उपपुराण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपुराणम्, क्ली, (उपमितं पुराणैः ।) व्यासकृता- ष्टादशपुराणसदृशनानामुन्यादिप्रणीताष्टाद्रशपुरा- राणम् । यथा, -- “अन्यान्युपपुराणानि मुनिभिः कथितान्यपि । आद्यं सनत्कुमारोक्तं १ नारसिंहं २ ततः परम् ॥ तृतीयं वायवीयञ्च ३ कुमारेण च भाषितम् । चतुर्थं शिवधर्म्माख्यं ४ साक्षान्नन्दीशभाषितम् ॥ दुर्व्वाससोक्तमाश्चर्य्यं ५ नारदीयमतःपरम् ६ । नन्दिकेश्वरयुग्मञ्च ७ तथैवोशनसेरितम् ८ ॥ कापिलं ९ वारुणं १० शाम्बं ११ कालिकाह्वयमेव च १२ । माहेश्वरं १३ तथा कल्की १४ दैवं १५ सर्व्वार्थसिद्धिदम् ॥ पराशरोक्तमपरम् १६ मारीचम् १७ भास्कराह्वयम् १८ । अत्र दैवं देवीपुराणम् । इति मलमासतत्त्वधृत- कूर्म्मपुराणम् ॥ (एषां विस्तुतिस्त तत्तच्छब्दे द्रष्टव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपुराण¦ न॰ उपतमनुगतं पुराणम् अत्या॰ स॰। व्यासो-क्तादष्टाशपुराणसदृशेषु नानामुनिप्रणीतेषु नानाविधेषुपुराणेषु। तानि यथा। आद्यं सनत्कुमारोक्तं नार-सिंहमतः परम्

२ । तृतीयं वायवीयञ्च

३ कुमारेणानु-भाषितम्। चतुर्थं शिवधर्माख्यं

४ साक्षान्नन्दीश भाषि-तम्। दुर्वासोक्तमाश्चर्य्यं

५ नारदीयमतः परम्

६ । नन्दि-केश्वरयुग्मञ्च

७ ,

८ तथैवोशनसेरितम्

९ , कापिलं वारुणं

१० शाम्बं

११ कालिकाह्वयमेव च

१२ । माहेश्वरं

१३ तथापाद्मं

१४ दैवं

१५ सर्व्वार्थसाधकम् पराशरोक्तमपरं

१६ मारीचं

१७ भास्कराह्वयम्

१८ । मल॰ कूर्मपु॰। हेमाद्रौ तु एतद्वचनमन्यया पठितम् यथा
“अन्यान्युप-पुराणानि मुनिभिः कथितानि तु। आद्यं सनत्कुमा-रोक्तं नारसिंहमतःपरम्। तृतीयं नारदप्रोक्तं कुमा-रेण तु भाबितम्। चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभा-षितम्। दुर्वाससोक्तमाश्चर्य्यं नारदोक्तमतःपरम्। कापिलंमानवं चैव तथैवोशनसेरितम्। ब्रह्माण्डं वारुणं चाथकालिकाह्वयमेव च। माहेश्वरं तथा शाम्वं सौम्यं सर्वा-र्थसञ्चयम् पराशरोक्तमप्रवरं तथा भागवताह्वयम्। इद-मष्टादशं प्रोक्तं पुराणं कौर्मसंज्ञितम्। चतुर्द्धा संस्थितंपुण्यं संहितानां प्रभेदतः”। अत्र मुद्रितपुस्तके भागवत-[Page1227-a+ 38] द्वयमिति पाठोऽसङ्गत उपपुराणेषु भागवतद्वयाप्रसिद्धेः। तच्चाग्रे व्यक्तीभविष्यति। पुराणोपपुराणलक्षणं च

१२ स्क॰भागवते सामान्यत उक्तं यथा
“सर्गोऽस्याथ विसर्गश्च वृत्तीर-क्षान्तराणि च। वंशोवंशानुचरितं संस्था हेतुरपाश्रयः। दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो बिदुः। केचित् पञ्चविधंब्रह्मन्। महदल्पव्यवस्थया”।
“अव्याकृतगुणक्षोभान्महत-स्त्रिवृतोऽहमः। सूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग

१ उच्यते। पुरुषानुगृहीतानामेतेषां वासनामयः। विस-र्गोऽयं

२ समाहरोवीजाद्वीजं चराचरम्। वृत्ति

३ र्भृतानिभूतानां चरणामचराणि च। कृता तेन नृणां त्वत्र कामा-च्चोदनयापि वा। रक्षा

४ ऽच्युतावतारेहा विश्वस्यानुयुगे युगे। तिर्य्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस्त्रयीद्विषः। मन्वन्तरं

५ मनु-र्देवा मनुपुत्राः सुरेश्वराः। ऋषयोऽंशावताराश्च हरेःषड्विधमुच्यते। राज्ञां ब्रह्मप्रसूतोनां वंशस्त्रैकालिकोऽ-न्वयः

६ । वंशानुचरितं

७ तेषां वृत्तं वंशधराश्च ये। नैमि-त्तिकः प्राकृतिकोनित्य आत्यन्तिकोलयः। संस्थेति

८ क-विभिः प्रोक्तश्चतुर्द्धास्य स्वभावतः। हेतु

९ र्जीवोऽस्य सर्गादेर-विद्याकर्म्मकारकः। यं चानुशयिनं प्राहुरव्याकृत-मुतापरे। व्यतिरेकान्वयौ यस्य जाग्रत्स्वप्नसुषु-प्तिषु। मायामयेषु तद्ब्रह्म जीववृत्तिष्वपाश्रयः

