिः