उपवसथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवसथः, पुं, (उपागत्य वसन्ति अत्र । उप + वस् + उपसर्गे वसेः इति अथप्रत्ययः ।) ग्रामः । इति हेमचन्द्रः ॥ (यथा, -- शतपथ- ब्राह्मणे । ११ । १ । ७ । “तेऽस्य विश्वे देवा गृहाना- गछन्ति तेऽस्य गृहेषूपवसन्ति स उपवसथः” । यागपूर्ब्बदिनम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवसथ¦ पु॰ उपेत्य वसत्यत्र उप + वस--अधारे अथ।

१ ग्रामेहेमच॰।
“यद्याहिताग्निरुपवसथे म्रियते कथमस्य यज्ञःस्यात्” ऐत॰
“यजमानस्य समीपे वसन्ति देवा अस्मिन्नह्निआधारे अथ।

२ यागपूर्व्वदिवसे। तन्निर्वचनादिकं शत॰ब्रा॰

१ ,

११ ,

१ ,

७ ,

२ , दर्शितं यथा
“अथातोऽशनानशनस्यैव। तदुहाषाढः सावयसोऽनशनमेव व्रतं मेने मनोहवै देवा मनुष्यस्याजानन्ति तत् एन-मेतद्व्रतमुपयन्तं विदुः प्रातर्नो यक्ष्यत इति तेऽस्य विश्वेदेवा गृहानागच्छन्ति तेऽस्य गृहेषूपवसन्ति स उपवस-थः। तत्त्वेवानवक्लुप्तम्। यो मनुष्येष्वनश्नत्सु पूर्व्वोऽ-[Page1322-a+ 38] श्नीयादथ किमु यो देवेष्वनश्नत्सु पूर्ब्बोऽश्नीयात्तस्मादुनैवाश्नीयात्। तदुहोवाच याज्ञवल्क्यः। यदि नाश्नातिपितृदेवत्योभवति यद्यु अश्नाति देवानत्यश्नातीति सयदेवाशितमनशितं तदश्नीयादिति यस्य वै हविर्नगृह्णन्ति तदशितमनशितं स यदश्नाति तेनापितृदेव-त्यो भवति यद्यु तदश्नाति यस्य हविर्न गृह्णन्ति तेनोदेवान्नात्यश्नाति। स वा आरण्यमेवाश्नीयात्”
“व्रत-प्रसङ्गादागतं तद्विसर्जनं समाप्य पूर्व्वेद्युर्यजमानेनव्रतानन्तरं यत् कर्त्तव्यं तद्वक्तव्यं प्रतिजानीते अथेति। यतो ब्रतानन्तरमशनानशनापरनामकमारण्याद्यशनमेवयजमानेन कर्त्तव्यम् अतस्तदनन्तरमेव तस्य निरूपणंक्रियत इत्यर्थः। प्रतिज्ञा तस्याशनानशनपक्षस्य प्रशंसार्थम्। केवलानशनपक्षं निरसितुमुपन्यस्यति तदु हेति। तत्त-स्मिन्नशनाशननविषये अनशनं सर्व्वात्मना अशनत्यागम्। उपवसथनामनिर्वचनेन देवानामागभनं द्रढयति तेऽस्येतिउपसमीपे यजमानस्य वसन्ति देवा अस्मिन्निति पूर्वदिवस उपवसथनामक इत्यर्थः। गृहे मनुष्येष्वागतेष्वनश्नत्सु पूर्ब्बोऽश्नीयादिति यत्तस्यानवकॢप्तिः किमु वक्तव्या?अषाढेन चेन्मुनिना निर्णीतोऽनशनपक्षः तर्हि स एवपरमार्थः। कथमशनानशनपक्षः? इति चेत् अनेन मु-निनैव स्वमतसमर्थनाय प्रत्येकपक्षौ दूषयित्वा याज्ञवल्केनसोपपत्तिना नोभयावित्युक्तम्। यदीति अशनानशनलक्षणंयदीति। दैविके हि कर्म्मणि देवान् प्रत्युद्दिष्टस्यैव हविषःप्रथममनुपयोगः काममन्यस्य, पित्र्ये पुनरनियमाद्धविषोऽन्यदाप अनुपयोग्यमिति पितृदैवत्थतामापा-दयतीति याज्ञवल्क्यस्याशयः। तत् किं दैविके कर्म्मणिप्रागपि भोक्तव्यमिति यस्तमाशयमजानानः शङ्कते त-माह यद्यु इति यदि तु अश्नाति तदा अशिशिषतोदेवानतिक्रम्य स्वयं भुक्तवान् स्यात्। अशनानशनप-क्षयोरुभयोरपि दोषश्चेत् का गतिरिति यद्द्रव्यमशितमप्यनशितवद्भवति तदश्नीयात्। यस्य द्रव्यस्य संबन्ध्य-{??} हविष्ट्वेन देवा न गृह्णन्ति तदशितमपि सदनशितवद्भवति। तथात्वे यथोदीरितदोषद्वयाभावमाह स यदिति। आरण्यग्रहणं प्राकृतदर्शपूर्णमासहविर्व्यतिरिक्तोपलक्ष-णम्” भा॰। तत्र विहितः ठञ् भावे अथ। वैदिके कर्मभेदेतच्च कर्म कात्या॰

८ ,

८ ,

८ , दर्शितम्। नवमाध्यायादौ
“उक्तमौपवसथ्यं कर्मेति” कर्कः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवसथ¦ m. (-थः) A village. E. उप, वस् to abide, थक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवसथः [upavasathḥ], [उप-वस्-आधारे अथ]

A village.

The day preceding a Soma sacrifice; or a day of preparation for this sacrifice; a fast-day.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवसथ/ उप-वसथ m. a fast-day ( esp. the day preceding a सोमsacrifice) , the period of preparation for the सोमsacrifice AitBr. S3Br. Ka1tyS3r. Kaus3.

उपवसथ/ उप-वसथ m. a place of abiding , village L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपवसथ पु.
(उप + वस् + अथ) पूर्व दिन (जिस दिन मुख्य आहुति दी जाती है, उसके पूर्ववर्ती दिन), मा.श्रौ.सू. 1.7.1.6; दर्श एवं पूर्णमास यागों के समय से पूर्ववर्ती अवधि अथवा दिन, का.श्रौ.सू. 4.15.35 (उपवसथे नियमः); चि.भा.से. मुख्य कृत्य वाले दिन का पूर्ववर्ती उपवास अथवा उपवसन का दिन, जिसमें प्रारम्भिक कृत्य (जैसे वेदि का निर्माण, यूपसज्जा आदि) किये जाते हैं, आप.श्रौ.सू. 1.14.16 (अगिन्होत्र); 2०.8.15 (सुत्यादिन से पूर्व)। यजमान एवं अन्य पवित्र अगिन् के पास जागरण करते हैं, CH 77, गोभिल के गृह्यसूत्र (1.5.13) में इसका अर्थ है ‘उपवास करना’ औपवसथिक; वि. (उपवास के दिन का भोजन) यजमान इसका भक्षण करता है, ताकि वह शक्तिशाली बना रहे।

"https://sa.wiktionary.org/w/index.php?title=उपवसथ&oldid=493147" इत्यस्माद् प्रतिप्राप्तम्