१० । प-दार्थेषु तथा द्रव्यं तन्मात्रं रूपनामसु। वीजादिपञ्च-तान्तासु ह्यवस्थासु युतायुतम्। विरमेत यदा चित्तंहित्वा वृत्तित्रयं स्वयम्। योगेन वा तदात्मानं विदेहात्मा निवर्त्तते। एवंलक्षणलक्ष्याणि पुराणानि पुरा-विदः। मुनयोऽष्टादश प्राहुः खुल्लकानि महान्ति च”। अत्र खुल्लकानीत्युक्तेः उपपुराणस्यापि उक्तदशलक्षण-वत्त्वं पञ्चलक्षणादिमत्त्वं बोध्यम्। तेषाञ्च संख्यादि-निरूपणम् पञ्चलक्षणवत्त्वञ्च मत्स्यपुराणे उक्तं यथा।
“पाद्मे पुराणे या प्रोक्ता नरसिंहोपवर्णना। तत्राष्टादशसाहस्रं नारसिंहमिहोच्यते। नन्दाया यत्र माहात्म्यंकार्त्तिकेयेन वर्ण्यते। नन्दीपुराणं तल्लोके व्याख्यातमितिकीर्त्त्यते। यत्र शाम्बं पुरस्कृत्य भविष्यति कथानकम्। प्रोच्यते तत्पुनर्लोके शाम्बमेव मुनिव्रताः!। एवमादित्यसंज्ञञ्च तत्रैव परिपट्यते” इत्युपक्रम्य अष्ट्रादशभ्यस्तु पृथक्पुराणं यत् प्रदृश्यते। विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्योविनिर्गतम्। पञ्चाङ्गवत् पुराणं स्यादाख्यानमितरत् स्मृतम्। सर्गश्च प्रतिसर्गश्च वंशोमन्वन्तराणि च। वंशानुचरितञ्चेतिपुराणं पञ्चलक्षणम्। ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं[Page1227-b+ 38] भुवनस्य च। ससंहार प्रदृश्येत पुराणे पञ्चवर्णता। धर्म्म-श्चार्थश्च कामश्च मोक्षश्चपरिकीर्त्तते। सर्वेष्वपि पुराणेषु तद्वि-रुद्धे च यत्फलम्। सात्विकेषु च कल्पेषु माहात्म्यमधिकंहरेः। राजसेषु कल्पेषु च माहात्म्यं ब्रह्मणो विदुः। तद्व-दग्नेश्च माहात्म्यं तामसेषु शिवस्य च। सङ्कीर्णेषु सरस्वत्याःपितॄणाञ्च निगद्यते”।
“हेमाद्रौ कालिकापुरा॰ कस्य किं-मूलकत्वमिति कथनप्रस्तावे नारसिंहस्य पाद्ममूलकत्वमुक्ता
“इदम् यत् कालिकाख्यन्तु मूलं भागवतन्तु तत्” इत्युक्तंतत्र भागवतं तत्तस्य कालिकाख्यस्य मूलमित्यर्थः। भागवत-शब्देनात्र देवीभागवतं ग्राह्यं तयोरुभयोरपि कालिका-देवीमाहात्म्यकीर्त्तनेन एकदेवताप्रतिपादकत्वेन एकमूलत्वौ-चित्यात्। न तु वैष्णवभागवतं तस्य विष्ण देवताकत्वेनैक-देवताकत्वाभावेन तन्मूलत्वासम्भवात्। एवञ्च देवीभागवतमेवमहापुराणमिति केचित्। विष्णुभागवतमेव महापुराणमितितु वहवः। तत्र हेमाद्रौ मत्स्यपुरा॰
“वृत्तासुरबधोपेतंतद्भागवतमुच्यते। सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरा-मराः। तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते। लिखित्वातच्च यो दद्याद्धेमसिंहसमन्वितम्। पौर्ण्णमास्यां प्रोष्ठ-पद्याम् स याति परमं पदम्। अष्टादश सहस्राणि पुराणंतत् प्रकीर्त्तितम्” इति महापुराणान्तर्गतभागवतलक्षणमुक्तंवैष्णवे भागबते तु सारस्वतकल्पोद्भवनरादिकथाऽभावात्तल्लक्षणाऽभावेन नैतत् महापुराणं किन्तु उपपुराणम्। देवीभागवतं तु सारस्वतकल्पोद्भवनरादिकथावर्ण्णनेन उक्त-लक्षणवत्त्वेन महापुराणमिति पूर्वेषामाशयः। देवी-भागवतं विष्णुभागवतञ्चोभयमपि अष्टादशसाहस्रं द्वा-दशस्कन्धयुक्तञ्चेति द्वयोर्महापुराणत्वसंशये विष्णु-भागवतस्य तथात्वे बहूनां विवादात् तन्निर्ण्णयायदेवीभागवतटीकायां यथा व्यवस्थापितं तत् प्रदर्श्यते
