उपद्रष्टा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपद्रष्टा, [ऋ] त्रि, (उप + दृश + बाहुलकात्तृच् ।) उपदर्शकः । उदासीनबोधरूपत्वेन गुणप्रचार- दर्शी । इति गीताटीका ॥ (“उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः” । इति गीतायां १३ । २२ । साक्षी पुरुषः । यथा, “ऋत्विग्यजमानेषु यजनकर्म्मव्यापृतेषु तत्स- मीपस्थोऽन्यः स्वयमव्यापृतो यज्ञविद्याकुशलत्वात् ऋत्विग्यजमानव्यापारगुणदोषाणां ईक्षिता तद्वत्- कार्य्यकारणव्यापारेषु स्वयमव्यापृतो विलक्षणस्तेषां कार्य्यकारणानां सव्यापाराणां समीपस्थो द्रष्टा उपद्रष्टा साक्षी पुरुषः” ॥)

"https://sa.wiktionary.org/w/index.php?title=उपद्रष्टा&oldid=492946" इत्यस्माद् प्रतिप्राप्तम्