“तत्र तावत् पुराणेषु भागवतद्वयं प्रसिद्धमेकं महापु-राणान्तर्गतमपरमुपपुराणान्तर्गतं लोकेऽप्युपलम्भोद्वयोर्देवीभागवतनाम्ना विष्णुभागवतनाम्ना चास्त्येव तत्रैकंमहापुराणान्तर्गतमन्यदुपपुराणान्तर्गतमित्यपि निर्विवादमेव। तथापि किन्देवीभागवतं महापुराणमन्यदुपपुराणमथ वा विष्णुभागवतं महापुराणमन्यदुपपुराणमितिसंशये केचिद्विष्णुभागवतमेव महापुराणमिति वदन्तिकेचिद्देवीभागवतमेव महापुराणमिति वदन्ति। तत्रप्रथमपक्षैकदेशिनः केचिदुपपुराणेषु द्वितीयम्भागवतंनास्त्येव महापुराणेष्वेवैक भागवतं प्रसिद्धं तच्च विष्णु[Page1228-a+ 38] भागवतमेव न देवीभागवतं देवीभागवतं तु निर्मूलमेवे-ति वदन्ति। द्वितीयपक्षैकदेशिनोऽपि विष्णुभागवतं वोपदेवकृतमिति वदन्ति। वस्तुतस्तूभयोरपि पुराणयोः पुराणमतभेदेन महापुराणत्वमुपपुराणत्वञ्च। ननु पुराणेष्वेवैकम्भा-गवतं प्रसिद्धं न तूपपुराणेषु द्वितीयमस्तीति चेन्न कूर्मग-रुडपाद्मादिषु द्वितीयस्य स्पष्टपरिगणनात् तथा हि हे-माद्रौ दानप्रस्तावे कूर्मपुराणे” अष्टादश पुराणान्युक्त्वा
“अन्यान्युपपुराणानि मुनिमिः कथितानि तु। आद्यं स-नत्कुमारोक्तं नारसिंहमतः परमित्यादि” पराशरोक्तंप्रवरन्तथा भागवताह्वयमिति” तथा गारुडे तत्त्वरहस्येद्वितीयांशेऽष्टमकाण्डे प्रथमाध्याये प्रथमतो महापुराणानांसात्विकादिभेदेन विभागमुक्त्वा लघुपुराणानां सात्विकादिभेदेन विभागप्रदर्शनपरे ग्रन्थेऽप्युक्तं
“पुराणम्भागवत-न्दौर्गं नन्दीप्रोक्तं तथैव च। पाशुपत्यं रैणुकञ्च भैरवंच तथैव चेति”। तथा तत्पूर्ब्बमपि
“विष्णुधर्मोत्तरंचैवतत्र भागवतन्तथेति”। तन्त्रम्भागवतन्तथेति पाठेऽपि तन्त्रंशास्त्रमित्यर्थः तद्विशेषणेन चोत्तमत्वं सूचितं तथा पाद्मे-शकुनपरीक्षायां
“ब्राह्मम्पाद्मं वैष्णवञ्च मार्तण्डं नार-देरितमित्यादि”। तथैव गदितंराम चराणाङ्कापिलन्तथा। वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते। शैवम्भागवत-न्दौर्गम्भविष्योत्तरमेव चेति”। तथा पाद्मे भागवतमाहात्म्येएकोनविंशेऽध्याये उपपुराणेषु
“शैवमादिपुराणञ्च देवीभागततन्तथेति” तथा मधूसूदनसरस्वतीकृतसर्व्वशास्त्रार्थसंग्रहेऽप्युपपुराणमध्ये भागवतम्परिगणितं नागोजी-भट्टादिभिश्च, धर्म्मशास्त्रग्रन्थेषु एवमन्यैरपि निबन्ध-कारै रिति। ननु देवीभागवतस्य
“तत्र भागवतम्पुण्यं पञ्च-मं वेदसंमितम्” इति प्रथमाध्यायस्थस्ववचनेनाष्टादशमहापुराणेषु पञ्चममिदं पुराणमिति स्वस्य महापुराणत्वंबोधयतस्तस्य कथमन्यपुराणवचनमुपपुराणत्वं बोधयेन्नह्येवंकचित् दृष्टचरमिति चेन्न नारदीयशिववायव्यादित्यपुराणानां स्वष्टुखेनान्यमुखेन वा महापुराणत्वेन ज्ञायमानानामन्यपुराणेषूपपुराणत्वस्य व्यवस्थापनात् पुराणमतभेदेनैकस्यापि पुराणस्य महापुराणत्वोपपुराणत्वसिद्ध्या तद्विरोधाभावात्। पुराणभेदेन मतभेदस्त बहुशःप्रसिद्धः। वैष्णवपुराणेषु सात्विकत्वं शैवपुराणेषु तामसत्वं, वैष्णवपुराणमतेन, शैवपुराणेषु सात्विकत्वं, वैष्णवपुराणेषु तामसत्वं
“दश शैवपुराणानि सात्विकानि वि-दुर्वुधाः। तामसानि च चत्वारि वैष्णवानि प्रचक्षते”। [Page1228-b+ 38] इति स्कान्दे शैवपुराणमतेनेत्येवंप्रकारेणेति”। ( ततः प्रसङ्गागतमन्यदुक्त्वा वृत्रामुवबधोपेतमित्यनेन पुराणेप्रतिपाद्यदेवकर्त्तृकबध एवाभिप्रेत इति व्यवस्थाप्य तत्रैवोक्तंयथा
“देवीभागवतातिरिक्तसर्वपुराणेषु देवीकृतोवृत्तासुर-बधो न क्कचिदप्यस्ति इन्द्रकृतस्यैव तस्य सत्त्वात् केवलं दे-वीभागवत एव देवीकृतः सोऽस्ति तद्ग्रहणेन तु देवीभागवतेस्वसम्मतिर्दर्शितेति युक्तमेव, अनन्तरं च तत्रैव पुराणदा-नप्रस्तावे
“ददाति सूर्य्यभक्ताय यस्तु भागवतं द्विजाः। सर्वपापविनिर्मुक्तः सर्वव्याधिविवर्ज्जितः। जीवेद्वर्षशतंसाग्रमन्ते वैवस्वतं पदमिति” पठितम्। अत्र च स्वसम्मतंमागवतमेव ग्रहीतुमुचितम्। किञ्चेदं वचनं देवीभागवतपक्षेएव स्वरसतः संगच्छते प्रथमश्लोके, एकादशद्वादशस्कन्धयोश्चसविस्तरं गायत्रीविधानसहस्रनामादेः कथनात् सूर्य्यस्य चगायत्रीदेवतात्वात्। श्रीभागवतपक्षे तु वैकुण्ठं गच्छेदित्येववदेदिति किञ्च
“यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः”। इत्यादिमात्स्यवचनमपि देवीभागवतस्यैव महापुराणत्वं बो-धयति वेदे
“त्रिपदा गायत्रीति” गायत्रीलक्षणं श्रूयते तेनच त्रिपाच्छन्दोधिकृत्य यत्र धर्मविस्तरो वर्ण्यते यद्भागवत-मिति तदर्थः। त्रिपाच्छब्दश्च देवीभागवते प्रथमश्लोके
“सर्व-चैतन्यरूसान्तामाद्यां विद्यां च धीमहि। बुद्धिं या नःप्रचोदयादिति” श्रूयते। न च विष्णुभागवते तच्छन्दोऽस्तिमुख्यार्थसम्भवे गायत्रीपदस्य लक्षणया धीमहीत्यर्थकरणेनविष्णुभागवतपरत्वकल्पनमस्य वचनस्य तु साहसमेव। क्व-चित् पुराणेषु यदि तादृशान्येव विष्णुभागवतपराणि वच-नानि सन्ति तत्र गत्यन्तराभावादस्तु लक्षणा उदासीनेमात्स्यवाक्ये तु मुख्यविषयत्वसम्भवे साऽनुचिता। यत्तु गा-यत्र्यर्थश्च विष्णुध्यानं न तु शिवशक्तिसूर्य्यादिध्यान-मित्युक्तं तत्तु नास्तिकत्वमूलकमेव मैत्रायणीयानां
“भ-र्गोवैरुद्र” इति श्रुतौ प्रपञ्चसारादिसर्वतन्त्रेषु पुराणादिषुच शिवसूर्य्यशक्त्यादिरूपार्थस्योक्तत्वाच्च। किञ्च
“हयग्रीवब्र-ह्मविद्या यत्र वृत्रबधस्तथा। गायत्र्या च समारम्भस्तद्वैभागवतं विदुरिति” पुराणान्तरवाक्यमपि देवीभागवतस्यैवमहापुराणत्वबोधकं तथा हि हयग्रीवनामासुरो देवी-भागवते प्रथमस्कन्धे निबद्धस्तेनोपासिता ब्रह्मप्रतिपादिकाविद्या स्त्रीदैवत्यो मन्त्रःसा विद्या यत्र वर्त्तते तद्भागव-तमित्यर्थः। स दैत्यस्तदुपासिता विद्या चेत्य्रभयमपि तत्रैवप्रथमस्कन्धे दर्शितम्
“जपन्नेकाक्षरं मन्त्रं मायावीजात्मकंममेत्यादिना”। ननु विष्णुमागवते पञ्चमस्कन्धेऽपि हय-[Page1229-a+ 38] ग्रीवमन्त्रस्य सत्त्वादिदं वचनमुभयभागवतसाधारणमितिचेन्न नारदीये शारदातिकादिनिबन्धेषु च
“मन्त्राः पुंदे-वताः प्रोक्ता विद्याः स्त्रीदेवताः स्मृताः” इत्यादिवचनैःस्त्रीदैवत्यमन्त्रेष्वेव विद्यापदप्रयोगो न पुंदैवत्य मन्त्रेष्वितिप्रतिपादानात्” क्वचित् पुंदैवत्यमन्त्रे तथा प्रयोगस्तु गौणःन च गौणार्थमादाय तद्वचनस्य विष्णुभागवतपरत्वंकल्पयितुमुचितं लक्षणारूपदोषापत्तेः तस्मान्न तद्वचनमुभय-साधारणमिति देवीभागवतस्यैव महापुराणत्वं बोधयतिकिञ्च
“सारस्वतस्य कल्पस्येति” मात्स्यवचनादपि देवीभा-गवतमेव महापुराणं अत्र ह्येवं प्रकरणशुद्धिः ऋषयऊचुः।
“पुराणसंख्यामाचक्ष्व सूत! विस्तरतः क्रमादिति” मुनिप्रश्नोत्तरं
“ब्रह्मणाभिहितं पूर्ब्बं यत्तद्ब्राह्मं, पद्मक-ल्पवृत्तान्ताश्रयं पाद्मं, वराहकल्पवृत्तान्ताश्रयं वैष्णवंश्वेतकल्पवृत्तान्ताश्रयं वायवीयमित्येवं तत्तत्कल्पवृत्ता-यान्ताश्रयाणि पुराणान्युक्त्वा तदुत्तरं
“यत्राधिकृत्य गा-यत्रीं वर्ण्यते धर्मबिस्तर इत्युपक्रम्य
“सारस्वतस्य कल्पस्यमध्ये ये स्युर्नरामराः। तद्वृत्तान्तोद्भवं लोके तद्भागवतमि-ष्यते” इत्युक्त्वा ततोऽन्यान्यपि महापुराणान्येव तत्तत्कल्प-वृत्तान्ताश्रयाणि दर्शिताति पश्चादुपपुराणकथनार्थम्
“उप-भेदान् प्रवक्ष्यामीति” प्रतिज्ञाय पद्मपुराणान्नारसिंहंनिर्गतमेवं नन्दिशाम्बादित्यसंज्ञकान्युक्त्वा अन्योपपुराणा-न्यपि महापुराणेभ्य एव निर्गतानीति
“अष्टादशभ्यस्तुपृथक्पुराणं यत् प्रदृश्यते। विजानीध्वं द्विजश्रेष्ठा-स्तदा तेभ्यो विनिर्गतमिति वचनेन” सूत ऋषिरुक्त-वान्। ततः
“सर्गश्च प्रतिसर्गश्च वंशोमन्वस्तराणि च” इ-त्यादिना पुराणलक्षणमुक्त्वा
“सात्विकेषु च कल्पेषु माहा-त्म्यमधिकं हरेः। राजसेषु च कल्पेषु माहात्म्यं ब्रह्मणोविदुः। तद्वदग्नेश्च माहात्म्यन्तामसेषु शिवस्य च। सङ्की-र्णेषु सरस्वत्याः पितॄणाञ्च निगद्यते” इति वचनेन पुराण-प्रतिपाद्यहरिब्रह्माग्निहरसरस्वतीपितॄणां माहात्म्यस-म्बन्धात् कल्पानां सात्विकराजसतामससङ्कीर्णत्वभेदैश्चातुर्वि-ध्यत्वमुक्तवानिति तत्र कल्पानां तत्तद्देवतासम्बन्धज्ञानं तुतत्तत्कल्पाश्रिंततत्तत्पुराणप्रतिपाद्यमुख्यदेवताज्ञानेनैव वो-ध्यम् अन्यप्रकारस्य क्वचिदपि पुराणेषु अनुपलम्भात्। त-त्रैवं सति
“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः इत्यादिवचनं भागवतस्य लक्षणप्रतिपादकं प्रतिपादितम्। तदर्थस्तु
“यथा गारुडकल्प इत्यत्र गरुडस्यायं गारुडः यथा च वा-राहकल्प इत्यत्र वराहस्यायं वाराह इति व्युत्पत्तिः प्रसिद्धा[Page1229-b+ 38] तद्वदेव
“सरस्वत्यास्तथा कल्पोगौरीकल्पस्तथैव चेति” कल्प-नामसु सरस्वतीकल्पत्वेनैव कथितत्वात्, मत्स्यपुराणेउपान्त्याध्याये
“सङ्कीर्णेषु सरस्वत्याः पितॄणां कल्प उच्यते” वचनेन तथैवीक्तत्वाच्च व्रह्मविष्णुरुद्राणां कल्पवद्गोरी लक्ष्म्योकल्पवच्च सरस्वतीकल्पस्यार्थतः प्राप्तत्वाच्च तादृशसार-स्वतकल्पसम्बन्धिनो ये देवमनुष्यास्तद्वृत्तान्तस्योद्भव उत्प-त्तिर्यस्मात् तत्पुराणं भागवतं विदुः तद्वृत्तान्तप्रदर्शकंयत्पुराणं तद्भागवतसंज्ञकमिति यावत्। अत्र च तत्त-द्देवतानामाविर्भावाश्रया ये ये कल्पास्ते तत्तन्नाम्ना व्यव-ह्रियन्ते एतच्च तत्तन्नामककल्पाश्रितेषु पुराणेषु तत्तद्देवताया एव नुख्यत्वेनोत्पत्तिप्रदर्शकवाक्यैर्लक्ष्मीकल्पादि-कल्पाश्रितकूर्म्मपुराणादिषु सर्वत्र प्रसिद्धमेव तथा चमुख्यत्वेन सरस्वत्या आविर्भावप्रतिपादकं पुराणंयत्तद्भागवतमित्यतिरहस्यार्थः। तत्र सारस्वतकल्प इतिपदेनैव कल्पस्य सरस्वतीसम्बन्धे बोधिते तस्य सङ्कीर्णत्वं
“सङ्कीर्णेषु सरस्वत्याः” इति वचनेन ईश्वरप्रेरणां विनापिगृहागतमेव। अस्मिश्च वचने भागवतपदेन विष्णुभागवतस्यग्रहणं बन्ध्यापुत्रोपममेव तत्र मुखत्वेन सरस्वत्याविर्भाव-स्यासत्त्वात् विष्णुभागवते द्वितीयस्कन्धे
“पाद्मं कल्पमथोशृणु” इति वचनेन स्वमुखेनैव स्वस्य पाद्मकल्पकथाश्रयत्व-स्योक्तत्वात् तद्विरोधाच्च। न च पाद्मकल्प एव सारस्वतःसरस्वान् समुद्रस्तस्माज्जातं कमलं सारस्वतं तस्य कल्पइति व्युत्पत्त्येति वाच्यं
“पद्मकल्पञ्च वृत्तान्तं तत्र यस्मा-दुदाहृतम्। तस्तात् पाद्मं समाख्यातं इति” पूर्वोदाहृत-शिवपुराणवचनेन
“एतदेव यदा पद्ममभूद्धैरण्मयं जगत्। तद्वृत्तान्ताश्रयं तद्वत् पाद्ममित्युच्यते बुधैः। पाद्मं तत्-पञ्चपञ्चाशत्सहस्राणीह कथ्यते” इति मत्स्यपुराणवचनेन
“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः” इति वच-नेन च पाद्मकल्पसारस्वतकल्पयोः पृथक्कथनात् किञ्चसारस्वतकल्पपाद्म कल्पयोरेकत्वे पद्म कल्पप्रतिपादकं पुरा-द्वयं पाद्मं भागवतं चेत्येव वदेत् किञ्च पद्मकल्पस्य वृत्ता-न्तमित्यत्र
“अभिव्यक्तपदार्था ये स्वतन्त्रालोकविश्रुता” इतिन्यायेन पूर्व्वं बुद्ध्यारूढं प्रसिद्धं पद्मशब्दं विहाया-प्रसिद्धं सारस्वतशब्दं पाद्मशब्दस्य वाचकं कृत्वा सार-स्वतपदघटितकल्पने प्रयोजनाभावः। किञ्च
“सरस्वत्या-स्तथा कल्प इत्यादेः” पूर्वोक्तस्य सारस्वतपदनिरुक्त्यर्थकस्यवच-नससूहस्य विरोधश्च। न च पाद्मकल्पसारस्वतकल्पयोः पृ-थक्त्वे, त्रिंशत्कल्पेषु मत्स्यपुराणान्तिमाध्याये कीर्त्ति-[Page1230-a+ 38] तेषु सारस्वतपदेन पाद्मस्य ग्रहणं न स्यादिति वाच्यम्प्रभासखण्डे त्रिंशत्कल्पेषु विष्णुजकल्पार्चिषकल्प सुपु-ङ्कल्पानां ग्रहणेऽपि तेषां कल्पानां यथा मात्स्यान्ति-माध्याये न ग्रहणं तथा पाद्मस्यापि न ग्रहणमित्यस्य तु-ल्यत्वात्। यदि तेषां पर्य्यायत्वेन कुत्रचिदन्तर्भावःक्रियते तर्ह्यस्यापि कुत्रचिदन्तर्भावोऽस्तु अतएव विष्णुभागवतस्यप्रबन्धटीकाकारेण
“पितृकल्पे एव पूर्वार्धान्ते पद्मस्यो-द्भवात् पितृकल्पपदेन पाद्मत्वग्रहो वेदितव्यः” इत्युक्तम्पुराणकथनप्रस्तावे सारस्वतकल्पपाद्मकल्पयोः पृथक्कर-णेन सारस्वतपदेन पाद्मस्य सर्वथा न ग्रहणम्। वस्तुतस्तुत्रिंशत्कल्पाब्रह्मणस्त्रिंशत्तिथ्यात्मकाः त्रिंशत्तिथिषुप्रतिपदादिषूत्पद्यन्ते
“भवः धुवः सुवः भूर्भुवः सुव इत्या-दयस्त्रिंशत्कल्पाः
“पाद्मादयश्च पुराणोक्ता दिनकल्पाब्रह्मणः प्रतिदिवसेषूत्पद्यन्ते इति दिनकल्पतिथिकल्पानांसुतरां भेदात् तिथिकल्पेषु दिनकल्पानां पाद्मादीनां नग्रहणमिति सिद्धान्तः। यत्तु विष्णुभागवतस्यारम्भतःपाद्मकल्पकथाश्रयत्वेऽपि कृष्णजन्मखण्डस्यैव सारस्वत-कल्पभवत्वेन तस्य च दशमस्कन्धे सत्त्वात्
“सारस्वतस्यकल्पस्य मध्ये ये स्युर्नरामराः इति” वचनस्य विष्णुभागवतंविषयोऽस्त्वित्याहुस्तदसत् कृष्णजस्मखण्डस्य सारस्वतकल्प-भवत्वप्रतिपादकानां वचनानां निर्मूलत्वात् समूलत्वे-ऽपि यस्मिन् पुराणे यस्य कल्पस्य प्रथमतः प्रतिपा-दनं तत्कल्पप्रतिपादकमेव तत्पुराणभिति नियमः। सर्वपुराणे तथा दृष्टत्वात् तथा च कृष्णजन्मखण्डस्यदशमस्कन्धे विद्यमानत्वेऽपि प्रथमतस्तत्कथाया अभावात्पाद्मकल्पकथायाः प्रथमतो विद्यमानत्वस्य स्वेनैवोक्तत्वाच्चन
“सारस्वतस्य कल्पस्येति” वचनस्य विष्णुभागवतं विषयः। किं च कृष्णजन्मखण्डस्य यथा दशमस्कन्धे कथनं तथासर्वपुराणेषु तत्कथनं वर्तत एवेति सर्वपुराणानां तद्वचन-विषयत्वं स्यात्तथा च सर्वपुराणानि भागवतपदवाच्यानि-स्युस्तस्मात् सारस्वतकल्पस्य यत्र प्रथमतः प्रतिपादनं सएव तद्वचनस्य विषयो वक्तव्यस्तादृशं च देवीभागवतमेवा-स्तीति देवीभागवतमेव तद्विषयो वक्तव्य इति। किं च शि-वपुराणे उमासंहितायाम्
“ब्रह्मणा संस्तुता सेयं मधुकैटभना-शने। महाविद्या जगद्धात्री सर्वविद्याधिदेवता। द्वादश्यांफाल्गुनस्यैव शुक्लायां समभून्नृपेति” वचनात् फाल्गुनशुक्लद्वादश्यां देव्या उद्भवस्तद्दिन एव च सारस्वतकल्पोद्भवस्तदुक्तंहेमाद्रौ” कल्पश्राद्धप्रकरणेनागरखण्डे
“सारस्वतस्तु द्वादश्या[Page1230-b+ 38] शुक्लायां फाल्गुनस्य चेति” तथा च सरस्वत्याः कल्प इत्यर्थ-कस्य
“सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः” इति वचनस्यसर्वथा देवीभागवतमेव विषयो न विष्णुभागवतमिति बोध्यंकिं च तस्य ग्रहणे तस्य हरिमाहात्म्यप्रतिपादकत्वात्तदाश्रितकल्पस्य सात्विकत्वमेव यास्यति
“सात्विकेष्वथ कल्पेषुमाहात्म्यमधिकं हरेरिति” वचनात्। ततश्च
“संकीर्णेषु सर-स्वत्या” इति वचनेन सारस्वतकल्प इति नाम्ना च परमहंस्यसामग्र्येव कर्त्तव्या स्यात् अतो विष्णुभागवतं विहायदेवीभागवतमेवास्य वचनस्य विषयोऽनिच्छतापि वक्तव्यस्तस्मात्सारस्वतस्य कल्पस्येति वचनात् देवीभागवतमेव महापुराणम्अस्ति चात्र सरस्वत्याविर्भावप्रतिपादकं वचनं तदुक्तं दे-वीभागवते प्रथमस्कन्धे
“तस्यास्तु मात्विकी शक्तीराजसी ताम-सीतथा। महालक्ष्मीः सरस्वती महाकालीति ताः स्त्रियः। तासां तिसृणां शक्तीनां देहाङ्गीकारलक्षणः। सृष्ट्यर्थञ्चसमाख्यातः सर्गः शास्त्रविशारदैरिति”
“अम्बरीष शुकप्रोक्तंनित्यं भागवतं शृणु” इति वचनमपि शुकाय प्रीक्तमिति व्युत्-पत्त्या देवीभागवतपरमपि संगच्छते। भवति हि देवीभावतंशुकायैव प्रोक्तं व्यासेनेति। किं च अष्टादशपुरणानि कृत्वासत्यवतीसुतः। भारताख्यानमखिलं चक्रे तदुपबृंहणमिति” मात्स्यवचनमपि देवीभागवतस्यैव महापुराणत्वं बोध-यति अष्टादशपुराणोत्तरं भारतस्य जातत्वात् भारतो-त्तरं च विष्णुभागवतस्य जातत्वात् भारतोत्तरकालं निर्वि-ण्णो व्यासश्चकारेति विष्णुभागवते

१ स्क॰ एवोक्तत्वात्। ननु
“वेदशाखाः पुराणानि वेदान्तभारतं तथा। कृत्वा संमोहसंमूढोऽभवं राजन्मनस्यपीति” देवीभागवते तृतीयस्कन्धे ए-वोक्तत्वात् तत्रापि स विरोधस्तदवस्थ एवेति चेन्न मन्मतेतदानीं ग्रन्थोनैव जातः किन्तु जनमेजयं प्रति एवं वक्ता-स्मीति ज्ञानचक्षुषा ज्ञात्वा भारतात् पूर्ब्बमेव देवीभागवतंकृतमित्यर्थस्य कल्पनात्। त्वन्मते तु तथा कल्पयितुं न शक्यतेचतुःश्लोक्या भागवतोपदेशस्य जायमानत्वात् उपदेशात्पूर्व्वं तज्ज्ञानाभावस्यावश्यं कल्पनीयत्वात् यदि तत्रापिपूर्व्वं व्यासस्य ज्ञानमस्तीति स्वीक्रियते तदा वक्ष्यमाणः स-र्वोऽप्यर्थवादःस्यात् ततश्च ग्रन्थस्वारस्यभङ्गप्रसङ्ग इत्यास्तांतावत्। वस्तुतस्तु वेदशाखाः पुराणानीति पाठिऽसङ्गत इतिवक्ष्यते तृतीयस्कन्धे तदा न कोऽपि विरोधः। यत्तुपाद्मेभागवतमाहात्म्ये श्रीमद्भाभवतकथाश्रवणाय समागता-नां परिगणनप्रसङ्गे
“वेदान्तानि च वेदाश्च मन्त्रास्त-न्त्राणि संहिताः। दश सप्त पुराणानि षट् शास्त्राणि समाय[Page1231-a+ 38] युः” इत्युक्तं तत्र व्यासकृतपुराणानामष्टादशत्वादष्टादशेतिवक्तव्ये सप्तदशत्वोक्तिः श्रीमद्भागवतस्याष्टादशत्वङ्गमयति त-स्याष्टादशानन्तर्गतत्वे देवीभागवतस्याष्टादशान्तर्गत्वे वा अ-ष्टादशानां श्रोतुमागतानां पुराणानां अष्टादशत्वानुक्तेर्निर्बी-जत्वप्रसङ्गात् एवं पाद्मे
“दश सप्त पुराणानि कृत्वा सत्य-वतीसुतः। नाप्तवान्मनसा तोषं भारतेनापि भामिनि”। चकार संहितामेतां श्रीमद्भागवतीं परामिति” सप्तदशत्वोक्तिःश्रीमद्भागवतस्यैव एतां संहितामिति निर्दिष्टस्याष्टादशत्वङ्ग-मयति देवीभागवतस्याष्टादशत्वेऽष्टादशपुराणानीत्यनुक्तेर्नि-र्वीजत्वप्रसङ्गादित्थाहु स्तदसत् तेषामेव वचनैर्विष्णुभागव-स्याष्टादशपुराणान्तर्गतत्वं न सिद्ध्यति किन्तु देवीभागवत-स्यैवेति वार्धुषिकत्वं कुर्वाणो मूलमेव विनाशितवानितिन्याय आगतः। तथा हि भारतं व्यासमुखाच्छुत्वा तत्रसंहिदानः क्रौष्टुकिर्मार्कण्डेयं प्रत्यागत्य सन्देहं पृष्ट-वान् तस्मै मार्कण्डेयोमार्कण्डेयपुराणमुक्तवान् तदुक्तंमार्कण्डेयपुराणे
“तदिदं भारताख्यानं बह्वर्थं श्रुतिविस्त-रम्। तत्त्वतोज्ञातुकामोऽहं भगवन्तमुपस्थितः” इति तथाच भारतोत्तरं मार्कण्डेयपुराणमभवत् तथैव त्वदुक्तरीत्यैवविष्णुभागवतमपि तथा च भारतात् पूर्व्वं षोडश पुरा-णान्येव सिद्धानि तथा च पूर्व्वोक्तवचनमध्ये षोडशेत्येवपक्तव्ये सप्तदशेत्युक्तत्वात् देवीभागवतमेव महापुराण-मन्यथा सप्तदशत्वपूर्त्तिर्न स्यात् तस्मात् तद्वचनप्रामाण्या-द्देवीभागवतमेव महापुराणमिति सिद्ध्यति न तु विष्णुभा-गवतं, मारतात् पूर्वं सप्तदश मदीयभागवतसहितानि मा-र्कण्डेयमष्टादशमुभयमतसिद्धमेव विष्णुभागवतस्य भारतोत्तरंजायमानत्वेन तन्मध्ये तस्यावस्थानस्थलाभावादित्येवं लापनेनापि दोषाभावादिति सुधियो विभावयन्तु। यत्तुपाद्मे
“वैष्णवं नारदीयञ्च तथा भागवतं शुभम्। गारुडञ्च तथा पाद्मं वाराहं शुभदर्शने!। सात्विकानि पुरा-णानि विज्ञेयानि शुभानि वै” इत्युक्त्या भागवतस्यसात्विकत्वमुक्तं सात्विकेषु पुराणेष्वितिकौर्मोक्त्या च सा-त्विकपुरानानां विष्णुपरत्वमुक्तम् अतो विष्णुपरमेव भा-गवतमष्टादशपुराणान्तर्गतं च तु देवीभागवतमिति अपि चस्कान्दे प्रभासखण्डे
“चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मातथा रविः। अष्टादशपुराणेषु शेषेषु भगवान् भवः” इत्युक्तंस्कान्दे सौरसंहितायां च
“कथ्यते दशभिर्विप्राः! पुराणैःपरमेश्वरः। चतुर्भिर्भगवान् विष्णुर्द्वाभ्यां ब्रह्मा प्रकी-र्त्तितः। एकेनाग्निस्तथैकेन भगवांश्चण्डभास्करः” इ-[Page1231-b+ 38] त्युक्तमतोऽपि विष्णुभागवतमष्टादशान्तर्गतन्नत्वन्यदित्याहुस्तदसत् त्वन्मते मात्स्योक्तसात्विकराजसतामससंकीर्णपुरा-णेषु मध्ये त्रयाणां व्यवस्था पूर्ववचनैस्त्वयोक्ता संकीर्णपुरा-णानान्तु नोक्ता तेषाङ्केषु पुराणेष्वन्तर्भाव इति वद करि-ष्यामि कुत्रचिदिति चेत् मन्मतेऽपि श्रीभगवत्या विष्णुशक्तित्वाभिमानेन
“विष्णुमन्त्राधिष्ठात्रीं देवतां वेदमानो दुर्गां दुर्बो-धध्वान्तभानुं गुरुं चेति श्रीव्रमदीपिकोक्तप्रकारेण विष्णु-मन्त्राणां दुर्गाया अधिष्ठातृत्वेन तयोरैक्याद्वा तत्प्रतिपा-दकभागवतस्य वैष्णवेष्वेवान्तर्भावात् अतएव
“हरिर्द्वाभ्यांरविर्द्वाभ्या द्वाभ्यां चण्डीविनायकौ। द्वाभ्यां ब्रह्मासमाख्यातः शेषेषु भगनान् शिवः इति वचनं मङ्गच्छते” वस्तुतस्तु द्वयोरपि भागवतयोरस्मन्मते प्रमाणत्वात् विष्णु-भागवतपक्षपातिनां वचनानामस्माकं विरोधाभावेन तल्ला-पने प्रयोजनाभावएव। तथा च नारदीयादिपुराणनतेश्रीविष्णुभागवतं महापुराणन्तद्वचनानि प्रसिद्धान्येवेति नलिखितानि देवीभागवतं तु तन्मते उपपुराणम्। शैव-मात्स्यपुराणादिमते तु देवीभागवतं महापुराणं विष्णु-भागवतमर्थादुपपुराणमिति सिद्धम्”। वृहन्ना॰

९६ अ॰ महापुराणप्रतिपाद्यविषयवर्ण्णने
“श्रीब्रह्मो-वाच, मारीचे! शृणुवक्ष्यामि वेदव्यासेन यत् कृतम्। श्री-मद्भागवतं नाम पुराणं ब्रह्मसस्मितम्। तदष्टादशसाहस्नंकीर्त्तितं पापनाशनम्। सुरपादपरूपोऽयं स्कन्धैर्द्वादशभि-र्युतः। भगवानेव विप्रेन्द्र! विश्वरूपी क्षमीरितः। तत्रतु प्रथमे स्कन्धे सूतर्षीणां समागमः। व्यासस्य चरितंपुण्यं पाण्डवानां तथैव च। पारीक्षितमुपाख्यानमितीदंसमुदाहृतम्। परीक्षिच्छुकसंवादे सृतिद्वयनिरूपणम्। ब्रह्मनारदसंवादेऽव्रतारचरितामृतम्। पुराणलक्षणंचैव सृष्टिकारणसम्भवः। द्वितीयोऽयं समुदितः स्कन्धोव्यासेन धीमता। चरितं विदुरस्याथ मैत्रेयेणास्य सङ्गमः। सृष्टिप्रकरणं पश्चाद्ब्रह्मणः परमात्मनः। कापिलं साङ्ख्य-मप्यत्र तृतीयोऽयमुदाहृतः। सत्याश्चरितमादौ तु ध्रुवस्यचरितं ततः। पृथोः पुण्यसमाख्यानं ततः प्राचीन-बर्हिषः। इत्येष तुर्य्यो गदितो विसर्गे स्कन्ध उत्तमः। प्रियव्रतस्य चरितं तद्वंशानाञ्च पुण्यदम्। ब्रह्माण्डार्गता-नाञ्च लोकानां वर्णनन्ततः। नरकस्थितिरित्येव संस्थानेपञ्चमो मतः। अजामिलस्य चरितं दक्षसृष्टिनिरूपणम्। वृत्राख्यानं ततः पश्चान्मरुतां जन्म पुण्यदम्। षष्ठोऽय-मुदितः स्कन्धो व्यासेन परिपोषणे। प्रह्लादचरितं पुण्यं[Page1232-a+ 38] वर्णाश्रमनिरूपणम्। सप्तमो गदितो वत्स! वासना-कर्म्मकीर्त्तने। गजेन्द्रमोक्षणाख्यानं मन्वन्तरनिरूप-णम्। समुद्रमथमञ्चैव बलिवैभवबन्धनम्। मत्स्यावतार-चरितमष्टमोऽयं प्रकीर्त्तितः। सूर्यवंशसमाख्यानं सोम-वंशनिरूपणम्। वंश्यानुचरिते प्रोक्तो नवमोऽयं महा-मते!। कृष्णस्य बालचरितं कौमारञ्च व्रजस्थितिः। कैशोरंमथुरास्थानं यौवनं द्वारकास्थितिः। भूभारहरणञ्चात्रनिरोधे दशमः स्मृतः। नारदेन तु संवादो वसुदेवस्यकीर्त्तितः। यदोश्च दत्तात्रेयेण श्रीकृष्णेनोद्धवस्य च। याद-वानां मिथोऽन्तश्च मुक्तावेक दशः स्मृतः। भविष्यकलि-निर्देशो मोक्षो राज्ञ। परीक्षितः। वेदशाखाप्रणयनंभार्कण्डेयतपः स्मृतम्। सौरी विभूतिरुदिता सात्वतीच ततः परम्”। इत्युक्तेः विष्णुभागवत एव तेषां पदा-र्थानां सत्त्वात् महापुराणत्वं देवीभागवते तदमावात् नमहापुराणत्वम्। एवञ्च मतभेदेन कस्यचित् पुराणत्वं कस्य-चिद्पपुराणत्वं तच्च कल्पभेदादविरुद्धम्। एतेन विष्णुभा-गवतस्य वोपकृत्वशङ्का निर्मूलैव। वोपदेवेन
“चतुरेण चतुर्वर्गचिन्तामणि बणिज्यया हेमाद्रिर्वोपदेवेन मुक्ताफलमचीक-रत्” इति मुक्ताफलग्रन्थे स्वयं लखितत्वेन तस्य हेमाद्रि-सभासदत्वप्रतीतेः हेमाद्रौ च नानास्थानेषु विष्णुभागवत-वचनस्य प्रमाणत्वेन धृतत्वेन न तत्कृतत्वमिति प्रतिभाति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपुराण¦ n. (-णं) A Purana, one not included in the eighteen principal: a similar number is reckoned, or
1. Adi.
2. Nrishinha.
3. Vayu.
4. Sivadhermma.
5. Durvasa.
6. Na4rada.
7. Nandikeswara.
8. Usanas.
9. Kapila.
10. Varuna.
11. Sa4mba.
12. Ka4lika
4.
13. Maheswara.
14. Padma.
15. Deva.
16. Para4sara.
17. Mari4cha.
18. Bhaskara. E. उप minor, पुराण a Pura4na.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपुराणम् [upapurāṇam], A secondary or minor Purāṇa (for an enumeration of their names, see under अष्टादशन्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपपुराण/ उप-पुराण n. a secondary or minor पुराण(eighteen are enumerated ; the following is the list in the कूर्म-पुराण: 1. सानत्कुमार, 2. नारसिंह(fr. नृसिंह) 3. भांद, 4. शिव-धर्म, 5. दौर्वासस, 6. नारदीय, 7. कापिल, 8. वामन, 9. औशनस, 10. ब्रह्माण्ड, 11. वारुण, 12. कालिका-पुराण, 13. माहेश्वर, 14. साम्ब, 15. सौर, 16. पाराशर, 17. मारीच, 18. भार्गव).

"https://sa.wiktionary.org/w/index.php?title=उपपुराण&oldid=493024" इत्यस्माद् प्रतिप्राप्तम्